| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - (अनुष्टुप्)
राजन् उदितमेतत्ते हरेः कर्माघनाशनम् । गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं श्रृणु ॥ १ ॥
राजन् उदितम् एतत् ते हरेः कर्म अघ-नाशनम् । गज-इन्द्र-मोक्षणम् पुण्यम् रैवतम् तु अन्तरम् श्रृणु ॥ १ ॥
rājan uditam etat te hareḥ karma agha-nāśanam . gaja-indra-mokṣaṇam puṇyam raivatam tu antaram śrṛṇu .. 1 ..
पञ्चमो रैवतो नाम मनुस्तामससोदरः । बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वकाः ॥ २ ॥
पञ्चमः रैवतः नाम मनुः तामस-सोदरः । बलि-विन्ध्य-आदयः तस्य सुताः ह अर्जुन-पूर्वकाः ॥ २ ॥
pañcamaḥ raivataḥ nāma manuḥ tāmasa-sodaraḥ . bali-vindhya-ādayaḥ tasya sutāḥ ha arjuna-pūrvakāḥ .. 2 ..
विभुरिन्द्रः सुरगणा राजन्भूतरयादयः । हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः ॥ ३ ॥
विभुः इन्द्रः सुर-गणाः राजन् भूत-रय-आदयः । हिरण्य-रोमाः वेद-शिराः ऊर्ध्वबाहु-आदयः द्विजाः ॥ ३ ॥
vibhuḥ indraḥ sura-gaṇāḥ rājan bhūta-raya-ādayaḥ . hiraṇya-romāḥ veda-śirāḥ ūrdhvabāhu-ādayaḥ dvijāḥ .. 3 ..
पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः । तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥ ४ ॥
पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुर-सत्तमैः । तयोः स्व-कलया जज्ञे वैकुण्ठः भगवान् स्वयम् ॥ ४ ॥
patnī vikuṇṭhā śubhrasya vaikuṇṭhaiḥ sura-sattamaiḥ . tayoḥ sva-kalayā jajñe vaikuṇṭhaḥ bhagavān svayam .. 4 ..
वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः । रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ ५ ॥
वैकुण्ठः कल्पितः येन लोकः लोक-नमस्कृतः । रमया प्रार्थ्यमानेन देव्या तद्-प्रिय-काम्यया ॥ ५ ॥
vaikuṇṭhaḥ kalpitaḥ yena lokaḥ loka-namaskṛtaḥ . ramayā prārthyamānena devyā tad-priya-kāmyayā .. 5 ..
तस्यानुभावः कथितो गुणाश्च परमोदयाः । भौमान् रेणून्स विममे यो विष्णोर्वर्णयेद्गुणान् ॥ ६ ॥
तस्य अनुभावः कथितः गुणाः च परम-उदयाः । भौमान् रेणून् स विममे यः विष्णोः वर्णयेत् गुणान् ॥ ६ ॥
tasya anubhāvaḥ kathitaḥ guṇāḥ ca parama-udayāḥ . bhaumān reṇūn sa vimame yaḥ viṣṇoḥ varṇayet guṇān .. 6 ..
षष्ठश्च चक्षुषः पुत्रः चाक्षुषो नाम वै मनुः । पूरु पूरुष सुद्युम्न प्रमुखाश्चाक्षुषात्मजाः ॥ ७ ॥
षष्ठः च चक्षुषः पुत्रः चाक्षुषः नाम वै मनुः । पूरु पूरुष सुद्युम्न प्रमुखाः चाक्षुष-आत्मजाः ॥ ७ ॥
ṣaṣṭhaḥ ca cakṣuṣaḥ putraḥ cākṣuṣaḥ nāma vai manuḥ . pūru pūruṣa sudyumna pramukhāḥ cākṣuṣa-ātmajāḥ .. 7 ..
इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः । मुनयस्तत्र वै राजन् हविष्मद् वीरकादयः ॥ ८ ॥
इन्द्रः मन्त्र-द्रुमः तत्र देवाः आप्य-आदयः गणाः । मुनयः तत्र वै राजन् हविष्मत् वीरक-आदयः ॥ ८ ॥
indraḥ mantra-drumaḥ tatra devāḥ āpya-ādayaḥ gaṇāḥ . munayaḥ tatra vai rājan haviṣmat vīraka-ādayaḥ .. 8 ..
