| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
भगवानपि तत्रैव बलदेवेन संयुतः । अपश्यत् निवसन् गोपान् इन्द्रयागकृतोद्यमान् ॥ १ ॥
भगवान् अपि तत्र एव बलदेवेन संयुतः । अपश्यत् निवसन् गोपान् इन्द्र-याग-कृत-उद्यमान् ॥ १ ॥
bhagavān api tatra eva baladevena saṃyutaḥ . apaśyat nivasan gopān indra-yāga-kṛta-udyamān .. 1 ..
तदभिज्ञोऽपि भगवान् सर्वात्मा सर्वदर्शनः । प्रश्रयावनतोऽपृच्छत् वृद्धान् नन्दपुरोगमान् ॥ २ ॥
तद्-अभिज्ञः अपि भगवान् सर्व-आत्मा सर्व-दर्शनः । प्रश्रय-अवनतः अपृच्छत् वृद्धान् नन्द-पुरोगमान् ॥ २ ॥
tad-abhijñaḥ api bhagavān sarva-ātmā sarva-darśanaḥ . praśraya-avanataḥ apṛcchat vṛddhān nanda-purogamān .. 2 ..
कथ्यतां मे पितः कोऽयं सम्भ्रमो व उपागतः । किं फलं कस्य चोद्देशः केन वा साध्यते मखः ॥ ३ ॥
कथ्यताम् मे पितर् कः अयम् सम्भ्रमः वः उपागतः । किम् फलम् कस्य च उद्देशः केन वा साध्यते मखः ॥ ३ ॥
kathyatām me pitar kaḥ ayam sambhramaḥ vaḥ upāgataḥ . kim phalam kasya ca uddeśaḥ kena vā sādhyate makhaḥ .. 3 ..
एतद्ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः । न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनामिह ॥ ४ ॥
एतत् ब्रूहि महान् कामः मह्यम् शुश्रूषवे पितर् । न हि गोप्यम् हि साधूनाम् कृत्यम् सर्व-आत्मनाम् इह ॥ ४ ॥
etat brūhi mahān kāmaḥ mahyam śuśrūṣave pitar . na hi gopyam hi sādhūnām kṛtyam sarva-ātmanām iha .. 4 ..
अस्त्यस्व-परदृष्टीनां अमित्रोदास्तविद्विषाम् । उदासीनोऽरिवद् वर्ज्य आत्मवत् सुहृदुच्यते ॥ ५ ॥
अस्ति-अस्व-पर-दृष्टीनाम् अमित्र-उदास्त-विद्विषाम् । उदासीनः अरि-वत् वर्ज्यः आत्म-वत् सुहृद् उच्यते ॥ ५ ॥
asti-asva-para-dṛṣṭīnām amitra-udāsta-vidviṣām . udāsīnaḥ ari-vat varjyaḥ ātma-vat suhṛd ucyate .. 5 ..
ज्ञात्वाज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति । विदुषः कर्मसिद्धिः स्यात् तथा नाविदुषो भवेत् ॥ ६ ॥
ज्ञात्वा अ ज्ञात्वा च कर्माणि जनः अयम् अनुतिष्ठति । विदुषः कर्म-सिद्धिः स्यात् तथा न अ विदुषः भवेत् ॥ ६ ॥
jñātvā a jñātvā ca karmāṇi janaḥ ayam anutiṣṭhati . viduṣaḥ karma-siddhiḥ syāt tathā na a viduṣaḥ bhavet .. 6 ..
तत्र तावत् क्रियायोगो भवतां किं विचारितः । अथ वा लौकिकस्तन्मे पृच्छतः साधु भण्यताम् ॥ ७ ॥
तत्र तावत् क्रिया-योगः भवताम् किम् विचारितः । अथ वा लौकिकः तत् मे पृच्छतः साधु भण्यताम् ॥ ७ ॥
tatra tāvat kriyā-yogaḥ bhavatām kim vicāritaḥ . atha vā laukikaḥ tat me pṛcchataḥ sādhu bhaṇyatām .. 7 ..
