| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
स्तुवतस्तस्य भगवान् दर्शयित्वा जले वपुः । भूयः समाहरत् कृष्णो नटो नाट्यमिवात्मनः ॥ १ ॥
स्तुवतः तस्य भगवान् दर्शयित्वा जले वपुः । भूयस् समाहरत् कृष्णः नटः नाट्यम् इव आत्मनः ॥ १ ॥
stuvataḥ tasya bhagavān darśayitvā jale vapuḥ . bhūyas samāharat kṛṣṇaḥ naṭaḥ nāṭyam iva ātmanaḥ .. 1 ..
सोऽपि चान्तर्हितं वीक्ष्य जलाद् उन्मज्ज्य सत्वरः । कृत्वा चावश्यकं सर्वं विस्मितो रथमागमत् ॥ २ ॥
सः अपि च अन्तर्हितम् वीक्ष्य जलात् उन्मज्ज्य स त्वरः । कृत्वा च आवश्यकम् सर्वम् विस्मितः रथम् आगमत् ॥ २ ॥
saḥ api ca antarhitam vīkṣya jalāt unmajjya sa tvaraḥ . kṛtvā ca āvaśyakam sarvam vismitaḥ ratham āgamat .. 2 ..
तं अपृच्छद् हृषीकेशः किं ते दृष्टमिवाद्भुतम् । भूमौ वियति तोये वा तथा त्वां लक्षयामहे ॥ ३ ॥
तम् अपृच्छत् हृषीकेशः किम् ते दृष्टम् इव अद्भुतम् । भूमौ वियति तोये वा तथा त्वाम् लक्षयामहे ॥ ३ ॥
tam apṛcchat hṛṣīkeśaḥ kim te dṛṣṭam iva adbhutam . bhūmau viyati toye vā tathā tvām lakṣayāmahe .. 3 ..
श्रीअक्रूर उवाच -
अद्भुतानीह यावन्ति भूमौ वियति वा जले । त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः ॥ ४ ॥
अद्भुतानि इह यावन्ति भूमौ वियति वा जले । त्वयि विश्वात्मके तानि किम् मे अदृष्टम् विपश्यतः ॥ ४ ॥
adbhutāni iha yāvanti bhūmau viyati vā jale . tvayi viśvātmake tāni kim me adṛṣṭam vipaśyataḥ .. 4 ..
यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले । तं त्वानुपश्यतो ब्रह्मन् किं मे दृष्टमिहाद्भुतम् ॥ ५ ॥
यत्र अद्भुतानि सर्वाणि भूमौ वियति वा जले । तम् त्वा अनुपश्यतः ब्रह्मन् किम् मे दृष्टम् इह अद्भुतम् ॥ ५ ॥
yatra adbhutāni sarvāṇi bhūmau viyati vā jale . tam tvā anupaśyataḥ brahman kim me dṛṣṭam iha adbhutam .. 5 ..
इत्युक्त्वा चोदयामास स्यन्दनं गान्दिनीसुतः । मथुरां अनयद् रामं कृष्णं चैव दिनात्यये ॥ ६ ॥
इति उक्त्वा चोदयामास स्यन्दनम् गान्दिनी-सुतः । मथुराम् अनयत् रामम् कृष्णम् च एव दिन-अत्यये ॥ ६ ॥
iti uktvā codayāmāsa syandanam gāndinī-sutaḥ . mathurām anayat rāmam kṛṣṇam ca eva dina-atyaye .. 6 ..
मार्गे ग्रामजना राजन् तत्र तत्रोपसङ्गताः । वसुदेवसुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः ॥ ७ ॥
मार्गे ग्राम-जनाः राजन् तत्र तत्र उपसङ्गताः । वसुदेव-सुतौ वीक्ष्य प्रीताः दृष्टिम् न च आददुः ॥ ७ ॥
mārge grāma-janāḥ rājan tatra tatra upasaṅgatāḥ . vasudeva-sutau vīkṣya prītāḥ dṛṣṭim na ca ādaduḥ .. 7 ..
