| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच -
इत्युक्तवन्तं पुरुषं पुरातनं महानुभावोऽखिलसाधुसंमतः । बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो भक्त्युत्कलो गद्गदया गिराब्रवीत् ॥ १ ॥
इति उक्तवन्तम् पुरुषम् पुरातनम् महा-अनुभावः अखिल-साधु-संमतः । बद्धाञ्जलिः बाष्प-कला-आकुल-ईक्षणः भक्ति-उत्कलः गद्गदया गिरा ब्रवीत् ॥ १ ॥
iti uktavantam puruṣam purātanam mahā-anubhāvaḥ akhila-sādhu-saṃmataḥ . baddhāñjaliḥ bāṣpa-kalā-ākula-īkṣaṇaḥ bhakti-utkalaḥ gadgadayā girā bravīt .. 1 ..
श्रीबलिरुवाच -
अहो प्रणामाय कृतः समुद्यमः प्रपन्नभक्तार्थविधौ समाहितः । यल्लोकपालैस्त्वदनुग्रहोऽमरैः अलब्धपूर्वोऽपसदेऽसुरेऽर्पितः ॥ २ ॥
अहो प्रणामाय कृतः समुद्यमः प्रपन्न-भक्त-अर्थ-विधौ समाहितः । यत् लोकपालैः त्वद्-अनुग्रहः अमरैः अ लब्ध-पूर्वः अपसदे असुरे अर्पितः ॥ २ ॥
aho praṇāmāya kṛtaḥ samudyamaḥ prapanna-bhakta-artha-vidhau samāhitaḥ . yat lokapālaiḥ tvad-anugrahaḥ amaraiḥ a labdha-pūrvaḥ apasade asure arpitaḥ .. 2 ..
श्रीशुक उवाच - (अनुष्टुप्)
इत्युक्त्वा हरिमानत्य ब्रह्माणं सभवं ततः । विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः ॥ ३ ॥
इति उक्त्वा हरिम् आनत्य ब्रह्माणम् सभवम् ततस् । विवेश सु तलम् प्रीतः बलिः मुक्तः सह असुरैः ॥ ३ ॥
iti uktvā harim ānatya brahmāṇam sabhavam tatas . viveśa su talam prītaḥ baliḥ muktaḥ saha asuraiḥ .. 3 ..
एवं इन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् । पूरयित्वादितेः कामं अशासत् सकलं जगत् ॥ ४ ॥
एवम् इन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् । पूरयित्वा अदितेः कामम् अशासत् सकलम् जगत् ॥ ४ ॥
evam indrāya bhagavān pratyānīya triviṣṭapam . pūrayitvā aditeḥ kāmam aśāsat sakalam jagat .. 4 ..
लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् । निशाम्य भक्तिप्रवणः प्रह्राद इदमब्रवीत् ॥ ५ ॥
लब्ध-प्रसादम् निर्मुक्तम् पौत्रम् वंश-धरम् बलिम् । निशाम्य भक्ति-प्रवणः प्रह्रादः इदम् अब्रवीत् ॥ ५ ॥
labdha-prasādam nirmuktam pautram vaṃśa-dharam balim . niśāmya bhakti-pravaṇaḥ prahrādaḥ idam abravīt .. 5 ..
श्रीप्रह्राद उवाच -
नेमं विरिञ्चो लभते प्रसादं न श्रीर्न शर्वः किमुतापरेऽन्ये । यन्नोऽसुराणामसि दुर्गपालो विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रिः ॥ ६ ॥
न इमम् विरिञ्चः लभते प्रसादम् न श्रीः न शर्वः किम् उत अपरे अन्ये । यत् नः असुराणाम् असि दुर्ग-पालः विश्व-अभिवन्द्यैः अभिवन्दित-अङ्घ्रिः ॥ ६ ॥
na imam viriñcaḥ labhate prasādam na śrīḥ na śarvaḥ kim uta apare anye . yat naḥ asurāṇām asi durga-pālaḥ viśva-abhivandyaiḥ abhivandita-aṅghriḥ .. 6 ..
यत्पादपद्ममकरन्दनिषेवणेन ब्रह्मादयः शरणदाश्नुवते विभूतीः । कस्माद्वयं कुसृतयः खलयोनयस्ते दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ॥ ७ ॥
यद्-पाद-पद्म-मकरन्द-निषेवणेन ब्रह्म-आदयः शरण-दाः अश्नुवते विभूतीः । कस्मात् वयम् कुसृतयः खल-योनयः ते दाक्षिण्य-दृष्टि-पदवीम् भवतः प्रणीताः ॥ ७ ॥
yad-pāda-padma-makaranda-niṣevaṇena brahma-ādayaḥ śaraṇa-dāḥ aśnuvate vibhūtīḥ . kasmāt vayam kusṛtayaḥ khala-yonayaḥ te dākṣiṇya-dṛṣṭi-padavīm bhavataḥ praṇītāḥ .. 7 ..
