| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
एवं पुरा धारणयाऽऽत्मयोनिः नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् । तथा ससर्जेदममोघदृष्टिः यथाप्ययात् प्राक् व्यवसायबुद्धिः ॥ १ ॥
एवम् पुरा धारणया आत्मयोनिः नष्टाम् स्मृतिम् प्रत्यवरुध्य तुष्टात् । तथा ससर्ज इदम् अमोघ-दृष्टिः यथा अपि अयात् प्राक् व्यवसाय-बुद्धिः ॥ १ ॥
evam purā dhāraṇayā ātmayoniḥ naṣṭām smṛtim pratyavarudhya tuṣṭāt . tathā sasarja idam amogha-dṛṣṭiḥ yathā api ayāt prāk vyavasāya-buddhiḥ .. 1 ..
शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थैः । परिभ्रमन् तत्र न विन्दतेऽर्थान् मायामये वासनया शयानः ॥ २ ॥
शाब्दस्य हि ब्रह्मणः एष पन्थाः यद्-नामभिः ध्यायति धीर-पार्थैः । परिभ्रमन् तत्र न विन्दते अर्थान् माया-मये वासनया शयानः ॥ २ ॥
śābdasya hi brahmaṇaḥ eṣa panthāḥ yad-nāmabhiḥ dhyāyati dhīra-pārthaiḥ . paribhraman tatra na vindate arthān māyā-maye vāsanayā śayānaḥ .. 2 ..
अतः कविर्नामसु यावदर्थः स्याद् अप्रमत्तो व्यवसायबुद्धिः । सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाणः ॥ ३ ॥
अतस् कविः नामसु यावत्-अर्थः स्यात् अप्रमत्तः व्यवसाय-बुद्धिः । सिद्धे अन्यथा अर्थे न यतेत तत्र परिश्रमम् तत्र समीक्षमाणः ॥ ३ ॥
atas kaviḥ nāmasu yāvat-arthaḥ syāt apramattaḥ vyavasāya-buddhiḥ . siddhe anyathā arthe na yateta tatra pariśramam tatra samīkṣamāṇaḥ .. 3 ..
सत्यां क्षितौ किं कशिपोः प्रयासैः बाहौ स्वसिद्धे ह्युपबर्हणैः किम् । सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैः ॥ ४ ॥
सत्याम् क्षितौ किम् कशिपोः प्रयासैः बाहौ स्व-सिद्धे हि उपबर्हणैः किम् । सति अञ्जलौ किम् पुरुधा अन्न-पात्र्या दिश्-वल्कल-आदौ सति किम् दुकूलैः ॥ ४ ॥
satyām kṣitau kim kaśipoḥ prayāsaiḥ bāhau sva-siddhe hi upabarhaṇaiḥ kim . sati añjalau kim purudhā anna-pātryā diś-valkala-ādau sati kim dukūlaiḥ .. 4 ..
चीराणि किं पथि न सन्ति दिशन्ति भिक्षां । नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन् । रुद्धा गुहाः किमजितोऽवति नोपसन्नान् । कस्माद् भजंति कवयो धनदुर्मदान्धान् ॥ ५ ॥
चीराणि किम् पथि न सन्ति दिशन्ति भिक्षाम् । न एव अङ्घ्रिपाः परभृतः सरितः अपि अ शुष्यन् । रुद्धाः गुहाः किम् अजितः अवति न उपसन्नान् । कस्मात् भजंति कवयः धन-दुर्मद-अन्धान् ॥ ५ ॥
cīrāṇi kim pathi na santi diśanti bhikṣām . na eva aṅghripāḥ parabhṛtaḥ saritaḥ api a śuṣyan . ruddhāḥ guhāḥ kim ajitaḥ avati na upasannān . kasmāt bhajaṃti kavayaḥ dhana-durmada-andhān .. 5 ..
एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियोऽर्थो भगवान अनंतः । तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र ॥ ६ ॥
एवम् स्व-चित्ते स्वतस् एव सिद्धे आत्मा प्रियः अर्थः अनन्तः । तम् निर्वृतः नियत-अर्थः भजेत संसार-हेतु-उपरमः च यत्र ॥ ६ ॥
evam sva-citte svatas eva siddhe ātmā priyaḥ arthaḥ anantaḥ . tam nirvṛtaḥ niyata-arthaḥ bhajeta saṃsāra-hetu-uparamaḥ ca yatra .. 6 ..
कस्तां त्वनादृत्य परानुचिन्तां ऋते पशून् असतीं नाम कुर्यात् । पश्यञ्जनं पतितं वैतरण्यां स्वकर्मजान् परितापान् जुषाणम् ॥ ७ ॥
कः ताम् तु अन् आदृत्य पर-अनुचिन्ताम् ऋते पशून् असतीम् नाम कुर्यात् । पश्यन् जनम् पतितम् वैतरण्याम् स्व-कर्म-जान् परितापान् जुषाणम् ॥ ७ ॥
kaḥ tām tu an ādṛtya para-anucintām ṛte paśūn asatīm nāma kuryāt . paśyan janam patitam vaitaraṇyām sva-karma-jān paritāpān juṣāṇam .. 7 ..
केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् । चतुर्भुजं कञ्जरथाङ्गशङ्ख गदाधरं धारणया स्मरन्ति ॥ ८ ॥
केचिद् स्व-देह-अन्तर् हृदय-अवकाशे प्रादेश-मात्रम् पुरुषम् वसन्तम् । चतुर्भुजम् कञ्ज-रथाङ्ग-शङ्ख गदा-धरम् धारणया स्मरन्ति ॥ ८ ॥
kecid sva-deha-antar hṛdaya-avakāśe prādeśa-mātram puruṣam vasantam . caturbhujam kañja-rathāṅga-śaṅkha gadā-dharam dhāraṇayā smaranti .. 8 ..
प्रसन्नवक्त्रं नलिनायतेक्षणं कदंबकिञ्जल्कपिशङ्गवाससम् । लसन्महारत्नहिरण्मयाङ्गदं स्फुरन् महारत्नकिरीटकुण्डलम् ॥ ९ ॥
प्रसन्न-वक्त्रम् नलिन-आयत-ईक्षणम् कदंब-किञ्जल्क-पिशङ्ग-वाससम् । लसत्-महा-रत्न-हिरण्मय-अङ्गदम् स्फुरत्-महा-रत्न-किरीट-कुण्डलम् ॥ ९ ॥
prasanna-vaktram nalina-āyata-īkṣaṇam kadaṃba-kiñjalka-piśaṅga-vāsasam . lasat-mahā-ratna-hiraṇmaya-aṅgadam sphurat-mahā-ratna-kirīṭa-kuṇḍalam .. 9 ..
उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् । श्रीलक्षणं कौस्तुभरत्नकन्धरं अम्लानलक्ष्म्या वनमालयाचितम् ॥ १० ॥
उन्निद्र-हृद्-पङ्कज-कर्णिका-आलये योगेश्वर-आस्थापित-पाद-पल्लवम् । श्री-लक्षणम् कौस्तुभ-रत्न-कन्धरम् अम्लान-लक्ष्म्या वनमालया आचितम् ॥ १० ॥
unnidra-hṛd-paṅkaja-karṇikā-ālaye yogeśvara-āsthāpita-pāda-pallavam . śrī-lakṣaṇam kaustubha-ratna-kandharam amlāna-lakṣmyā vanamālayā ācitam .. 10 ..
विभूषितं मेखलयाऽङ्गुलीयकैः महाधनैर्नूपुरकङ्कणादिभिः । स्निग्धामलाकुञ्चितनीलकुन्तलैः विरोचमानाननहासपेशलम् ॥ ११ ॥
विभूषितम् मेखलया अङ्गुलीयकैः महाधनैः नूपुर-कङ्कण-आदिभिः । स्निग्ध-अमल-आकुञ्चित-नील-कुन्तलैः विरोचमान-आनन-हास-पेशलम् ॥ ११ ॥
vibhūṣitam mekhalayā aṅgulīyakaiḥ mahādhanaiḥ nūpura-kaṅkaṇa-ādibhiḥ . snigdha-amala-ākuñcita-nīla-kuntalaiḥ virocamāna-ānana-hāsa-peśalam .. 11 ..