तावद् व्रजौकसस्तत्र नन्दगोपादयोऽग्रतः । पुरोपवनमासाद्य प्रतीक्षन्तोऽवतस्थिरे ॥ ८ ॥
तावत् व्रज-ओकसः तत्र नन्द-गोप-आदयः अग्रतस् । पुर-उपवनम् आसाद्य प्रतीक्षन्तः अवतस्थिरे ॥ ८ ॥
tāvat vraja-okasaḥ tatra nanda-gopa-ādayaḥ agratas . pura-upavanam āsādya pratīkṣantaḥ avatasthire .. 8 ..
तान् समेत्याह भगवान् अक्रूरं जगदीश्वरः । गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्निव ॥ ९ ॥
तान् समेत्य आह भगवान् अक्रूरम् जगत्-ईश्वरः । गृहीत्वा पाणिना पाणिम् प्रश्रितम् प्रहसन् इव ॥ ९ ॥
tān sametya āha bhagavān akrūram jagat-īśvaraḥ . gṛhītvā pāṇinā pāṇim praśritam prahasan iva .. 9 ..
भवान् प्रविशतामग्रे सहयानः पुरीं गृहम् । वयं त्विहावमुच्याथ ततो द्रक्ष्यामहे पुरीम् ॥ १० ॥
भवान् प्रविशताम् अग्रे सहयानः पुरीम् गृहम् । वयम् तु इह अवमुच्य अथ ततस् द्रक्ष्यामहे पुरीम् ॥ १० ॥
bhavān praviśatām agre sahayānaḥ purīm gṛham . vayam tu iha avamucya atha tatas drakṣyāmahe purīm .. 10 ..
श्रीअक्रूर उवाच -
नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो । त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्तवत्सल ॥ ११ ॥
न अहम् भवद्भ्याम् रहितः प्रवेक्ष्ये मथुराम् प्रभो । त्यक्तुम् ना अर्हसि माम् नाथ भक्तम् ते भक्त-वत्सल ॥ ११ ॥
na aham bhavadbhyām rahitaḥ pravekṣye mathurām prabho . tyaktum nā arhasi mām nātha bhaktam te bhakta-vatsala .. 11 ..
आगच्छ याम गेहान् नः सनाथान् कुर्वधोक्षज । सहाग्रजः सगोपालैः सुहृद्भिश्च सुहृत्तम ॥ १२ ॥
आगच्छ याम गेहान् नः स नाथान् कुरु अधोक्षज । सह अग्रजः स गोपालैः सुहृद्भिः च सुहृत्तम ॥ १२ ॥
āgaccha yāma gehān naḥ sa nāthān kuru adhokṣaja . saha agrajaḥ sa gopālaiḥ suhṛdbhiḥ ca suhṛttama .. 12 ..
पुनीहि पादरजसा गृहान्नो गृहमेधिनाम् । यच्छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ॥ १३ ॥
पुनीहि पाद-रजसा गृहान् नः गृहमेधिनाम् । यत् शौचेन अनुतृप्यन्ति पितरः स अग्नयः सुराः ॥ १३ ॥
punīhi pāda-rajasā gṛhān naḥ gṛhamedhinām . yat śaucena anutṛpyanti pitaraḥ sa agnayaḥ surāḥ .. 13 ..
अवनिज्याङ्घ्रियुगलं आसीत् श्लोक्यो बलिर्महान् । ऐश्वर्यं अतुलं लेभे गतिं चैकान्तिनां तु या ॥ १४ ॥
अवनिज्य अङ्घ्रि-युगलम् आसीत् श्लोक्यः बलिः महान् । ऐश्वर्यम् अतुलम् लेभे गतिम् च एकान्तिनाम् तु या ॥ १४ ॥
avanijya aṅghri-yugalam āsīt ślokyaḥ baliḥ mahān . aiśvaryam atulam lebhe gatim ca ekāntinām tu yā .. 14 ..
आपस्तेऽङ्घ्र्यवनेजन्यः त्रींल्लोकान् शुचयोऽपुनन् । शिरसाधत्त याः शर्वः स्वर्याताः सगरात्मजाः ॥ १५ ॥
आपः ते अङ्घ्रि-अवनेजन्यः त्रीन् लोकान् शुचयः अपुनन् । शिरसा आधत्त याः शर्वः स्वर्याताः सगर-आत्मजाः ॥ १५ ॥
āpaḥ te aṅghri-avanejanyaḥ trīn lokān śucayaḥ apunan . śirasā ādhatta yāḥ śarvaḥ svaryātāḥ sagara-ātmajāḥ .. 15 ..