चित्रं तवेहितमहोऽमितयोगमाया लीलाविसृष्टभुवनस्य विशारदस्य । सर्वात्मनः समदृशोऽविषमः स्वभावो भक्तप्रियो यदसि कल्पतरुस्वभावः ॥ ८ ॥
चित्रम् तव ईहित-महः अमित-योग-माया लीला-विसृष्ट-भुवनस्य विशारदस्य । सर्वात्मनः समदृशः अविषमः स्वभावः भक्त-प्रियः यत् असि कल्पतरु-स्वभावः ॥ ८ ॥
citram tava īhita-mahaḥ amita-yoga-māyā līlā-visṛṣṭa-bhuvanasya viśāradasya . sarvātmanaḥ samadṛśaḥ aviṣamaḥ svabhāvaḥ bhakta-priyaḥ yat asi kalpataru-svabhāvaḥ .. 8 ..
श्रीभगवानुवाच - (अनुष्टुप्)
वत्स प्रह्राद भद्रं ते प्रयाहि सुतलालयम् । मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह ॥ ९ ॥
वत्स प्रह्राद भद्रम् ते प्रयाहि सुत-लालयम् । मोदमानः स्व-पौत्रेण ज्ञातीनाम् सुखम् आवह ॥ ९ ॥
vatsa prahrāda bhadram te prayāhi suta-lālayam . modamānaḥ sva-pautreṇa jñātīnām sukham āvaha .. 9 ..
नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् । मद्दर्शनमहाह्लाद ध्वस्तकर्मनिबन्धनः ॥ १० ॥
नित्यम् द्रष्टासि माम् तत्र गदा-पाणिम् अवस्थितम् । मद्-दर्शन-महा-ह्लाद ध्वस्त-कर्म-निबन्धनः ॥ १० ॥
nityam draṣṭāsi mām tatra gadā-pāṇim avasthitam . mad-darśana-mahā-hlāda dhvasta-karma-nibandhanaḥ .. 10 ..
श्रीशुक उवाच -
आज्ञां भगवतो राजन् प्रह्रादो बलिना सह । बाढमित्यमलप्रज्ञो मूर्ध्न्याधाय कृताञ्जलिः ॥ ११ ॥
आज्ञाम् भगवतः राजन् प्रह्रादः बलिना सह । बाढम् इति अमल-प्रज्ञः मूर्ध्नि आधाय कृताञ्जलिः ॥ ११ ॥
ājñām bhagavataḥ rājan prahrādaḥ balinā saha . bāḍham iti amala-prajñaḥ mūrdhni ādhāya kṛtāñjaliḥ .. 11 ..
परिक्रम्यादिपुरुषं सर्वासुरचमूपतिः । प्रणतः तदनुज्ञातः प्रविवेश महाबिलम् ॥ १२ ॥
परिक्रम्य आदिपुरुषम् सर्व-असुर-चमूपतिः । प्रणतः तद्-अनुज्ञातः प्रविवेश महा-बिलम् ॥ १२ ॥
parikramya ādipuruṣam sarva-asura-camūpatiḥ . praṇataḥ tad-anujñātaḥ praviveśa mahā-bilam .. 12 ..
अथाहोशनसं राजन् हरिर्नारायणोऽन्तिके । आसीनं ऋत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥ १३ ॥
अथा आह उशनसम् राजन् हरिः नारायणः अन्तिके । आसीनम् ऋत्विजाम् मध्ये सदसि ब्रह्म-वादिनाम् ॥ १३ ॥
athā āha uśanasam rājan hariḥ nārāyaṇaḥ antike . āsīnam ṛtvijām madhye sadasi brahma-vādinām .. 13 ..
ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः । यत् तत् कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ॥ १४ ॥
ब्रह्मन् सन्तनु शिष्यस्य कर्म-छिद्रम् वितन्वतः । यत् तत् कर्मसु वैषम्यम् ब्रह्म-दृष्टम् समम् भवेत् ॥ १४ ॥
brahman santanu śiṣyasya karma-chidram vitanvataḥ . yat tat karmasu vaiṣamyam brahma-dṛṣṭam samam bhavet .. 14 ..
श्रीशुक्र उवाच -
कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् । यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः ॥ १५ ॥
कुतस् तद्-कर्म-वैषम्यम् यस्य कर्म-ईश्वरः भवान् । यज्ञेशः यज्ञपुरुषः सर्व-भावेन पूजितः ॥ १५ ॥
kutas tad-karma-vaiṣamyam yasya karma-īśvaraḥ bhavān . yajñeśaḥ yajñapuruṣaḥ sarva-bhāvena pūjitaḥ .. 15 ..
