| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच।
स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छ्रुतः । यत्र विश्वसृजां सर्गो मनूनन्यान्वदस्व नः १ ।
स्वायम्भुवस्य इह गुरो वंशः अयम् विस्तरात् श्रुतः । यत्र विश्वसृजाम् सर्गः मनून् अन्यान् वदस्व नः ।
svāyambhuvasya iha guro vaṃśaḥ ayam vistarāt śrutaḥ . yatra viśvasṛjām sargaḥ manūn anyān vadasva naḥ .
मन्वन्तरे हरेर्जन्म कर्माणि च महीयसः । गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम् २ ।
मन्वन्तरे हरेः जन्म कर्माणि च महीयसः । गृणन्ति कवयः ब्रह्मन् तानि नः वद शृण्वताम् ।
manvantare hareḥ janma karmāṇi ca mahīyasaḥ . gṛṇanti kavayaḥ brahman tāni naḥ vada śṛṇvatām .
यद्यस्मिन्नन्तरे ब्रह्मन्भगवान्विश्वभावनः । कृतवान्कुरुते कर्ता ह्यतीतेऽनागतेऽद्य वा ३ ।
यदि अस्मिन् अन्तरे ब्रह्मन् भगवान् विश्वभावनः । कृतवान् कुरुते कर्ता हि अतीते अनागते अद्य वा ।
yadi asmin antare brahman bhagavān viśvabhāvanaḥ . kṛtavān kurute kartā hi atīte anāgate adya vā .
श्रीऋषिरुवाच । मनवोऽस्मिन्व्यतीताः षट्कल्पे स्वायम्भुवादयः ।
श्री-ऋषिः उवाच । मनवः अस्मिन् व्यतीताः षष्-कल्पे स्वायम्भुव-आदयः ।
śrī-ṛṣiḥ uvāca . manavaḥ asmin vyatītāḥ ṣaṣ-kalpe svāyambhuva-ādayaḥ .
मनवोऽस्मिन्व्यतीताः षट्कल्पे स्वायम्भुवादयः । आद्यस्ते कथितो यत्र देवादीनां च सम्भवः ४ ।
मनवः अस्मिन् व्यतीताः षष्-कल्पे स्वायम्भुव-आदयः । आद्यः ते कथितः यत्र देव-आदीनाम् च सम्भवः ।
manavaḥ asmin vyatītāḥ ṣaṣ-kalpe svāyambhuva-ādayaḥ . ādyaḥ te kathitaḥ yatra deva-ādīnām ca sambhavaḥ .
आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः । धर्मज्ञानोपदेशार्थं भगवान्पुत्रतां गतः ५ ।
आकूत्याम् देवहूत्याम् च दुहित्रोः तस्य वै मनोः । धर्म-ज्ञान-उपदेश-अर्थम् भगवान् पुत्र-ताम् गतः ।
ākūtyām devahūtyām ca duhitroḥ tasya vai manoḥ . dharma-jñāna-upadeśa-artham bhagavān putra-tām gataḥ .
कृतं पुरा भगवतः कपिलस्यानुवर्णितम् । आख्यास्ये भगवान्यज्ञो यच्चकार कुरूद्वह ६ ।
कृतम् पुरा भगवतः कपिलस्य अनुवर्णितम् । आख्यास्ये भगवान् यज्ञः यत् चकार कुरु-उद्वह ।
kṛtam purā bhagavataḥ kapilasya anuvarṇitam . ākhyāsye bhagavān yajñaḥ yat cakāra kuru-udvaha .
विरक्तः कामभोगेषु शतरूपापतिः प्रभुः । विसृज्य राज्यं तपसे सभार्यो वनमाविशत् ७ ।
विरक्तः काम-भोगेषु शतरूपा-पतिः प्रभुः । विसृज्य राज्यम् तपसे स भार्यः वनम् आविशत् ।
viraktaḥ kāma-bhogeṣu śatarūpā-patiḥ prabhuḥ . visṛjya rājyam tapase sa bhāryaḥ vanam āviśat .
सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् । तप्यमानस्तपो घोरमिदमन्वाह भारत ८ ।
सुनन्दायाम् वर्ष-शतम् पदा एकेन भुवम् स्पृशन् । तप्यमानः तपः घोरम् इदम् अन्वाह भारत ।
sunandāyām varṣa-śatam padā ekena bhuvam spṛśan . tapyamānaḥ tapaḥ ghoram idam anvāha bhārata .
