| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

राजोवाच - (अनुष्टुप्)
स्वधामानुगते कृष्ण यदुवंशविभूषणे । कस्य वंशोऽभवत् पृथ्व्यां एतद् आचक्ष्व मे मुने
स्व-धाम अनुगते कृष्ण यदु-वंश-विभूषणे । कस्य वंशः अभवत् पृथ्व्याम् एतत् आचक्ष्व मे मुने
sva-dhāma anugate kṛṣṇa yadu-vaṃśa-vibhūṣaṇe . kasya vaṃśaḥ abhavat pṛthvyām etat ācakṣva me mune
योऽन्त्यः पुरञ्जयो नाम भाव्यो बार्हद्रथो नृप । तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम् १ ।
यः अन्त्यः पुरञ्जयः नाम भाव्यः बार्हद्रथः नृप । तस्य अमात्यः तु शुनकः हत्वा स्वामिनम् आत्मजम् ।
yaḥ antyaḥ purañjayaḥ nāma bhāvyaḥ bārhadrathaḥ nṛpa . tasya amātyaḥ tu śunakaḥ hatvā svāminam ātmajam .
प्रद्योतसंज्ञं राजानं कर्ता यत्पालकः सुतः । विशाखयूपस्तत्पुत्रो भविता राजकस्ततः २ ।
प्रद्योत-संज्ञम् राजानम् कर्ता यद्-पालकः सुतः । विशाखयूपः तद्-पुत्रः भविता राजकः ततस् ।
pradyota-saṃjñam rājānam kartā yad-pālakaḥ sutaḥ . viśākhayūpaḥ tad-putraḥ bhavitā rājakaḥ tatas .
नन्दिवर्धनस्तत्पुत्रः पञ्च प्रद्योतना इमे । अष्टत्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपाः ३ ।
नन्दिवर्धनः तद्-पुत्रः पञ्च प्रद्योतनाः इमे । अष्टत्रिंशोत्तरशतम् भोक्ष्यन्ति पृथिवीम् नृपाः ।
nandivardhanaḥ tad-putraḥ pañca pradyotanāḥ ime . aṣṭatriṃśottaraśatam bhokṣyanti pṛthivīm nṛpāḥ .
शिशुनागस्ततो भाव्यः काकवर्णस्तु तत्सुतः । क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्मजः ४
शिशुनागः ततस् भाव्यः काकवर्णः तु तद्-सुतः । क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्म-जः
śiśunāgaḥ tatas bhāvyaḥ kākavarṇaḥ tu tad-sutaḥ . kṣemadharmā tasya sutaḥ kṣetrajñaḥ kṣemadharma-jaḥ
विधिसारः सुतस्तस्या जातशत्रुर्भविष्यति । दर्भकस्तत्सुतो भावी दर्भकस्याजयः स्मृतः ५
विधिसारः सुतः तस्याः जातशत्रुः भविष्यति । दर्भकः तद्-सुतः भावी दर्भकस्य अजयः स्मृतः
vidhisāraḥ sutaḥ tasyāḥ jātaśatruḥ bhaviṣyati . darbhakaḥ tad-sutaḥ bhāvī darbhakasya ajayaḥ smṛtaḥ
नन्दिवर्धन आजेयो महानन्दिः सुतस्ततः । शिशुनागा दशैवैते सष्ट्युत्तरशतत्रयम् ६ ।
नन्दिवर्धनः आजेयः महानन्दिः सुतः ततस् । शिशुनागाः दश एव एते सष्टि-उत्तर-शत-त्रयम् ।
nandivardhanaḥ ājeyaḥ mahānandiḥ sutaḥ tatas . śiśunāgāḥ daśa eva ete saṣṭi-uttara-śata-trayam .
समा भोक्ष्यन्ति पृथिवीं कुरुश्रेष्ठ कलौ नृपाः । महानन्दिसुतो राजन्शूद्रा गर्भोद्भवो बली ७ ।
समाः भोक्ष्यन्ति पृथिवीम् कुरुश्रेष्ठ कलौ नृपाः । महानन्दि-सुतः राजन् शूद्रा गर्भ-उद्भवः बली ।
samāḥ bhokṣyanti pṛthivīm kuruśreṣṭha kalau nṛpāḥ . mahānandi-sutaḥ rājan śūdrā garbha-udbhavaḥ balī .