अदीनलीलाहसितेक्षणोल्लसद् भ्रूभङ्गसंसूचितभूर्यनुग्रहम् । ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयाऽवतिष्ठते ॥ १२ ॥
अदीन-लीला-हसित-ईक्षण-उल्लसत् भ्रू-भङ्ग-संसूचित-भूरि-अनुग्रहम् । ईक्षेत चिन्ताम् अयम् एनम् ईश्वरम् यावत् मनः धारणया अवतिष्ठते ॥ १२ ॥
adīna-līlā-hasita-īkṣaṇa-ullasat bhrū-bhaṅga-saṃsūcita-bhūri-anugraham . īkṣeta cintām ayam enam īśvaram yāvat manaḥ dhāraṇayā avatiṣṭhate .. 12 ..
एकैकशोऽङ्गानि धियानुभावयेत् पादादि यावद् हसितं गदाभृतः । जितं जितं स्थानमपोह्य धारयेत् परं परं शुद्ध्यति धीर्यथा यथा ॥ १३ ॥
एकैकशस् अङ्गानि धिया अनुभावयेत् पाद-आदि यावत् हसितम् गदाभृतः । जितम् जितम् स्थानम् अपोह्य धारयेत् परम् परम् शुद्धि-अति धीः यथा यथा ॥ १३ ॥
ekaikaśas aṅgāni dhiyā anubhāvayet pāda-ādi yāvat hasitam gadābhṛtaḥ . jitam jitam sthānam apohya dhārayet param param śuddhi-ati dhīḥ yathā yathā .. 13 ..
यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः । तावत् स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत ॥ १४ ॥
यावत् न जायेत परावरे अस्मिन् विश्वेश्वरे द्रष्टरि भक्ति-योगः । तावत् स्थवीयः पुरुषस्य रूपम् क्रिया-अवसाने प्रयतः स्मरेत ॥ १४ ॥
yāvat na jāyeta parāvare asmin viśveśvare draṣṭari bhakti-yogaḥ . tāvat sthavīyaḥ puruṣasya rūpam kriyā-avasāne prayataḥ smareta .. 14 ..
स्थिरं सुखं चासनमास्थितो यतिः यदा जिहासुरिममङ्ग लोकम् । काले च देशे च मनो न सज्जयेत् प्राणान् नियच्छेन्मनसा जितासुः ॥ १५ ॥
स्थिरम् सुखम् च आसनम् आस्थितः यतिः यदा जिहासुः इमम् अङ्ग लोकम् । काले च देशे च मनः न सज्जयेत् प्राणान् नियच्छेत् मनसा जित-असुः ॥ १५ ॥
sthiram sukham ca āsanam āsthitaḥ yatiḥ yadā jihāsuḥ imam aṅga lokam . kāle ca deśe ca manaḥ na sajjayet prāṇān niyacchet manasā jita-asuḥ .. 15 ..
मनः स्वबुद्ध्याऽमलया नियम्य क्षेत्रज्ञ एतां निनयेत् तमात्मनि । आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात् ॥ १६ ॥
मनः स्व-बुद्ध्या अमलया नियम्य क्षेत्रज्ञः एताम् निनयेत् तम् आत्मनि । आत्मानम् आत्मनि अवरुध्य धीरः लब्ध-उपशान्तिः विरमेत कृत्यात् ॥ १६ ॥
manaḥ sva-buddhyā amalayā niyamya kṣetrajñaḥ etām ninayet tam ātmani . ātmānam ātmani avarudhya dhīraḥ labdha-upaśāntiḥ virameta kṛtyāt .. 16 ..
