| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच
ततश्च पौगण्डवयः श्रितौ व्रजे बभूवतुस्तौ पशुपालसम्मतौ । गाश्चारयन्तौ सखिभिः समं पदैर् वृन्दावनं पुण्यमतीव चक्रतुः १
ततस् च पौगण्ड-वयः श्रितौ व्रजे बभूवतुः तौ पशुपाल-सम्मतौ । गाः चारयन्तौ सखिभिः समम् पदैः वृन्दावनम् पुण्यम् अतीव चक्रतुः
tatas ca paugaṇḍa-vayaḥ śritau vraje babhūvatuḥ tau paśupāla-sammatau . gāḥ cārayantau sakhibhiḥ samam padaiḥ vṛndāvanam puṇyam atīva cakratuḥ
तन्माधवो वेणुमुदीरयन्वृतो गोपैर्गृणद्भिः स्वयशो बलान्वितः । पशून्पुरस्कृत्य पशव्यमाविशद्विहर्तुकामः कुसुमाकरं वनम् २
तत् माधवः वेणुम् उदीरयन् वृतः गोपैः गृणद्भिः स्व-यशः बल-अन्वितः । पशून् पुरस्कृत्य पशव्यम् आविशत् विहर्तु-कामः कुसुमाकरम् वनम्
tat mādhavaḥ veṇum udīrayan vṛtaḥ gopaiḥ gṛṇadbhiḥ sva-yaśaḥ bala-anvitaḥ . paśūn puraskṛtya paśavyam āviśat vihartu-kāmaḥ kusumākaram vanam
तन्मञ्जुघोषालिमृगद्विजाकुलं महन्मनःप्रख्यपयःसरस्वता । वातेन जुष्टं शतपत्रगन्धिना निरीक्ष्य रन्तुं भगवान्मनो दधे ३
तत् मञ्जुघोष-अलि-मृग-द्विज-आकुलम् महत्-मनः-प्रख्य-पयः-सरस्वता । वातेन जुष्टम् शतपत्र-गन्धिना निरीक्ष्य रन्तुम् भगवान् मनः दधे
tat mañjughoṣa-ali-mṛga-dvija-ākulam mahat-manaḥ-prakhya-payaḥ-sarasvatā . vātena juṣṭam śatapatra-gandhinā nirīkṣya rantum bhagavān manaḥ dadhe
स तत्र तत्रारुणपल्लवश्रिया फलप्रसूनोरुभरेण पादयोः । स्पृशच्छिखान्वीक्ष्य वनस्पतीन्मुदा स्मयन्निवाहाग्रजमादिपूरुषः ४
स तत्र तत्र अरुण-पल्लव-श्रिया फल-प्रसून-ऊरु-भरेण पादयोः । स्पृशत्-शिखान् वीक्ष्य वनस्पतीन् मुदा स्मयन् इव आह अग्रजम् आदिपूरुषः
sa tatra tatra aruṇa-pallava-śriyā phala-prasūna-ūru-bhareṇa pādayoḥ . spṛśat-śikhān vīkṣya vanaspatīn mudā smayan iva āha agrajam ādipūruṣaḥ
श्रीभगवानुवाच
अहो अमी देववरामरार्चितं पादाम्बुजं ते सुमनःफलार्हणम् । नमन्त्युपादाय शिखाभिरात्मनस्तमोऽपहत्यै तरुजन्म यत्कृतम् ५
अहो अमी देव-वर-अमर-अर्चितम् पाद-अम्बुजम् ते सुमनः-फल-अर्हणम् । नमन्ति उपादाय शिखाभिः आत्मनः तमः-अपहत्यै तरु-जन्म यत् कृतम्
aho amī deva-vara-amara-arcitam pāda-ambujam te sumanaḥ-phala-arhaṇam . namanti upādāya śikhābhiḥ ātmanaḥ tamaḥ-apahatyai taru-janma yat kṛtam