तत्रापि देवः सम्भूत्यां वैराजस्याभवत् सुतः । अजितो नाम भगवान् अंशेन जगतः पतिः ॥ ९ ॥
तत्र अपि देवः सम्भूत्याम् वैराजस्य अभवत् सुतः । अजितः नाम भगवान् अंशेन जगतः पतिः ॥ ९ ॥
tatra api devaḥ sambhūtyām vairājasya abhavat sutaḥ . ajitaḥ nāma bhagavān aṃśena jagataḥ patiḥ .. 9 ..
पयोधिं येन निर्मथ्य सुराणां साधिता सुधा । भ्रममाणोऽम्भसि धृतः कूर्मरूपेण मन्दरः ॥ १० ॥
पयोधिम् येन निर्मथ्य सुराणाम् साधिता सुधा । भ्रममाणः अम्भसि धृतः कूर्म-रूपेण मन्दरः ॥ १० ॥
payodhim yena nirmathya surāṇām sādhitā sudhā . bhramamāṇaḥ ambhasi dhṛtaḥ kūrma-rūpeṇa mandaraḥ .. 10 ..
श्रीराजोवाच -
यथा भगवता ब्रह्मन् मथितः क्षीरसागरः । यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना ॥ ११ ॥
यथा भगवता ब्रह्मन् मथितः क्षीरसागरः । यद्-अर्थम् वा यतस् च अद्रिम् दधार अम्बु-चर-आत्मना ॥ ११ ॥
yathā bhagavatā brahman mathitaḥ kṣīrasāgaraḥ . yad-artham vā yatas ca adrim dadhāra ambu-cara-ātmanā .. 11 ..
यथामृतं सुरैः प्राप्तं किं चान्यद् अभवत् ततः । एतद्भगवतः कर्म वदस्व परमाद्भुतम् ॥ १२ ॥
यथा अमृतम् सुरैः प्राप्तम् किम् च अन्यत् अभवत् ततस् । एतत् भगवतः कर्म वदस्व परम-अद्भुतम् ॥ १२ ॥
yathā amṛtam suraiḥ prāptam kim ca anyat abhavat tatas . etat bhagavataḥ karma vadasva parama-adbhutam .. 12 ..
त्वया संकथ्यमानेन महिम्ना सात्वतां पतेः । नातितृप्यति मे चित्तं सुचिरं तापतापितम् ॥ १३ ॥
त्वया संकथ्यमानेन महिम्ना सात्वताम् पतेः । न अतितृप्यति मे चित्तम् सु चिरम् ताप-तापितम् ॥ १३ ॥
tvayā saṃkathyamānena mahimnā sātvatām pateḥ . na atitṛpyati me cittam su ciram tāpa-tāpitam .. 13 ..
श्रीसूत उवाच -
सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः । अभिनन्द्य हरेर्वीर्यं अभ्याचष्टुं प्रचक्रमे ॥ १४ ॥
सम्पृष्टः भगवान् एवम् द्वैपायन-सुतः द्विजाः । अभिनन्द्य हरेः वीर्यम् अभ्याचष्टुम् प्रचक्रमे ॥ १४ ॥
sampṛṣṭaḥ bhagavān evam dvaipāyana-sutaḥ dvijāḥ . abhinandya hareḥ vīryam abhyācaṣṭum pracakrame .. 14 ..
श्रीशुक उवाच -
यदा युद्धेऽसुरैर्देवा बध्यमानाः शितायुधैः । गतासवो निपतिता नोत्तिष्ठेरन् स्म भूरिशः ॥ १५ ॥
यदा युद्धे असुरैः देवाः बध्यमानाः शित-आयुधैः । गतासवः निपतिताः न उत्तिष्ठेरन् स्म भूरिशस् ॥ १५ ॥
yadā yuddhe asuraiḥ devāḥ badhyamānāḥ śita-āyudhaiḥ . gatāsavaḥ nipatitāḥ na uttiṣṭheran sma bhūriśas .. 15 ..