महापद्मपतिः कश्चिन्नन्दः क्षत्रविनाशकृत् । ततो नृपा भविष्यन्ति शूद्र प्रायास्त्वधार्मिकाः ८ ।
महापद्म-पतिः कश्चिद् नन्दः क्षत्र-विनाश-कृत् । ततस् नृपाः भविष्यन्ति शूद्र प्रायाः तु अधार्मिकाः ।
mahāpadma-patiḥ kaścid nandaḥ kṣatra-vināśa-kṛt . tatas nṛpāḥ bhaviṣyanti śūdra prāyāḥ tu adhārmikāḥ .
स एकच्छत्रां पृथिवीमनुल्लङ्घितशासनः । शासिष्यति महापद्मो द्वितीय इव भार्गवः ९
सः एक-छत्राम् पृथिवीम् अन् उल्लङ्घित-शासनः । शासिष्यति महापद्मः द्वितीयः इव भार्गवः
saḥ eka-chatrām pṛthivīm an ullaṅghita-śāsanaḥ . śāsiṣyati mahāpadmaḥ dvitīyaḥ iva bhārgavaḥ
तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः सुताः । य इमां भोक्ष्यन्ति महीं राजानश्च शतं समाः १०
तस्य च अष्टौ भविष्यन्ति सुमाल्य-प्रमुखाः सुताः । ये इमाम् भोक्ष्यन्ति महीम् राजानः च शतम् समाः
tasya ca aṣṭau bhaviṣyanti sumālya-pramukhāḥ sutāḥ . ye imām bhokṣyanti mahīm rājānaḥ ca śatam samāḥ
नव नन्दान्द्विजः कश्चित्प्रपन्नानुद्धरिष्यति । तेषां अभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ ११
नव नन्दान् द्विजः कश्चिद् प्रपन्नान् उद्धरिष्यति । तेषाम् अभावे जगतीम् मौर्याः भोक्ष्यन्ति वै कलौ
nava nandān dvijaḥ kaścid prapannān uddhariṣyati . teṣām abhāve jagatīm mauryāḥ bhokṣyanti vai kalau
स एव चन्द्र गुप्तं वै द्विजो राज्येऽभिषेक्ष्यति । तत्सुतो वारिसारस्तु ततश्चाशोकवर्धनः १२ ।
सः एव चन्द्र गुप्तम् वै द्विजः राज्ये अभिषेक्ष्यति । तद्-सुतः वारिसारः तु ततस् च अशोकवर्धनः ।
saḥ eva candra guptam vai dvijaḥ rājye abhiṣekṣyati . tad-sutaḥ vārisāraḥ tu tatas ca aśokavardhanaḥ .
सुयशा भविता तस्य सङ्गतः सुयशःसुतः । शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति । शतधन्वा ततस्तस्य भविता तद्बृहद्रथः १३ ।
सुयशाः भविता तस्य सङ्गतः सुयशः-सुतः । शालिशूकः ततस् तस्य सोमशर्मा भविष्यति । शतधन्वा ततस् तस्य भविता तद्-बृहद्रथः ।
suyaśāḥ bhavitā tasya saṅgataḥ suyaśaḥ-sutaḥ . śāliśūkaḥ tatas tasya somaśarmā bhaviṣyati . śatadhanvā tatas tasya bhavitā tad-bṛhadrathaḥ .
