| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

प्राचीनबर्हिरुवाच - (अनुष्टुप्)
भगवंस्ते वचोऽस्माभिः न सम्यक् अवगम्यते । कवयस्तद्विजानन्ति न वयं कर्ममोहिताः ॥ १ ॥
भगवन् ते वचः अस्माभिः न सम्यक् अवगम्यते । कवयः तत् विजानन्ति न वयम् कर्म-मोहिताः ॥ १ ॥
bhagavan te vacaḥ asmābhiḥ na samyak avagamyate . kavayaḥ tat vijānanti na vayam karma-mohitāḥ .. 1 ..
नारद उवाच -
पुरुषं पुरञ्जनं विद्याद् यद् व्यनक्त्यात्मनः पुरम् । एक द्वि त्रि चतुष्पादं बहुपादमपादकम् ॥ २ ॥
पुरुषम् पुरञ्जनम् विद्यात् यत् व्यनक्ति आत्मनः पुरम् । द्वि-त्रि-चतुष्पादम् बहु-पादम् अ पादकम् ॥ २ ॥
puruṣam purañjanam vidyāt yat vyanakti ātmanaḥ puram . dvi-tri-catuṣpādam bahu-pādam a pādakam .. 2 ..
योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वरः । यन्न विज्ञायते पुम्भिः नामभिर्वा क्रियागुणैः ॥ ३ ॥
यः अ विज्ञात-आहृतः तस्य पुरुषस्य सखा ईश्वरः । यत् न विज्ञायते पुम्भिः नामभिः वा क्रिया-गुणैः ॥ ३ ॥
yaḥ a vijñāta-āhṛtaḥ tasya puruṣasya sakhā īśvaraḥ . yat na vijñāyate pumbhiḥ nāmabhiḥ vā kriyā-guṇaiḥ .. 3 ..
यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेर्गुणान् । नवद्वारं द्विहस्ताङ्घ्रि तत्रामनुत साध्विति ॥ ४ ॥
यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेः गुणान् । नव-द्वारम् द्वि-हस्त-अङ्घ्रि तत्र अमनुत साधु इति ॥ ४ ॥
yadā jighṛkṣan puruṣaḥ kārtsnyena prakṛteḥ guṇān . nava-dvāram dvi-hasta-aṅghri tatra amanuta sādhu iti .. 4 ..
बुद्धिं तु प्रमदां विद्यान् ममाहमिति यत्कृतम् । यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽक्षभिर्गुणान् ॥ ५ ॥
बुद्धिम् तु प्रमदाम् विद्यात् मम अहम् इति यत् कृतम् । याम् अधिष्ठाय देहे अस्मिन् पुमान् भुङ्क्ते अक्षभिः गुणान् ॥ ५ ॥
buddhim tu pramadām vidyāt mama aham iti yat kṛtam . yām adhiṣṭhāya dehe asmin pumān bhuṅkte akṣabhiḥ guṇān .. 5 ..
सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम् । सख्यस्तद्वृत्तयः प्राणः पञ्चवृत्तिर्यथोरगः ॥ ॥ ६ ॥
सखायः इन्द्रिय-गणाः ज्ञानम् कर्म च यत् कृतम् । सख्यः तद्-वृत्तयः प्राणः पञ्च-वृत्तिः यथा उरगः ॥ ॥ ६ ॥
sakhāyaḥ indriya-gaṇāḥ jñānam karma ca yat kṛtam . sakhyaḥ tad-vṛttayaḥ prāṇaḥ pañca-vṛttiḥ yathā uragaḥ .. .. 6 ..
बृहद्बलं मनो विद्याद् उभयेन्द्रियनायकम् । पञ्चालाः पञ्च विषया यन्मध्ये नवखं पुरम् ॥ ७ ॥
बृहत्-बलम् मनः विद्यात् उभय-इन्द्रिय-नायकम् । पञ्चालाः पञ्च विषयाः यत् मध्ये नव-खम् पुरम् ॥ ७ ॥
bṛhat-balam manaḥ vidyāt ubhaya-indriya-nāyakam . pañcālāḥ pañca viṣayāḥ yat madhye nava-kham puram .. 7 ..
अक्षिणी नासिके कर्णौ मुखं शिश्नगुदौ इति । द्वे द्वे द्वारौ बहिर्याति यस्तद् इन्द्रियसंयुतः ॥ ८ ॥
अक्षिणी नासिके कर्णौ मुखम् शिश्न-गुदौ इति । द्वे द्वे द्वारौ बहिस् याति यः तत् इन्द्रिय-संयुतः ॥ ८ ॥
akṣiṇī nāsike karṇau mukham śiśna-gudau iti . dve dve dvārau bahis yāti yaḥ tat indriya-saṃyutaḥ .. 8 ..
अक्षिणी नासिके आस्यं इति पञ्च पुरः कृताः । दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः ॥ ९ ॥
अक्षिणी नासिके आस्यम् इति पञ्च पुरः कृताः । दक्षिणा दक्षिणः कर्णः उत्तरा च उत्तरः स्मृतः ॥ ९ ॥
akṣiṇī nāsike āsyam iti pañca puraḥ kṛtāḥ . dakṣiṇā dakṣiṇaḥ karṇaḥ uttarā ca uttaraḥ smṛtaḥ .. 9 ..
पश्चिमे इत्यधो द्वारौ गुदं शिश्नमिहोच्यते । खद्योताऽऽविर्मुखी चात्र नेत्रे एकत्र निर्मिते । रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः ॥ १० ॥
पश्चिमे इति अधस् द्वारौ गुदम् शिश्नम् इह उच्यते । च अत्र नेत्रे एकत्र निर्मिते । रूपम् विभ्राजितम् ताभ्याम् विचष्टे चक्षुषा ईश्वरः ॥ १० ॥
paścime iti adhas dvārau gudam śiśnam iha ucyate . ca atra netre ekatra nirmite . rūpam vibhrājitam tābhyām vicaṣṭe cakṣuṣā īśvaraḥ .. 10 ..
नलिनी नालिनी नासे गन्धः सौरभ उच्यते । घ्राणोऽवधूतो मुख्यास्यं विपणो वाग् रसविद्रसः ॥ ११ ॥
उच्यते । घ्राणः अवधूतः मुख्य-आस्यम् विपणः वाच् रस-विद् रसः ॥ ११ ॥
ucyate . ghrāṇaḥ avadhūtaḥ mukhya-āsyam vipaṇaḥ vāc rasa-vid rasaḥ .. 11 ..
आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् । पितृहूर्दक्षिणः कर्ण उत्तरो देवहूः स्मृतः ॥ १२ ॥
आपणः व्यवहारः अत्र चित्रम् अन्धः बहु-उदनम् । पितृ-हूः दक्षिणः कर्णः उत्तरः देव-हूः स्मृतः ॥ १२ ॥
āpaṇaḥ vyavahāraḥ atra citram andhaḥ bahu-udanam . pitṛ-hūḥ dakṣiṇaḥ karṇaḥ uttaraḥ deva-hūḥ smṛtaḥ .. 12 ..
प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसंज्ञितम् । पितृयानं देवयानं श्रोत्रात् श्रुतधराद्व्रजेत् ॥ १३ ॥
प्रवृत्तम् च निवृत्तम् च शास्त्रम् पञ्चाल-संज्ञितम् । पितृयानम् देव-यानम् श्रोत्रात् श्रुतधरात् व्रजेत् ॥ १३ ॥
pravṛttam ca nivṛttam ca śāstram pañcāla-saṃjñitam . pitṛyānam deva-yānam śrotrāt śrutadharāt vrajet .. 13 ..
आसुरी मेढ्रमर्वाग्द्वाः व्यवायो ग्रामिणां रतिः । उपस्थो दुर्मदः प्रोक्तो निर्ऋतिर्गुद उच्यते ॥ १४ ॥
आसुरी मेढ्रम् अर्वाक् द्वार् व्यवायः ग्रामिणाम् रतिः । उपस्थः दुर्मदः प्रोक्तः निरृतिः गुदः उच्यते ॥ १४ ॥
āsurī meḍhram arvāk dvār vyavāyaḥ grāmiṇām ratiḥ . upasthaḥ durmadaḥ proktaḥ nirṛtiḥ gudaḥ ucyate .. 14 ..
वैशसं नरकं पायुः लुब्धकोऽन्धौ तु मे शृणु । हस्तपादौ पुमांस्ताभ्यां युक्तो याति करोति च ॥ १५ ॥
वैशसम् नरकम् पायुः लुब्धकः अन्धौ तु मे शृणु । हस्त-पादौ पुमान् ताभ्याम् युक्तः याति करोति च ॥ १५ ॥
vaiśasam narakam pāyuḥ lubdhakaḥ andhau tu me śṛṇu . hasta-pādau pumān tābhyām yuktaḥ yāti karoti ca .. 15 ..
अन्तःपुरं च हृदयं विषूचिर्मन उच्यते । तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्गुणैः ॥ १६ ॥
अन्तःपुरम् च हृदयम् विषूचिः मनः उच्यते । तत्र मोहम् प्रसादम् वा हर्षम् प्राप्नोति तद्-गुणैः ॥ १६ ॥
antaḥpuram ca hṛdayam viṣūciḥ manaḥ ucyate . tatra moham prasādam vā harṣam prāpnoti tad-guṇaiḥ .. 16 ..
यथा यथा विक्रियते गुणाक्तो विकरोति वा । तथा तथोपद्रष्टात्मा तद्वृत्तीरनुकार्यते ॥ १७ ॥
यथा यथा विक्रियते गुण-अक्तः विकरोति वा । तथा तथा उपद्रष्टा आत्मा तद्-वृत्तीः अनुकार्यते ॥ १७ ॥
yathā yathā vikriyate guṇa-aktaḥ vikaroti vā . tathā tathā upadraṣṭā ātmā tad-vṛttīḥ anukāryate .. 17 ..
देहो रथस्त्विन्द्रियाश्वः संवत्सररयोऽगतिः । द्विकर्मचक्रस्त्रिगुण ध्वजः पञ्चासुबन्धुरः ॥ १८ ॥
देहः रथः तु इन्द्रिय-अश्वः संवत्सर-रयः अगतिः । ध्वजः पञ्च-असु-बन्धुरः ॥ १८ ॥
dehaḥ rathaḥ tu indriya-aśvaḥ saṃvatsara-rayaḥ agatiḥ . dhvajaḥ pañca-asu-bandhuraḥ .. 18 ..
मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबरः । पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः ॥ १९ ॥
manoraśmirbuddhisūto hṛnnīḍo dvandvakūbaraḥ | pañcendriyārthaprakṣepaḥ saptadhātuvarūthakaḥ || 19 ||
manoraśmirbuddhisūto hṛnnīḍo dvandvakūbaraḥ | pañcendriyārthaprakṣepaḥ saptadhātuvarūthakaḥ || 19 ||
आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति । एकादशेन्द्रियचमूः पञ्चसूनाविनोदकृत् ॥ २० ॥
आकूतिः विक्रमः बाह्यः मृगतृष्णाम् प्रधावति । ॥ २० ॥
ākūtiḥ vikramaḥ bāhyaḥ mṛgatṛṣṇām pradhāvati . .. 20 ..
संवत्सरश्चण्डवेगः कालो येनोपलक्षितः । तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः । हरन्त्यायुः परिक्रान्त्या षष्ट्युत्तरशतत्रयम् ॥ २१ ॥
संवत्सरः चण्ड-वेगः कालः येन उपलक्षितः । तस्य अहानि इह गन्धर्वाः गन्धर्व्यः रात्रयः स्मृताः । हरन्ति आयुः परिक्रान्त्या षष्टि-उत्तर-शत-त्रयम् ॥ २१ ॥
saṃvatsaraḥ caṇḍa-vegaḥ kālaḥ yena upalakṣitaḥ . tasya ahāni iha gandharvāḥ gandharvyaḥ rātrayaḥ smṛtāḥ . haranti āyuḥ parikrāntyā ṣaṣṭi-uttara-śata-trayam .. 21 ..
कालकन्या जरा साक्षात् लोकस्तां नाभिनन्दति । स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः ॥ २२ ॥
काल-कन्या जरा साक्षात् लोकः ताम् न अभिनन्दति । स्वसारम् जगृहे मृत्युः क्षयाय यवन-ईश्वरः ॥ २२ ॥
kāla-kanyā jarā sākṣāt lokaḥ tām na abhinandati . svasāram jagṛhe mṛtyuḥ kṣayāya yavana-īśvaraḥ .. 22 ..
आधयो व्याधयस्तस्य सैनिका यवनाश्चराः । भूतोपसर्गाशुरयः प्रज्वारो द्विविधो ज्वरः ॥ २३ ॥
आधयः व्याधयः तस्य सैनिकाः यवनाः चराः । भूत-उपसर्ग-आशुः अयः प्रज्वारः द्विविधः ज्वरः ॥ २३ ॥
ādhayaḥ vyādhayaḥ tasya sainikāḥ yavanāḥ carāḥ . bhūta-upasarga-āśuḥ ayaḥ prajvāraḥ dvividhaḥ jvaraḥ .. 23 ..