देवदेव जगन्नाथ पुण्यश्रवणकीर्तन । यदूत्तमोत्तमःश्लोक नारायण नमोऽस्तु ते ॥ १६ ॥
देवदेव जगन्नाथ पुण्य-श्रवण-कीर्तन । नारायण नमः अस्तु ते ॥ १६ ॥
devadeva jagannātha puṇya-śravaṇa-kīrtana . nārāyaṇa namaḥ astu te .. 16 ..
श्रीभगवनुवाच ।
आयास्ये भवतो गेहं अहमार्यसमन्वितः । यदुचक्रद्रुहं हत्वा वितरिष्ये सुहृत्प्रियम् ॥ १७ ॥
आयास्ये भवतः गेहम् अहम् आर्य-समन्वितः । यदु-चक्र-द्रुहम् हत्वा वितरिष्ये सुहृद्-प्रियम् ॥ १७ ॥
āyāsye bhavataḥ geham aham ārya-samanvitaḥ . yadu-cakra-druham hatvā vitariṣye suhṛd-priyam .. 17 ..
श्रीशुक उवाच -
एवमुक्तो भगवता सोऽक्रूरो विमना इव । पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ ॥ १८ ॥
एवम् उक्तः भगवता सः अक्रूरः विमनाः इव । पुरीम् प्रविष्टः कंसाय कर्म आवेद्य गृहम् ययौ ॥ १८ ॥
evam uktaḥ bhagavatā saḥ akrūraḥ vimanāḥ iva . purīm praviṣṭaḥ kaṃsāya karma āvedya gṛham yayau .. 18 ..
अथापराह्ने भगवान् कृष्णः सङ्कर्षणान्वितः । मथुरां प्राविशद् गोपैः दिदृक्षुः परिवारितः ॥ १९ ॥
अथ अपराह्ने भगवान् कृष्णः सङ्कर्षण-अन्वितः । मथुराम् प्राविशत् गोपैः दिदृक्षुः परिवारितः ॥ १९ ॥
atha aparāhne bhagavān kṛṣṇaḥ saṅkarṣaṇa-anvitaḥ . mathurām prāviśat gopaiḥ didṛkṣuḥ parivāritaḥ .. 19 ..
( मिश्र )
ददर्श तां स्फाटिकतुङ्ग गोपुर द्वारां बृहद् हेमकपाटतोरणाम् । ताम्रारकोष्ठां परिखादुरासदां उद्यान रम्योप वनोपशोभिताम् ॥ २० ॥
ददर्श ताम् स्फाटिक-तुङ्ग-गोपुर-द्वाराम् बृहत् हेम-कपाट-तोरणाम् । ताम्र-आर-कोष्ठाम् परिखा-दुरासदाम् उद्यान-रम्य-उप वन-उपशोभिताम् ॥ २० ॥
dadarśa tām sphāṭika-tuṅga-gopura-dvārām bṛhat hema-kapāṭa-toraṇām . tāmra-āra-koṣṭhām parikhā-durāsadām udyāna-ramya-upa vana-upaśobhitām .. 20 ..
सौवर्णशृङ्गाटकहर्म्यनिष्कुटैः श्रेणीसभाभिः भवनैरुपस्कृताम् । वैदूर्यवज्रामलनीलविद्रुमैः मुक्ताहरिद्भिर्वलभीषु वेदिषु ॥ २१ ॥
सौवर्ण-शृङ्गाटक-हर्म्य-निष्कुटैः श्रेणी-सभाभिः भवनैः उपस्कृताम् । वैदूर्य-वज्र-अमल-नील-विद्रुमैः मुक्ता-हरिद्भिः वलभीषु वेदिषु ॥ २१ ॥
sauvarṇa-śṛṅgāṭaka-harmya-niṣkuṭaiḥ śreṇī-sabhābhiḥ bhavanaiḥ upaskṛtām . vaidūrya-vajra-amala-nīla-vidrumaiḥ muktā-haridbhiḥ valabhīṣu vediṣu .. 21 ..
