| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( मिश्र )
केशी तु कंसप्रहितः खुरैर्महीं महाहयो निर्जरयन्मनोजवः । सटावधूताभ्रविमानसङ्कुलं कुर्वन्नभो हेषितभीषिताखिलः ॥ १ ॥
केशी तु कंस-प्रहितः खुरैः महीम् महा-हयः निर्जरयन् मनोजवः । सटा-अवधूत-अभ्र-विमान-सङ्कुलम् कुर्वन् अभः हेषित-भीषित-अखिलः ॥ १ ॥
keśī tu kaṃsa-prahitaḥ khuraiḥ mahīm mahā-hayaḥ nirjarayan manojavaḥ . saṭā-avadhūta-abhra-vimāna-saṅkulam kurvan abhaḥ heṣita-bhīṣita-akhilaḥ .. 1 ..
विशालनेत्रो विकटास्यकोटरो बृहद्गलो नीलमहाम्बुदोपमः । दुराशयः कंसहितं चिकीर्षुः व्रजं स नम्दस्य जगाम कम्पयन् ॥ २ ॥
विशाल-नेत्रः विकट-आस्य-कोटरः बृहत्-गलः नील-महा-अम्बुद-उपमः । दुराशयः कंस-हितम् चिकीर्षुः व्रजम् स नम्दस्य जगाम कम्पयन् ॥ २ ॥
viśāla-netraḥ vikaṭa-āsya-koṭaraḥ bṛhat-galaḥ nīla-mahā-ambuda-upamaḥ . durāśayaḥ kaṃsa-hitam cikīrṣuḥ vrajam sa namdasya jagāma kampayan .. 2 ..
तं त्रासयन्तं भगवान् स्वगोकुलं तद्धेषितैर्वालविघूर्णिताम्बुदम् । आत्मानमाजौ मृगयन्तमग्रणीः उपाह्वयत् स व्यनदन् मृगेन्द्रवत् ॥ ३ ॥
तम् त्रासयन्तम् भगवान् स्व-गोकुलम् तद्-हेषितैः वाल-विघूर्णित-अम्बुदम् । आत्मानम् आजौ मृगयन्तम् अग्रणीः उपाह्वयत् स व्यनदत् मृगेन्द्र-वत् ॥ ३ ॥
tam trāsayantam bhagavān sva-gokulam tad-heṣitaiḥ vāla-vighūrṇita-ambudam . ātmānam ājau mṛgayantam agraṇīḥ upāhvayat sa vyanadat mṛgendra-vat .. 3 ..
स तं निशाम्याभिमुखो मखेन खं पिबन्निवाभ्यद्रवदत्यमर्षणः । जघान पद्भ्यामरविन्दलोचनं दुरासदश्चण्डजवो दुरत्ययः ॥ ४ ॥
स तम् निशाम्य अभिमुखः मखेन खम् पिबन् इव अभ्यद्रवत् अत्यमर्षणः । जघान पद्भ्याम् अरविन्द-लोचनम् दुरासदः चण्ड-जवः दुरत्ययः ॥ ४ ॥
sa tam niśāmya abhimukhaḥ makhena kham piban iva abhyadravat atyamarṣaṇaḥ . jaghāna padbhyām aravinda-locanam durāsadaḥ caṇḍa-javaḥ duratyayaḥ .. 4 ..
तद् वञ्चयित्वा तमधोक्षजो रुषा प्रगृह्य दोर्भ्यां परिविध्य पादयोः । सावज्ञमुत्सृज्य धनुःशतान्तरे यथोरगं तार्क्ष्यसुतो व्यवस्थितः ॥ ५ ॥
तत् वञ्चयित्वा तम् अधोक्षजः रुषा प्रगृह्य दोर्भ्याम् परिविध्य पादयोः । स अवज्ञम् उत्सृज्य धनुः-शत-अन्तरे यथा उरगम् तार्क्ष्यसुतः व्यवस्थितः ॥ ५ ॥
tat vañcayitvā tam adhokṣajaḥ ruṣā pragṛhya dorbhyām parividhya pādayoḥ . sa avajñam utsṛjya dhanuḥ-śata-antare yathā uragam tārkṣyasutaḥ vyavasthitaḥ .. 5 ..