मौर्या ह्येते दश नृपाः सप्तत्रिंशच्छतोत्तरम् । । समा भोक्ष्यन्ति पृथिवीं कलौ कुरुकुलोद्वह १४
मौर्याः हि एते दश नृपाः सप्तत्रिंशत्-शत-उत्तरम् । । समाः भोक्ष्यन्ति पृथिवीम् कलौ कुरु-कुल-उद्वह
mauryāḥ hi ete daśa nṛpāḥ saptatriṃśat-śata-uttaram . . samāḥ bhokṣyanti pṛthivīm kalau kuru-kula-udvaha
अग्निमित्रस्ततस्तस्मात्सुज्येष्ठो भविता ततः । वसुमित्रो भद्रकश्च पुलिन्दो भविता सुतः १५
अग्निमित्रः ततस् तस्मात् सुज्येष्ठः भविता ततस् । वसुमित्रः भद्रकः च पुलिन्दः भविता सुतः
agnimitraḥ tatas tasmāt sujyeṣṭhaḥ bhavitā tatas . vasumitraḥ bhadrakaḥ ca pulindaḥ bhavitā sutaḥ
ततो घोषः सुतस्तस्माद्वज्रमित्रो भविष्यति । ततो भागवतस्तस्माद्देवभूतिः कुरूद्वह १६
ततस् घोषः सुतः तस्मात् वज्रमित्रः भविष्यति । ततस् भागवतः तस्मात् देवभूतिः कुरु-उद्वह
tatas ghoṣaḥ sutaḥ tasmāt vajramitraḥ bhaviṣyati . tatas bhāgavataḥ tasmāt devabhūtiḥ kuru-udvaha
शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्षशताधिकम् । ततः काण्वानियं भूमिर्यास्यत्यल्पगुणान्नृप १७ ।
शुङ्गाः दश एते भोक्ष्यन्ति भूमिम् वर्ष-शत-अधिकम् । ततस् काण्वान् इयम् भूमिः यास्यति अल्प-गुणान् नृप ।
śuṅgāḥ daśa ete bhokṣyanti bhūmim varṣa-śata-adhikam . tatas kāṇvān iyam bhūmiḥ yāsyati alpa-guṇān nṛpa .
शुङ्गं हत्वा देवभूतिं काण्वोऽमात्यस्तु कामिनम् । स्वयं करिष्यते राज्यं वसुदेवो महामतिः १८ ।
शुङ्गम् हत्वा देवभूतिम् काण्वः अमात्यः तु कामिनम् । स्वयम् करिष्यते राज्यम् वसुदेवः महामतिः ।
śuṅgam hatvā devabhūtim kāṇvaḥ amātyaḥ tu kāminam . svayam kariṣyate rājyam vasudevaḥ mahāmatiḥ .
काण्वायना इमे भूमिं चत्वारिंशच्च पञ्च च । शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे १९
काण्वायनाः इमे भूमिम् चत्वारिंशत् च पञ्च च । शतानि त्रीणि भोक्ष्यन्ति वर्षाणाम् च कलौ युगे
kāṇvāyanāḥ ime bhūmim catvāriṃśat ca pañca ca . śatāni trīṇi bhokṣyanti varṣāṇām ca kalau yuge
हत्वा काण्वं सुशर्माणं तद्भृत्यो वृषलो बली । गां भोक्ष्यत्यन्ध्रजातीयः कञ्चित्कालमसत्तमः २०
हत्वा काण्वम् सुशर्माणम् तद्-भृत्यः वृषलः बली । गाम् भोक्ष्यति अन्ध्र-जातीयः कञ्चिद् कालम् असत्तमः
hatvā kāṇvam suśarmāṇam tad-bhṛtyaḥ vṛṣalaḥ balī . gām bhokṣyati andhra-jātīyaḥ kañcid kālam asattamaḥ
कृष्णनामाथ तद्भ्राता भविता पृथिवीपतिः । श्रीशान्तकर्णस्तत्पुत्रः पौर्णमासस्तु तत्सुतः २१
कृष्ण-नामा अथ तद्-भ्राता भविता पृथिवीपतिः । श्रीशान्तकर्णः तद्-पुत्रः पौर्णमासः तु तद्-सुतः
kṛṣṇa-nāmā atha tad-bhrātā bhavitā pṛthivīpatiḥ . śrīśāntakarṇaḥ tad-putraḥ paurṇamāsaḥ tu tad-sutaḥ
लम्बोदरस्तु तत्पुत्रस्तस्माच्चिबिलको नृपः । मेघस्वातिश्चिबिलकादटमानस्तु तस्य च २२ ।
लम्बोदरः तु तद्-पुत्रः तस्मात् चिबिलकः नृपः । मेघस्वातिः चिबिलकात् अटमानः तु तस्य च ।
lambodaraḥ tu tad-putraḥ tasmāt cibilakaḥ nṛpaḥ . meghasvātiḥ cibilakāt aṭamānaḥ tu tasya ca .
अनिष्टकर्मा हालेयस्तलकस्तस्य चात्मजः । पुरीषभीरुस्तत्पुत्रस्ततो राजा सुनन्दनः २३ ।
अनिष्ट-कर्मा हालेयः तलकः तस्य च आत्मजः । पुरीषभीरुः तद्-पुत्रः ततस् राजा सुनन्दनः ।
aniṣṭa-karmā hāleyaḥ talakaḥ tasya ca ātmajaḥ . purīṣabhīruḥ tad-putraḥ tatas rājā sunandanaḥ .
