| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - (अनुष्टुप्)
एवं विप्रकृतो राजन् बलिर्भगवतासुरः । भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वचः ॥ १ ॥
एवम् विप्रकृतः राजन् बलिः भगवता असुरः । भिद्यमानः अपि अभिन्न-आत्मा प्रत्याह अविक्लवम् वचः ॥ १ ॥
evam viprakṛtaḥ rājan baliḥ bhagavatā asuraḥ . bhidyamānaḥ api abhinna-ātmā pratyāha aviklavam vacaḥ .. 1 ..
श्रीबलिरुवाच -
यद्युत्तमश्लोक भवान्ममेरितं वचो व्यलीकं सुरवर्य मन्यते । करोम्यृतं तन्न भवेत्प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥ २ ॥
यदि उत्तमश्लोक भवान् मम ईरितम् वचः व्यलीकम् सुर-वर्य मन्यते । करोमि ऋतम् तत् न भवेत् प्रलम्भनम् पदम् तृतीयम् कुरु शीर्ष्णि मे निजम् ॥ २ ॥
yadi uttamaśloka bhavān mama īritam vacaḥ vyalīkam sura-varya manyate . karomi ṛtam tat na bhavet pralambhanam padam tṛtīyam kuru śīrṣṇi me nijam .. 2 ..
बिभेमि नाहं निरयात् पदच्युतो न पाशबन्धाद्व्यसनाद् दुरत्ययात् । नैवार्थकृच्छ्राद्भवतो विनिग्रहाद् असाधुवादाद्भृशमुद्विजे यथा ॥ ३ ॥
बिभेमि न अहम् निरयात् पद-च्युतः न पाश-बन्धात् व्यसनात् दुरत्ययात् । न एव अर्थ-कृच्छ्रात् भवतः विनिग्रहात् असाधुवादात् भृशम् उद्विजे यथा ॥ ३ ॥
bibhemi na aham nirayāt pada-cyutaḥ na pāśa-bandhāt vyasanāt duratyayāt . na eva artha-kṛcchrāt bhavataḥ vinigrahāt asādhuvādāt bhṛśam udvije yathā .. 3 ..
(अनुष्टुप्)
पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् । यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥ ४ ॥
पुंसाम् श्लाघ्यतमम् मन्ये दण्डम् अर्हत्तम-अर्पितम् । यम् न माता पिता भ्राता सुहृदः च आदिशन्ति हि ॥ ४ ॥
puṃsām ślāghyatamam manye daṇḍam arhattama-arpitam . yam na mātā pitā bhrātā suhṛdaḥ ca ādiśanti hi .. 4 ..
त्वं नूनमसुराणां नः परोक्षः परमो गुरुः । यो नोऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् ॥ ५ ॥
त्वम् नूनम् असुराणाम् नः परोक्षः परमः गुरुः । यः नः अनेक-मद-अन्धानाम् विभ्रंशम् चक्षुः आदिशत् ॥ ५ ॥
tvam nūnam asurāṇām naḥ parokṣaḥ paramaḥ guruḥ . yaḥ naḥ aneka-mada-andhānām vibhraṃśam cakṣuḥ ādiśat .. 5 ..
यस्मिन् वैरानुबन्धेन व्यूढेन विबुधेतराः । बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः ॥ ६ ॥
यस्मिन् वैर-अनुबन्धेन व्यूढेन विबुध-इतराः । बहवः लेभिरे सिद्धिम् याम् उ ह एकान्त-योगिनः ॥ ६ ॥
yasmin vaira-anubandhena vyūḍhena vibudha-itarāḥ . bahavaḥ lebhire siddhim yām u ha ekānta-yoginaḥ .. 6 ..
तेनाहं निगृहीतोऽस्मि भवता भूरिकर्मणा । बद्धश्च वारुणैः पाशैः नातिव्रीडे न च व्यथे ॥ ७ ॥
तेन अहम् निगृहीतः अस्मि भवता भूरि-कर्मणा । बद्धः च वारुणैः पाशैः न अति व्रीडे न च व्यथे ॥ ७ ॥
tena aham nigṛhītaḥ asmi bhavatā bhūri-karmaṇā . baddhaḥ ca vāruṇaiḥ pāśaiḥ na ati vrīḍe na ca vyathe .. 7 ..