सः लब्धसंज्ञः पुनरुत्थितो रुषा व्यादाय केशी तरसाऽऽपतद्धरिम् । सोऽप्यस्य वक्त्रे भुजमुत्तरं स्मयन् प्रवेशयामास यथोरगं बिले ॥ ६ ॥
सः लब्ध-संज्ञः पुनर् उत्थितः रुषा व्यादाय केशी तरसा आपतत् हरिम् । सः अपि अस्य वक्त्रे भुजम् उत्तरम् स्मयन् प्रवेशयामास यथा उरगम् बिले ॥ ६ ॥
saḥ labdha-saṃjñaḥ punar utthitaḥ ruṣā vyādāya keśī tarasā āpatat harim . saḥ api asya vaktre bhujam uttaram smayan praveśayāmāsa yathā uragam bile .. 6 ..
दन्ता निपेतुर्भगवद्भुजस्पृशः ते केशिनस्तप्तमयस्पृशो यथा । बाहुश्च तद्देहगतो महात्मनो यथाऽऽमयः संववृधे उपेक्षितः ॥ ७ ॥
दन्ताः निपेतुः भगवत्-भुज-स्पृशः ते केशिनः तप्त-मय-स्पृशः यथा । बाहुः च तद्-देह-गतः महात्मनः यथा आमयः संववृधे उपेक्षितः ॥ ७ ॥
dantāḥ nipetuḥ bhagavat-bhuja-spṛśaḥ te keśinaḥ tapta-maya-spṛśaḥ yathā . bāhuḥ ca tad-deha-gataḥ mahātmanaḥ yathā āmayaḥ saṃvavṛdhe upekṣitaḥ .. 7 ..
समेधमानेन स कृष्णबाहुना निरुद्धवायुश्चरणांश्च विक्षिपन् । प्रस्विन्नगात्रः परिवृत्तलोचनः पपात लेण्डं विसृजन् क्षितौ व्यसुः ॥ ८ ॥
समेधमानेन स कृष्ण-बाहुना निरुद्ध-वायुः चरणान् च विक्षिपन् । प्रस्विन्न-गात्रः परिवृत्त-लोचनः पपात लेण्डम् विसृजन् क्षितौ व्यसुः ॥ ८ ॥
samedhamānena sa kṛṣṇa-bāhunā niruddha-vāyuḥ caraṇān ca vikṣipan . prasvinna-gātraḥ parivṛtta-locanaḥ papāta leṇḍam visṛjan kṣitau vyasuḥ .. 8 ..
तद्देहतः कर्कटिकाफलोपमाद् व्यसोरपाकृष्य भुजं महाभुजः । अविस्मितोऽयत्नहतारिरुत्स्मयैः प्रसूनवर्षैर्दिविषद्भिरीडितः ॥ ९ ॥
तद्-देहतः कर्कटिका-फल-उपमात् व्यसोः अपाकृष्य भुजम् महा-भुजः । अविस्मितः अयत्न-हत-अरिः उत्स्मयैः प्रसून-वर्षैः दिविषद्भिः ईडितः ॥ ९ ॥
tad-dehataḥ karkaṭikā-phala-upamāt vyasoḥ apākṛṣya bhujam mahā-bhujaḥ . avismitaḥ ayatna-hata-ariḥ utsmayaiḥ prasūna-varṣaiḥ diviṣadbhiḥ īḍitaḥ .. 9 ..
( अनुष्टुप् )
देवर्षिरुपसङ्गम्य भागवतप्रवरो नृप । कृष्णमक्लिष्टकर्माणं रहस्येतदभाषत ॥ १० ॥
देवर्षिः उपसङ्गम्य भागवत-प्रवरः नृप । कृष्णम् अक्लिष्ट-कर्माणम् रहसि एतत् अभाषत ॥ १० ॥
devarṣiḥ upasaṅgamya bhāgavata-pravaraḥ nṛpa . kṛṣṇam akliṣṭa-karmāṇam rahasi etat abhāṣata .. 10 ..
कृष्ण कृष्णाप्रमेयात्मन् योगेश जगदीश्वर । वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥ ११ ॥
कृष्ण कृष्ण अप्रमेय-आत्मन् योगेश जगत्-ईश्वर । वासुदेव अखिल-आवास सात्वताम् प्रवर प्रभो ॥ ११ ॥
kṛṣṇa kṛṣṇa aprameya-ātman yogeśa jagat-īśvara . vāsudeva akhila-āvāsa sātvatām pravara prabho .. 11 ..