न यत्र कालोऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे । न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम् ॥ १७ ॥
न यत्र कालः अनिमिषाम् परः प्रभुः कुतस् नु देवाः जगताम् ये ईशिरे । न यत्र सत्त्वम् न रजः तमः च न वै विकारः न महान् प्रधानम् ॥ १७ ॥
na yatra kālaḥ animiṣām paraḥ prabhuḥ kutas nu devāḥ jagatām ye īśire . na yatra sattvam na rajaḥ tamaḥ ca na vai vikāraḥ na mahān pradhānam .. 17 ..
परं पदं वैष्णवमामनन्ति तद् यन्नेति नेतीत्यतदुत्सिसृक्षवः । विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे ॥ १८ ॥
परम् पदम् वैष्णवम् आमनन्ति तत् यत् न इति न इति इति अ तद्-उत्सिसृक्षवः । विसृज्य दौरात्म्यम् अनन्य-सौहृदाः हृदा उपगुह्य अर्ह-पदम् पदे पदे ॥ १८ ॥
param padam vaiṣṇavam āmananti tat yat na iti na iti iti a tad-utsisṛkṣavaḥ . visṛjya daurātmyam ananya-sauhṛdāḥ hṛdā upaguhya arha-padam pade pade .. 18 ..
इत्थं मुनिस्तूपरमेद् व्यवस्थितो विज्ञानदृग्वीर्य सुरन्धिताशयः । स्वपार्ष्णिनऽपीड्य गुदं ततोऽनिलं स्थानेषु षट्सून्नमयेज्जितक्लमः ॥ १९ ॥
इत्थम् मुनिः तु उपरमेत् व्यवस्थितः विज्ञान-दृश् वीर्य सु रन्धित-आशयः । स्व-पार्ष्णिना आपीड्य गुदम् ततस् अनिलम् स्थानेषु षट्सु उन्नमयेत् जित-क्लमः ॥ १९ ॥
ittham muniḥ tu uparamet vyavasthitaḥ vijñāna-dṛś vīrya su randhita-āśayaḥ . sva-pārṣṇinā āpīḍya gudam tatas anilam sthāneṣu ṣaṭsu unnamayet jita-klamaḥ .. 19 ..
नाभ्यां स्थितं हृद्यधिरोप्य तस्माद् उदुदानगत्योरसि तं नयेन्मुनिः । ततोऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत ॥ २० ॥
नाभ्याम् स्थितम् हृदि अधिरोप्य तस्मात् उदुदान-गत्या उरसि तम् नयेत् मुनिः । ततस् अनुसन्धाय धिया मनस्वी स्व-तालु-मूलम् शनकैस् नयेत ॥ २० ॥
nābhyām sthitam hṛdi adhiropya tasmāt ududāna-gatyā urasi tam nayet muniḥ . tatas anusandhāya dhiyā manasvī sva-tālu-mūlam śanakais nayeta .. 20 ..
तस्माद् भ्रुवोरन्तरमुन्नयेत निरुद्धसप्तायतनोऽनपेक्षः । स्थित्वा मुहूर्तार्धमकुण्ठदृष्टिः निर्भिद्य मूर्धन् विसृजेत् परं गतः ॥ २१ ॥
तस्मात् भ्रुवोः अन्तरम् उन्नयेत निरुद्ध-सप्त-आयतनः अनपेक्षः । स्थित्वा मुहूर्त-अर्ध-मकुण्ठ-दृष्टिः निर्भिद्य मूर्धन् विसृजेत् परम् गतः ॥ २१ ॥
tasmāt bhruvoḥ antaram unnayeta niruddha-sapta-āyatanaḥ anapekṣaḥ . sthitvā muhūrta-ardha-makuṇṭha-dṛṣṭiḥ nirbhidya mūrdhan visṛjet param gataḥ .. 21 ..