जुष्टेषु जालामुखरन्ध्रकुट्टिमेषु आविष्टपारावतबर्हिनादिताम् । संसिक्तरथ्यापणमार्गचत्वरां प्रकीर्णमाल्याङ्कुरलाजतण्डुलाम् ॥ २२ ॥
जुष्टेषु जालामुख-रन्ध्र-कुट्टिमेषु आविष्ट-पारावत-बर्हि-नादिताम् । संसिक्त-रथ्या-आपण-मार्ग-चत्वराम् प्रकीर्ण-माल्य-अङ्कुर-लाज-तण्डुलाम् ॥ २२ ॥
juṣṭeṣu jālāmukha-randhra-kuṭṭimeṣu āviṣṭa-pārāvata-barhi-nāditām . saṃsikta-rathyā-āpaṇa-mārga-catvarām prakīrṇa-mālya-aṅkura-lāja-taṇḍulām .. 22 ..
आपूर्णकुम्भैर्दधिचन्दनोक्षितैः प्रसूनदीपावलिभिः सपल्लवैः । सवृन्दरम्भाक्रमुकैः सकेतुभिः स्वलङ्कृतत् द्वारगृहां सपट्टिकैः ॥ २३ ॥
आपूर्ण-कुम्भैः दधि-चन्दन-उक्षितैः प्रसून-दीप-आवलिभिः स पल्लवैः । स वृन्द-रम्भा-क्रमुकैः स केतुभिः द्वारगृहाम् स पट्टिकैः ॥ २३ ॥
āpūrṇa-kumbhaiḥ dadhi-candana-ukṣitaiḥ prasūna-dīpa-āvalibhiḥ sa pallavaiḥ . sa vṛnda-rambhā-kramukaiḥ sa ketubhiḥ dvāragṛhām sa paṭṭikaiḥ .. 23 ..
तां सम्प्रविष्टौ वसुदेवनन्दनौ वृतौ वयस्यैर्नरदेववर्त्मना । द्रष्टुं समीयुस्त्वरिताः पुरस्त्रियो हर्म्याणि चैवारुरुहुर्नृपोत्सुकाः ॥ २४ ॥
ताम् सम्प्रविष्टौ वसुदेव-नन्दनौ वृतौ वयस्यैः नरदेव-वर्त्मना । द्रष्टुम् समीयुः त्वरिताः पुर-स्त्रियः हर्म्याणि च एव आरुरुहुः नृप-उत्सुकाः ॥ २४ ॥
tām sampraviṣṭau vasudeva-nandanau vṛtau vayasyaiḥ naradeva-vartmanā . draṣṭum samīyuḥ tvaritāḥ pura-striyaḥ harmyāṇi ca eva āruruhuḥ nṛpa-utsukāḥ .. 24 ..
काश्चिग् विपर्यग्धृतवस्त्रभूषणा विस्मृत्य चैकं युगलेष्वथापराः । कृतैकपत्रश्रवणैकनूपुरा नाङ्क्त्वा द्वितीयं त्वपराश्च लोचनम् ॥ २५ ॥
काश्चिद् विपर्यक्-धृत-वस्त्र-भूषणाः विस्मृत्य च एकम् युगलेषु अथ अपराः । कृत-एक-पत्र-श्रवण-एक-नूपुराः न अङ्क्त्वा द्वितीयम् तु अपराः च लोचनम् ॥ २५ ॥
kāścid viparyak-dhṛta-vastra-bhūṣaṇāḥ vismṛtya ca ekam yugaleṣu atha aparāḥ . kṛta-eka-patra-śravaṇa-eka-nūpurāḥ na aṅktvā dvitīyam tu aparāḥ ca locanam .. 25 ..