त्वमात्मा सर्वभूतानां एको ज्योतिरिवैधसाम् । गूढो गुहाशयः साक्षी महापुरुष ईश्वरः ॥ १२ ॥
त्वम् आत्मा सर्व-भूतानाम् एकः ज्योतिः इव एधसाम् । गूढः गुहा-आशयः साक्षी महापुरुषः ईश्वरः ॥ १२ ॥
tvam ātmā sarva-bhūtānām ekaḥ jyotiḥ iva edhasām . gūḍhaḥ guhā-āśayaḥ sākṣī mahāpuruṣaḥ īśvaraḥ .. 12 ..
आत्मनाऽऽत्माश्रयः पूर्वं मायया ससृजे गुणान् । तैरिदं सत्यसङ्कल्पः सृजस्यत्स्यवसीश्वरः ॥ १३ ॥
आत्मना आत्म-आश्रयः पूर्वम् मायया ससृजे गुणान् । तैः इदम् सत्य-सङ्कल्पः ॥ १३ ॥
ātmanā ātma-āśrayaḥ pūrvam māyayā sasṛje guṇān . taiḥ idam satya-saṅkalpaḥ .. 13 ..
स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम् । अवतीर्णो विनाशाय साधुनां रक्षणाय च ॥ १४ ॥
स त्वम् भूधर-भूतानाम् दैत्य-प्रमथ-रक्षसाम् । अवतीर्णः विनाशाय साधुनाम् रक्षणाय च ॥ १४ ॥
sa tvam bhūdhara-bhūtānām daitya-pramatha-rakṣasām . avatīrṇaḥ vināśāya sādhunām rakṣaṇāya ca .. 14 ..
दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः । यस्य हेषितसन्त्रस्ताः त्यजन्त्यनिमिषा दिवम् ॥ १५ ॥
दिष्ट्या ते निहतः दैत्यः लीलया अयम् हय-आकृतिः । यस्य हेषित-सन्त्रस्ताः त्यजन्ति अनिमिषाः दिवम् ॥ १५ ॥
diṣṭyā te nihataḥ daityaḥ līlayā ayam haya-ākṛtiḥ . yasya heṣita-santrastāḥ tyajanti animiṣāḥ divam .. 15 ..
चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम् । कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो ॥ १६ ॥
चाणूरम् मुष्टिकम् च एव मल्लान् अन्यान् च हस्तिनम् । कंसम् च निहतम् द्रक्ष्ये परश्वस् अहनि ते विभो ॥ १६ ॥
cāṇūram muṣṭikam ca eva mallān anyān ca hastinam . kaṃsam ca nihatam drakṣye paraśvas ahani te vibho .. 16 ..
तस्यानु शङ्खयवन मुराणां नरकस्य च । पारिजातापहरणं इन्द्रस्य च पराजयम् ॥ १७ ॥
तस्य अनु शङ्खयवन मुराणाम् नरकस्य च । पारिजात-अपहरणम् इन्द्रस्य च पराजयम् ॥ १७ ॥
tasya anu śaṅkhayavana murāṇām narakasya ca . pārijāta-apaharaṇam indrasya ca parājayam .. 17 ..
उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् । नृगस्य मोक्षणं शापाद् द्वारकायां जगत्पते ॥ १८ ॥
उद्वाहम् वीर-कन्यानाम् वीर्य-शुल्क-आदि-लक्षणम् । नृगस्य मोक्षणम् शापात् द्वारकायाम् जगत्पते ॥ १८ ॥
udvāham vīra-kanyānām vīrya-śulka-ādi-lakṣaṇam . nṛgasya mokṣaṇam śāpāt dvārakāyām jagatpate .. 18 ..
स्यमन्तकस्य च मणेः आदानं सह भार्यया । मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामतः ॥ १९ ॥
स्यमन्तकस्य च मणेः आदानम् सह भार्यया । मृत-पुत्र-प्रदानम् च ब्राह्मणस्य स्व-धामतः ॥ १९ ॥
syamantakasya ca maṇeḥ ādānam saha bhāryayā . mṛta-putra-pradānam ca brāhmaṇasya sva-dhāmataḥ .. 19 ..