मंत्रतः तंत्रतः छिद्रं देशकालार्हवस्तुतः । सर्वं करोति निश्छिद्रं अनुसंकीर्तनं तव ॥ १६ ॥
मंत्रतः तंत्रतः छिद्रम् देश-काल-अर्ह-वस्तुतः । सर्वम् करोति निश्छिद्रम् अनुसंकीर्तनम् तव ॥ १६ ॥
maṃtrataḥ taṃtrataḥ chidram deśa-kāla-arha-vastutaḥ . sarvam karoti niśchidram anusaṃkīrtanam tava .. 16 ..
तथापि वदतो भूमन् करिष्याम्यनुशासनम् । एतच्छ्रेयः परं पुंसां यत् तवाज्ञा अनुपालनम् ॥ १७ ॥
तथा अपि वदतः भूमन् करिष्यामि अनुशासनम् । एतत् श्रेयः परम् पुंसाम् यत् तव आज्ञा अनुपालनम् ॥ १७ ॥
tathā api vadataḥ bhūman kariṣyāmi anuśāsanam . etat śreyaḥ param puṃsām yat tava ājñā anupālanam .. 17 ..
श्रीशुक उवाच -
अभिनन्द्य हरेराज्ञां उशना भगवानिति । यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह ॥ १८ ॥
अभिनन्द्य हरेः आज्ञाम् उशनाः भगवान् इति । यज्ञ-छिद्रम् समाधत्त बलेः विप्रर्षिभिः सह ॥ १८ ॥
abhinandya hareḥ ājñām uśanāḥ bhagavān iti . yajña-chidram samādhatta baleḥ viprarṣibhiḥ saha .. 18 ..
एवं बलेर्महीं राजम् भिक्षित्वा वामनो हरिः । ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत्परैर्हृतम् ॥ १९ ॥
एवम् बलेः महीम् राजम् भिक्षित्वा वामनः हरिः । ददौ भ्रात्रे महा-इन्द्राय त्रिदिवम् यत् परैः हृतम् ॥ १९ ॥
evam baleḥ mahīm rājam bhikṣitvā vāmanaḥ hariḥ . dadau bhrātre mahā-indrāya tridivam yat paraiḥ hṛtam .. 19 ..
प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः । दक्षभृग्वङ्गिरोमुख्यैः कुमारेण भवेन च ॥ २० ॥
प्रजापति-पतिः ब्रह्मा देव-ऋषि-पितृ-भूमिपैः । दक्ष-भृगु-अङ्गिरः-मुख्यैः कुमारेण भवेन च ॥ २० ॥
prajāpati-patiḥ brahmā deva-ṛṣi-pitṛ-bhūmipaiḥ . dakṣa-bhṛgu-aṅgiraḥ-mukhyaiḥ kumāreṇa bhavena ca .. 20 ..
कश्यपस्यादितेः प्रीत्यै सर्वभूतभवाय च । लोकानां लोकपालानां अकरोद् वामनं पतिम् ॥ २१ ॥
कश्यपस्य अदितेः प्रीत्यै सर्व-भूत-भवाय च । लोकानाम् लोकपालानाम् अकरोत् वामनम् पतिम् ॥ २१ ॥
kaśyapasya aditeḥ prītyai sarva-bhūta-bhavāya ca . lokānām lokapālānām akarot vāmanam patim .. 21 ..
वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः । मंगलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥ २२ ॥
वेदानाम् सर्व-देवानाम् धर्मस्य यशसः श्रियः । मंगलानाम् व्रतानाम् च कल्पम् स्वर्ग-अपवर्गयोः ॥ २२ ॥
vedānām sarva-devānām dharmasya yaśasaḥ śriyaḥ . maṃgalānām vratānām ca kalpam svarga-apavargayoḥ .. 22 ..
उपेन्द्रं कल्पयां चक्रे पतिं सर्वविभूतये । तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥ २३ ॥
उपेन्द्रम् चक्रे पतिम् सर्व-विभूतये । तदा सर्वाणि भूतानि भृशम् मुमुदिरे नृप ॥ २३ ॥
upendram cakre patim sarva-vibhūtaye . tadā sarvāṇi bhūtāni bhṛśam mumudire nṛpa .. 23 ..