अश्नन्त्य एकास्तदपास्य सोत्सवा अभ्यज्यमाना अकृतोपमज्जनाः । स्वपन्त्य उत्थाय निशम्य निःस्वनं प्रपाययन्त्योऽर्भमपोह्य मातरः ॥ २६ ॥
अश्नन्त्यः एकाः तत् अपास्य स उत्सवाः अभ्यज्यमानाः अ कृत-उपमज्जनाः । स्वपन्त्यः उत्थाय निशम्य निःस्वनम् प्रपाययन्त्यः अर्भम् अपोह्य मातरः ॥ २६ ॥
aśnantyaḥ ekāḥ tat apāsya sa utsavāḥ abhyajyamānāḥ a kṛta-upamajjanāḥ . svapantyaḥ utthāya niśamya niḥsvanam prapāyayantyaḥ arbham apohya mātaraḥ .. 26 ..
मनांसि तासामरविन्दलोचनः प्रगल्भलीलाहसितावलोकनैः । जहार मत्तद्विरदेन्द्रविक्रमो दृशां ददच्छ्रीरमणात्मनोत्सवम् ॥ २७ ॥
मनांसि तासाम् अरविन्द-लोचनः प्रगल्भ-लीला-हसित-अवलोकनैः । जहार मत्त-द्विरद-इन्द्र-विक्रमः दृशाम् ददत्-श्री-रमण-आत्मना उत्सवम् ॥ २७ ॥
manāṃsi tāsām aravinda-locanaḥ pragalbha-līlā-hasita-avalokanaiḥ . jahāra matta-dvirada-indra-vikramaḥ dṛśām dadat-śrī-ramaṇa-ātmanā utsavam .. 27 ..
( वसंततिलका )
दृष्ट्वा मुहुः श्रुतमनुद्रुतचेतसस्तं । तत्प्रेक्षणोत्स्मितसुधोक्षणलब्धमानाः । आनन्दमूर्तिमुपगुह्य दृशात्मलब्धं । हृष्यत्त्वचो जहुरनन्तमरिन्दमाधिम् ॥ २८ ॥
दृष्ट्वा मुहुर् श्रुतम् अनुद्रुत-चेतसः तम् । तद्-प्रेक्षण-उत्स्मित-सुधा-उक्षण-लब्ध-मानाः । आनन्द-मूर्तिम् उपगुह्य दृशा आत्म-लब्धम् । हृष्यत्-त्वचः जहुः अनन्तम् अरिन्दम-आधिम् ॥ २८ ॥
dṛṣṭvā muhur śrutam anudruta-cetasaḥ tam . tad-prekṣaṇa-utsmita-sudhā-ukṣaṇa-labdha-mānāḥ . ānanda-mūrtim upaguhya dṛśā ātma-labdham . hṛṣyat-tvacaḥ jahuḥ anantam arindama-ādhim .. 28 ..
( अनुष्टुप् )
प्रासादशिखरारूढाः प्रीत्युत्फुल्लमुखाम्बुजाः । अभ्यवर्षन् सौमनस्यैः प्रमदा बलकेशवौ ॥ २९ ॥
प्रासाद-शिखर-आरूढाः प्रीति-उत्फुल्ल-मुख-अम्बुजाः । अभ्यवर्षन् सौमनस्यैः प्रमदाः बल-केशवौ ॥ २९ ॥
prāsāda-śikhara-ārūḍhāḥ prīti-utphulla-mukha-ambujāḥ . abhyavarṣan saumanasyaiḥ pramadāḥ bala-keśavau .. 29 ..
दध्यक्षतैः सोदपात्रैः स्रग्गन्धैरभ्युपायनैः । तावानर्चुः प्रमुदिताः तत्र तत्र द्विजातयः ॥ ३० ॥
दधि-अक्षतैः स उदपात्रैः स्रज्-गन्धैः अभ्युपायनैः । तावान् अर्चुः प्रमुदिताः तत्र तत्र द्विजातयः ॥ ३० ॥
dadhi-akṣataiḥ sa udapātraiḥ sraj-gandhaiḥ abhyupāyanaiḥ . tāvān arcuḥ pramuditāḥ tatra tatra dvijātayaḥ .. 30 ..