एवं बहुविधैर्दुःखैः दैवभूतात्मसम्भवैः । क्लिश्यमानः शतं वर्षं देहे देही तमोवृतः ॥ २४ ॥
एवम् बहुविधैः दुःखैः दैव-भूत-आत्म-सम्भवैः । क्लिश्यमानः शतम् वर्षम् देहे देही तमः-वृतः ॥ २४ ॥
evam bahuvidhaiḥ duḥkhaiḥ daiva-bhūta-ātma-sambhavaiḥ . kliśyamānaḥ śatam varṣam dehe dehī tamaḥ-vṛtaḥ .. 24 ..
प्राणेन्द्रियमनोधर्मान् आत्मन्यध्यस्य निर्गुणः । शेते कामलवान्ध्यायन् ममाहं इति कर्मकृत् ॥ २५ ॥
प्राण-इन्द्रिय-मनः-धर्मान् आत्मनि अध्यस्य निर्गुणः । शेते कामलवान् ध्यायन् मम अहम् इति कर्म-कृत् ॥ २५ ॥
prāṇa-indriya-manaḥ-dharmān ātmani adhyasya nirguṇaḥ . śete kāmalavān dhyāyan mama aham iti karma-kṛt .. 25 ..
यदा आत्मानं अविज्ञाय भगवन्तं परं गुरुम् । पुरुषस्तु विषज्जेत गुणेषु प्रकृतेः स्वदृक् ॥ २६ ॥
यदा आत्मानम् अ विज्ञाय भगवन्तम् परम् गुरुम् । पुरुषः तु विषज्जेत गुणेषु प्रकृतेः स्वदृश् ॥ २६ ॥
yadā ātmānam a vijñāya bhagavantam param gurum . puruṣaḥ tu viṣajjeta guṇeṣu prakṛteḥ svadṛś .. 26 ..
गुणाभिमानी स तदा कर्माणि कुरुतेऽवशः । शुक्लं कृष्णं लोहितं वा यथाकर्माभिजायते ॥ २७ ॥
गुण-अभिमानी स तदा कर्माणि कुरुते अवशः । शुक्लम् कृष्णम् लोहितम् वा यथाकर्म अभिजायते ॥ २७ ॥
guṇa-abhimānī sa tadā karmāṇi kurute avaśaḥ . śuklam kṛṣṇam lohitam vā yathākarma abhijāyate .. 27 ..
शुक्लात् प्रकाशभूयिष्ठान् लोकान् आप्नोति कर्हिचित् । दुःखोदर्कान् क्रियायासान् तमःशोकोत्कटान् क्वचित् ॥ २८ ॥
शुक्लात् प्रकाश-भूयिष्ठान् लोकान् आप्नोति कर्हिचित् । दुःख-उदर्कान् क्रिया-आयासान् तमः-शोक-उत्कटान् क्वचिद् ॥ २८ ॥
śuklāt prakāśa-bhūyiṣṭhān lokān āpnoti karhicit . duḥkha-udarkān kriyā-āyāsān tamaḥ-śoka-utkaṭān kvacid .. 28 ..
क्वचित् पुमान् क्वचिच्च स्त्री क्वचिद् नोभयमन्धधीः । देवो मनुष्यस्तिर्यग्वा यथाकर्मगुणं भवः ॥ २९ ॥
क्वचिद् पुमान् क्वचिद् च स्त्री क्वचिद् न उभयम् अन्ध-धीः । देवः मनुष्यः तिर्यक् वा यथा कर्म-गुणम् भवः ॥ २९ ॥
kvacid pumān kvacid ca strī kvacid na ubhayam andha-dhīḥ . devaḥ manuṣyaḥ tiryak vā yathā karma-guṇam bhavaḥ .. 29 ..
क्षुत्परीतो यथा दीनः सारमेयो गृहं गृहम् । चरन्विन्दति यद्दिष्टं दण्डमोदनमेव वा ॥ ३० ॥
क्षुध्-परीतः यथा दीनः सारमेयः गृहम् गृहम् । चरन् विन्दति यत् दिष्टम् दण्डम् ओदनम् एव वा ॥ ३० ॥
kṣudh-parītaḥ yathā dīnaḥ sārameyaḥ gṛham gṛham . caran vindati yat diṣṭam daṇḍam odanam eva vā .. 30 ..
तथा कामाशयो जीव उच्चावचपथा भ्रमन् । उपर्यधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् ॥ ३१ ॥
तथा काम-आशयः जीवः उच्चावच-पथा भ्रमन् । उपरि अधस् वा मध्ये वा याति दिष्टम् प्रिय-अप्रियम् ॥ ३१ ॥
tathā kāma-āśayaḥ jīvaḥ uccāvaca-pathā bhraman . upari adhas vā madhye vā yāti diṣṭam priya-apriyam .. 31 ..
दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु । जीवस्य न व्यवच्छेदः स्यात् चेत् तत् प्रतिक्रिया ॥ ३२ ॥
दुःखेषु एकतरेण अपि दैव-भूत-आत्म-हेतुषु । जीवस्य न व्यवच्छेदः स्यात् चेद् तद्-प्रतिक्रिया ॥ ३२ ॥
duḥkheṣu ekatareṇa api daiva-bhūta-ātma-hetuṣu . jīvasya na vyavacchedaḥ syāt ced tad-pratikriyā .. 32 ..
यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् । तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः ॥ ३३ ॥
यथा हि पुरुषः भारम् शिरसा गुरुम् उद्वहन् । तम् स्कन्धेन सः आधत्ते तथा सर्वाः प्रतिक्रियाः ॥ ३३ ॥
yathā hi puruṣaḥ bhāram śirasā gurum udvahan . tam skandhena saḥ ādhatte tathā sarvāḥ pratikriyāḥ .. 33 ..
नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम् । द्वयं ह्यविद्योपसृतं स्वप्ने स्वप्न इवानघ ॥ ३४ ॥
न एकान्ततः प्रतीकारः कर्मणाम् कर्म केवलम् । द्वयम् हि अविद्या-उपसृतम् स्वप्ने स्वप्ने इव अनघ ॥ ३४ ॥
na ekāntataḥ pratīkāraḥ karmaṇām karma kevalam . dvayam hi avidyā-upasṛtam svapne svapne iva anagha .. 34 ..
अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते । मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा ॥ ३५ ॥
अर्थे हि अ विद्यमाने अपि संसृतिः न निवर्तते । मनसा लिङ्ग-रूपेण स्वप्ने विचरतः यथा ॥ ३५ ॥
arthe hi a vidyamāne api saṃsṛtiḥ na nivartate . manasā liṅga-rūpeṇa svapne vicarataḥ yathā .. 35 ..
अथात्मनोऽर्थभूतस्य यतोऽनर्थपरंपरा । संसृतिस्तद्व्यवच्छेदो भक्त्या परमया गुरौ ॥ ३६ ॥
अथ आत्मनः अर्थ-भूतस्य यतस् अनर्थ-परंपरा । संसृतिः तद्-व्यवच्छेदः भक्त्या परमया गुरौ ॥ ३६ ॥
atha ātmanaḥ artha-bhūtasya yatas anartha-paraṃparā . saṃsṛtiḥ tad-vyavacchedaḥ bhaktyā paramayā gurau .. 36 ..
वासुदेवे भगवति भक्तियोगः समाहितः । सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥ ३७ ॥
वासुदेवे भगवति भक्ति-योगः समाहितः । सध्रीचीनेन वैराग्यम् ज्ञानम् च जनयिष्यति ॥ ३७ ॥
vāsudeve bhagavati bhakti-yogaḥ samāhitaḥ . sadhrīcīnena vairāgyam jñānam ca janayiṣyati .. 37 ..
सोऽचिराद् एव राजर्षे स्याद् अच्युतकथाश्रयः । श्रृण्वतः श्रद्दधानस्य नित्यदा स्यादधीयतः ॥ ३८ ॥
सः अचिरात् एव राजर्षे स्यात् अच्युत-कथा-आश्रयः । श्रृण्वतः श्रद्दधानस्य नित्यदा स्यात् अधीयतः ॥ ३८ ॥
saḥ acirāt eva rājarṣe syāt acyuta-kathā-āśrayaḥ . śrṛṇvataḥ śraddadhānasya nityadā syāt adhīyataḥ .. 38 ..
यत्र भागवता राजन्साधवो विशदाशयाः । भगवद्गुणानुकथन श्रवणव्यग्रचेतसः ॥ ३९ ॥
यत्र भागवताः राजन् साधवः विशद-आशयाः । भगवत्-गुण-अनुकथन-श्रवण-व्यग्र-चेतसः ॥ ३९ ॥
yatra bhāgavatāḥ rājan sādhavaḥ viśada-āśayāḥ . bhagavat-guṇa-anukathana-śravaṇa-vyagra-cetasaḥ .. 39 ..
तस्मिन्महन्मुखरिता मधुभिच्चरित्र पीयूषशेषसरितः परितः स्रवन्ति । ता ये पिबन्त्यवितृषो नृप गाढकर्णैः तान्न स्पृशन्त्यशनतृड्भयशोकमोहाः ॥ ४० ॥
तस्मिन् महत्-मुखरिताः पीयूष-शेष-सरितः परितस् स्रवन्ति । ताः ये पिबन्ति अवितृषः नृप गाढ-कर्णैः तान् न स्पृशन्ति अशन-तृष्-भय-शोक-मोहाः ॥ ४० ॥
tasmin mahat-mukharitāḥ pīyūṣa-śeṣa-saritaḥ paritas sravanti . tāḥ ye pibanti avitṛṣaḥ nṛpa gāḍha-karṇaiḥ tān na spṛśanti aśana-tṛṣ-bhaya-śoka-mohāḥ .. 40 ..
(अनुष्टुप्)
एतैरुपद्रुतो नित्यं जीवलोकः स्वभावजैः । न करोति हरेर्नूनं कथामृतनिधौ रतिम् ॥ ४१ ॥
एतैः उपद्रुतः नित्यम् जीव-लोकः स्वभाव-जैः । न करोति हरेः नूनम् कथा-अमृत-निधौ रतिम् ॥ ४१ ॥
etaiḥ upadrutaḥ nityam jīva-lokaḥ svabhāva-jaiḥ . na karoti hareḥ nūnam kathā-amṛta-nidhau ratim .. 41 ..
प्रजापतिपतिः साक्षाद् भगवान् गिरिशो मनुः । दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥ ४२ ॥
प्रजापति-पतिः साक्षात् भगवान् गिरिशः मनुः । दक्ष-आदयः प्रजाध्यक्षाः नैष्ठिकाः सनक-आदयः ॥ ४२ ॥
prajāpati-patiḥ sākṣāt bhagavān giriśaḥ manuḥ . dakṣa-ādayaḥ prajādhyakṣāḥ naiṣṭhikāḥ sanaka-ādayaḥ .. 42 ..
मरीचिः अत्रि अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मवादिनः ॥ ४३ ॥
मरीचिः अत्रि-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । भृगुः वसिष्ठः इति एते मद्-अन्ताः ब्रह्म-वादिनः ॥ ४३ ॥
marīciḥ atri-aṅgirasau pulastyaḥ pulahaḥ kratuḥ . bhṛguḥ vasiṣṭhaḥ iti ete mad-antāḥ brahma-vādinaḥ .. 43 ..
अद्यापि वाचस्पतयः तपोविद्यासमाधिभिः । पश्यन्तोऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् ॥ ४४ ॥
अद्य अपि वाचस्पतयः तपः-विद्या-समाधिभिः । पश्यन्तः अपि न पश्यन्ति पश्यन्तम् परमेश्वरम् ॥ ४४ ॥
adya api vācaspatayaḥ tapaḥ-vidyā-samādhibhiḥ . paśyantaḥ api na paśyanti paśyantam parameśvaram .. 44 ..
शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे । मन्त्रलिङ्गैः व्यवच्छिन्नं भजन्तो न विदुः परम् ॥ ४५ ॥
शब्दब्रह्मणि दुष्पारे चरन्तः उरु-विस्तरे । मन्त्र-लिङ्गैः व्यवच्छिन्नम् भजन्तः न विदुः परम् ॥ ४५ ॥
śabdabrahmaṇi duṣpāre carantaḥ uru-vistare . mantra-liṅgaiḥ vyavacchinnam bhajantaḥ na viduḥ param .. 45 ..
यदा यस्य अनुगृह्णाति भगवान् आत्मभावितः । स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ ४६ ॥
यदा यस्य अनुगृह्णाति भगवान् आत्म-भावितः । स जहाति मतिम् लोके वेदे च परिनिष्ठिताम् ॥ ४६ ॥
yadā yasya anugṛhṇāti bhagavān ātma-bhāvitaḥ . sa jahāti matim loke vede ca pariniṣṭhitām .. 46 ..