चकोरो बहवो यत्र शिवस्वातिररिन्दमः । तस्यापि गोमती पुत्रः पुरीमान्भविता ततः २४ ।
चकोरः बहवः यत्र शिव-स्वातिः अरिन्दमः । तस्य अपि गोमती पुत्रः पुरीमान् भविता ततस् ।
cakoraḥ bahavaḥ yatra śiva-svātiḥ arindamaḥ . tasya api gomatī putraḥ purīmān bhavitā tatas .
मेदशिराः शिवस्कन्दो यज्ञश्रीस्तत्सुतस्ततः । विजयस्तत्सुतो भाव्यश्चन्द्र विज्ञः सलोमधिः २५
मेदशिराः शिवस्कन्दः यज्ञश्रीः तद्-सुतः ततस् । विजयः तद्-सुतः भाव्यः चन्द्र विज्ञः सलोमधिः
medaśirāḥ śivaskandaḥ yajñaśrīḥ tad-sutaḥ tatas . vijayaḥ tad-sutaḥ bhāvyaḥ candra vijñaḥ salomadhiḥ
एते त्रिंशन्नृपतयश्चत्वार्यब्दशतानि च । षट्पञ्चाशच्च पृथिवीं भोक्ष्यन्ति कुरुनन्दन २६
एते त्रिंशत् नृपतयः चत्वारि अब्द-शतानि च । षट्पञ्चाशत् च पृथिवीम् भोक्ष्यन्ति कुरु-नन्दन
ete triṃśat nṛpatayaḥ catvāri abda-śatāni ca . ṣaṭpañcāśat ca pṛthivīm bhokṣyanti kuru-nandana
सप्ताभीरा आवभृत्या दश गर्दभिनो नृपाः । कङ्काः षोडश भूपाला भविष्यन्त्यतिलोलुपाः २७ ।
सप्त आभीराः आवभृत्याः दश गर्दभिनः नृपाः । कङ्काः षोडश भूपालाः भविष्यन्ति अति लोलुपाः ।
sapta ābhīrāḥ āvabhṛtyāḥ daśa gardabhinaḥ nṛpāḥ . kaṅkāḥ ṣoḍaśa bhūpālāḥ bhaviṣyanti ati lolupāḥ .
ततोऽष्टौ यवना भाव्याश्चतुर्दश तुरुष्ककाः । भूयो दश गुरुण्डाश्च मौला एकादशैव तु २८ ।
ततस् अष्टौ यवनाः भाव्याः चतुर्दश तुरुष्ककाः । भूयस् दश गुरुण्डाः च मौलाः एकादश एव तु ।
tatas aṣṭau yavanāḥ bhāvyāḥ caturdaśa turuṣkakāḥ . bhūyas daśa guruṇḍāḥ ca maulāḥ ekādaśa eva tu .
एते भोक्ष्यन्ति पृथिवीं दश वर्षशतानि च । नवाधिकां च नवतिं मौला एकादश क्षितिम् २९ ।
एते भोक्ष्यन्ति पृथिवीम् दश वर्ष-शतानि च । नव-अधिकाम् च नवतिम् मौलाः एकादश क्षितिम् ।
ete bhokṣyanti pṛthivīm daśa varṣa-śatāni ca . nava-adhikām ca navatim maulāḥ ekādaśa kṣitim .