ऊचुः पौरा अहो गोप्यः तपः किमचरन् महत् । या ह्येतावनुपश्यन्ति नरलोकमहोत्सवौ ॥ ३१ ॥
ऊचुः पौराः अहो गोप्यः तपः किम् अचरत् महत् । याः हि एतौ अनुपश्यन्ति नर-लोक-महा-उत्सवौ ॥ ३१ ॥
ūcuḥ paurāḥ aho gopyaḥ tapaḥ kim acarat mahat . yāḥ hi etau anupaśyanti nara-loka-mahā-utsavau .. 31 ..
रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रजः । दृष्ट्वायाचत वासांसि धौतान्यत्युत्तमानि च ॥ ३२ ॥
रजकम् कञ्चिद् आयान्तम् रङ्गकारम् गदाग्रजः । दृष्ट्वा अयाचत वासांसि धौतानि अत्युत्तमानि च ॥ ३२ ॥
rajakam kañcid āyāntam raṅgakāram gadāgrajaḥ . dṛṣṭvā ayācata vāsāṃsi dhautāni atyuttamāni ca .. 32 ..
देह्यावयोः समुचितानि अङ्ग वासांसि चार्हतोः । भविष्यति परं श्रेयो दातुस्ते नात्र संशयः ॥ ३३ ॥
देहि आवयोः समुचितानि अङ्ग वासांसि च अर्हतोः । भविष्यति परम् श्रेयः दातुः ते न अत्र संशयः ॥ ३३ ॥
dehi āvayoḥ samucitāni aṅga vāsāṃsi ca arhatoḥ . bhaviṣyati param śreyaḥ dātuḥ te na atra saṃśayaḥ .. 33 ..
स याचितो भगवता परिपूर्णेन सर्वतः । साक्षेपं रुषितः प्राह भृत्यो राज्ञः सुदुर्मदः ॥ ३४ ॥
स याचितः भगवता परिपूर्णेन सर्वतस् । स आक्षेपम् रुषितः प्राह भृत्यः राज्ञः सु दुर्मदः ॥ ३४ ॥
sa yācitaḥ bhagavatā paripūrṇena sarvatas . sa ākṣepam ruṣitaḥ prāha bhṛtyaḥ rājñaḥ su durmadaḥ .. 34 ..
ईदृशान्येव वासांसी नित्यं गिरिवनेचराः । परिधत्त किमुद्वृत्ता राजद्रव्याण्यभीप्सथ ॥ ३५ ॥
ईदृशानि एव वासांसि नित्यम् गिरि-वनेचराः । परिधत्त किम् उद्वृत्ताः राज-द्रव्याणि अभीप्सथ ॥ ३५ ॥
īdṛśāni eva vāsāṃsi nityam giri-vanecarāḥ . paridhatta kim udvṛttāḥ rāja-dravyāṇi abhīpsatha .. 35 ..
याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीवीषा । बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राजकुलानि वै ॥ ३६ ॥
यात आशु बालिशाः मा एवम् प्रार्थ्यम् यदि जिजीवीषा । बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तम् राज-कुलानि वै ॥ ३६ ॥
yāta āśu bāliśāḥ mā evam prārthyam yadi jijīvīṣā . badhnanti ghnanti lumpanti dṛptam rāja-kulāni vai .. 36 ..
एवं विकत्थमानस्य कुपितो देवकीसुतः । रजकस्य कराग्रेण शिरः कायादपातयत् ॥ ३७ ॥
एवम् विकत्थमानस्य कुपितः देवकी-सुतः । रजकस्य कर-अग्रेण शिरः कायात् अपातयत् ॥ ३७ ॥
evam vikatthamānasya kupitaḥ devakī-sutaḥ . rajakasya kara-agreṇa śiraḥ kāyāt apātayat .. 37 ..
तस्यानुजीविनः सर्वे वासःकोशान् विसृज्य वै । दुद्रुवुः सर्वतो मार्गं वासांसि जगृहेऽच्युतः ॥ ३८ ॥
तस्य अनुजीविनः सर्वे वासः-कोशान् विसृज्य वै । दुद्रुवुः सर्वतस् मार्गम् वासांसि जगृहे अच्युतः ॥ ३८ ॥
tasya anujīvinaḥ sarve vāsaḥ-kośān visṛjya vai . dudruvuḥ sarvatas mārgam vāsāṃsi jagṛhe acyutaḥ .. 38 ..
