| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणीः । स्वैरं चरन्त्यो विविशुः तृणलोभेन गह्वरम् ॥ १ ॥
क्रीडा-सक्तेषु गोपेषु तत् गावः दूर-चारिणीः । स्वैरम् चरन्त्यः विविशुः तृण-लोभेन गह्वरम् ॥ १ ॥
krīḍā-sakteṣu gopeṣu tat gāvaḥ dūra-cāriṇīḥ . svairam carantyaḥ viviśuḥ tṛṇa-lobhena gahvaram .. 1 ..
अजा गावो महिष्यश्च निर्विशन्त्यो वनाद् वनम् । ईषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः ॥ २ ॥
अजाः गावः महिष्यः च निर्विशन्त्यः वनात् वनम् । ईषीका-अटवीम् निर्विविशुः क्रन्दन्त्यः दाव-तर्षिताः ॥ २ ॥
ajāḥ gāvaḥ mahiṣyaḥ ca nirviśantyaḥ vanāt vanam . īṣīkā-aṭavīm nirviviśuḥ krandantyaḥ dāva-tarṣitāḥ .. 2 ..
तेऽपश्यन्तः पशून् गोपाः कृष्णरामादयस्तदा । जातानुतापा न विदुः विचिन्वन्तो गवां गतिम् ॥ ३ ॥
ते अपश्यन्तः पशून् गोपाः कृष्ण-राम-आदयः तदा । जात-अनुतापाः न विदुः विचिन्वन्तः गवाम् गतिम् ॥ ३ ॥
te apaśyantaḥ paśūn gopāḥ kṛṣṇa-rāma-ādayaḥ tadā . jāta-anutāpāḥ na viduḥ vicinvantaḥ gavām gatim .. 3 ..
तृणैस्तत्खुरदच्छिन्नैः गोष्पदैः अंकितैर्गवाम् । मार्गं अन्वगमन् सर्वे नष्टाजीव्या विचेतसः ॥ ४ ॥
तृणैः तद्-खुर-द-छिन्नैः गोष्पदैः अंकितैः गवाम् । मार्गम् अन्वगमन् सर्वे नष्ट-आजीव्याः विचेतसः ॥ ४ ॥
tṛṇaiḥ tad-khura-da-chinnaiḥ goṣpadaiḥ aṃkitaiḥ gavām . mārgam anvagaman sarve naṣṭa-ājīvyāḥ vicetasaḥ .. 4 ..
मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम् । सम्प्राप्य तृषिताः श्रान्ताः ततस्ते संन्यवर्तयन् ॥ ५ ॥
मुञ्ज-अटव्याम् भ्रष्ट-मार्गम् क्रन्दमानम् स्व-गो-धनम् । सम्प्राप्य तृषिताः श्रान्ताः ततस् ते संन्यवर्तयन् ॥ ५ ॥
muñja-aṭavyām bhraṣṭa-mārgam krandamānam sva-go-dhanam . samprāpya tṛṣitāḥ śrāntāḥ tatas te saṃnyavartayan .. 5 ..
ता आहूता भगवता मेघगम्भीरया गिरा । स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः ॥ ६ ॥
ताः आहूताः भगवता मेघ-गम्भीरया गिरा । स्व-नाम्नाम् निनदम् श्रुत्वा प्रतिनेदुः प्रहर्षिताः ॥ ६ ॥
tāḥ āhūtāḥ bhagavatā megha-gambhīrayā girā . sva-nāmnām ninadam śrutvā pratineduḥ praharṣitāḥ .. 6 ..
( मिश्र )
ततः समन्ताद् वनधूमकेतुः यदृच्छयाभूत् क्षयकृत् वनौकसाम् । समीरितः सारथिनोल्बणोल्मुकैः विलेलिहानः स्थिरजङ्गमान् महान् ॥ ७ ॥
ततस् समन्तात् वन-धूमकेतुः यदृच्छया अभूत् क्षय-कृत् वनौकसाम् । समीरितः सारथिना उल्बण-उल्मुकैः विलेलिहानः स्थिर-जङ्गमान् महान् ॥ ७ ॥
tatas samantāt vana-dhūmaketuḥ yadṛcchayā abhūt kṣaya-kṛt vanaukasām . samīritaḥ sārathinā ulbaṇa-ulmukaiḥ vilelihānaḥ sthira-jaṅgamān mahān .. 7 ..
तं आपतन्तं परितो दवाग्निं गोपाश्च गावः प्रसमीक्ष्य भीताः । ऊचुश्च कृष्णं सबलं प्रपन्ना यथा हरिं मृत्युभयार्दिता जनाः ॥ ८ ॥
तम् आपतन्तम् परितस् दव-अग्निम् गोपाः च गावः प्रसमीक्ष्य भीताः । ऊचुः च कृष्णम् स बलम् प्रपन्नाः यथा हरिम् मृत्यु-भय-अर्दिताः जनाः ॥ ८ ॥
tam āpatantam paritas dava-agnim gopāḥ ca gāvaḥ prasamīkṣya bhītāḥ . ūcuḥ ca kṛṣṇam sa balam prapannāḥ yathā harim mṛtyu-bhaya-arditāḥ janāḥ .. 8 ..