पौण्ड्रकस्य वधं पश्चात् काशिपुर्याश्च दीपनम् । दन्तवक्रस्य निधनं चैद्यस्य च महाक्रतौ ॥ २० ॥
पौण्ड्रकस्य वधम् पश्चात् काशि-पुर्याः च दीपनम् । दन्तवक्रस्य निधनम् चैद्यस्य च महा-क्रतौ ॥ २० ॥
pauṇḍrakasya vadham paścāt kāśi-puryāḥ ca dīpanam . dantavakrasya nidhanam caidyasya ca mahā-kratau .. 20 ..
यानि चान्यानि वीर्याणि द्वारकामावसन् भवान् । कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि ॥ २१ ॥
यानि च अन्यानि वीर्याणि द्वारकाम् आवसन् भवान् । कर्ता द्रक्ष्यामि अहम् तानि गेयानि कविभिः भुवि ॥ २१ ॥
yāni ca anyāni vīryāṇi dvārakām āvasan bhavān . kartā drakṣyāmi aham tāni geyāni kavibhiḥ bhuvi .. 21 ..
अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै । अक्षौहिणीनां निधनं द्रक्ष्याम्यर्जुनसारथेः ॥ २२ ॥
अथ ते काल-रूपस्य क्षपयिष्णोः अमुष्य वै । अक्षौहिणीनाम् निधनम् द्रक्ष्यामि अर्जुन-सारथेः ॥ २२ ॥
atha te kāla-rūpasya kṣapayiṣṇoḥ amuṣya vai . akṣauhiṇīnām nidhanam drakṣyāmi arjuna-sāratheḥ .. 22 ..
( मिश्र )
विशुद्धविज्ञानघनं स्वसंस्थया समाप्तसर्वार्थममोघवाञ्छितम् । स्वतेजसा नित्यनिवृत्तमाया गुणप्रवाहं भगवन्तमीमहि ॥ २३ ॥
विशुद्ध-विज्ञान-घनम् स्व-संस्थया समाप्त-सर्व-अर्थम् अमोघ-वाञ्छितम् । स्व-तेजसा नित्य-निवृत्त-मायाः गुण-प्रवाहम् भगवन्तम् ईमहि ॥ २३ ॥
viśuddha-vijñāna-ghanam sva-saṃsthayā samāpta-sarva-artham amogha-vāñchitam . sva-tejasā nitya-nivṛtta-māyāḥ guṇa-pravāham bhagavantam īmahi .. 23 ..
त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम् । क्रीडार्थमद्यात्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् ॥ २४ ॥
त्वाम् ईश्वरम् स्व-आश्रयम् आत्म-मायया विनिर्मित-अशेष-विशेष-कल्पनम् । क्रीडा-अर्थम् अद्य आत्त-मनुष्य-विग्रहम् नतः अस्मि धुर्यम् यदु-वृष्णि-सात्वताम् ॥ २४ ॥
tvām īśvaram sva-āśrayam ātma-māyayā vinirmita-aśeṣa-viśeṣa-kalpanam . krīḍā-artham adya ātta-manuṣya-vigraham nataḥ asmi dhuryam yadu-vṛṣṇi-sātvatām .. 24 ..
श्रीशुक उवाच - ( अनुष्टुप् )
एवं यदुपतिं कृष्णं भागवतप्रवरो मुनिः । प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः ॥ २५ ॥
एवम् यदु-पतिम् कृष्णम् भागवत-प्रवरः मुनिः । प्रणिपत्य अभ्यनुज्ञातः ययौ तद्-दर्शन-उत्सवः ॥ २५ ॥
evam yadu-patim kṛṣṇam bhāgavata-pravaraḥ muniḥ . praṇipatya abhyanujñātaḥ yayau tad-darśana-utsavaḥ .. 25 ..
भगवानपि गोविन्दो हत्वा केशिनमाहवे । पशूनपालयत् पालैः प्रीतैर्व्रजसुखावहः ॥ २६ ॥
भगवान् अपि गोविन्दः हत्वा केशिनम् आहवे । पशून् अपालयत् पालैः प्रीतैः व्रज-सुख-आवहः ॥ २६ ॥
bhagavān api govindaḥ hatvā keśinam āhave . paśūn apālayat pālaiḥ prītaiḥ vraja-sukha-āvahaḥ .. 26 ..