वसित्वाऽऽत्मप्रिये वस्त्रे कृष्णः सङ्कर्षणस्तथा । शेषाण्यादत्त गोपेभ्यो विसृज्य भुवि कानिचित् ॥ ३९ ॥
वसित्वा आत्म-प्रिये वस्त्रे कृष्णः सङ्कर्षणः तथा । शेषाणि आदत्त गोपेभ्यः विसृज्य भुवि कानिचिद् ॥ ३९ ॥
vasitvā ātma-priye vastre kṛṣṇaḥ saṅkarṣaṇaḥ tathā . śeṣāṇi ādatta gopebhyaḥ visṛjya bhuvi kānicid .. 39 ..
ततस्तु वायकः प्रीतः तयोर्वेषमकल्पयत् । विचित्रवर्णैश्चैलेयैः आकल्पैरनुरूपतः ॥ ४० ॥
ततस् तु वायकः प्रीतः तयोः वेषम् अकल्पयत् । विचित्र-वर्णैः चैलेयैः आकल्पैः अनुरूपतस् ॥ ४० ॥
tatas tu vāyakaḥ prītaḥ tayoḥ veṣam akalpayat . vicitra-varṇaiḥ caileyaiḥ ākalpaiḥ anurūpatas .. 40 ..
नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः । स्वलङ्कृतौ बालगजौ पर्वणीव सितेतरौ ॥ ॥
नाना लक्षण-वेषाभ्याम् कृष्ण-रामौ विरेजतुः । सु अलङ्कृतौ बाल-गजौ पर्वणि इव सितेतरौ ॥ ॥
nānā lakṣaṇa-veṣābhyām kṛṣṇa-rāmau virejatuḥ . su alaṅkṛtau bāla-gajau parvaṇi iva sitetarau .. ..
तस्य प्रसन्नो भगवान् प्रादात् सारूप्यमात्मनः । श्रियं च परमां लोके बलैश्वर्यस्मृतीन्द्रियम् ॥ ४२ ॥
तस्य प्रसन्नः भगवान् प्रादात् सारूप्यम् आत्मनः । श्रियम् च परमाम् लोके बल-ऐश्वर्य-स्मृति-इन्द्रियम् ॥ ४२ ॥
tasya prasannaḥ bhagavān prādāt sārūpyam ātmanaḥ . śriyam ca paramām loke bala-aiśvarya-smṛti-indriyam .. 42 ..
ततः सुदाम्नो भवनं मालाकारस्य जग्मतुः । तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ ४३ ॥
ततस् सुदाम्नः भवनम् मालाकारस्य जग्मतुः । तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ ४३ ॥
tatas sudāmnaḥ bhavanam mālākārasya jagmatuḥ . tau dṛṣṭvā sa samutthāya nanāma śirasā bhuvi .. 43 ..
तयोरासनमानीय पाद्यं चार्घ्यार्हणादिभिः । पूजां सानुगयोश्चक्रे स्रक्ताम्बूलानुलेपनैः ॥ ४४ ॥
तयोः आसनम् आनीय पाद्यम् च अर्घ्य-अर्हण-आदिभिः । पूजाम् स अनुगयोः चक्रे स्रक्-ताम्बूल-अनुलेपनैः ॥ ४४ ॥
tayoḥ āsanam ānīya pādyam ca arghya-arhaṇa-ādibhiḥ . pūjām sa anugayoḥ cakre srak-tāmbūla-anulepanaiḥ .. 44 ..
प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो । पितृदेवर्षयो मह्यं तुष्टा ह्यागमनेन वाम् ॥ ४५ ॥
प्राह नः सार्थकम् जन्म पावितम् च कुलम् प्रभो । पितृ-देव-ऋषयः मह्यम् तुष्टाः हि आगमनेन वाम् ॥ ४५ ॥
prāha naḥ sārthakam janma pāvitam ca kulam prabho . pitṛ-deva-ṛṣayaḥ mahyam tuṣṭāḥ hi āgamanena vām .. 45 ..