ततस्त्विन्द्रः पुरस्कृत्य देवयानेन वामनम् । लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः ॥ २४ ॥
ततस् तु इन्द्रः पुरस्कृत्य देव-यानेन वामनम् । लोकपालैः दिवम् निन्ये ब्रह्मणा च अनुमोदितः ॥ २४ ॥
tatas tu indraḥ puraskṛtya deva-yānena vāmanam . lokapālaiḥ divam ninye brahmaṇā ca anumoditaḥ .. 24 ..
प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालितः । श्रिया परमया जुष्टो मुमुदे गतसाध्वसः ॥ २५ ॥
प्राप्य त्रिभुवनम् च इन्द्रः उपेन्द्र-भुज-पालितः । श्रिया परमया जुष्टः मुमुदे गत-साध्वसः ॥ २५ ॥
prāpya tribhuvanam ca indraḥ upendra-bhuja-pālitaḥ . śriyā paramayā juṣṭaḥ mumude gata-sādhvasaḥ .. 25 ..
ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप । पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥ २६ ॥
ब्रह्मा शर्वः कुमारः च भृगु-आद्याः मुनयः नृप । पितरः सर्व-भूतानि सिद्धाः वैमानिकाः च ये ॥ २६ ॥
brahmā śarvaḥ kumāraḥ ca bhṛgu-ādyāḥ munayaḥ nṛpa . pitaraḥ sarva-bhūtāni siddhāḥ vaimānikāḥ ca ye .. 26 ..
सुमहत्कर्म तद्विष्णोः गायन्तः परमाद्भुतम् । धिष्ण्यानि स्वानि ते जग्मुः अदितिं च शशंसिरे ॥ २७ ॥
सु महत् कर्म तत् विष्णोः गायन्तः परम-अद्भुतम् । धिष्ण्यानि स्वानि ते जग्मुः अदितिम् च शशंसिरे ॥ २७ ॥
su mahat karma tat viṣṇoḥ gāyantaḥ parama-adbhutam . dhiṣṇyāni svāni te jagmuḥ aditim ca śaśaṃsire .. 27 ..
सर्वं एतन्मयाख्यातं भवतः कुलनन्दन । उरुक्रमस्य चरितं श्रोतॄणां अघमोचनम् ॥ २८ ॥
सर्वम् एतत् मया आख्यातम् भवतः कुल-नन्दन । उरुक्रमस्य चरितम् श्रोतॄणाम् अघ-मोचनम् ॥ २८ ॥
sarvam etat mayā ākhyātam bhavataḥ kula-nandana . urukramasya caritam śrotṝṇām agha-mocanam .. 28 ..
पारं महिम्न उरुविक्रमतो गृणानो यः पार्थिवानि विममे स रजांसि मर्त्यः । किं जायमान उत जात उपैति मर्त्य इत्याह मन्त्रदृगृषिः पुरुषस्य यस्य ॥ २९ ॥
पारम् महिम्नः उरु-विक्रमतः गृणानः यः पार्थिवानि विममे स रजांसि मर्त्यः । किम् जायमानः उत जातः उपैति मर्त्यः इति आह मन्त्र-दृश् ऋषिः पुरुषस्य यस्य ॥ २९ ॥
pāram mahimnaḥ uru-vikramataḥ gṛṇānaḥ yaḥ pārthivāni vimame sa rajāṃsi martyaḥ . kim jāyamānaḥ uta jātaḥ upaiti martyaḥ iti āha mantra-dṛś ṛṣiḥ puruṣasya yasya .. 29 ..
(अनुष्टुप्)
य इदं देवदेवस्य हरेरद्भुतकर्मणः । अवतारानुचरितं श्रृण्वन्याति परां गतिम् ॥ ३० ॥
यः इदम् देवदेवस्य हरेः अद्भुत-कर्मणः । अवतार-अनुचरितम् श्रृण्वन् याति पराम् गतिम् ॥ ३० ॥
yaḥ idam devadevasya hareḥ adbhuta-karmaṇaḥ . avatāra-anucaritam śrṛṇvan yāti parām gatim .. 30 ..
क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे । यत्र यत्रानुकीर्त्येत तत्तेषां सुकृतं विदुः ॥ ३१ ॥
क्रियमाणे कर्मणि इदम् दैवे पित्र्ये अथ मानुषे । यत्र यत्र अनुकीर्त्येत तत् तेषाम् सुकृतम् विदुः ॥ ३१ ॥
kriyamāṇe karmaṇi idam daive pitrye atha mānuṣe . yatra yatra anukīrtyeta tat teṣām sukṛtam viduḥ .. 31 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनावतारचरिते त्रयोविंशोऽध्यायः ॥ २३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे वामनावतारचरिते त्रयोविंशः अध्यायः ॥ २३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe vāmanāvatāracarite trayoviṃśaḥ adhyāyaḥ .. 23 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In