तस्मात्कर्मसु बर्हिष्मन् अज्ञानात् अर्थकाशिषु । मार्थदृष्टिं कृथाः श्रोत्र स्पर्शिष्वस्पृष्टवस्तुषु ॥ ४७ ॥
तस्मात् कर्मसु बर्हिष्मन् अज्ञानात् अर्थ-काशिषु । मा अर्थ-दृष्टिम् कृथाः श्रोत्र स्पर्शिषु अ स्पृष्ट-वस्तुषु ॥ ४७ ॥
tasmāt karmasu barhiṣman ajñānāt artha-kāśiṣu . mā artha-dṛṣṭim kṛthāḥ śrotra sparśiṣu a spṛṣṭa-vastuṣu .. 47 ..
स्वं लोकं न विदुस्ते वै यत्र देवो जनार्दनः । आहुर्धूम्रधियो वेदं सकर्मकमतद्विदः ॥ ४८ ॥
स्वम् लोकम् न विदुः ते वै यत्र देवः जनार्दनः । आहुः धूम्र-धियः वेदम् सकर्मकम् अतद्-विदः ॥ ४८ ॥
svam lokam na viduḥ te vai yatra devaḥ janārdanaḥ . āhuḥ dhūmra-dhiyaḥ vedam sakarmakam atad-vidaḥ .. 48 ..
आस्तीर्य दर्भैः प्रागग्रैः कार्त्स्न्येन क्षितिमण्डलम् । स्तब्धो बृहद् वधात् मानी कर्म नावैषि यत्परम् । तत्कर्म हरितोषं यत् सा विद्या तन्मतिर्यया ॥ ४९ ॥
आस्तीर्य दर्भैः प्राच्-अग्रैः कार्त्स्न्येन क्षिति-मण्डलम् । स्तब्धः बृहत् वधात् मानी कर्म न अवैषि यत् परम् । तत् कर्म हरि-तोषम् यत् सा विद्या तद्-मतिः यया ॥ ४९ ॥
āstīrya darbhaiḥ prāc-agraiḥ kārtsnyena kṣiti-maṇḍalam . stabdhaḥ bṛhat vadhāt mānī karma na avaiṣi yat param . tat karma hari-toṣam yat sā vidyā tad-matiḥ yayā .. 49 ..
हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वरः । तत्पादमूलं शरणं यतः क्षेमो नृणामिह ॥ ५० ॥
हरिः देहभृताम् आत्मा स्वयम् प्रकृतिः ईश्वरः । तद्-पाद-मूलम् शरणम् यतस् क्षेमः नृणाम् इह ॥ ५० ॥
hariḥ dehabhṛtām ātmā svayam prakṛtiḥ īśvaraḥ . tad-pāda-mūlam śaraṇam yatas kṣemaḥ nṛṇām iha .. 50 ..
स वै प्रियतमश्चात्मा यतो न भयमण्वपि । इति वेद स वै विद्वान् यो विद्वान् स गुरुर्हरिः ॥ ५१ ॥
स वै प्रियतमः च आत्मा यतस् न भयम् अणु अपि । इति वेद स वै विद्वान् यः विद्वान् स गुरुः हरिः ॥ ५१ ॥
sa vai priyatamaḥ ca ātmā yatas na bhayam aṇu api . iti veda sa vai vidvān yaḥ vidvān sa guruḥ hariḥ .. 51 ..
नारद उवाच -
प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ । अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् ॥ ५२ ॥
प्रश्नः एवम् हि सञ्छिन्नः भवतः पुरुष-ऋषभ । अत्र मे वदतः गुह्यम् निशामय सु निश्चितम् ॥ ५२ ॥
praśnaḥ evam hi sañchinnaḥ bhavataḥ puruṣa-ṛṣabha . atra me vadataḥ guhyam niśāmaya su niścitam .. 52 ..
क्षुद्रं चरं सुमनसां शरणे मिथित्वा रक्तं षडङ्घ्रिगणसामसु लुब्धकर्णम् । अग्रे वृकान् असुतृपोऽविगणय्य यान्तं पृष्ठे मृगं मृगय लुब्धकबाणभिन्नम् ॥ ५३ ॥
क्षुद्रम् चरम् सुमनसाम् शरणे मिथित्वा रक्तम् षडङ्घ्रि-गण-सामसु लुब्ध-कर्णम् । अग्रे वृकान् असुतृपः अ विगणय्य यान्तम् पृष्ठे मृगम् मृगय लुब्धक-बाण-भिन्नम् ॥ ५३ ॥
kṣudram caram sumanasām śaraṇe mithitvā raktam ṣaḍaṅghri-gaṇa-sāmasu lubdha-karṇam . agre vṛkān asutṛpaḥ a vigaṇayya yāntam pṛṣṭhe mṛgam mṛgaya lubdhaka-bāṇa-bhinnam .. 53 ..
पुष्पमधु गन्धवत् क्षुद्रतमं । काम्यकर्मविपाकजं कामसुखलवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनीभूय तद् अभिनिवेशित मनसं । षडङ्घ्रिगण सामगीतवत् अतिमनोहर वनितादि जन आलापेषु अतितरां अति प्रलोभित कर्णमग्रे । वृकयूथवदात्मन आयुर्हरतो अहोरात्रान् तान् काल लव विशेषान् अविगणय्य गृहेषु विहरन्तं पृष्ठत एव । परोक्षमनुप्रवृत्तो लुब्धकः कृतान्तोऽन्तः शरेण यमिह पराविध्यति तं इमं आत्मानमहो । राजन् भिन्नहृदयं द्रष्टुमर्हसीति ॥ ५४ ॥
पुष्प-मधु गन्धवत् क्षुद्रतमम् । काम्य-कर्म-विपाक-जम् काम-सुख-लवम् जैह्वी-औपस्थ्य-आदि विचिन्वन्तम् मिथुनीभूय तत् । षष्-अङ्घ्रि-गण साम-गीतवत् अति मनोहर-वनिता-आदि-जन-आलापेषु अतितराम् अति अग्रे । वृक-यूथ-वत् आत्मनः आयुः हरतः अहोरात्रान् तान् काल-लव-विशेषान् अ विगणय्य गृहेषु विहरन्तम् पृष्ठतस् एव । परोक्षम् अनुप्रवृत्तः लुब्धकः कृतान्तः अन्तर् शरेण यम् इह पराविध्यति तम् इमम् आत्मानम् अहो । राजन् भिन्न-हृदयम् द्रष्टुम् अर्हसि इति ॥ ५४ ॥
puṣpa-madhu gandhavat kṣudratamam . kāmya-karma-vipāka-jam kāma-sukha-lavam jaihvī-aupasthya-ādi vicinvantam mithunībhūya tat . ṣaṣ-aṅghri-gaṇa sāma-gītavat ati manohara-vanitā-ādi-jana-ālāpeṣu atitarām ati agre . vṛka-yūtha-vat ātmanaḥ āyuḥ harataḥ ahorātrān tān kāla-lava-viśeṣān a vigaṇayya gṛheṣu viharantam pṛṣṭhatas eva . parokṣam anupravṛttaḥ lubdhakaḥ kṛtāntaḥ antar śareṇa yam iha parāvidhyati tam imam ātmānam aho . rājan bhinna-hṛdayam draṣṭum arhasi iti .. 54 ..