श्रीनन्द उवाच -
पर्जन्यो भगवान् इन्द्रो मेघास्तस्यात्ममूर्तयः । तेऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ॥ ८ ॥
पर्जन्यः भगवान् इन्द्रः मेघाः तस्य आत्म-मूर्तयः । ते अभिवर्षन्ति भूतानाम् प्रीणनम् जीवनम् पयः ॥ ८ ॥
parjanyaḥ bhagavān indraḥ meghāḥ tasya ātma-mūrtayaḥ . te abhivarṣanti bhūtānām prīṇanam jīvanam payaḥ .. 8 ..
तं तात वयमन्ये च वार्मुचां पतिमीश्वरम् । द्रव्यैस्तद् रेतसा सिद्धैः यजन्ते क्रतुभिर्नराः ॥ ९ ॥
तम् तात वयम् अन्ये च वार्मुचाम् पतिम् ईश्वरम् । द्रव्यैः तत् रेतसा सिद्धैः यजन्ते क्रतुभिः नराः ॥ ९ ॥
tam tāta vayam anye ca vārmucām patim īśvaram . dravyaiḥ tat retasā siddhaiḥ yajante kratubhiḥ narāḥ .. 9 ..
तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे । पुंसां पुरुषकाराणां पर्जन्यः फलभावनः ॥ १० ॥
तद्-शेषेण उपजीवन्ति त्रिवर्ग-फल-हेतवे । पुंसाम् पुरुषकाराणाम् पर्जन्यः फल-भावनः ॥ १० ॥
tad-śeṣeṇa upajīvanti trivarga-phala-hetave . puṃsām puruṣakārāṇām parjanyaḥ phala-bhāvanaḥ .. 10 ..
य एनं विसृजेत् धर्मं परम्पर्यागतं नरः । कामाल्लोभात् भयाद् द्वेषात् स वै नाप्नोति शोभनम् ॥ ११ ॥
यः एनम् विसृजेत् धर्मम् परम्पर्य-आगतम् नरः । कामात् लोभात् भयात् द्वेषात् स वै न आप्नोति शोभनम् ॥ ११ ॥
yaḥ enam visṛjet dharmam paramparya-āgatam naraḥ . kāmāt lobhāt bhayāt dveṣāt sa vai na āpnoti śobhanam .. 11 ..
श्रीशुक उवाच -
वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् । इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥ १२ ॥
वचः निशम्य नन्दस्य तथा अन्येषाम् व्रजौकसाम् । इन्द्राय मन्युम् जनयन् पितरम् प्राह केशवः ॥ १२ ॥
vacaḥ niśamya nandasya tathā anyeṣām vrajaukasām . indrāya manyum janayan pitaram prāha keśavaḥ .. 12 ..
श्रीभगवानुवाच -
कर्मणा जायते जन्तुः कर्मणैव विलीयते । सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥ १३ ॥
कर्मणा जायते जन्तुः कर्मणा एव विलीयते । सुखम् दुःखम् भयम् क्षेमम् कर्मणा एव अभिपद्यते ॥ १३ ॥
karmaṇā jāyate jantuḥ karmaṇā eva vilīyate . sukham duḥkham bhayam kṣemam karmaṇā eva abhipadyate .. 13 ..
अस्ति चेदीश्वरः कश्चित् फलरूप्यन्यकर्मणाम् । कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ॥ १४ ॥
अस्ति चेद् ईश्वरः कश्चिद् फल-रूपि-अन्य-कर्मणाम् । कर्तारम् भजते सः अपि न हि अकर्तुः प्रभुः हि सः ॥ १४ ॥
asti ced īśvaraḥ kaścid phala-rūpi-anya-karmaṇām . kartāram bhajate saḥ api na hi akartuḥ prabhuḥ hi saḥ .. 14 ..
किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् । अनीशेनान्यथा कर्तुं स्वभावविहितं नृणाम् ॥ १५ ॥
किम् इन्द्रेण इह भूतानाम् स्व-स्व-कर्म-अनुवर्तिनाम् । अनीशेन अन्यथा कर्तुम् स्वभाव-विहितम् नृणाम् ॥ १५ ॥
kim indreṇa iha bhūtānām sva-sva-karma-anuvartinām . anīśena anyathā kartum svabhāva-vihitam nṛṇām .. 15 ..
स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते । स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् ॥ १६ ॥
स्वभाव-तन्त्रः हि जनः स्वभावम् अनुवर्तते । स्वभाव-स्थम् इदम् सर्वम् स देव-असुर-मानुषम् ॥ १६ ॥
svabhāva-tantraḥ hi janaḥ svabhāvam anuvartate . svabhāva-stham idam sarvam sa deva-asura-mānuṣam .. 16 ..