श्रीमनुरुवाच।
येन चेतयते विश्वं विश्वं चेतयते न यम् । यो जागर्ति शयानेऽस्मिन्नायं तं वेद वेद सः ९ ।
येन चेतयते विश्वम् विश्वम् चेतयते न यम् । यः जागर्ति शयाने अस्मिन् न अयम् तम् वेद वेद सः ।
yena cetayate viśvam viśvam cetayate na yam . yaḥ jāgarti śayāne asmin na ayam tam veda veda saḥ .
आत्मावास्यमिदं विश्वं यत्किञ्चिज्जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् १० ।
आत्म-आवास्यम् इदम् विश्वम् यत् किञ्चिद् जगत्याम् जगत् । तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्य स्विद् धनम् ।
ātma-āvāsyam idam viśvam yat kiñcid jagatyām jagat . tena tyaktena bhuñjīthāḥ mā gṛdhaḥ kasya svid dhanam .
यं पश्यति न पश्यन्तं चक्षुर्यस्य न रिष्यति । तं भूतनिलयं देवं सुपर्णमुपधावत ११ ।
यम् पश्यति न पश्यन्तम् चक्षुः यस्य न रिष्यति । तम् भूत-निलयम् देवम् सुपर्णम् उपधावत ।
yam paśyati na paśyantam cakṣuḥ yasya na riṣyati . tam bhūta-nilayam devam suparṇam upadhāvata .
न यस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः । विश्वस्यामूनि यद्यस्माद्विश्वं च तदृतं महत् १२ ।
न यस्य आदि-अन्तौ मध्यम् च स्वः परस् न अन्तरम् बहिस् । विश्वस्य अमूनि यत् यस्मात् विश्वम् च तत् ऋतम् महत् ।
na yasya ādi-antau madhyam ca svaḥ paras na antaram bahis . viśvasya amūni yat yasmāt viśvam ca tat ṛtam mahat .
स विश्वकायः पुरुहूतईशः सत्यः स्वयंज्योतिरजः पुराणः । धत्तेऽस्य जन्माद्यजयात्मशक्त्या तां विद्ययोदस्य निरीह आस्ते १३ ।
स विश्व-कायः पुरुहूत-ईशः सत्यः स्वयम् ज्योतिः-अजः पुराणः । धत्ते अस्य जन्म-आद्य-जया आत्म-शक्त्या ताम् विद्यया उदस्य निरीहः आस्ते ।
sa viśva-kāyaḥ puruhūta-īśaḥ satyaḥ svayam jyotiḥ-ajaḥ purāṇaḥ . dhatte asya janma-ādya-jayā ātma-śaktyā tām vidyayā udasya nirīhaḥ āste .
अथाग्रे ऋषयः कर्माणीहन्तेऽकर्महेतवे । ईहमानो हि पुरुषः प्रायोऽनीहां प्रपद्यते १४ ।
अथ अग्रे ऋषयः कर्माणि ईहन्ते अ कर्म-हेतवे । ईहमानः हि पुरुषः प्रायस् अनीहाम् प्रपद्यते ।
atha agre ṛṣayaḥ karmāṇi īhante a karma-hetave . īhamānaḥ hi puruṣaḥ prāyas anīhām prapadyate .
ईहते भगवानीशो न हि तत्र विसज्जते । आत्मलाभेन पूर्णार्थो नावसीदन्ति येऽनु तम् १५ ।
ईहते भगवान् ईशः न हि तत्र विसज्जते । आत्म-लाभेन पूर्ण-अर्थः न अवसीदन्ति ये अनु तम् ।
īhate bhagavān īśaḥ na hi tatra visajjate . ātma-lābhena pūrṇa-arthaḥ na avasīdanti ye anu tam .
तमीहमानं निरहङ्कृतं बुधं निराशिषं पूर्णमनन्यचोदितम् । नॄन्शिक्षयन्तं निजवर्त्मसंस्थितं प्रभुं प्रपद्येऽखिलधर्मभावनम् १६ ।
तम् ईहमानम् निरहङ्कृतम् बुधम् पूर्णम् अनन्य-चोदितम् । नॄन् शिक्षयन्तम् निज-वर्त्म-संस्थितम् प्रभुम् प्रपद्ये अखिल-धर्म-भावनम् ।
tam īhamānam nirahaṅkṛtam budham pūrṇam ananya-coditam . nṝn śikṣayantam nija-vartma-saṃsthitam prabhum prapadye akhila-dharma-bhāvanam .