स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्तः चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते । जह्यङ्गनाश्रममसत् तमयूथगाथं प्रीणीहि हंसशरणं विरम क्रमेण ॥ ५५ ॥
स त्वम् विचक्ष्य मृग-चेष्टितम् आत्मनः अन्तर् चित्तम् नियच्छ हृदि कर्णधुनीम् च चित्ते । जहि अङ्गना-श्रमम् असत् तम् अ यूथ-गाथम् प्रीणीहि हंस-शरणम् विरम क्रमेण ॥ ५५ ॥
sa tvam vicakṣya mṛga-ceṣṭitam ātmanaḥ antar cittam niyaccha hṛdi karṇadhunīm ca citte . jahi aṅganā-śramam asat tam a yūtha-gātham prīṇīhi haṃsa-śaraṇam virama krameṇa .. 55 ..
राजोवाच - (अनुष्टुप्)
श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषत । नैतज्जानन्ति उपाध्यायाः किं न ब्रूयुर्विदुर्यदि ॥ ५६ ॥
श्रुतम् अन्वीक्षितम् ब्रह्मन् भगवान् यत् अभाषत । न एतत् जानन्ति उपाध्यायाः किम् न ब्रूयुः विदुः यदि ॥ ५६ ॥
śrutam anvīkṣitam brahman bhagavān yat abhāṣata . na etat jānanti upādhyāyāḥ kim na brūyuḥ viduḥ yadi .. 56 ..
संशयोऽत्र तु मे विप्र सञ्छिन्नस्तत्कृतो महान् । ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तयः ॥ ५७ ॥
संशयः अत्र तु मे विप्र सञ्छिन्नः तद्-कृतः महान् । ऋषयः अपि हि मुह्यन्ति यत्र न इन्द्रिय-वृत्तयः ॥ ५७ ॥
saṃśayaḥ atra tu me vipra sañchinnaḥ tad-kṛtaḥ mahān . ṛṣayaḥ api hi muhyanti yatra na indriya-vṛttayaḥ .. 57 ..
कर्माण्यारभते येन पुमानिह विहाय तम् । अमुत्रान्येन देहेन जुष्टानि स यदश्नुते ॥ ५८ ॥
कर्माणि आरभते येन पुमान् इह विहाय तम् । अमुत्र अन्येन देहेन जुष्टानि स यत् अश्नुते ॥ ५८ ॥
karmāṇi ārabhate yena pumān iha vihāya tam . amutra anyena dehena juṣṭāni sa yat aśnute .. 58 ..
इति वेदविदां वादः श्रूयते तत्र तत्र ह । कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकाशते ॥ ५९ ॥
इति वेद-विदाम् वादः श्रूयते तत्र तत्र ह । कर्म यत् क्रियते प्रोक्तम् परोक्षम् न प्रकाशते ॥ ५९ ॥
iti veda-vidām vādaḥ śrūyate tatra tatra ha . karma yat kriyate proktam parokṣam na prakāśate .. 59 ..
नारद उवाच -
येनैवारभते कर्म तेनैवामुत्र तत्पुमान् । भुङ्क्ते हि अव्यवधानेन लिङ्गेन मनसा स्वयम् ॥ ६० ॥
येन एव आरभते कर्म तेन एव अमुत्र तत् पुमान् । भुङ्क्ते हि अव्यवधानेन लिङ्गेन मनसा स्वयम् ॥ ६० ॥
yena eva ārabhate karma tena eva amutra tat pumān . bhuṅkte hi avyavadhānena liṅgena manasā svayam .. 60 ..
शयानं इमं उत्सृज्य श्वसन्तं पुरुषो यथा । कर्मात्मन्याहितं भुङ्क्ते तादृशेनेतरेण वा । ॥ ६१ ॥
शयानम् इमम् उत्सृज्य श्वसन्तम् पुरुषः यथा । कर्म-आत्मनि आहितम् भुङ्क्ते तादृशेन इतरेण वा । ॥ ६१ ॥
śayānam imam utsṛjya śvasantam puruṣaḥ yathā . karma-ātmani āhitam bhuṅkte tādṛśena itareṇa vā . .. 61 ..
ममैते मनसा यद्यद् असौ अहं इति ब्रुवन् । गृह्णीयात् तत्पुमान् राद्धं कर्म येन पुनर्भवः ॥ ६२ ॥
मम एते मनसा यत् यत् असौ अहम् इति ब्रुवन् । गृह्णीयात् तत् पुमान् राद्धम् कर्म येन पुनर्भवः ॥ ६२ ॥
mama ete manasā yat yat asau aham iti bruvan . gṛhṇīyāt tat pumān rāddham karma yena punarbhavaḥ .. 62 ..
यथानुमीयते चित्तं उभयैरिन्द्रियेहितैः । एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः ॥ ६३ ॥
यथा अनुमीयते चित्तम् उभयैः इन्द्रिय-ईहितैः । एवम् प्राच्-देह-जम् कर्म लक्ष्यते चित्त-वृत्तिभिः ॥ ६३ ॥
yathā anumīyate cittam ubhayaiḥ indriya-īhitaiḥ . evam prāc-deha-jam karma lakṣyate citta-vṛttibhiḥ .. 63 ..
नानुभूतं क्व चानेन देहेनादृष्टमश्रुतम् । कदाचिद् उपलभ्येत यद् रूपं यादृगात्मनि ॥ ६४ ॥
न अनुभूतम् क्व च अनेन देहेन अदृष्टम् अश्रुतम् । कदाचिद् उपलभ्येत यत् रूपम् यादृश्-आत्मनि ॥ ६४ ॥
na anubhūtam kva ca anena dehena adṛṣṭam aśrutam . kadācid upalabhyeta yat rūpam yādṛś-ātmani .. 64 ..