यदा दुर्वाससः शापात् सेन्द्रा लोकास्त्रयो नृप । निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः ॥ १६ ॥
यदा दुर्वाससः शापात् स इन्द्राः लोकाः त्रयः नृप । निःश्रीकाः च अभवन् तत्र नेशुः इज्या-आदयः क्रियाः ॥ १६ ॥
yadā durvāsasaḥ śāpāt sa indrāḥ lokāḥ trayaḥ nṛpa . niḥśrīkāḥ ca abhavan tatra neśuḥ ijyā-ādayaḥ kriyāḥ .. 16 ..
निशाम्यैतत् सुरगणा महेन्द्रवरुणादयः । नाध्यगच्छन्स्वयं मन्त्रैः मंत्रयन्तो विनिश्चितम् ॥ १७ ॥
निशाम्य एतत् सुर-गणाः महा-इन्द्र-वरुण-आदयः । न अध्यगच्छन् स्वयम् मन्त्रैः मंत्रयन्तः विनिश्चितम् ॥ १७ ॥
niśāmya etat sura-gaṇāḥ mahā-indra-varuṇa-ādayaḥ . na adhyagacchan svayam mantraiḥ maṃtrayantaḥ viniścitam .. 17 ..
ततो ब्रह्मसभां जग्मुः मेरोर्मूर्धनि सर्वशः । सर्वं विज्ञापयां चक्रुः प्रणताः परमेष्ठिने ॥ १८ ॥
ततस् ब्रह्म-सभाम् जग्मुः मेरोः मूर्धनि सर्वशस् । सर्वम् प्रणताः परमेष्ठिने ॥ १८ ॥
tatas brahma-sabhām jagmuḥ meroḥ mūrdhani sarvaśas . sarvam praṇatāḥ parameṣṭhine .. 18 ..
स विलोक्येन्द्रवाय्वादीन् निःसत्त्वान् गगतप्रभान् । लोकान् अमंगलप्रायान् असुरानयथा विभुः ॥ १९ ॥
स विलोक्य इन्द्र-वायु-आदीन् निःसत्त्वान् गगत-प्रभान् । लोकान् अमंगल-प्रायान् असुरान् अयथा विभुः ॥ १९ ॥
sa vilokya indra-vāyu-ādīn niḥsattvān gagata-prabhān . lokān amaṃgala-prāyān asurān ayathā vibhuḥ .. 19 ..
समाहितेन मनसा संस्मरन् पुरुषं परम् । उवाचोत्फुल्लवदनो देवान्स भगवान्परः ॥ २० ॥
समाहितेन मनसा संस्मरन् पुरुषम् परम् । उवाच उत्फुल्ल-वदनः देवान् स भगवान् परः ॥ २० ॥
samāhitena manasā saṃsmaran puruṣam param . uvāca utphulla-vadanaḥ devān sa bhagavān paraḥ .. 20 ..
अहं भवो यूयमथोऽसुरादयो मनुष्यतिर्यग् द्रुमघर्मजातयः । यस्यावतारांशकलाविसर्जिता व्रजाम सर्वे शरणं तमव्ययम् ॥ २१ ॥
अहम् भवः यूयम् अथो असुर-आदयः मनुष्य-तिर्यक् द्रुम-घर्म-जातयः । यस्य अवतार-अंश-कला-विसर्जिताः व्रजाम सर्वे शरणम् तम् अव्ययम् ॥ २१ ॥
aham bhavaḥ yūyam atho asura-ādayaḥ manuṣya-tiryak druma-gharma-jātayaḥ . yasya avatāra-aṃśa-kalā-visarjitāḥ vrajāma sarve śaraṇam tam avyayam .. 21 ..