भवन्तौ किल विश्वस्य जगतः कारणं परम् । अवतीर्णाविहांशेन क्षेमाय च भवाय च ॥ ४६ ॥
भवन्तौ किल विश्वस्य जगतः कारणम् परम् । अवतीर्णौ इह अंशेन क्षेमाय च भवाय च ॥ ४६ ॥
bhavantau kila viśvasya jagataḥ kāraṇam param . avatīrṇau iha aṃśena kṣemāya ca bhavāya ca .. 46 ..
न हि वां विषमा दृष्टिः सुहृदोर्जगदात्मनोः । समयोः सर्वभूतेषु भजन्तं भजतोरपि ॥ ४७ ॥
न हि वाम् विषमा दृष्टिः सुहृदोः जगदात्मनोः । समयोः सर्व-भूतेषु भजन्तम् भजतोः अपि ॥ ४७ ॥
na hi vām viṣamā dṛṣṭiḥ suhṛdoḥ jagadātmanoḥ . samayoḥ sarva-bhūteṣu bhajantam bhajatoḥ api .. 47 ..
तावज्ञापयतं भृत्यं किमहं करवाणि वाम् । पुंसोऽत्यनुग्रहो ह्येष भवद्भिः यन्नियुज्यते ॥ ४८ ॥
तौ अज्ञापयतम् भृत्यम् किम् अहम् करवाणि वाम् । पुंसः अत्यनुग्रहः हि एष भवद्भिः यत् नियुज्यते ॥ ४८ ॥
tau ajñāpayatam bhṛtyam kim aham karavāṇi vām . puṃsaḥ atyanugrahaḥ hi eṣa bhavadbhiḥ yat niyujyate .. 48 ..
इत्यभिप्रेत्य राजेन्द्र सुदामा प्रीतमानसः । शस्तैः सुगन्धैः कुसुमैं माला विरचिता ददौ ॥ ४९ ॥
इति अभिप्रेत्य राज-इन्द्र सुदामा प्रीत-मानसः । शस्तैः सु गन्धैः कुसुमैः माला विरचिता ददौ ॥ ४९ ॥
iti abhipretya rāja-indra sudāmā prīta-mānasaḥ . śastaiḥ su gandhaiḥ kusumaiḥ mālā viracitā dadau .. 49 ..
ताभिः स्वलङ्कृतौ प्रीतौ कृष्णरामौ सहानुगौ । प्रणताय प्रपन्नाय ददतुर्वरदौ वरान् ॥ ५० ॥
ताभिः सु अलङ्कृतौ प्रीतौ कृष्ण-रामौ सह अनुगौ । प्रणताय प्रपन्नाय ददतुः वर-दौ वरान् ॥ ५० ॥
tābhiḥ su alaṅkṛtau prītau kṛṣṇa-rāmau saha anugau . praṇatāya prapannāya dadatuḥ vara-dau varān .. 50 ..
सोऽपि वव्रेऽचलां भक्तिं तस्मिन् एवाखिलात्मनि । तद्भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ॥ ५१ ॥
सः अपि वव्रे अचलाम् भक्तिम् तस्मिन् एव अखिलात्मनि । तद्-भक्तेषु च सौहार्दम् भूतेषु च दयाम् पराम् ॥ ५१ ॥
saḥ api vavre acalām bhaktim tasmin eva akhilātmani . tad-bhakteṣu ca sauhārdam bhūteṣu ca dayām parām .. 51 ..
इति तस्मै वरं दत्त्वा श्रियं चान्वयवर्धिनीम् । बलमायुर्यशः कान्तिं निर्जगाम सहाग्रजः ॥ ५२ ॥
इति तस्मै वरम् दत्त्वा श्रियम् च अन्वय-वर्धिनीम् । बलम् आयुः यशः कान्तिम् निर्जगाम सह अग्रजः ॥ ५२ ॥
iti tasmai varam dattvā śriyam ca anvaya-vardhinīm . balam āyuḥ yaśaḥ kāntim nirjagāma saha agrajaḥ .. 52 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पुरप्रवेशो नाम एकचत्वारिंशोऽध्यायः ॥ ४१ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे पुरप्रवेशः नाम एकचत्वारिंशः अध्यायः ॥ ४१ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe purapraveśaḥ nāma ekacatvāriṃśaḥ adhyāyaḥ .. 41 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In