एतेऽलिनस्तव यशोऽखिललोकतीर्थं गायन्त आदिपुरुषानुपथं भजन्ते । प्रायो अमी मुनिगणा भवदीयमुख्या गूढं वनेऽपि न जहत्यनघात्मदैवम् ६
एते अलिनः तव यशः अखिल-लोक-तीर्थम् गायन्तः आदिपुरुष-अनुपथम् भजन्ते । प्रायस् अमी मुनि-गणाः भवदीय-मुख्याः गूढम् वने अपि न जहति अनघ-आत्म-दैवम्
ete alinaḥ tava yaśaḥ akhila-loka-tīrtham gāyantaḥ ādipuruṣa-anupatham bhajante . prāyas amī muni-gaṇāḥ bhavadīya-mukhyāḥ gūḍham vane api na jahati anagha-ātma-daivam
नृत्यन्त्यमी शिखिन ईड्य मुदा हरिण्यः कुर्वन्ति गोप्य इव ते प्रियमीक्षणेन । सूक्तैश्च कोकिलगणा गृहमागताय धन्या वनौकस इयान्हि सतां निसर्गः ७
नृत्यन्ति अमी शिखिनः ईड्य मुदा हरिण्यः कुर्वन्ति गोप्यः इव ते प्रियम् ईक्षणेन । सूक्तैः च कोकिल-गणाः गृहम् आगताय धन्याः वनौकसः इयान् हि सताम् निसर्गः
nṛtyanti amī śikhinaḥ īḍya mudā hariṇyaḥ kurvanti gopyaḥ iva te priyam īkṣaṇena . sūktaiḥ ca kokila-gaṇāḥ gṛham āgatāya dhanyāḥ vanaukasaḥ iyān hi satām nisargaḥ
धन्येयमद्य धरणी तृणवीरुधस्त्वत् पादस्पृशो द्रुमलताः करजाभिमृष्टाः । नद्योऽद्रयः खगमृगाः सदयावलोकैर् गोप्योऽन्तरेण भुजयोरपि यत्स्पृहा श्रीः ८
धन्या इयम् अद्य धरणी तृण-वीरुधः त्वत् पाद-स्पृशः द्रुम-लताः करज-अभिमृष्टाः । नद्यः अद्रयः खग-मृगाः स दया-अवलोकैः गोप्यः अन्तरेण भुजयोः अपि यत् स्पृहा श्रीः
dhanyā iyam adya dharaṇī tṛṇa-vīrudhaḥ tvat pāda-spṛśaḥ druma-latāḥ karaja-abhimṛṣṭāḥ . nadyaḥ adrayaḥ khaga-mṛgāḥ sa dayā-avalokaiḥ gopyaḥ antareṇa bhujayoḥ api yat spṛhā śrīḥ
श्रीशुक उवाच
एवं वृन्दावनं श्रीमत्कृष्णः प्रीतमनाः पशून् । रेमे सञ्चारयन्नद्रेः सरिद्रोधःसु सानुगः ९
एवम् वृन्दावनम् श्रीमत्-कृष्णः प्रीत-मनाः पशून् । रेमे सञ्चारयन् अद्रेः सरित्-रोधःसु स अनुगः
evam vṛndāvanam śrīmat-kṛṣṇaḥ prīta-manāḥ paśūn . reme sañcārayan adreḥ sarit-rodhaḥsu sa anugaḥ
क्वचिद्गायति गायत्सु मदान्धालिष्वनुव्रतैः । उपगीयमानचरितः पथि सङ्कर्षणान्वितः १०
क्वचिद् गायति गायत्सु मद-अन्ध-अलिषु अनुव्रतैः । उपगीयमान-चरितः पथि सङ्कर्षण-अन्वितः
kvacid gāyati gāyatsu mada-andha-aliṣu anuvrataiḥ . upagīyamāna-caritaḥ pathi saṅkarṣaṇa-anvitaḥ
अनुजल्पति जल्पन्तं कलवाक्यैः शुकं क्वचित् । क्वचित्सवल्गु कूजन्तमनुकूजति कोकिलम्
अनुजल्पति जल्पन्तम् कल-वाक्यैः शुकम् क्वचिद् । क्वचिद् स वल्गु कूजन्तम् अनुकूजति कोकिलम्