न यस्य वध्यो न च रक्षणीयो नोपेक्षणीयादरणीयपक्षः । अथापि सर्गस्थितिसंयमार्थं धत्ते रजःसत्त्वतमांसि काले ॥ २२ ॥
न यस्य वध्यः न च रक्षणीयः न उपेक्षणीय-आदरणीय-पक्षः । अथ अपि सर्ग-स्थिति-संयम-अर्थम् धत्ते रजः-सत्त्व-तमांसि काले ॥ २२ ॥
na yasya vadhyaḥ na ca rakṣaṇīyaḥ na upekṣaṇīya-ādaraṇīya-pakṣaḥ . atha api sarga-sthiti-saṃyama-artham dhatte rajaḥ-sattva-tamāṃsi kāle .. 22 ..
अयं च तस्य स्थितिपालनक्षणः सत्त्वं जुषाणस्य भवाय देहिनाम् । तस्माद् व्रजामः शरणं जगद्गुरुं स्वानां स नो धास्यति शं सुरप्रियः ॥ २३ ॥
अयम् च तस्य स्थिति-पालन-क्षणः सत्त्वम् जुषाणस्य भवाय देहिनाम् । तस्मात् व्रजामः शरणम् जगद्गुरुम् स्वानाम् स नः धास्यति शम् सुर-प्रियः ॥ २३ ॥
ayam ca tasya sthiti-pālana-kṣaṇaḥ sattvam juṣāṇasya bhavāya dehinām . tasmāt vrajāmaḥ śaraṇam jagadgurum svānām sa naḥ dhāsyati śam sura-priyaḥ .. 23 ..
श्रीशुक उवाच -
इत्याभाष्य सुरान्वेधाः सह देवैररिन्दम । अजितस्य पदं साक्षात् जगाम तमसः परम् ॥ २४ ॥
इति आभाष्य सुरान् वेधाः सह देवैः अरिन्दम । अजितस्य पदम् साक्षात् जगाम तमसः परम् ॥ २४ ॥
iti ābhāṣya surān vedhāḥ saha devaiḥ arindama . ajitasya padam sākṣāt jagāma tamasaḥ param .. 24 ..
तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै विभो । स्तुतिमब्रूत दैवीभिः गीर्भिस्त्ववहितेन्द्रियः ॥ २५ ॥
तत्र अदृष्ट-स्वरूपाय श्रुत-पूर्वाय वै विभो । स्तुतिम् अब्रूत दैवीभिः गीर्भिः तु अवहित-इन्द्रियः ॥ २५ ॥
tatra adṛṣṭa-svarūpāya śruta-pūrvāya vai vibho . stutim abrūta daivībhiḥ gīrbhiḥ tu avahita-indriyaḥ .. 25 ..
श्रीब्रह्मोवाच -
अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यम् । मनोऽग्रयानं वचसानिरुक्तं नमामहे देववरं वरेण्यम् ॥ २६ ॥
अविक्रियम् सत्यम् अनन्तम् आद्यम् गुहा-आशयम् निष्कलम् अप्रतर्क्यम् । मनः-अग्र-यानम् वचसा अनिरुक्तम् नमामहे देव-वरम् वरेण्यम् ॥ २६ ॥
avikriyam satyam anantam ādyam guhā-āśayam niṣkalam apratarkyam . manaḥ-agra-yānam vacasā aniruktam namāmahe deva-varam vareṇyam .. 26 ..
विपश्चितं प्राणमनोधियात्मनां अर्थेन्द्रियाभासमनिद्रमव्रणम् । छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे ॥ २७ ॥
विपश्चितम् प्राण-मनः-धिया आत्मनाम् अर्थ-इन्द्रिय-आभासम् अनिद्रम् अव्रणम् । छाया-आतपौ यत्र न गृध्र-पक्षौ तम् अक्षरम् खम् त्रि-युगम् व्रजामहे ॥ २७ ॥
vipaścitam prāṇa-manaḥ-dhiyā ātmanām artha-indriya-ābhāsam anidram avraṇam . chāyā-ātapau yatra na gṛdhra-pakṣau tam akṣaram kham tri-yugam vrajāmahe .. 27 ..
अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु । त्रिनाभि विद्युच्चलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये ॥ २८ ॥
अजस्य चक्रम् तु अजया ईर्यमाणम् मनः-मयम् पञ्चदश-अरम् आशु । त्रि-नाभि विद्युत्-चलम् अष्ट-नेमि यत् अक्षम् आहुः तम् ऋतम् प्रपद्ये ॥ २८ ॥
ajasya cakram tu ajayā īryamāṇam manaḥ-mayam pañcadaśa-aram āśu . tri-nābhi vidyut-calam aṣṭa-nemi yat akṣam āhuḥ tam ṛtam prapadye .. 28 ..
य एकवर्णं तमसः परं तद् अलोकमव्यक्तमनन्तपारम् । आसां चकारोपसुपर्णमेनं उपासते योगरथेन धीराः ॥ २९ ॥
यः एक-वर्णम् तमसः परम् तत् अलोकम् अव्यक्तम् अनन्त-पारम् । आसाम् चकार उपसुपर्णम् एनम् उपासते योग-रथेन धीराः ॥ २९ ॥
yaḥ eka-varṇam tamasaḥ param tat alokam avyaktam ananta-pāram . āsām cakāra upasuparṇam enam upāsate yoga-rathena dhīrāḥ .. 29 ..
न यस्य कश्चातितितर्ति मायां यया जनो मुह्यति वेद नार्थम् । तं निर्जितात्मात्मगुणं परेशं नमाम भूतेषु समं चरन्तम् ॥ ३० ॥
न यस्य कः च अतितितर्ति मायाम् यया जनः मुह्यति वेद ना अर्थम् । तम् निर्जित-आत्मा आत्म-गुणम् पर-ईशम् नमाम भूतेषु समम् चरन्तम् ॥ ३० ॥
na yasya kaḥ ca atititarti māyām yayā janaḥ muhyati veda nā artham . tam nirjita-ātmā ātma-guṇam para-īśam namāma bhūteṣu samam carantam .. 30 ..
इमे वयं यत्प्रिययैव तन्वा सत्त्वेन सृष्टा बहिरन्तराविः । गतिं न सूक्ष्मामृषयश्च विद्महे कुतोऽसुराद्या इतरप्रधानाः ॥ ३१ ॥
इमे वयम् यत् प्रियया एव तन्वा सत्त्वेन सृष्टाः बहिस् अन्तर् आविस् । गतिम् न सूक्ष्माम् ऋषयः च विद्महे कुतस् असुर-आद्याः इतर-प्रधानाः ॥ ३१ ॥
ime vayam yat priyayā eva tanvā sattvena sṛṣṭāḥ bahis antar āvis . gatim na sūkṣmām ṛṣayaḥ ca vidmahe kutas asura-ādyāḥ itara-pradhānāḥ .. 31 ..
पादौ महीयं स्वकृतैव यस्य चतुर्विधो यत्र हि भूतसर्गः । स वै महापूरुष आत्मतन्त्रः प्रसीदतां ब्रह्म महाविभूतिः ॥ ३२ ॥
पादौ मही इयम् स्व-कृता एव यस्य चतुर्विधः यत्र हि भूत-सर्गः । स वै महा-पूरुषः आत्मतन्त्रः प्रसीदताम् ब्रह्म महा-विभूतिः ॥ ३२ ॥
pādau mahī iyam sva-kṛtā eva yasya caturvidhaḥ yatra hi bhūta-sargaḥ . sa vai mahā-pūruṣaḥ ātmatantraḥ prasīdatām brahma mahā-vibhūtiḥ .. 32 ..
अम्भस्तु यद्रेत उदारवीर्यं सिध्यन्ति जीवन्त्युत वर्धमानाः । लोका स्त्रयोऽथाखिललोकपालाः प्रसीदतां नः स महाविभूतिः ॥ ३३ ॥
अम्भः तु यत् रेतः उदार-वीर्यम् सिध्यन्ति जीवन्ति उत वर्धमानाः । लोकाः त्रयः अथ अखिल-लोकपालाः प्रसीदताम् नः स महा-विभूतिः ॥ ३३ ॥
ambhaḥ tu yat retaḥ udāra-vīryam sidhyanti jīvanti uta vardhamānāḥ . lokāḥ trayaḥ atha akhila-lokapālāḥ prasīdatām naḥ sa mahā-vibhūtiḥ .. 33 ..