तेनास्य तादृशं राजन् लिङ्गिनो देहसम्भवम् । श्रद्धत्स्वाननुभूतोऽर्थो न मनः स्प्रष्टुमर्हति ॥ ६५ ॥
तेन अस्य तादृशम् राजन् लिङ्गिनः देह-सम्भवम् । श्रद्धत्स्व अननुभूतः अर्थः न मनः स्प्रष्टुम् अर्हति ॥ ६५ ॥
tena asya tādṛśam rājan liṅginaḥ deha-sambhavam . śraddhatsva ananubhūtaḥ arthaḥ na manaḥ spraṣṭum arhati .. 65 ..
मन एव मनुष्यस्य पूर्वरूपाणि शंसति । भविष्यतश्च भद्रं ते तथैव न भविष्यतः ॥ ६६ ॥
मनः एव मनुष्यस्य पूर्वरूपाणि शंसति । भविष्यतः च भद्रम् ते तथा एव न भविष्यतः ॥ ६६ ॥
manaḥ eva manuṣyasya pūrvarūpāṇi śaṃsati . bhaviṣyataḥ ca bhadram te tathā eva na bhaviṣyataḥ .. 66 ..
अदृष्टमश्रुतं चात्र क्वचित् मनसि दृश्यते । यथा तथानुमन्तव्यं देशकालक्रियाश्रयम् ॥ ६७ ॥
अदृष्टम् अश्रुतम् च अत्र क्वचिद् मनसि दृश्यते । यथा तथा अनुमन्तव्यम् देश-काल-क्रिया-आश्रयम् ॥ ६७ ॥
adṛṣṭam aśrutam ca atra kvacid manasi dṛśyate . yathā tathā anumantavyam deśa-kāla-kriyā-āśrayam .. 67 ..
सर्वे क्रमानुरोधेन मनसीन्द्रियगोचराः । आयान्ति बहुशो यान्ति सर्वे समनसो जनाः ॥ ६८ ॥
सर्वे क्रम-अनुरोधेन मनसि इन्द्रिय-गोचराः । आयान्ति बहुशस् यान्ति सर्वे समनसः जनाः ॥ ६८ ॥
sarve krama-anurodhena manasi indriya-gocarāḥ . āyānti bahuśas yānti sarve samanasaḥ janāḥ .. 68 ..
सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि । तमश्चन्द्रमसीवेदं उपरज्यावभासते ॥ ६९ ॥
सत्त्व-एक-निष्ठे मनसि भगवत्-पार्श्व-वर्तिनि । तमः चन्द्रमसि इव इदम् उपरज्य अवभासते ॥ ६९ ॥
sattva-eka-niṣṭhe manasi bhagavat-pārśva-vartini . tamaḥ candramasi iva idam uparajya avabhāsate .. 69 ..
नाहं ममेति भावोऽयं पुरुषे व्यवधीयते । यावद्बुद्धिमनोऽक्षार्थ गुणव्यूहो ह्यनादिमान् ॥ ७० ॥
न अहम् मम इति भावः अयम् पुरुषे व्यवधीयते । यावत् बुद्धि-मनः-अक्ष-अर्थ गुण-व्यूहः हि अनादिमान् ॥ ७० ॥
na aham mama iti bhāvaḥ ayam puruṣe vyavadhīyate . yāvat buddhi-manaḥ-akṣa-artha guṇa-vyūhaḥ hi anādimān .. 70 ..
सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः । नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥ ७१ ॥
सुप्ति-मूर्च्छा-उपतापेषु प्राणायन-विघाततः । न ईहते अहम् इति ज्ञानम् मृत्यु-प्रज्वारयोः अपि ॥ ७१ ॥
supti-mūrcchā-upatāpeṣu prāṇāyana-vighātataḥ . na īhate aham iti jñānam mṛtyu-prajvārayoḥ api .. 71 ..
गर्भे बाल्येऽप्यपौष्कल्याद् एकादशविधं तदा । लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा ॥ ७२ ॥
गर्भे बाल्ये अपि अ पौष्कल्यात् एकादशविधम् तदा । लिङ्गम् न दृश्यते यूनः कुह्वाम् चन्द्रमसः यथा ॥ ७२ ॥
garbhe bālye api a pauṣkalyāt ekādaśavidham tadā . liṅgam na dṛśyate yūnaḥ kuhvām candramasaḥ yathā .. 72 ..
अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते । ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ७३ ॥
अर्थे हि अ विद्यमाने अपि संसृतिः न निवर्तते । ध्यायतः स्वप्ने अनर्थ-आगमः यथा ॥ ७३ ॥
arthe hi a vidyamāne api saṃsṛtiḥ na nivartate . dhyāyataḥ svapne anartha-āgamaḥ yathā .. 73 ..
एवं पञ्चविधं लिङ्गं त्रिवृत्षोडश विस्तृतम् । एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ७४ ॥
एवम् पञ्चविधम् लिङ्गम् त्रिवृत्-षोडश विस्तृतम् । एष चेतनया युक्तः जीवः इति अभिधीयते ॥ ७४ ॥
evam pañcavidham liṅgam trivṛt-ṣoḍaśa vistṛtam . eṣa cetanayā yuktaḥ jīvaḥ iti abhidhīyate .. 74 ..
अनेन पुरुषो देहान् उपादत्ते विमुञ्चति । हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति ॥ ७५ ॥
अनेन पुरुषः देहान् उपादत्ते विमुञ्चति । हर्षम् शोकम् भयम् दुःखम् सुखम् च अनेन विन्दति ॥ ७५ ॥
anena puruṣaḥ dehān upādatte vimuñcati . harṣam śokam bhayam duḥkham sukham ca anena vindati .. 75 ..
यथा तृणजलूकेयं नापयात्यपयाति च । न त्यजेन्म्रियमाणोऽपि प्राग्देहाभिमतिं जनः ॥ ७६ ॥
यथा तृणजलूका इयम् न अपयाति अपयाति च । न त्यजेत् म्रियमाणः अपि प्राक् देह-अभिमतिम् जनः ॥ ७६ ॥
yathā tṛṇajalūkā iyam na apayāti apayāti ca . na tyajet mriyamāṇaḥ api prāk deha-abhimatim janaḥ .. 76 ..