देहानुच्चावचाञ्जन्तुः प्राप्योत् सृजति कर्मणा । शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वरः ॥ १७ ॥
देहान् उच्चावचान् जन्तुः प्राप्य उद् सृजति कर्मणा । शत्रुः मित्रम् उदासीनः कर्म एव गुरुः ईश्वरः ॥ १७ ॥
dehān uccāvacān jantuḥ prāpya ud sṛjati karmaṇā . śatruḥ mitram udāsīnaḥ karma eva guruḥ īśvaraḥ .. 17 ..
तस्मात् संपूजयेत्कर्म स्वभावस्थः स्वकर्मकृत् । अन्जसा येन वर्तेत तदेवास्य हि दैवतम् ॥ १८ ॥
तस्मात् संपूजयेत् कर्म स्वभाव-स्थः स्व-कर्म-कृत् । अन्जसा येन वर्तेत तत् एव अस्य हि दैवतम् ॥ १८ ॥
tasmāt saṃpūjayet karma svabhāva-sthaḥ sva-karma-kṛt . anjasā yena varteta tat eva asya hi daivatam .. 18 ..
आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति । न तस्माद् विन्दते क्षेमं जारान्नार्यसती यथा ॥ १९ ॥
आजीव्य एकतरम् भावम् यः तु अन्यम् उपजीवति । न तस्मात् विन्दते क्षेमम् जारान् नारी असती यथा ॥ १९ ॥
ājīvya ekataram bhāvam yaḥ tu anyam upajīvati . na tasmāt vindate kṣemam jārān nārī asatī yathā .. 19 ..
वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः । वैश्यस्तु वार्तया जीवेत् शूद्रस्तु द्विजसेवया ॥ २० ॥
वर्तेत ब्रह्मणा विप्रः राजन्यः रक्षया भुवः । वैश्यः तु वार्तया जीवेत् शूद्रः तु द्विज-सेवया ॥ २० ॥
varteta brahmaṇā vipraḥ rājanyaḥ rakṣayā bhuvaḥ . vaiśyaḥ tu vārtayā jīvet śūdraḥ tu dvija-sevayā .. 20 ..
कृषिवाणिज्यगोरक्षा कुसीदं तूर्यमुच्यते । वार्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् ॥ २१ ॥
कृषि-वाणिज्य-गोरक्षा कुसीदम् तूर्यम् उच्यते । वार्ता चतुर्विधा तत्र वयम् गो वृत्तयः अनिशम् ॥ २१ ॥
kṛṣi-vāṇijya-gorakṣā kusīdam tūryam ucyate . vārtā caturvidhā tatra vayam go vṛttayaḥ aniśam .. 21 ..
सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः । रजसोत्पद्यते विश्वं अन्योन्यं विविधं जगत् ॥ २२ ॥
सत्त्वम् रजः तमः इति स्थिति-उत्पत्ति-अन्त-हेतवः । रजसा उत्पद्यते विश्वम् अन्योन्यम् विविधम् जगत् ॥ २२ ॥
sattvam rajaḥ tamaḥ iti sthiti-utpatti-anta-hetavaḥ . rajasā utpadyate viśvam anyonyam vividham jagat .. 22 ..
रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः । प्रजास्तैरेव सिध्यन्ति महेन्द्रः किं करिष्यति ॥ २३ ॥
रजसा चोदिताः मेघाः वर्षन्ति अम्बूनि सर्वतस् । प्रजाः तैः एव सिध्यन्ति महा-इन्द्रः किम् करिष्यति ॥ २३ ॥
rajasā coditāḥ meghāḥ varṣanti ambūni sarvatas . prajāḥ taiḥ eva sidhyanti mahā-indraḥ kim kariṣyati .. 23 ..
न नः पुरोजनपदा न ग्रामा न गृहा वयम् । नित्यं वनौकसस्तात वनशैलनिवासिनः ॥ ॥
न नः पुरस् जनपदाः न ग्रामाः न गृहाः वयम् । नित्यम् वनौकसः तात वन-शैल-निवासिनः ॥ ॥
na naḥ puras janapadāḥ na grāmāḥ na gṛhāḥ vayam . nityam vanaukasaḥ tāta vana-śaila-nivāsinaḥ .. ..