anujalpati jalpantam kala-vākyaiḥ śukam kvacid . kvacid sa valgu kūjantam anukūjati kokilam
क्वचिच्च कालहंसानामनुकूजति कूजितम् । अभिनृत्यति नृत्यन्तं बर्हिणं हासयन्क्वचित् ११
क्वचिद् च कालहंसानाम् अनुकूजति कूजितम् । अभिनृत्यति नृत्यन्तम् बर्हिणम् हासयन् क्वचिद्
kvacid ca kālahaṃsānām anukūjati kūjitam . abhinṛtyati nṛtyantam barhiṇam hāsayan kvacid
मेघगम्भीरया वाचा नामभिर्दूरगान्पशून् । क्वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया १२
मेघ-गम्भीरया वाचा नामभिः दूर-गान् पशून् । क्वचिद् आह्वयति प्रीत्या गो गोपाल-मनोज्ञया
megha-gambhīrayā vācā nāmabhiḥ dūra-gān paśūn . kvacid āhvayati prītyā go gopāla-manojñayā
चकोरक्रौञ्चचक्राह्व भारद्वाजांश्च बर्हिणः । अनुरौति स्म सत्त्वानां भीतवद्व्याघ्रसिंहयोः १३
चकोर-क्रौञ्च-चक्र-आह्व भारद्वाजान् च बर्हिणः । अनुरौति स्म सत्त्वानाम् भीत-वत् व्याघ्र-सिंहयोः
cakora-krauñca-cakra-āhva bhāradvājān ca barhiṇaḥ . anurauti sma sattvānām bhīta-vat vyāghra-siṃhayoḥ
क्वचित्क्रीडापरिश्रान्तं गोपोत्सङ्गोपबर्हणम् । स्वयं विश्रमयत्यार्यं पादसंवाहनादिभिः १४
क्वचिद् क्रीडा-परिश्रान्तम् गोप-उत्सङ्ग-उपबर्हणम् । स्वयम् विश्रमयति आर्यम् पाद-संवाहन-आदिभिः
kvacid krīḍā-pariśrāntam gopa-utsaṅga-upabarhaṇam . svayam viśramayati āryam pāda-saṃvāhana-ādibhiḥ
नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः । गृहीतहस्तौ गोपालान्हसन्तौ प्रशशंसतुः १५
नृत्यतः गायतः क्वापि वल्गतः युध्यतः मिथस् । गृहीत-हस्तौ गोपालान् हसन्तौ प्रशशंसतुः
nṛtyataḥ gāyataḥ kvāpi valgataḥ yudhyataḥ mithas . gṛhīta-hastau gopālān hasantau praśaśaṃsatuḥ
क्वचित्पल्लवतल्पेषु नियुद्धश्रमकर्शितः । वृक्षमूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः १६
क्वचिद् पल्लव-तल्पेषु नियुद्ध-श्रम-कर्शितः । वृक्ष-मूल-आश्रयः शेते गोप-उत्सङ्ग-उपबर्हणः
kvacid pallava-talpeṣu niyuddha-śrama-karśitaḥ . vṛkṣa-mūla-āśrayaḥ śete gopa-utsaṅga-upabarhaṇaḥ
पादसंवाहनं चक्रुः केचित्तस्य महात्मनः । अपरे हतपाप्मानो व्यजनैः समवीजयन् १७
पाद-संवाहनम् चक्रुः केचिद् तस्य महात्मनः । अपरे हत-पाप्मानः व्यजनैः समवीजयन्
pāda-saṃvāhanam cakruḥ kecid tasya mahātmanaḥ . apare hata-pāpmānaḥ vyajanaiḥ samavījayan