श्रीशुक उवाच।
इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् । दृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन्क्षुधा १७ ।
इति मन्त्र-उपनिषदम् व्याहरन्तम् समाहितम् । दृष्ट्वा असुराः यातुधानाः जग्धुम् अभ्यद्रवन् क्षुधा ।
iti mantra-upaniṣadam vyāharantam samāhitam . dṛṣṭvā asurāḥ yātudhānāḥ jagdhum abhyadravan kṣudhā .
तांस्तथावसितान्वीक्ष्य यज्ञः सर्वगतो हरिः । यामैः परिवृतो देवैर्हत्वाशासत्त्रिविष्टपम् १८ ।
तान् तथा अवसितान् वीक्ष्य यज्ञः सर्व-गतः हरिः । यामैः परिवृतः देवैः हत्वा अशासत् त्रिविष्टपम् ।
tān tathā avasitān vīkṣya yajñaḥ sarva-gataḥ hariḥ . yāmaiḥ parivṛtaḥ devaiḥ hatvā aśāsat triviṣṭapam .
स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतोऽभवत् । द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्य चात्मजाः १९ ।
स्वारोचिषः द्वितीयः तु मनुः अग्नेः सुतः अभवत् । द्युमत्-सुषेण-रोचिष्मत्-प्रमुखाः तस्य च आत्मजाः ।
svārociṣaḥ dvitīyaḥ tu manuḥ agneḥ sutaḥ abhavat . dyumat-suṣeṇa-rociṣmat-pramukhāḥ tasya ca ātmajāḥ .
तत्रेन्द्रो रोचनस्त्वासीद्देवाश्च तुषितादयः । ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः २० ।
तत्र इन्द्रः रोचनः तु आसीत् देवाः च तुषित-आदयः । ऊर्जस्तम्भ-आदयः सप्त ऋषयः ब्रह्म-वादिनः ।
tatra indraḥ rocanaḥ tu āsīt devāḥ ca tuṣita-ādayaḥ . ūrjastambha-ādayaḥ sapta ṛṣayaḥ brahma-vādinaḥ .
ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्यभूत् । तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुतः २१ ।
ऋषेः तु वेदशिरसः तुषिता नाम पत्नी अभूत् । तस्याम् जज्ञे ततस् देवः विभुः इति अभिविश्रुतः ।
ṛṣeḥ tu vedaśirasaḥ tuṣitā nāma patnī abhūt . tasyām jajñe tatas devaḥ vibhuḥ iti abhiviśrutaḥ .
अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः । अन्वशिक्षन्व्रतं तस्य कौमारब्रह्मचारिणः २२ ।
अष्टाशीति-सहस्राणि मुनयः ये धृत-व्रताः । अन्वशिक्षन् व्रतम् तस्य कौमार-ब्रह्मचारिणः ।
aṣṭāśīti-sahasrāṇi munayaḥ ye dhṛta-vratāḥ . anvaśikṣan vratam tasya kaumāra-brahmacāriṇaḥ .
तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः । पवनः सृञ्जयो यज्ञ होत्राद्यास्तत्सुता नृप २३ ।
तृतीयः उत्तमः नाम प्रियव्रत-सुतः मनुः । पवनः सृञ्जयः यज्ञ होत्र-आद्याः तद्-सुताः नृप ।
tṛtīyaḥ uttamaḥ nāma priyavrata-sutaḥ manuḥ . pavanaḥ sṛñjayaḥ yajña hotra-ādyāḥ tad-sutāḥ nṛpa .
वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः । सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् २४ ।
वसिष्ठ-तनयाः सप्त ऋषयः प्रमदा-आदयः । सत्याः वेद-श्रुताः भद्राः देवाः इन्द्रः तु सत्य-जित् ।
vasiṣṭha-tanayāḥ sapta ṛṣayaḥ pramadā-ādayaḥ . satyāḥ veda-śrutāḥ bhadrāḥ devāḥ indraḥ tu satya-jit .
धर्मस्य सूनृतायां तु भगवान्पुरुषोत्तमः । सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह २५ ।
धर्मस्य सूनृतायाम् तु भगवान् पुरुषोत्तमः । सत्यसेनः इति ख्यातः जातः सत्य-व्रतैः सह ।
dharmasya sūnṛtāyām tu bhagavān puruṣottamaḥ . satyasenaḥ iti khyātaḥ jātaḥ satya-vrataiḥ saha .