सोमं मनो यस्य समामनन्ति दिवौकसां यो बलमन्ध आयुः । ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः ॥ ३४ ॥
सोमम् मनः यस्य समामनन्ति दिवौकसाम् यः बलम् अन्धः आयुः । ईशः नगानाम् प्रजनः प्रजानाम् प्रसीदताम् नः स महा-विभूतिः ॥ ३४ ॥
somam manaḥ yasya samāmananti divaukasām yaḥ balam andhaḥ āyuḥ . īśaḥ nagānām prajanaḥ prajānām prasīdatām naḥ sa mahā-vibhūtiḥ .. 34 ..
अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्तजन्मा । अन्तःसमुद्रेऽनुपचन्स्वधातून् प्रसीदतां नः स महाविभूतिः ॥ ३५ ॥
अग्निः मुखम् यस्य तु जातवेदाः जातः क्रिया-काण्ड-निमित्त-जन्मा । अन्तर् समुद्रे अनुपचन् स्व-धातून् प्रसीदताम् नः स महा-विभूतिः ॥ ३५ ॥
agniḥ mukham yasya tu jātavedāḥ jātaḥ kriyā-kāṇḍa-nimitta-janmā . antar samudre anupacan sva-dhātūn prasīdatām naḥ sa mahā-vibhūtiḥ .. 35 ..
यच्चक्षुरासीत्तरणिर्देवयानं त्रयीमयो ब्रह्मण एष धिष्ण्यम् । द्वारं च मुक्तेरमृतं च मृत्युः प्रसीदतां नः स महाविभूतिः ॥ ३६ ॥
यत् चक्षुः आसीत् तरणिः देव-यानम् त्रयी-मयः ब्रह्मणः एष धिष्ण्यम् । द्वारम् च मुक्तेः अमृतम् च मृत्युः प्रसीदताम् नः स महा-विभूतिः ॥ ३६ ॥
yat cakṣuḥ āsīt taraṇiḥ deva-yānam trayī-mayaḥ brahmaṇaḥ eṣa dhiṣṇyam . dvāram ca mukteḥ amṛtam ca mṛtyuḥ prasīdatām naḥ sa mahā-vibhūtiḥ .. 36 ..
प्राणादभूद् यस्य चराचराणां प्राणः सहो बलमोजश्च वायुः । अन्वास्म सम्राजमिवानुगा वयं प्रसीदतां नः स महाविभूतिः ॥ ३७ ॥
प्राणात् अभूत् यस्य चराचराणाम् प्राणः सहः बलम् ओजः च वायुः । अन्वास्म सम्राजम् इव अनुगाः वयम् प्रसीदताम् नः स महा-विभूतिः ॥ ३७ ॥
prāṇāt abhūt yasya carācarāṇām prāṇaḥ sahaḥ balam ojaḥ ca vāyuḥ . anvāsma samrājam iva anugāḥ vayam prasīdatām naḥ sa mahā-vibhūtiḥ .. 37 ..
श्रोत्राद् दिशो यस्य हृदश्च खानि प्रजज्ञिरे खं पुरुषस्य नाभ्याः । प्राणेन्द्रियात्मासुशरीरकेतः प्रसीदतां नः स महाविभूतिः ॥ ३८ ॥
श्रोत्रात् दिशः यस्य हृदः च खानि प्रजज्ञिरे खम् पुरुषस्य नाभ्याः । प्राण-इन्द्रिय-आत्म-असु-शरीर-केतो प्रसीदताम् नः स महा-विभूतिः ॥ ३८ ॥
śrotrāt diśaḥ yasya hṛdaḥ ca khāni prajajñire kham puruṣasya nābhyāḥ . prāṇa-indriya-ātma-asu-śarīra-keto prasīdatām naḥ sa mahā-vibhūtiḥ .. 38 ..