अन्ये तदनुरूपाणि मनोज्ञानि महात्मनः । गायन्ति स्म महाराज स्नेहक्लिन्नधियः शनैः १८
अन्ये तद्-अनुरूपाणि मनोज्ञानि महात्मनः । गायन्ति स्म महा-राज स्नेह-क्लिन्न-धियः शनैस्
anye tad-anurūpāṇi manojñāni mahātmanaḥ . gāyanti sma mahā-rāja sneha-klinna-dhiyaḥ śanais
एवं निगूढात्मगतिः स्वमायया गोपात्मजत्वं चरितैर्विडम्बयन् । रेमे रमालालितपादपल्लवो ग्राम्यैः समं ग्राम्यवदीशचेष्टितः १९
एवम् निगूढ-आत्म-गतिः स्व-मायया गोप-आत्मज-त्वम् चरितैः विडम्बयन् । रेमे रमा-लालित-पाद-पल्लवः ग्राम्यैः समम् ग्राम्य-वत् ईश-चेष्टितः
evam nigūḍha-ātma-gatiḥ sva-māyayā gopa-ātmaja-tvam caritaiḥ viḍambayan . reme ramā-lālita-pāda-pallavaḥ grāmyaiḥ samam grāmya-vat īśa-ceṣṭitaḥ
श्रीदामा नाम गोपालो रामकेशवयोः सखा । सुबलस्तोककृष्णाद्या गोपाः प्रेम्णेदमब्रुवन् २०
श्रीदामा नाम गोपालः राम-केशवयोः सखा । सुबल-स्तोक-कृष्ण-आद्याः गोपाः प्रेम्णा इदम् अब्रुवन्
śrīdāmā nāma gopālaḥ rāma-keśavayoḥ sakhā . subala-stoka-kṛṣṇa-ādyāḥ gopāḥ premṇā idam abruvan
राम राम महाबाहो कृष्ण दुष्टनिबर्हण । इतोऽविदूरे सुमहद्वनं तालालिसङ्कुलम् २१
राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण । इतस् अविदूरे सु महत् वनम् ताल-अलि-सङ्कुलम्
rāma rāma mahā-bāho kṛṣṇa duṣṭa-nibarhaṇa . itas avidūre su mahat vanam tāla-ali-saṅkulam
फलानि तत्र भूरीणि पतन्ति पतितानि च । सन्ति किन्त्ववरुद्धानि धेनुकेन दुरात्मना २२
फलानि तत्र भूरीणि पतन्ति पतितानि च । सन्ति किन्तु अवरुद्धानि धेनुकेन दुरात्मना
phalāni tatra bhūrīṇi patanti patitāni ca . santi kintu avaruddhāni dhenukena durātmanā
सोऽतिवीर्योऽसुरो राम हे कृष्ण खररूपधृक् । आत्मतुल्यबलैरन्यैर्ज्ञातिभिर्बहुभिर्वृतः २३
सः अतिवीर्यः असुरः राम हे कृष्ण खर-रूपधृक् । आत्म-तुल्य-बलैः अन्यैः ज्ञातिभिः बहुभिः वृतः
saḥ ativīryaḥ asuraḥ rāma he kṛṣṇa khara-rūpadhṛk . ātma-tulya-balaiḥ anyaiḥ jñātibhiḥ bahubhiḥ vṛtaḥ
तस्मात्कृतनराहाराद्भीतैर्नृभिरमित्रहन् । न सेव्यते पशुगणैः पक्षिसङ्घैर्विवर्जितम् २४
तस्मात् कृत-नर-आहारात् भीतैः नृभिः अमित्र-हन् । न सेव्यते पशु-गणैः पक्षि-सङ्घैः विवर्जितम्
tasmāt kṛta-nara-āhārāt bhītaiḥ nṛbhiḥ amitra-han . na sevyate paśu-gaṇaiḥ pakṣi-saṅghaiḥ vivarjitam