यदि प्रयास्यन् नृप पारमेष्ठ्यं वैहायसानामुत यद् विहारम् । अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च ॥ २२ ॥
यदि प्रयास्यन् नृप पारमेष्ठ्यम् वैहायसानाम् उत यत् विहारम् । अष्ट-आधिपत्यम् गुण-सन्निवाये सह एव गच्छेत् मनसा इन्द्रियैः च ॥ २२ ॥
yadi prayāsyan nṛpa pārameṣṭhyam vaihāyasānām uta yat vihāram . aṣṭa-ādhipatyam guṇa-sannivāye saha eva gacchet manasā indriyaiḥ ca .. 22 ..
योगेश्वराणां गतिमाहुरन्तः बहिस्त्रिलोक्याः पवनान्तरात्मनाम् । न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥ २३ ॥
योग-ईश्वराणाम् गतिम् आहुः अन्तर् बहिस् त्रिलोक्याः पवन-अन्तरात्मनाम् । न कर्मभिः ताम् गतिम् आप्नुवन्ति विद्या-तपः-योग-समाधि-भाजाम् ॥ २३ ॥
yoga-īśvarāṇām gatim āhuḥ antar bahis trilokyāḥ pavana-antarātmanām . na karmabhiḥ tām gatim āpnuvanti vidyā-tapaḥ-yoga-samādhi-bhājām .. 23 ..
वैश्वानरं याति विहायसा गतः सुषुम्नया ब्रह्मपथेन शोचिषा । विधूतकल्कोऽथ हरेरुदस्तात् प्रयाति चक्रं नृप शैशुमारम् ॥ २४ ॥
वैश्वानरम् याति विहायसा गतः सुषुम्नया ब्रह्म-पथेन शोचिषा । विधूत-कल्कः अथ हरेः उदस्तात् प्रयाति चक्रम् नृप शैशुमारम् ॥ २४ ॥
vaiśvānaram yāti vihāyasā gataḥ suṣumnayā brahma-pathena śociṣā . vidhūta-kalkaḥ atha hareḥ udastāt prayāti cakram nṛpa śaiśumāram .. 24 ..
[ योऽन्तः पचति भूतानां यस्तपत्यण्डमध्यगः । सोऽग्निर्वैश्वानरो मार्गो देवानां पितृणां मुनेः ॥ देवयानं पिङ्गलाभिः हन्येति शतायुषा । रात्रीरिडाभिः पितृणां विषुवत्तां सुषुम्नया ॥ ]
[ यः अन्तर् पचति भूतानाम् यः तपति अण्ड-मध्य-गः । सः अग्निः वैश्वानरः मार्गः देवानाम् पितृणाम् मुनेः ॥ देव-यानम् पिङ्गलाभिः हन्य इति शत-आयुषा । रात्रीः इडाभिः पितृणाम् विषुवत्-ताम् सुषुम्नया ॥ ]
[ yaḥ antar pacati bhūtānām yaḥ tapati aṇḍa-madhya-gaḥ . saḥ agniḥ vaiśvānaraḥ mārgaḥ devānām pitṛṇām muneḥ .. deva-yānam piṅgalābhiḥ hanya iti śata-āyuṣā . rātrīḥ iḍābhiḥ pitṛṇām viṣuvat-tām suṣumnayā .. ]
तद्विश्वनाभिं त्वतिवर्त्य विष्णोः अणीयसा विरजेनात्मनैकः । नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद् विबुधा रमन्ते ॥ २५ ॥
तद्-विश्व-नाभिम् तु अतिवर्त्य विष्णोः अणीयसा विरजेन आत्मना एकः । नमस्कृतम् ब्रह्म-विदाम् उपैति कल्प-आयुषः यत् विबुधाः रमन्ते ॥ २५ ॥
tad-viśva-nābhim tu ativartya viṣṇoḥ aṇīyasā virajena ātmanā ekaḥ . namaskṛtam brahma-vidām upaiti kalpa-āyuṣaḥ yat vibudhāḥ ramante .. 25 ..
अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् । निर्याति सिद्धेश्वरयुष्टधिष्ण्यं यद् द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ॥ २६ ॥
अथो अनन्तस्य मुख-अनलेन दन्दह्यमानम् स निरीक्ष्य विश्वम् । निर्याति सिद्ध-ईश्वर-युष्ट-धिष्ण्यम् यत् तत् उ पारमेष्ठ्यम् ॥ २६ ॥
atho anantasya mukha-analena dandahyamānam sa nirīkṣya viśvam . niryāti siddha-īśvara-yuṣṭa-dhiṣṇyam yat tat u pārameṣṭhyam .. 26 ..
न यत्र शोको न जरा न मृत्युः न आर्तिः न चोद्वेग ऋते कुतश्चित् । यच्चित्ततोऽदः कृपयानिदं विदां दुरन्तदुःखप्रभवानुदर्शनात् ॥ २७ ॥
न यत्र शोकः न जरा न मृत्युः न आर्तिः न च उद्वेगः ऋते कुतश्चिद् । यत् चित्ततस् अदः कृपया अनिदम् विदाम् दुरन्त-दुःख-प्रभव-अनुदर्शनात् ॥ २७ ॥
na yatra śokaḥ na jarā na mṛtyuḥ na ārtiḥ na ca udvegaḥ ṛte kutaścid . yat cittatas adaḥ kṛpayā anidam vidām duranta-duḥkha-prabhava-anudarśanāt .. 27 ..
ततो विशेषं प्रतिपद्य निर्भयः तेनात्मनापोऽनलमूर्तिरत्वरन् । ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ २८ ॥
ततस् विशेषम् प्रतिपद्य निर्भयः तेन आत्मना अपः अनल-मूर्तिः अत्वरन् । ज्योतिः-मयः वायुम् उपेत्य काले वायु-आत्मना खम् बृहत्-आत्म-लिङ्गम् ॥ २८ ॥
tatas viśeṣam pratipadya nirbhayaḥ tena ātmanā apaḥ anala-mūrtiḥ atvaran . jyotiḥ-mayaḥ vāyum upetya kāle vāyu-ātmanā kham bṛhat-ātma-liṅgam .. 28 ..
घ्राणेन गन्धं रसनेन वै रसं रूपं च दृष्ट्या श्वसनं त्वचैव । श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकूतिमुपैति योगी ॥ २९ ॥
घ्राणेन गन्धम् रसनेन वै रसम् रूपम् च दृष्ट्या श्वसनम् त्वचा एव । श्रोत्रेण च उपेत्य नभः-गुण-त्वम् प्राणेन च आकूतिम् उपैति योगी ॥ २९ ॥
ghrāṇena gandham rasanena vai rasam rūpam ca dṛṣṭyā śvasanam tvacā eva . śrotreṇa ca upetya nabhaḥ-guṇa-tvam prāṇena ca ākūtim upaiti yogī .. 29 ..
स भूतसूक्ष्मेन्द्रियसन्निकर्षं मनोमयं देवमयं विकार्यम् । संसाद्य गत्या सह तेन याति विज्ञानतत्त्वं गुणसंनिरोधम् ॥ ३० ॥
स भूत-सूक्ष्म-इन्द्रिय-सन्निकर्षम् मनः-मयम् देव-मयम् विकार्यम् । संसाद्य गत्या सह तेन याति विज्ञान-तत्त्वम् गुण-संनिरोधम् ॥ ३० ॥
sa bhūta-sūkṣma-indriya-sannikarṣam manaḥ-mayam deva-mayam vikāryam . saṃsādya gatyā saha tena yāti vijñāna-tattvam guṇa-saṃnirodham .. 30 ..
तेनात्मनात्मानमुपैति शान्तं आनंदमानंदमयोऽवसाने । एतां गतिं भागवतीं गतो यः स वै पुनर्नेह विषज्जतेऽङ्ग ॥ ३१ ॥
तेन आत्मना आत्मानम् उपैति शान्तम् आनन्दम् आनन्द-मयः-अवसाने । एताम् गतिम् भागवतीम् गतः यः स वै पुनर् न इह विषज्जते अङ्ग ॥ ३१ ॥
tena ātmanā ātmānam upaiti śāntam ānandam ānanda-mayaḥ-avasāne . etām gatim bhāgavatīm gataḥ yaḥ sa vai punar na iha viṣajjate aṅga .. 31 ..