तस्माद्गवां ब्राह्मणानां अद्रेश्चारभ्यतां मखः । य इंद्रयागसंभाराः तैरयं साध्यतां मखः ॥ २५ ॥
तस्मात् गवाम् ब्राह्मणानाम् अद्रेः च आरभ्यताम् मखः । ये इंद्र-याग-संभाराः तैः अयम् साध्यताम् मखः ॥ २५ ॥
tasmāt gavām brāhmaṇānām adreḥ ca ārabhyatām makhaḥ . ye iṃdra-yāga-saṃbhārāḥ taiḥ ayam sādhyatām makhaḥ .. 25 ..
पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः । संयावापूपशष्कुल्यः सर्वदोहश्च गृह्यताम् ॥ २६ ॥
पच्यन्ताम् विविधाः पाकाः सूप-अन्ताः पायस-आदयः । संयाव-अपूप-शष्कुल्यः सर्व-दोहः च गृह्यताम् ॥ २६ ॥
pacyantām vividhāḥ pākāḥ sūpa-antāḥ pāyasa-ādayaḥ . saṃyāva-apūpa-śaṣkulyaḥ sarva-dohaḥ ca gṛhyatām .. 26 ..
हूयन्तामग्नयः सम्यग् ब्राह्मणैर्ब्रह्मवादिभिः । अन्नं बहुगुणं तेभ्यो देयं वो धेनुदक्षिणाः ॥ २७ ॥
हूयन्ताम् अग्नयः सम्यक् ब्राह्मणैः ब्रह्म-वादिभिः । अन्नम् बहु-गुणम् तेभ्यः देयम् वः धेनु-दक्षिणाः ॥ २७ ॥
hūyantām agnayaḥ samyak brāhmaṇaiḥ brahma-vādibhiḥ . annam bahu-guṇam tebhyaḥ deyam vaḥ dhenu-dakṣiṇāḥ .. 27 ..
अन्येभ्यश्चाश्वचाण्डाल पतितेभ्यो यथार्हतः । यवसं च गवां दत्त्वा गिरये दीयतां बलिः ॥ २८ ॥
अन्येभ्यः च अश्व-चाण्डाल पतितेभ्यः यथार्हतः । यवसम् च गवाम् दत्त्वा गिरये दीयताम् बलिः ॥ २८ ॥
anyebhyaḥ ca aśva-cāṇḍāla patitebhyaḥ yathārhataḥ . yavasam ca gavām dattvā giraye dīyatām baliḥ .. 28 ..
स्वलङ्कृता भुक्तवन्तः स्वनुलिप्ताः सुवाससः । प्रदक्षिणां च कुरुत गोविप्रानलपर्वतान् ॥ २९ ॥
सु अलङ्कृताः भुक्तवन्तः सु अनुलिप्ताः सु वाससः । प्रदक्षिणाम् च कुरुत गो-विप्र अनलपर्वतान् ॥ २९ ॥
su alaṅkṛtāḥ bhuktavantaḥ su anuliptāḥ su vāsasaḥ . pradakṣiṇām ca kuruta go-vipra analaparvatān .. 29 ..
एतन्मम मतं तात क्रियतां यदि रोचते । अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मखः ॥ ३० ॥
एतत् मम मतम् तात क्रियताम् यदि रोचते । अयम् गो-ब्राह्मण-अद्रीणाम् मह्यम् च दयितः मखः ॥ ३० ॥
etat mama matam tāta kriyatām yadi rocate . ayam go-brāhmaṇa-adrīṇām mahyam ca dayitaḥ makhaḥ .. 30 ..
श्रीशुक उवाच -
कालात्मना भगवता शक्रदर्पं जिघांसता । प्रोक्तं निशम्य नन्दाद्याः साध्वगृह्णन्त तद्वचः ॥ ३१ ॥
काल-आत्मना भगवता शक्र-दर्पम् जिघांसता । प्रोक्तम् निशम्य नन्द-आद्याः साधु अगृह्णन्त तत् वचः ॥ ३१ ॥
kāla-ātmanā bhagavatā śakra-darpam jighāṃsatā . proktam niśamya nanda-ādyāḥ sādhu agṛhṇanta tat vacaḥ .. 31 ..