विद्यन्तेऽभुक्तपूर्वाणि फलानि सुरभीणि च । एष वै सुरभिर्गन्धो विषूचीनोऽवगृह्यते २५
विद्यन्ते अभुक्त-पूर्वाणि फलानि सुरभीणि च । एष वै सुरभिः गन्धः विषूचीनः अवगृह्यते
vidyante abhukta-pūrvāṇi phalāni surabhīṇi ca . eṣa vai surabhiḥ gandhaḥ viṣūcīnaḥ avagṛhyate
प्रयच्छ तानि नः कृष्ण गन्धलोभितचेतसाम् । वाञ्छास्ति महती राम गम्यतां यदि रोचते २६
प्रयच्छ तानि नः कृष्ण गन्ध-लोभित-चेतसाम् । वाञ्छा अस्ति महती राम गम्यताम् यदि रोचते
prayaccha tāni naḥ kṛṣṇa gandha-lobhita-cetasām . vāñchā asti mahatī rāma gamyatām yadi rocate
एवं सुहृद्वचः श्रुत्वा सुहृत्प्रियचिकीर्षया । प्रहस्य जग्मतुर्गोपैर्वृतौ तालवनं प्रभू २७
एवम् सुहृद्-वचः श्रुत्वा सुहृद्-प्रिय-चिकीर्षया । प्रहस्य जग्मतुः गोपैः वृतौ ताल-वनम् प्रभू
evam suhṛd-vacaḥ śrutvā suhṛd-priya-cikīrṣayā . prahasya jagmatuḥ gopaiḥ vṛtau tāla-vanam prabhū
बलः प्रविश्य बाहुभ्यां तालान्सम्परिकम्पयन् । फलानि पातयामास मतङ्गज इवौजसा २८
बलः प्रविश्य बाहुभ्याम् तालान् सम्परिकम्पयन् । फलानि पातयामास मतङ्ग-जः इव ओजसा
balaḥ praviśya bāhubhyām tālān samparikampayan . phalāni pātayāmāsa mataṅga-jaḥ iva ojasā
फलानां पततां शब्दं निशम्यासुररासभः । अभ्यधावत्क्षितितलं सनगं परिकम्पयन् २९
फलानाम् पतताम् शब्दम् निशम्य असुर-रासभः । अभ्यधावत् क्षिति-तलम् स नगम् परिकम्पयन्
phalānām patatām śabdam niśamya asura-rāsabhaḥ . abhyadhāvat kṣiti-talam sa nagam parikampayan
समेत्य तरसा प्रत्यग्द्वाभ्यां पद्भ्यां बलं बली । निहत्योरसि काशब्दं मुञ्चन्पर्यसरत्खलः ३०
समेत्य तरसा प्रत्यक्-द्वाभ्याम् पद्भ्याम् बलम् बली । निहत्य उरसि का-शब्दम् मुञ्चन् पर्यसरत् खलः
sametya tarasā pratyak-dvābhyām padbhyām balam balī . nihatya urasi kā-śabdam muñcan paryasarat khalaḥ
पुनरासाद्य संरब्ध उपक्रोष्टा पराक्स्थितः । चरणावपरौ राजन्बलाय प्राक्षिपद्रुषा ३१
पुनर् आसाद्य संरब्धः उपक्रोष्टा पराच्-स्थितः । चरणौ अपरौ राजन् बलाय प्राक्षिपत् द्रुषा
punar āsādya saṃrabdhaḥ upakroṣṭā parāc-sthitaḥ . caraṇau aparau rājan balāya prākṣipat druṣā
स तं गृहीत्वा प्रपदोर्भ्रामयित्वैकपाणिना । चिक्षेप तृणराजाग्रे भ्रामणत्यक्तजीवितम् ३२
स तम् गृहीत्वा प्रपदोः भ्रामयित्वा एक-पाणिना । चिक्षेप तृणराज-अग्रे भ्रामण-त्यक्त-जीवितम्