पितामहो मे भवदीयसम्मतः प्रह्राद आविष्कृतसाधुवादः । भवद्विपक्षेण विचित्रवैशसं संप्रापितस्त्वं परमः स्वपित्रा ॥ ८ ॥
पितामहः मे भवदीय-सम्मतः प्रह्रादः आविष्कृत-साधुवादः । भवत्-विपक्षेण विचित्र-वैशसम् संप्रापितः त्वम् परमः स्व-पित्रा ॥ ८ ॥
pitāmahaḥ me bhavadīya-sammataḥ prahrādaḥ āviṣkṛta-sādhuvādaḥ . bhavat-vipakṣeṇa vicitra-vaiśasam saṃprāpitaḥ tvam paramaḥ sva-pitrā .. 8 ..
किमात्मनानेन जहाति योऽन्ततः किं रिक्थहारैः स्वजनाख्यदस्युभिः । किं जायया संसृतिहेतुभूतया मर्त्यस्य गेहैः किमिहायुषो व्ययः ॥ ९ ॥
किम् आत्मना अनेन जहाति यः अन्ततस् किम् रिक्थहारैः स्व-जन-आख्य-दस्युभिः । किम् जायया संसृति-हेतु-भूतया मर्त्यस्य गेहैः किम् इह आयुषः व्ययः ॥ ९ ॥
kim ātmanā anena jahāti yaḥ antatas kim rikthahāraiḥ sva-jana-ākhya-dasyubhiḥ . kim jāyayā saṃsṛti-hetu-bhūtayā martyasya gehaiḥ kim iha āyuṣaḥ vyayaḥ .. 9 ..
इत्थं स निश्चित्य पितामहो महान् अगाधबोधो भवतः पादपद्मम् । ध्रुवं प्रपेदे ह्यकुतोभयं जनाद् भीतः स्वपक्षक्षपणस्य सत्तम ॥ १० ॥
इत्थम् स निश्चित्य पितामहः महान् अगाध-बोधः भवतः पाद-पद्मम् । ध्रुवम् प्रपेदे हि अकुतोभयम् जनात् भीतः स्व-पक्ष-क्षपणस्य सत्तम ॥ १० ॥
ittham sa niścitya pitāmahaḥ mahān agādha-bodhaḥ bhavataḥ pāda-padmam . dhruvam prapede hi akutobhayam janāt bhītaḥ sva-pakṣa-kṣapaṇasya sattama .. 10 ..
अथाहमप्यात्मरिपोस्तवान्तिकं दैवेन नीतः प्रसभं त्याजितश्रीः । इदं कृतान्तान्तिकवर्ति जीवितं ययाध्रुवं स्तब्धमतिर्न बुध्यते ॥ ११ ॥
अथ अहम् अपि आत्म-रिपोः तव अन्तिकम् दैवेन नीतः प्रसभम् त्याजित-श्रीः । इदम् कृतान्त-अन्तिक-वर्ति जीवितम् यया अध्रुवम् स्तब्ध-मतिः न बुध्यते ॥ ११ ॥
atha aham api ātma-ripoḥ tava antikam daivena nītaḥ prasabham tyājita-śrīḥ . idam kṛtānta-antika-varti jīvitam yayā adhruvam stabdha-matiḥ na budhyate .. 11 ..
तस्येत्थं भाषमाणस्य प्रह्रादो भगवत्प्रियः । आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः ॥ १२ ॥
तस्य इत्थम् भाषमाणस्य प्रह्रादः भगवत्-प्रियः । आजगाम कुरु-श्रेष्ठ राकापतिः इव उत्थितः ॥ १२ ॥
tasya ittham bhāṣamāṇasya prahrādaḥ bhagavat-priyaḥ . ājagāma kuru-śreṣṭha rākāpatiḥ iva utthitaḥ .. 12 ..