तथा च व्यदधुः सर्वं यथाऽऽह मधुसूदनः । वाचयित्वा स्वस्त्ययनं तद् द्रव्येण गिरिद्विजान् ॥ ३२ ॥
तथा च व्यदधुः सर्वम् यथा आह मधुसूदनः । वाचयित्वा स्वस्त्ययनम् तत् द्रव्येण गिरि-द्विजान् ॥ ३२ ॥
tathā ca vyadadhuḥ sarvam yathā āha madhusūdanaḥ . vācayitvā svastyayanam tat dravyeṇa giri-dvijān .. 32 ..
उपहृत्य बलीन् सम्यग् सर्वान् आदृता यवसं गवाम् । गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् ॥ ३३ ॥
उपहृत्य बलीन् सम्यक् सर्वान् आदृताः यवसम् गवाम् । गो-धनानि पुरस्कृत्य गिरिम् चक्रुः प्रदक्षिणम् ॥ ३३ ॥
upahṛtya balīn samyak sarvān ādṛtāḥ yavasam gavām . go-dhanāni puraskṛtya girim cakruḥ pradakṣiṇam .. 33 ..
अनांस्यनडुद्युक्तानि ते चारुह्य स्वलङ्कृताः । गोप्यश्च कृष्णवीर्याणि गायन्त्यः सद्विजाशिषः ॥ ३४ ॥
अनांसि अनडुह्-युक्तानि ते च आरुह्य सु अलङ्कृताः । गोप्यः च कृष्ण-वीर्याणि गायन्त्यः स द्विज-आशिषः ॥ ३४ ॥
anāṃsi anaḍuh-yuktāni te ca āruhya su alaṅkṛtāḥ . gopyaḥ ca kṛṣṇa-vīryāṇi gāyantyaḥ sa dvija-āśiṣaḥ .. 34 ..
कृष्णस्त्वन्यतमं रूपं गोपविश्रम्भणं गतः । शैलोऽस्मीति ब्रुवन् भूरि बलिमादद् बृहद्वपुः ॥ ३५ ॥
कृष्णः तु अन्यतमम् रूपम् गोप-विश्रम्भणम् गतः । शैलः अस्मि इति ब्रुवन् भूरि बलिम् आदत् बृहत्-वपुः ॥ ३५ ॥
kṛṣṇaḥ tu anyatamam rūpam gopa-viśrambhaṇam gataḥ . śailaḥ asmi iti bruvan bhūri balim ādat bṛhat-vapuḥ .. 35 ..
तस्मै नमो व्रजजनैः सह चक्रेऽऽत्मनाऽऽत्मने । अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात् ॥ ३६ ॥
तस्मै नमः व्रज-जनैः सह चक्रे आत्मना आत्मने । अहो पश्यत शैलः असौ रूपी नः अनुग्रहम् व्यधात् ॥ ३६ ॥
tasmai namaḥ vraja-janaiḥ saha cakre ātmanā ātmane . aho paśyata śailaḥ asau rūpī naḥ anugraham vyadhāt .. 36 ..
एषोऽवजानतो मर्त्यान् कामरूपी वनौकसः । हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम् ॥ ३७ ॥
एषः अवजानतः मर्त्यान् कामरूपी वनौकसः । हन्ति हि अस्मै नमस्यामः शर्मणे आत्मनः गवाम् ॥ ३७ ॥
eṣaḥ avajānataḥ martyān kāmarūpī vanaukasaḥ . hanti hi asmai namasyāmaḥ śarmaṇe ātmanaḥ gavām .. 37 ..
इत्यद्रिगोद्विजमखं वासुदेवप्रचोदिताः । यथा विधाय ते गोपा सहकृष्णा व्रजं ययुः ॥ ३८ ॥
इति अद्रि-गो-द्विज-मखम् वासुदेव-प्रचोदिताः । यथा विधाय ते गोपा सह कृष्णाः व्रजम् ययुः ॥ ३८ ॥
iti adri-go-dvija-makham vāsudeva-pracoditāḥ . yathā vidhāya te gopā saha kṛṣṇāḥ vrajam yayuḥ .. 38 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्विंशोऽध्यायः ॥ २४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे चतुर्विंशः अध्यायः ॥ २४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe caturviṃśaḥ adhyāyaḥ .. 24 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In