अदृष्टं दृष्टवन्नङ्क्षेद्भूतं स्वप्नवदन्यथा । भूतं भवद्भविष्यच्च सुप्तं सर्वरहोरहः ॥ ७७ ॥
अदृष्टम् दृष्ट-वत् नङ्क्षेत् भूतम् स्वप्न-वत् अन्यथा । भूतम् भवत् भविष्यत् च सुप्तम् सर्व-रहोरहः ॥ ७७ ॥
adṛṣṭam dṛṣṭa-vat naṅkṣet bhūtam svapna-vat anyathā . bhūtam bhavat bhaviṣyat ca suptam sarva-rahorahaḥ .. 77 ..
यावदन्यं न विन्देत व्यवधानेन कर्मणाम् । मन एव मनुष्येन्द्र भूतानां भवभावनम् ॥ ७७ ॥
यावत् अन्यम् न विन्देत व्यवधानेन कर्मणाम् । मनः एव मनुष्य-इन्द्र भूतानाम् भव-भावनम् ॥ ७७ ॥
yāvat anyam na vindeta vyavadhānena karmaṇām . manaḥ eva manuṣya-indra bhūtānām bhava-bhāvanam .. 77 ..
यदाक्षैश्चरितान् ध्यायन् कर्माण्याचिनुतेऽसकृत् । सति कर्मण्यविद्यायां बन्धः कर्मण्यनात्मनः ॥ ७८ ॥
यदा अक्षैः चरितान् ध्यायन् कर्माणि आचिनुते असकृत् । सति कर्मणि अविद्यायाम् बन्धः कर्मणि अनात्मनः ॥ ७८ ॥
yadā akṣaiḥ caritān dhyāyan karmāṇi ācinute asakṛt . sati karmaṇi avidyāyām bandhaḥ karmaṇi anātmanaḥ .. 78 ..
अतस्तद् अपवादार्थं भज सर्वात्मना हरिम् । पश्यन् तदात्मकं विश्वं स्थित्युत्पत्त्यप्यया यतः ॥ ७९ ॥
अतस् तत् अपवाद-अर्थम् भज सर्व-आत्मना हरिम् । पश्यन् तद्-आत्मकम् विश्वम् स्थिति-उत्पत्ति-अप्ययाः यतस् ॥ ७९ ॥
atas tat apavāda-artham bhaja sarva-ātmanā harim . paśyan tad-ātmakam viśvam sthiti-utpatti-apyayāḥ yatas .. 79 ..
मैत्रेय उवाच -
भागवतमुख्यो भगवान् नारदो हंसयोर्गतिम् । प्रदर्श्य ह्यमुमामन्त्र्य सिद्धलोकं ततोऽगमत् ॥ ८० ॥
भागवत-मुख्यः भगवान् नारदः हंसयोः गतिम् । प्रदर्श्य हि अमुम् आमन्त्र्य सिद्ध-लोकम् ततस् अगमत् ॥ ८० ॥
bhāgavata-mukhyaḥ bhagavān nāradaḥ haṃsayoḥ gatim . pradarśya hi amum āmantrya siddha-lokam tatas agamat .. 80 ..
प्राचीनबर्ही राजर्षिः प्रजासर्गाभिरक्षणे । आदिश्य पुत्रानगमत् तपसे कपिलाश्रमम् ॥ ८१ ॥
। आदिश्य पुत्रान् अगमत् तपसे कपिल-आश्रमम् ॥ ८१ ॥
. ādiśya putrān agamat tapase kapila-āśramam .. 81 ..
तत्रैकाग्रमना धीरो गोविन्द चरणाम्बुजम् । विमुक्तसङ्गोऽनुभजन् भक्त्या तत्साम्यतामगात् ॥ ८२ ॥
तत्र एकाग्र-मनाः धीरः गोविन्द चरण-अम्बुजम् । विमुक्त-सङ्गः अनुभजन् भक्त्या तद्-साम्य-ताम् अगात् ॥ ८२ ॥
tatra ekāgra-manāḥ dhīraḥ govinda caraṇa-ambujam . vimukta-saṅgaḥ anubhajan bhaktyā tad-sāmya-tām agāt .. 82 ..
एतदध्यात्मपारोक्ष्यं गीतं देवर्षिणानघ । यः श्रावयेत् यः श्रृणुयात् स लिङ्गेन विमुच्यते ॥ ८३ ॥
एतत् अध्यात्म-पारोक्ष्यम् गीतम् देव-ऋषिणा अनघ । यः श्रावयेत् यः श्रृणुयात् स लिङ्गेन विमुच्यते ॥ ८३ ॥
etat adhyātma-pārokṣyam gītam deva-ṛṣiṇā anagha . yaḥ śrāvayet yaḥ śrṛṇuyāt sa liṅgena vimucyate .. 83 ..
एतन्मुकुन्दयशसा भुवनं पुनानं देवर्षिवर्यमुखनिःसृतमात्मशौचम् । यः कीर्त्यमानमधिगच्छति पारमेष्ठ्यं नास्मिन् भवे भ्रमति मुक्तसमस्तबन्धः ॥ ८४ ॥
एतत् मुकुन्द-यशसा भुवनम् पुनानम् देव-ऋषि-वर्य-मुख-निःसृतम् आत्म-शौचम् । यः कीर्त्यमानम् अधिगच्छति पारमेष्ठ्यम् न अस्मिन् भवे भ्रमति मुक्त-समस्त-बन्धः ॥ ८४ ॥
etat mukunda-yaśasā bhuvanam punānam deva-ṛṣi-varya-mukha-niḥsṛtam ātma-śaucam . yaḥ kīrtyamānam adhigacchati pārameṣṭhyam na asmin bhave bhramati mukta-samasta-bandhaḥ .. 84 ..
(अनुष्टुप्)
अध्यात्मपारोक्ष्यमिदं मयाधिगतमद्भुतम् । एवं स्त्रियाऽऽश्रमः पुंसश्छिन्नोऽमुत्र च संशयः ॥ ८५ ॥
अध्यात्म-पारोक्ष्यम् इदम् मया अधिगतम् अद्भुतम् । एवम् स्त्रिया आश्रमः पुंसः छिन्नः अमुत्र च संशयः ॥ ८५ ॥
adhyātma-pārokṣyam idam mayā adhigatam adbhutam . evam striyā āśramaḥ puṃsaḥ chinnaḥ amutra ca saṃśayaḥ .. 85 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे प्राचीनबर्हिर्नारदसंवादो मान एकोनत्रिंशोऽध्यायः ॥ २९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे प्राचीनबर्हिः-नारद-संवादः मानः एकोनत्रिंशः अध्यायः ॥ २९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe prācīnabarhiḥ-nārada-saṃvādaḥ mānaḥ ekonatriṃśaḥ adhyāyaḥ .. 29 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In