एकदा ते पशून् पालाःन् चारयन्तोऽद्रिसानुषु । चक्रुर्निलायनक्रीडाः चोरपालापदेशतः ॥ २७ ॥
एकदा ते पशून् पालान् चारयन्तः अद्रि-सानुषु । चक्रुः निलायन-क्रीडाः चोरप-आलाप-देशतः ॥ २७ ॥
ekadā te paśūn pālān cārayantaḥ adri-sānuṣu . cakruḥ nilāyana-krīḍāḥ corapa-ālāpa-deśataḥ .. 27 ..
तत्रासन्कतिचिच्चोराः पालाश्च कतिचिन्नृप । मेषायिताश्च तत्रैके विजह्रुरकुतोभयाः ॥ २८ ॥
तत्र आसन् कतिचिद् चोराः पालाः च कतिचिद् नृप । मेषायिताः च तत्र एके विजह्रुः अकुतोभयाः ॥ २८ ॥
tatra āsan katicid corāḥ pālāḥ ca katicid nṛpa . meṣāyitāḥ ca tatra eke vijahruḥ akutobhayāḥ .. 28 ..
मयपुत्रो महामायो व्योमो गोपालवेषधृक् । मेषायितानपोवाह प्रायश्चोरायितो बहून् ॥ २९ ॥
। मेषायितान् अपोवाह प्रायस् चोरायितः बहून् ॥ २९ ॥
. meṣāyitān apovāha prāyas corāyitaḥ bahūn .. 29 ..
गिरिदर्यां विनिक्षिप्य नीतं नीतं महासुरः । शिलया पिदधे द्वारं चतुःपञ्चावशेषिताः ॥ ३० ॥
गिरि-दर्याम् विनिक्षिप्य नीतम् नीतम् महा-असुरः । शिलया पिदधे द्वारम् चतुर्-पञ्च-अवशेषिताः ॥ ३० ॥
giri-daryām vinikṣipya nītam nītam mahā-asuraḥ . śilayā pidadhe dvāram catur-pañca-avaśeṣitāḥ .. 30 ..
तस्य तत्कर्म विज्ञाय कृष्णः शरणदः सताम् । गोपान् नयन्तं जग्राह वृकं हरिरिवौजसा ॥ ३१ ॥
तस्य तत् कर्म विज्ञाय कृष्णः शरण-दः सताम् । गोपान् नयन्तम् जग्राह वृकम् हरिः इव ओजसा ॥ ३१ ॥
tasya tat karma vijñāya kṛṣṇaḥ śaraṇa-daḥ satām . gopān nayantam jagrāha vṛkam hariḥ iva ojasā .. 31 ..
स निजं रूपमास्थाय गिरीन्द्रसदृशं बली । इच्छन् विमोक्तुमात्मानं नाशक्नोद् ग्रहणातुरः ॥ ३२ ॥
स निजम् रूपम् आस्थाय गिरि-इन्द्र-सदृशम् बली । इच्छन् विमोक्तुम् आत्मानम् न अशक्नोत् ग्रहण-आतुरः ॥ ३२ ॥
sa nijam rūpam āsthāya giri-indra-sadṛśam balī . icchan vimoktum ātmānam na aśaknot grahaṇa-āturaḥ .. 32 ..
तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले । पश्यतां दिवि देवानां पशुमारममारयत् ॥ ३३ ॥
तम् निगृह्य अच्युतः दोर्भ्याम् पातयित्वा मही-तले । पश्यताम् दिवि देवानाम् पशुमारम् अमारयत् ॥ ३३ ॥
tam nigṛhya acyutaḥ dorbhyām pātayitvā mahī-tale . paśyatām divi devānām paśumāram amārayat .. 33 ..
गुहापिधानं निर्भिद्य गोपान् निःसार्य कृच्छ्रतः । स्तूयमानः सुरैर्गोपैः प्रविवेश स्वगोकुलम् ॥ ३४ ॥
गुहा-पिधानम् निर्भिद्य गोपान् निःसार्य कृच्छ्रतः । स्तूयमानः सुरैः गोपैः प्रविवेश स्व-गोकुलम् ॥ ३४ ॥
guhā-pidhānam nirbhidya gopān niḥsārya kṛcchrataḥ . stūyamānaḥ suraiḥ gopaiḥ praviveśa sva-gokulam .. 34 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे व्योमासुरवधो नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे व्योमासुरवधः नाम सप्तत्रिंशः अध्यायः ॥ ३७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe vyomāsuravadhaḥ nāma saptatriṃśaḥ adhyāyaḥ .. 37 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In