तमिन्द्रसेनः स्वपितामहं श्रिया विराजमानं नलिनायतेक्षणम् । प्रांशुं पिशंगांबरमञ्जनत्विषं प्रलंबबाहुं शुभगर्षभमैक्षत ॥ १३ ॥
तम् इन्द्रसेनः स्व-पितामहम् श्रिया विराजमानम् नलिन-आयत-ईक्षणम् । प्रांशुम् पिशंग-अंबरम् अञ्जन-त्विषम् प्रलंब-बाहुम् शुभग-ऋषभम् ऐक्षत ॥ १३ ॥
tam indrasenaḥ sva-pitāmaham śriyā virājamānam nalina-āyata-īkṣaṇam . prāṃśum piśaṃga-aṃbaram añjana-tviṣam pralaṃba-bāhum śubhaga-ṛṣabham aikṣata .. 13 ..
तस्मै बलिर्वारुणपाशयन्त्रितः समर्हणं नोपजहार पूर्ववत् । ननाम मूर्ध्नाश्रुविलोललोचनः सव्रीडनीचीनमुखो बभूव ह ॥ १४ ॥
तस्मै बलिः वारुण-पाश-यन्त्रितः समर्हणम् न उपजहार पूर्ववत् । ननाम मूर्ध्ना अश्रु-विलोल-लोचनः स व्रीड-अनीचीन-मुखः बभूव ह ॥ १४ ॥
tasmai baliḥ vāruṇa-pāśa-yantritaḥ samarhaṇam na upajahāra pūrvavat . nanāma mūrdhnā aśru-vilola-locanaḥ sa vrīḍa-anīcīna-mukhaḥ babhūva ha .. 14 ..
स तत्र हासीनमुदीक्ष्य सत्पतिं हरिं सुनन्दाद्यनुगैरुपासितम् । उपेत्य भूमौ शिरसा महामना ननाम मूर्ध्ना पुलकाश्रुविक्लवः ॥ १५ ॥
स तत्र ह आसीनम् उदीक्ष्य सत्-पतिम् हरिम् सुनन्द-आदि-अनुगैः उपासितम् । उपेत्य भूमौ शिरसा महामनाः ननाम मूर्ध्ना पुलक-अश्रु-विक्लवः ॥ १५ ॥
sa tatra ha āsīnam udīkṣya sat-patim harim sunanda-ādi-anugaiḥ upāsitam . upetya bhūmau śirasā mahāmanāḥ nanāma mūrdhnā pulaka-aśru-viklavaḥ .. 15 ..
श्रीप्रह्राद उवाच -
त्वयैव दत्तं पदमैन्द्रमूर्जितं हृतं तदेवाद्य तथैव शोभनम् । मन्ये महानस्य कृतो ह्यनुग्रहो विभ्रंशितो यच्छ्रिय आत्ममोहनात् ॥ १६ ॥
त्वया एव दत्तम् पदम् ऐन्द्रम् ऊर्जितम् हृतम् तत् एव अद्य तथा एव शोभनम् । मन्ये महान् अस्य कृतः हि अनुग्रहः विभ्रंशितः यत् श्रियः आत्म-मोहनात् ॥ १६ ॥
tvayā eva dattam padam aindram ūrjitam hṛtam tat eva adya tathā eva śobhanam . manye mahān asya kṛtaḥ hi anugrahaḥ vibhraṃśitaḥ yat śriyaḥ ātma-mohanāt .. 16 ..
यया हि विद्वानपि मुह्यते यतः तत् को विचष्टे गतिमात्मनो यथा । तस्मै नमस्ते जगदीश्वराय वै नारायणायाखिललोकसाक्षिणे ॥ १७ ॥
यया हि विद्वान् अपि मुह्यते यतस् तत् कः विचष्टे गतिम् आत्मनः यथा । तस्मै नमः ते जगत्-ईश्वराय वै नारायणाय अखिल-लोक-साक्षिणे ॥ १७ ॥
yayā hi vidvān api muhyate yatas tat kaḥ vicaṣṭe gatim ātmanaḥ yathā . tasmai namaḥ te jagat-īśvarāya vai nārāyaṇāya akhila-loka-sākṣiṇe .. 17 ..