sa tam gṛhītvā prapadoḥ bhrāmayitvā eka-pāṇinā . cikṣepa tṛṇarāja-agre bhrāmaṇa-tyakta-jīvitam
तेनाहतो महातालो वेपमानो बृहच्छिराः । पार्श्वस्थं कम्पयन्भग्नः स चान्यं सोऽपि चापरम् ३३
तेन आहतः महा-तालः वेपमानः बृहत्-शिराः । पार्श्व-स्थम् कम्पयन् भग्नः स च अन्यम् सः अपि च अपरम्
tena āhataḥ mahā-tālaḥ vepamānaḥ bṛhat-śirāḥ . pārśva-stham kampayan bhagnaḥ sa ca anyam saḥ api ca aparam
बलस्य लीलयोत्सृष्ट खरदेहहताहताः । तालाश्चकम्पिरे सर्वे महावातेरिता इव ३४
बलस्य खर-देह-हत-आहताः । तालाः चकम्पिरे सर्वे महा-वात-ईरिताः इव
balasya khara-deha-hata-āhatāḥ . tālāḥ cakampire sarve mahā-vāta-īritāḥ iva
नैतच्चित्रं भगवति ह्यनन्ते जगदीश्वरे । ओतप्रोतमिदं यस्मिंस्तन्तुष्वङ्ग यथा पटः ३५
न एतत् चित्रम् भगवति हि अनन्ते जगत्-ईश्वरे । ओतप्रोतम् इदम् यस्मिन् तन्तुषु अङ्ग यथा पटः
na etat citram bhagavati hi anante jagat-īśvare . otaprotam idam yasmin tantuṣu aṅga yathā paṭaḥ
ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये । क्रोष्टारोऽभ्यद्रवन्सर्वे संरब्धा हतबान्धवाः ३६
ततस् कृष्णम् च रामम् च ज्ञातयः धेनुकस्य ये । क्रोष्टारः अभ्यद्रवन् सर्वे संरब्धाः हत-बान्धवाः
tatas kṛṣṇam ca rāmam ca jñātayaḥ dhenukasya ye . kroṣṭāraḥ abhyadravan sarve saṃrabdhāḥ hata-bāndhavāḥ
तांस्तानापततः कृष्णो रामश्च नृपलीलया । गृहीतपश्चाच्चरणान्प्राहिणोत्तृणराजसु ३७
तान् तान् आपततः कृष्णः रामः च नृप-लीलया । गृहीत-पश्चात् चरणान् प्राहिणोत् तृण-राजसु
tān tān āpatataḥ kṛṣṇaḥ rāmaḥ ca nṛpa-līlayā . gṛhīta-paścāt caraṇān prāhiṇot tṛṇa-rājasu
फलप्रकरसङ्कीर्णं दैत्यदेहैर्गतासुभिः । रराज भूः सतालाग्रैर्घनैरिव नभस्तलम् ३८
फल-प्रकर-सङ्कीर्णम् दैत्य-देहैः गतासुभिः । रराज भूः स ताल-अग्रैः घनैः इव नभस्तलम्
phala-prakara-saṅkīrṇam daitya-dehaiḥ gatāsubhiḥ . rarāja bhūḥ sa tāla-agraiḥ ghanaiḥ iva nabhastalam
तयोस्तत्सुमहत्कर्म निशम्य विबुधादयः । मुमुचुः पुष्पवर्षाणि चक्रुर्वाद्यानि तुष्टुवुः ३९
तयोः तत् सु महत् कर्म निशम्य विबुध-आदयः । मुमुचुः पुष्प-वर्षाणि चक्रुः वाद्यानि तुष्टुवुः
tayoḥ tat su mahat karma niśamya vibudha-ādayaḥ . mumucuḥ puṣpa-varṣāṇi cakruḥ vādyāni tuṣṭuvuḥ
अथ तालफलान्यादन्मनुष्या गतसाध्वसाः । तृणं च पशवश्चेरुर्हतधेनुककानने ४०