बलान्महेन्द्रस्त्रिदशाः प्रसादान् मन्योर्गिरीशो धिषणाद्विरिञ्चः । खेभ्यस्तु छन्दांस्यृषयो मेढ्रतः कः प्रसीदतां नः स महाविभूतिः ॥ ३९ ॥
बलात् महेन्द्रः त्रिदशाः प्रसादात् मन्योः गिरीशः धिषणात् विरिञ्चः । खेभ्यः तु छन्दांसि ऋषयः मेढ्रतः कः प्रसीदताम् नः स महा-विभूतिः ॥ ३९ ॥
balāt mahendraḥ tridaśāḥ prasādāt manyoḥ girīśaḥ dhiṣaṇāt viriñcaḥ . khebhyaḥ tu chandāṃsi ṛṣayaḥ meḍhrataḥ kaḥ prasīdatām naḥ sa mahā-vibhūtiḥ .. 39 ..
श्रीर्वक्षसः पितरश्छाययाऽऽसन् धर्मः स्तनादितरः पृष्ठतोऽभूत् । द्यौर्यस्य शीर्ष्णोऽप्सरसो विहारात् प्रसीदतां नः स महाविभूतिः ॥ ४० ॥
श्रीः वक्षसः पितरः छायया आसन् धर्मः स्तनात् इतरः पृष्ठतस् अभूत् । द्यौः यस्य शीर्ष्णः अप्सरसः विहारात् प्रसीदताम् नः स महा-विभूतिः ॥ ४० ॥
śrīḥ vakṣasaḥ pitaraḥ chāyayā āsan dharmaḥ stanāt itaraḥ pṛṣṭhatas abhūt . dyauḥ yasya śīrṣṇaḥ apsarasaḥ vihārāt prasīdatām naḥ sa mahā-vibhūtiḥ .. 40 ..
विप्रो मुखं ब्रह्म च यस्य गुह्यं राजन्य आसीद् भुजयोर्बलं च । ऊर्वोर्विडोजोङ्घ्रिरवेदशूद्रौ प्रसीदतां नः स महाविभूतिः ॥ ४१ ॥
विप्रः मुखम् ब्रह्म च यस्य गुह्यम् राजन्यः आसीत् भुजयोः बलम् च । ऊर्वोः विष् ओजः-ओङ्घ्रिः अ वेद-शूद्रौ प्रसीदताम् नः स महा-विभूतिः ॥ ४१ ॥
vipraḥ mukham brahma ca yasya guhyam rājanyaḥ āsīt bhujayoḥ balam ca . ūrvoḥ viṣ ojaḥ-oṅghriḥ a veda-śūdrau prasīdatām naḥ sa mahā-vibhūtiḥ .. 41 ..
लोभोऽधरात् प्रीतिरुपर्यभूद् द्युतिः नस्तः पशव्यः स्पर्शेन कामः । भ्रुवोर्यमः पक्ष्मभवस्तु कालः प्रसीदतां नः स महाविभूतिः ॥ ४२ ॥
लोभः अधरात् प्रीतिः उपरि अभूत् द्युतिः नस्तस् पशव्यः स्पर्शेन कामः । भ्रुवोः यमः पक्ष्म-भवः तु कालः प्रसीदताम् नः स महा-विभूतिः ॥ ४२ ॥
lobhaḥ adharāt prītiḥ upari abhūt dyutiḥ nastas paśavyaḥ sparśena kāmaḥ . bhruvoḥ yamaḥ pakṣma-bhavaḥ tu kālaḥ prasīdatām naḥ sa mahā-vibhūtiḥ .. 42 ..
द्रव्यं वयः कर्म गुणान्विशेषं यद्योगमायाविहितान्वदन्ति । यद्दुर्विभाव्यं प्रबुधापबाधं प्रसीदतां नः स महाविभूतिः ॥ ४३ ॥
द्रव्यम् वयः कर्म गुणान् विशेषम् यत् योग-माया-विहितान् वदन्ति । यत् दुर्विभाव्यम् प्रबुधा-अपबाधम् प्रसीदताम् नः स महा-विभूतिः ॥ ४३ ॥
dravyam vayaḥ karma guṇān viśeṣam yat yoga-māyā-vihitān vadanti . yat durvibhāvyam prabudhā-apabādham prasīdatām naḥ sa mahā-vibhūtiḥ .. 43 ..
नमोऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभप्रतिपूरितात्मने । गुणेषु मायारचितेषु वृत्तिभिः न सज्जमानाय नभस्वदूतये ॥ ४४ ॥
नमः अस्तु तस्मै उपशान्त-शक्तये स्वा-राज्य-लाभ-प्रतिपूरित-आत्मने । गुणेषु माया-रचितेषु वृत्तिभिः न सज्जमानाय नभस्वत्-ऊतये ॥ ४४ ॥
namaḥ astu tasmai upaśānta-śaktaye svā-rājya-lābha-pratipūrita-ātmane . guṇeṣu māyā-raciteṣu vṛttibhiḥ na sajjamānāya nabhasvat-ūtaye .. 44 ..
(अनुष्टुप्)
स त्वं नो दर्शयात्मानं अस्मत् करणगोचरम् । प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् ॥ ४५ ॥
स त्वम् नः दर्शय आत्मानम् अस्मत् करण-गोचरम् । प्रपन्नानाम् दिदृक्षूणाम् स स्मितम् ते मुख-अम्बुजम् ॥ ४५ ॥
sa tvam naḥ darśaya ātmānam asmat karaṇa-gocaram . prapannānām didṛkṣūṇām sa smitam te mukha-ambujam .. 45 ..
तैस्तैः स्वेच्छाधृतै रूपैः काले काले स्वयं विभो । कर्म दुर्विषहं यन्नो भगवान् तत्करोति हि ॥ ४६ ॥
तैः तैः स्व-इच्छा-धृतैः रूपैः काले काले स्वयम् विभो । कर्म दुर्विषहम् यत् नः भगवान् तत् करोति हि ॥ ४६ ॥
taiḥ taiḥ sva-icchā-dhṛtaiḥ rūpaiḥ kāle kāle svayam vibho . karma durviṣaham yat naḥ bhagavān tat karoti hi .. 46 ..
क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा । देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ ४७ ॥
क्लेश-भूरि-अल्प-साराणि कर्माणि विफलानि वा । देहिनाम् विषय-आर्तानाम् न तथा एव अर्पितम् त्वयि ॥ ४७ ॥
kleśa-bhūri-alpa-sārāṇi karmāṇi viphalāni vā . dehinām viṣaya-ārtānām na tathā eva arpitam tvayi .. 47 ..
नावमः कर्मकल्पोऽपि विफलायेश्वरार्पितः । कल्पते पुरुषस्यैव स ह्यात्मा दयितो हितः ॥ ४८ ॥
न अवमः कर्म-कल्पः अपि विफलाय ईश्वर-अर्पितः । कल्पते पुरुषस्य एव स हि आत्मा दयितः हितः ॥ ४८ ॥
na avamaḥ karma-kalpaḥ api viphalāya īśvara-arpitaḥ . kalpate puruṣasya eva sa hi ātmā dayitaḥ hitaḥ .. 48 ..
यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् । एवं आराधनं विष्णोः सर्वेषां आत्मनश्च हि ॥ ४९ ॥
यथा हि स्कन्ध-शाखानाम् तरोः मूल-अवसेचनम् । एवम् आराधनम् विष्णोः सर्वेषाम् आत्मनः च हि ॥ ४९ ॥
yathā hi skandha-śākhānām taroḥ mūla-avasecanam . evam ārādhanam viṣṇoḥ sarveṣām ātmanaḥ ca hi .. 49 ..
नमस्तुभ्यं अनन्ताय दुर्वितर्क्यात्मकर्मणे । निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् ॥ ५० ॥
नमः तुभ्यम् अनन्ताय दुर्वितर्क्य-आत्म-कर्मणे । निर्गुणाय गुणेशाय सत्त्व-स्थाय च साम्प्रतम् ॥ ५० ॥
namaḥ tubhyam anantāya durvitarkya-ātma-karmaṇe . nirguṇāya guṇeśāya sattva-sthāya ca sāmpratam .. 50 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अमृतमथने पञ्चमोऽध्यायः ॥ ५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे अमृतमथने पञ्चमः अध्यायः ॥ ५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe amṛtamathane pañcamaḥ adhyāyaḥ .. 5 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In