( अनुष्टुप् )
कृष्ण कृष्ण महावीर हे रामामित विक्रम । दावाग्निना दह्यमानान् प्रपन्नान् त्रातुमर्हथः ॥ ९ ॥
कृष्ण कृष्ण महावीर हे राम अमित-विक्रम । दाव-अग्निना दह्यमानान् प्रपन्नान् त्रातुम् अर्हथः ॥ ९ ॥
kṛṣṇa kṛṣṇa mahāvīra he rāma amita-vikrama . dāva-agninā dahyamānān prapannān trātum arhathaḥ .. 9 ..
नूनं त्वद्बान्धवाः कृष्ण न चार्हन्त्यवसीदितुम् । वयं हि सर्वधर्मज्ञ त्वन्नाथाः त्वत्परायणाः ॥ १० ॥
नूनम् त्वद्-बान्धवाः कृष्ण न च अर्हन्ति अवसीदितुम् । वयम् हि सर्व-धर्म-ज्ञ त्वद्-नाथाः त्वद्-परायणाः ॥ १० ॥
nūnam tvad-bāndhavāḥ kṛṣṇa na ca arhanti avasīditum . vayam hi sarva-dharma-jña tvad-nāthāḥ tvad-parāyaṇāḥ .. 10 ..
श्रीशुक उवाच ।
वचो निशम्य कृपणं बन्धूनां भगवान् हरिः । निमीलयत मा भैष्ट लोचनानीत्यभाषत ॥ ११ ॥
वचः निशम्य कृपणम् बन्धूनाम् भगवान् हरिः । निमीलयत मा भैष्ट लोचनानि इति अभाषत ॥ ११ ॥
vacaḥ niśamya kṛpaṇam bandhūnām bhagavān hariḥ . nimīlayata mā bhaiṣṭa locanāni iti abhāṣata .. 11 ..
तथेति मीलिताक्षेषु भगवान् अग्निमुल्बणम् । पीत्वा मुखेन तान्कृच्छ्राद् योगाधीशो व्यमोचयत् ॥ १२ ॥
तथा इति मीलित-अक्षेषु भगवान् अग्निम् उल्बणम् । पीत्वा मुखेन तान् कृच्छ्रात् योग-अधीशः व्यमोचयत् ॥ १२ ॥
tathā iti mīlita-akṣeṣu bhagavān agnim ulbaṇam . pītvā mukhena tān kṛcchrāt yoga-adhīśaḥ vyamocayat .. 12 ..
ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः । निशाम्य विस्मिता आसन् आत्मानं गाश्च मोचिताः ॥ १३ ॥
ततस् च ते अक्षीणि उन्मील्य पुनर् भाण्डीर-मापिताः । निशाम्य विस्मिताः आसन् आत्मानम् गाः च मोचिताः ॥ १३ ॥
tatas ca te akṣīṇi unmīlya punar bhāṇḍīra-māpitāḥ . niśāmya vismitāḥ āsan ātmānam gāḥ ca mocitāḥ .. 13 ..
कृष्णस्य योगवीर्यं तद् योगमायानुभावितम् । दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम् ॥ १४ ॥
कृष्णस्य योग-वीर्यम् तत् योगमाया-अनुभावितम् । दाव-अग्नेः आत्मनः क्षेमम् वीक्ष्य ते मेनिरे अमरम् ॥ १४ ॥
kṛṣṇasya yoga-vīryam tat yogamāyā-anubhāvitam . dāva-agneḥ ātmanaḥ kṣemam vīkṣya te menire amaram .. 14 ..
गाः सन्निवर्त्य सायाह्ने सहरामो जनार्दनः । वेणुं विरणयन् गोष्ठं अगाद् गोपैरभिष्टुतः ॥ १५ ॥
गाः सन् निवर्त्य सायाह्ने सहरामः जनार्दनः । वेणुम् विरणयन् गोष्ठम् अगात् गोपैः अभिष्टुतः ॥ १५ ॥
gāḥ san nivartya sāyāhne saharāmaḥ janārdanaḥ . veṇum viraṇayan goṣṭham agāt gopaiḥ abhiṣṭutaḥ .. 15 ..
गोपीनां परमानन्द आसीद् गोविन्ददर्शने । क्षणं युगशतमिव यासां येन विनाभवत् ॥ १६ ॥
गोपीनाम् परम-आनन्दः आसीत् गोविन्द-दर्शने । क्षणम् युग-शतम् इव यासाम् येन विना अभवत् ॥ १६ ॥
gopīnām parama-ānandaḥ āsīt govinda-darśane . kṣaṇam yuga-śatam iva yāsām yena vinā abhavat .. 16 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकोनविंशोऽध्यायः ॥ १९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे एकोनविंशः अध्यायः ॥ १९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe ekonaviṃśaḥ adhyāyaḥ .. 19 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In