अथ ताल-फलानि आदन्-मनुष्याः गत-साध्वसाः । तृणम् च पशवः चेरुः हत-धेनुक-कानने
atha tāla-phalāni ādan-manuṣyāḥ gata-sādhvasāḥ . tṛṇam ca paśavaḥ ceruḥ hata-dhenuka-kānane
कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः । स्तूयमानोऽनुगैर्गोपैः साग्रजो व्रजमाव्रजत् ४१
। स्तूयमानः अनुगैः गोपैः स अग्रजः व्रजम् आव्रजत्
. stūyamānaḥ anugaiḥ gopaiḥ sa agrajaḥ vrajam āvrajat
तं गोरजश्छुरितकुन्तलबद्धबर्ह वन्यप्रसूनरुचिरेक्षणचारुहासम् । वेणुम्क्वणन्तमनुगैरुपगीतकीर्तिं गोप्यो दिदृक्षितदृशोऽभ्यगमन्समेताः ४२
तम् गो-रजः-छुरित-कुन्तल-बद्ध-बर्ह वन्य-प्रसून-रुचिर-ईक्षण-चारु-हासम् । वेणुम् क्वणन्तम् अनुगैः उपगीत-कीर्तिम् गोप्यः दिदृक्षित-दृशः अभ्यगमन् समेताः
tam go-rajaḥ-churita-kuntala-baddha-barha vanya-prasūna-rucira-īkṣaṇa-cāru-hāsam . veṇum kvaṇantam anugaiḥ upagīta-kīrtim gopyaḥ didṛkṣita-dṛśaḥ abhyagaman sametāḥ
पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गैस् तापं जहुर्विरहजं व्रजयोषितोऽह्नि । तत्सत्कृतिं समधिगम्य विवेश गोष्ठं सव्रीडहासविनयं यदपाङ्गमोक्षम् ४३
पीत्वा मुकुन्द-मुख-सारघ-मक्षि-भृङ्गैः तापम् जहुः विरह-जम् व्रज-योषितः अह्नि । तद्-सत्कृतिम् समधिगम्य विवेश गोष्ठम् स व्रीड-हास-विनयम् यत् अपाङ्ग-मोक्षम्
pītvā mukunda-mukha-sāragha-makṣi-bhṛṅgaiḥ tāpam jahuḥ viraha-jam vraja-yoṣitaḥ ahni . tad-satkṛtim samadhigamya viveśa goṣṭham sa vrīḍa-hāsa-vinayam yat apāṅga-mokṣam
तयोर्यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले । यथाकामं यथाकालं व्यधत्तां परमाशिषः ४४
तयोः यशोदा-रोहिण्यौ पुत्रयोः पुत्र-वत्सले । यथाकामम् यथाकालम् व्यधत्ताम् परम-आशिषः
tayoḥ yaśodā-rohiṇyau putrayoḥ putra-vatsale . yathākāmam yathākālam vyadhattām parama-āśiṣaḥ
गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभिः । नीवीं वसित्वा रुचिरां दिव्यस्रग्गन्धमण्डितौ ४५
गत-अध्वान-श्रमौ तत्र मज्जन-उन्मर्दन-आदिभिः । नीवीम् वसित्वा रुचिराम् दिव्य-स्रज्-गन्ध-मण्डितौ
gata-adhvāna-śramau tatra majjana-unmardana-ādibhiḥ . nīvīm vasitvā rucirām divya-sraj-gandha-maṇḍitau
जनन्युपहृतं प्राश्य स्वाद्वन्नमुपलालितौ । संविश्य वरशय्यायां सुखं सुषुपतुर्व्रजे ४६
जननी-उपहृतम् प्राश्य स्वादु अन्नम् उपलालितौ । संविश्य वर-शय्यायाम् सुखम् सुषुपतुः व्रजे