तस्यानुश्रृवतो राजन् प्रह्रादस्य कृताञ्जलेः । हिरण्यगर्भो भगवान् उवाच मधुसूदनम् ॥ १८ ॥
तस्य अनुश्रृवतः राजन् प्रह्रादस्य कृत-अञ्जलेः । हिरण्यगर्भः भगवान् उवाच मधुसूदनम् ॥ १८ ॥
tasya anuśrṛvataḥ rājan prahrādasya kṛta-añjaleḥ . hiraṇyagarbhaḥ bhagavān uvāca madhusūdanam .. 18 ..
बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला । प्राञ्जलिः प्रणतोपेन्द्रं बभाषेऽवांमुखी नृप ॥ १९ ॥
बद्धम् वीक्ष्य पतिम् साध्वी तद्-पत्नी भय-विह्वला । प्राञ्जलिः प्रणता उपेन्द्रम् बभाषे अवांमुखी नृप ॥ १९ ॥
baddham vīkṣya patim sādhvī tad-patnī bhaya-vihvalā . prāñjaliḥ praṇatā upendram babhāṣe avāṃmukhī nṛpa .. 19 ..
श्रीविन्ध्यावलिरुवाच -
क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युः । कर्तुः प्रभोस्तव किमस्यत आवहन्ति त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः ॥ २० ॥
क्रीडा-अर्थम् आत्मनः इदम् त्रिजगत् कृतम् ते स्वाम्यम् तु तत्र कुधियः अपरे ईश कुर्युः । कर्तुः प्रभोः तव किम् अस्यतस् आवहन्ति त्यक्त-ह्रियः त्वद्-अवरोपित-कर्तृ-वादाः ॥ २० ॥
krīḍā-artham ātmanaḥ idam trijagat kṛtam te svāmyam tu tatra kudhiyaḥ apare īśa kuryuḥ . kartuḥ prabhoḥ tava kim asyatas āvahanti tyakta-hriyaḥ tvad-avaropita-kartṛ-vādāḥ .. 20 ..
श्रीब्रह्मोवाच - (अनुष्टुप्)
भूतभावन भूतेश देवदेव जगन्मय । मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् ॥ २१ ॥
भूतभावन भूतेश देवदेव जगत्-मय । मुञ्च एनम् हृत-सर्वस्वम् न अयम् अर्हति निग्रहम् ॥ २१ ॥
bhūtabhāvana bhūteśa devadeva jagat-maya . muñca enam hṛta-sarvasvam na ayam arhati nigraham .. 21 ..
कृत्स्ना तेऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये । निवेदितं च सर्वस्वं आत्माविक्लवया धिया ॥ २२ ॥
कृत्स्ना ते अनेन दत्ताः भूः लोकाः कर्म-अर्जिताः च ये । निवेदितम् च सर्व-स्वम् आत्म-अविक्लवया धिया ॥ २२ ॥
kṛtsnā te anena dattāḥ bhūḥ lokāḥ karma-arjitāḥ ca ye . niveditam ca sarva-svam ātma-aviklavayā dhiyā .. 22 ..
यत्पादयोरशठधीः सलिलं प्रदाय दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् । अप्युत्तमां गतिमसौ भजते त्रिलोकीं दाश्वानविक्लवमनाः कथमार्तिमृच्छेत् ॥ २३ ॥
यत् पादयोः अशठ-धीः सलिलम् प्रदाय दूर्वा-अङ्कुरैः अपि विधाय सतीम् सपर्याम् । अपि उत्तमाम् गतिम् असौ भजते त्रिलोकीम् दाश्वान् अविक्लव-मनाः कथम् आर्तिम् ऋच्छेत् ॥ २३ ॥
yat pādayoḥ aśaṭha-dhīḥ salilam pradāya dūrvā-aṅkuraiḥ api vidhāya satīm saparyām . api uttamām gatim asau bhajate trilokīm dāśvān aviklava-manāḥ katham ārtim ṛcchet .. 23 ..