एते सृती ते नृप वेदगीते त्वयाभिपृष्टे च सनातने च । ये वै पुरा ब्रह्मण आह तुष्ट आराधितो भगवान् वासुदेवः ॥ ३२ ॥
एते सृती ते नृप वेद-गीते त्वया अभिपृष्टे च सनातने च । ये वै पुरा ब्रह्मणः आह तुष्टः आराधितः भगवान् वासुदेवः ॥ ३२ ॥
ete sṛtī te nṛpa veda-gīte tvayā abhipṛṣṭe ca sanātane ca . ye vai purā brahmaṇaḥ āha tuṣṭaḥ ārādhitaḥ bhagavān vāsudevaḥ .. 32 ..
न ह्यतोऽन्यः शिवः पन्था विशतः संसृताविह । वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ३३ ॥
न हि अतस् अन्यः शिवः पन्थाः विशतः संसृतौ इह । वासुदेवे भगवति भक्ति-योगः यतस् भवेत् ॥ ३३ ॥
na hi atas anyaḥ śivaḥ panthāḥ viśataḥ saṃsṛtau iha . vāsudeve bhagavati bhakti-yogaḥ yatas bhavet .. 33 ..
भगवान्ब्रह्म कार्त्स्न्येन त्रिरन् वीक्ष्य मनीषया । तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत् ॥ ३४ ॥
भगवान् ब्रह्म कार्त्स्न्येन त्रिस् अन् वीक्ष्य मनीषया । तत् अध्यवस्यत् कूटस्थः रतिः आत्मन् यतस् भवेत् ॥ ३४ ॥
bhagavān brahma kārtsnyena tris an vīkṣya manīṣayā . tat adhyavasyat kūṭasthaḥ ratiḥ ātman yatas bhavet .. 34 ..
भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः । दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैः अनुमापकैः ॥ ३५ ॥
भगवान् सर्व-भूतेषु लक्षितः स्व-आत्मना हरिः । दृश्यैः बुद्धि-आदिभिः द्रष्टा लक्षणैः अनुमापकैः ॥ ३५ ॥
bhagavān sarva-bhūteṣu lakṣitaḥ sva-ātmanā hariḥ . dṛśyaiḥ buddhi-ādibhiḥ draṣṭā lakṣaṇaiḥ anumāpakaiḥ .. 35 ..
तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान् नृणाम् ॥ ३६ ॥
तस्मात् सर्व-आत्मना राजन् हरिः सर्वत्र सर्वदा । श्रोतव्यः कीर्तितव्यः च स्मर्तव्यः भगवान् नृणाम् ॥ ३६ ॥
tasmāt sarva-ātmanā rājan hariḥ sarvatra sarvadā . śrotavyaḥ kīrtitavyaḥ ca smartavyaḥ bhagavān nṛṇām .. 36 ..
पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवणपुटेषु सम्भृतम् । पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ ३७ ॥
पिबन्ति ये भगवतः आत्मनः सताम् कथा-अमृतम् श्रवण-पुटेषु सम्भृतम् । पुनन्ति ते विषय-विदूषित-आशयम् व्रजन्ति तद्-चरण-सरोरुह-अन्तिकम् ॥ ३७ ॥
pibanti ye bhagavataḥ ātmanaḥ satām kathā-amṛtam śravaṇa-puṭeṣu sambhṛtam . punanti te viṣaya-vidūṣita-āśayam vrajanti tad-caraṇa-saroruha-antikam .. 37 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे द्वितीयोऽध्यायः ॥ २ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीय-स्कंधे द्वितीयः अध्यायः ॥ २ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvitīya-skaṃdhe dvitīyaḥ adhyāyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In