jananī-upahṛtam prāśya svādu annam upalālitau . saṃviśya vara-śayyāyām sukham suṣupatuḥ vraje
एवं स भगवान्कृष्णो वृन्दावनचरः क्वचित् । ययौ राममृते राजन्कालिन्दीं सखिभिर्वृतः ४७
एवम् स भगवान् कृष्णः वृन्दावन-चरः क्वचिद् । ययौ रामम् ऋते राजन् कालिन्दीम् सखिभिः वृतः
evam sa bhagavān kṛṣṇaḥ vṛndāvana-caraḥ kvacid . yayau rāmam ṛte rājan kālindīm sakhibhiḥ vṛtaḥ
अथ गावश्च गोपाश्च निदाघातपपीडिताः । दुष्टं जलं पपुस्तस्यास्तृष्णार्ता विषदूषितम् ४८
अथ गावः च गोपाः च निदाघ-आतप-पीडिताः । दुष्टम् जलम् पपुः तस्याः तृष्णा-आर्ताः विष-दूषितम्
atha gāvaḥ ca gopāḥ ca nidāgha-ātapa-pīḍitāḥ . duṣṭam jalam papuḥ tasyāḥ tṛṣṇā-ārtāḥ viṣa-dūṣitam
विषाम्भस्तदुपस्पृश्य दैवोपहतचेतसः । निपेतुर्व्यसवः सर्वे सलिलान्ते कुरूद्वह ४९
विष-अम्भः तत् उपस्पृश्य दैव-उपहत-चेतसः । निपेतुः व्यसवः सर्वे सलिल-अन्ते कुरु-उद्वह
viṣa-ambhaḥ tat upaspṛśya daiva-upahata-cetasaḥ . nipetuḥ vyasavaḥ sarve salila-ante kuru-udvaha
वीक्ष्य तान्वै तथाभूतान्कृष्णो योगेश्वरेश्वरः । ईक्षयामृतवर्षिण्या स्वनाथान्समजीवयत् ५०
वीक्ष्य तान् वै तथाभूतान् कृष्णः योगेश्वर-ईश्वरः । ईक्षया अमृत-वर्षिण्या स्व-नाथान् समजीवयत्
vīkṣya tān vai tathābhūtān kṛṣṇaḥ yogeśvara-īśvaraḥ . īkṣayā amṛta-varṣiṇyā sva-nāthān samajīvayat
ते सम्प्रतीतस्मृतयः समुत्थाय जलान्तिकात् । आसन्सुविस्मिताः सर्वे वीक्षमाणाः परस्परम् ५१
ते सम्प्रतीत-स्मृतयः समुत्थाय जल-अन्तिकात् । आसन् सु विस्मिताः सर्वे वीक्षमाणाः परस्परम्
te sampratīta-smṛtayaḥ samutthāya jala-antikāt . āsan su vismitāḥ sarve vīkṣamāṇāḥ parasparam
अन्वमंसत तद्राजन्गोविन्दानुग्रहेक्षितम् । पीत्वा विषं परेतस्य पुनरुत्थानमात्मनः ५२
अन्वमंसत तत् राजन् गोविन्द-अनुग्रह-ईक्षितम् । पीत्वा विषम् परेतस्य पुनर् उत्थानम् आत्मनः
anvamaṃsata tat rājan govinda-anugraha-īkṣitam . pītvā viṣam paretasya punar utthānam ātmanaḥ
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे धेनुकवधो नाम पञ्चदशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे धेनुकवधः नाम पञ्चदशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe dhenukavadhaḥ nāma pañcadaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In