श्रीभगवानुवाच - (अनुष्टुप्)
ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्यहम् । यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते ॥ २४ ॥
ब्रह्मन् यम् अनुगृह्णामि तत् विशः विधुनोमि अहम् । यद्-मदः पुरुषः स्तब्धः लोकम् माम् च अवमन्यते ॥ २४ ॥
brahman yam anugṛhṇāmi tat viśaḥ vidhunomi aham . yad-madaḥ puruṣaḥ stabdhaḥ lokam mām ca avamanyate .. 24 ..
यदा कदाचित् जीवात्मा संसरन्निजकर्मभिः । नानायोनिष्वनीशोऽयं पौरुषीं गतिमाव्रजेत् ॥ २५ ॥
यदा कदाचिद् जीवात्मा संसरन् निज-कर्मभिः । नाना योनिषु अनीशः अयम् पौरुषीम् गतिम् आव्रजेत् ॥ २५ ॥
yadā kadācid jīvātmā saṃsaran nija-karmabhiḥ . nānā yoniṣu anīśaḥ ayam pauruṣīm gatim āvrajet .. 25 ..
जन्मकर्मवयोरूप विद्यैश्वर्यधनादिभिः । यद्यस्य न भवेत् स्तंभः तत्रायं मदनुग्रहः ॥ २६ ॥
जन्म-कर्म-वयः-रूप-विद्या-ऐश्वर्य-धन-आदिभिः । यदि अस्य न भवेत् स्तंभः तत्र अयम् मद्-अनुग्रहः ॥ २६ ॥
janma-karma-vayaḥ-rūpa-vidyā-aiśvarya-dhana-ādibhiḥ . yadi asya na bhavet staṃbhaḥ tatra ayam mad-anugrahaḥ .. 26 ..
मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः । सर्वश्रेयःप्रतीपानां हन्त मुह्येन्न मत्परः ॥ २७ ॥
मान-स्तम्भ-निमित्तानाम् जन्म-आदीनाम् समन्ततः । सर्व-श्रेयः-प्रतीपानाम् हन्त मुह्येत् न मद्-परः ॥ २७ ॥
māna-stambha-nimittānām janma-ādīnām samantataḥ . sarva-śreyaḥ-pratīpānām hanta muhyet na mad-paraḥ .. 27 ..
एष दानवदैत्यानामग्रनीः कीर्तिवर्धनः । अजैषीदजयां मायां सीदन्नपि न मुह्यति ॥ २८ ॥
एष दानव-दैत्यानाम् अग्र-नीः कीर्ति-वर्धनः । अजैषीत् अजयाम् मायाम् सीदन् अपि न मुह्यति ॥ २८ ॥
eṣa dānava-daityānām agra-nīḥ kīrti-vardhanaḥ . ajaiṣīt ajayām māyām sīdan api na muhyati .. 28 ..
क्षीणरिक्थश्च्युतः स्थानात्क्षिप्तो बद्धश्च शत्रुभिः । ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः ॥ २९ ॥
क्षीण-रिक्थः च्युतः स्थानात् क्षिप्तः बद्धः च शत्रुभिः । ज्ञातिभिः च परित्यक्तः यातनाम् अनुयापितः ॥ २९ ॥
kṣīṇa-rikthaḥ cyutaḥ sthānāt kṣiptaḥ baddhaḥ ca śatrubhiḥ . jñātibhiḥ ca parityaktaḥ yātanām anuyāpitaḥ .. 29 ..
गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः । छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् ॥ ३० ॥
गुरुणा भर्त्सितः शप्तः जहौ सत्यम् न सुव्रतः । छलैः उक्तः मया धर्मः न अयम् त्यजति सत्य-वाच् ॥ ३० ॥
guruṇā bhartsitaḥ śaptaḥ jahau satyam na suvrataḥ . chalaiḥ uktaḥ mayā dharmaḥ na ayam tyajati satya-vāc .. 30 ..
एष मे प्रापितः स्थानं दुष्प्रापं अमरैरपि । सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः ॥ ३१ ॥
एष मे प्रापितः स्थानम् दुष्प्रापम् अमरैः अपि । सावर्णेः अन्तरस्य अयम् भविता इन्द्रः मद्-आश्रयः ॥ ३१ ॥
eṣa me prāpitaḥ sthānam duṣprāpam amaraiḥ api . sāvarṇeḥ antarasya ayam bhavitā indraḥ mad-āśrayaḥ .. 31 ..
तावत् सुतलमध्यास्तां विश्वकर्मविनिर्मितम् । यदाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः । नोपसर्गा निवसतां सम्भवन्ति ममेक्षया ॥ ३२ ॥
तावत् सुतलम् अध्यास्ताम् विश्वकर्म-विनिर्मितम् । यदा आधयः व्याधयः च क्लमः तन्द्रा पराभवः । न उपसर्गाः निवसताम् सम्भवन्ति मम ईक्षया ॥ ३२ ॥
tāvat sutalam adhyāstām viśvakarma-vinirmitam . yadā ādhayaḥ vyādhayaḥ ca klamaḥ tandrā parābhavaḥ . na upasargāḥ nivasatām sambhavanti mama īkṣayā .. 32 ..
इन्द्रसेन महाराज याहि भो भद्रमस्तु ते । सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः ॥ ३३ ॥
इन्द्रसेन महा-राज याहि भो भद्रम् अस्तु ते । सुतलम् स्वर्गिभिः प्रार्थ्यम् ज्ञातिभिः परिवारितः ॥ ३३ ॥
indrasena mahā-rāja yāhi bho bhadram astu te . sutalam svargibhiḥ prārthyam jñātibhiḥ parivāritaḥ .. 33 ..
न त्वां अभिभविष्यन्ति लोकेशाः किमुतापरे । त्वत् शासनातिगान् दैत्यान् चक्रं मे सूदयिष्यति ॥ ३४ ॥
न त्वाम् अभिभविष्यन्ति लोक-ईशाः किम् उत अपरे । त्वत् शासन-अतिगान् दैत्यान् चक्रम् मे सूदयिष्यति ॥ ३४ ॥
na tvām abhibhaviṣyanti loka-īśāḥ kim uta apare . tvat śāsana-atigān daityān cakram me sūdayiṣyati .. 34 ..
रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम् । सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् ॥ ३५ ॥
रक्षिष्ये सर्वतस् अहम् त्वाम् स अनुगम् स परिच्छदम् । सदा सन्निहितम् वीर तत्र माम् द्रक्ष्यते भवान् ॥ ३५ ॥
rakṣiṣye sarvatas aham tvām sa anugam sa paricchadam . sadā sannihitam vīra tatra mām drakṣyate bhavān .. 35 ..
तत्र दानवदैत्यानां संगात् ते भाव आसुरः । दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनंक्ष्यति ॥ ३६ ॥
तत्र दानव-दैत्यानाम् संगात् ते भावः आसुरः । दृष्ट्वा मद्-अनुभावम् वै सद्यस् कुण्ठः विनंक्ष्यति ॥ ३६ ॥
tatra dānava-daityānām saṃgāt te bhāvaḥ āsuraḥ . dṛṣṭvā mad-anubhāvam vai sadyas kuṇṭhaḥ vinaṃkṣyati .. 36 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भवे बलिवामनसंवादे द्वाविंशोऽध्यायः ॥ २२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे वामन-प्रादुर्भवे बलि-वामन-संवादे द्वाविंशः अध्यायः ॥ २२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe vāmana-prādurbhave bali-vāmana-saṃvāde dvāviṃśaḥ adhyāyaḥ .. 22 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In