सोऽनृतव्रतदुःशीलानसतो यक्षराक्षसान् । भूतद्रुहो भूतगणांश्चावधीत्सत्यजित्सखः २६ ।
सः अनृत-व्रत-दुःशीलान् असतः यक्ष-राक्षसान् । भूत-द्रुहः भूत-गणान् च अवधीत् सत्यजित्-सखः ।
saḥ anṛta-vrata-duḥśīlān asataḥ yakṣa-rākṣasān . bhūta-druhaḥ bhūta-gaṇān ca avadhīt satyajit-sakhaḥ .
चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः । पृथुः ख्यातिर्नरः केतुरित्याद्या दश तत्सुताः २७ ।
चतुर्थः उत्तम-भ्राता मनुः नाम्ना च तामसः । पृथुः ख्यातिः नरः केतुः इत्याद्याः दश तद्-सुताः ।
caturthaḥ uttama-bhrātā manuḥ nāmnā ca tāmasaḥ . pṛthuḥ khyātiḥ naraḥ ketuḥ ityādyāḥ daśa tad-sutāḥ .
सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः । ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे २८ ।
सत्यकाः हरयः वीराः देवाः त्रिशिखः ईश्वरः । ज्योतिर्धाम-आदयः सप्त ऋषयः तामसे अन्तरे ।
satyakāḥ harayaḥ vīrāḥ devāḥ triśikhaḥ īśvaraḥ . jyotirdhāma-ādayaḥ sapta ṛṣayaḥ tāmase antare .
देवा वैधृतयो नाम विधृतेस्तनया नृप । नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा २९ ।
देवाः वैधृतयः नाम विधृतेः तनयाः नृप । नष्टाः कालेन यैः वेदाः विधृताः स्वेन तेजसा ।
devāḥ vaidhṛtayaḥ nāma vidhṛteḥ tanayāḥ nṛpa . naṣṭāḥ kālena yaiḥ vedāḥ vidhṛtāḥ svena tejasā .
तत्रापि जज्ञे भगवान्हरिण्यां हरिमेधसः । हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात् ३० ।
तत्र अपि जज्ञे भगवान् हरिण्याम् हरिमेधसः । हरिः इति आहृतः येन गज-इन्द्रः मोचितः ग्रहात् ।
tatra api jajñe bhagavān hariṇyām harimedhasaḥ . hariḥ iti āhṛtaḥ yena gaja-indraḥ mocitaḥ grahāt .
श्रीराजोवाच।
बादरायण एतत्ते श्रोतुमिच्छामहे वयम् । हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् ३१ ।
बादरायणः एतत् ते श्रोतुम् इच्छामहे वयम् । हरिः यथा गजपतिम् ग्राह-ग्रस्तम् अमूमुचत् ।
bādarāyaṇaḥ etat te śrotum icchāmahe vayam . hariḥ yathā gajapatim grāha-grastam amūmucat .
तत्कथासु महत्पुण्यं धन्यं स्वस्त्ययनं शुभम् । यत्र यत्रोत्तमश्लोको भगवान्गीयते हरिः ३२ ।
तद्-कथासु महत् पुण्यम् धन्यम् स्वस्त्ययनम् शुभम् । यत्र यत्र उत्तमश्लोकः भगवान् गीयते हरिः ।
tad-kathāsu mahat puṇyam dhanyam svastyayanam śubham . yatra yatra uttamaślokaḥ bhagavān gīyate hariḥ .
श्रीसूत उवाच।
परीक्षितैवं स तु बादरायणिः प्रायोपविष्टेन कथासु चोदितः । उवाच विप्राः प्रतिनन्द्य पार्थिवं मुदा मुनीनां सदसि स्म शृण्वताम् ३३ ।
परीक्षिता एवम् स तु बादरायणिः प्राय-उपविष्टेन कथासु चोदितः । उवाच विप्राः प्रतिनन्द्य पार्थिवम् मुदा मुनीनाम् सदसि स्म शृण्वताम् ।
parīkṣitā evam sa tu bādarāyaṇiḥ prāya-upaviṣṭena kathāsu coditaḥ . uvāca viprāḥ pratinandya pārthivam mudā munīnām sadasi sma śṛṇvatām .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मन्वन्तरानुचरिते प्रथमोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे मन्वन्तर-अनुचरिते प्रथमः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe manvantara-anucarite prathamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In