भोक्ष्यन्त्यब्दशतान्यङ्ग त्रीणि तैः संस्थिते ततः । किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरिः ३०
भोक्ष्यन्ति अब्द-शतानि अङ्ग त्रीणि तैः संस्थिते ततस् । किलकिलायाम् नृपतयः भूतनन्दः अथ वङ्गिरिः
bhokṣyanti abda-śatāni aṅga trīṇi taiḥ saṃsthite tatas . kilakilāyām nṛpatayaḥ bhūtanandaḥ atha vaṅgiriḥ
शिशुनन्दिश्च तद्भ्राता यशोनन्दिः प्रवीरकः । इत्येते वै वर्षशतं भविष्यन्त्यधिकानि षट् ३१
शिशुनन्दिः च तद्-भ्राता यशोनन्दिः प्रवीरकः । इति एते वै वर्ष-शतम् भविष्यन्ति अधिकानि षड्
śiśunandiḥ ca tad-bhrātā yaśonandiḥ pravīrakaḥ . iti ete vai varṣa-śatam bhaviṣyanti adhikāni ṣaḍ
तेषां त्रयोदश सुता भवितारश्च बाह्लिकाः । पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च ३२
तेषाम् त्रयोदश सुताः भवितारः च बाह्लिकाः । पुष्पमित्रः अथ राजन्यः दुर्मित्रः अस्य तथा एव च
teṣām trayodaśa sutāḥ bhavitāraḥ ca bāhlikāḥ . puṣpamitraḥ atha rājanyaḥ durmitraḥ asya tathā eva ca
एककाला इमे भूपाः सप्तान्ध्राः सप्त कौशलाः । विदूरपतयो भाव्या निषधास्तत एव हि ३३ ।
एक-कालाः इमे भूपाः सप्त अन्ध्राः सप्त कौशलाः । विदूर-पतयः भाव्याः निषधाः ततस् एव हि ।
eka-kālāḥ ime bhūpāḥ sapta andhrāḥ sapta kauśalāḥ . vidūra-patayaḥ bhāvyāḥ niṣadhāḥ tatas eva hi .
मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः । करिष्यत्यपरो वर्णान्पुलिन्दयदुमद्र कान् ३४ ।
मागधानाम् तु भविता विश्वस्फूर्जिः पुरञ्जयः । करिष्यति अपरः वर्णान् पुलिन्द-यदु-मद्र-कान् ।
māgadhānām tu bhavitā viśvasphūrjiḥ purañjayaḥ . kariṣyati aparaḥ varṇān pulinda-yadu-madra-kān .
प्रजाश्चाब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः । वीर्यवान्क्षत्रमुत्साद्य पद्मवत्यां स वै पुरि । । अनुगङ्गमाप्रयागं गुप्तां भोक्ष्यति मेदिनीम् ३५
प्रजाः च अब्रह्म-भूयिष्ठाः स्थापयिष्यति दुर्मतिः । वीर्यवान् क्षत्रम् उत्साद्य पद्मवत्याम् स वै पुरि । । अनु गङ्गम् आ प्रयागम् गुप्ताम् भोक्ष्यति मेदिनीम्
prajāḥ ca abrahma-bhūyiṣṭhāḥ sthāpayiṣyati durmatiḥ . vīryavān kṣatram utsādya padmavatyām sa vai puri . . anu gaṅgam ā prayāgam guptām bhokṣyati medinīm
सौराष्ट्रावन्त्याभीराश्च शूरा अर्बुदमालवाः । व्रात्या द्विजा भविष्यन्ति शूद्र प्राया जनाधिपाः ३६
सौराष्ट्र-आवन्त्य-आभीराः च शूराः अर्बुद-मालवाः । व्रात्याः द्विजाः भविष्यन्ति शूद्र-प्रायाः जनाधिपाः
saurāṣṭra-āvantya-ābhīrāḥ ca śūrāḥ arbuda-mālavāḥ . vrātyāḥ dvijāḥ bhaviṣyanti śūdra-prāyāḥ janādhipāḥ
सिन्धोस्तटं चन्द्रभागां कौन्तीं काश्मीरमण्डलम् । भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश्चाब्रह्मवर्चसः ३७
सिन्धोः तटम् चन्द्रभागाम् कौन्तीम् काश्मीर-मण्डलम् । भोक्ष्यन्ति शूद्राः व्रात्य-आद्याः म्लेच्छाः च अब्रह्मवर्चसः
sindhoḥ taṭam candrabhāgām kauntīm kāśmīra-maṇḍalam . bhokṣyanti śūdrāḥ vrātya-ādyāḥ mlecchāḥ ca abrahmavarcasaḥ
तुल्यकाला इमे राजन्म्लेच्छप्रायाश्च भूभृतः । एतेऽधर्मानृतपराः फल्गुदास्तीव्रमन्यवः ३८ ।
तुल्य-कालाः इमे राजन् म्लेच्छ-प्रायाः च भूभृतः । एते अधर्म-अनृत-पराः फल्गुदाः तीव्र-मन्यवः ।
tulya-kālāḥ ime rājan mleccha-prāyāḥ ca bhūbhṛtaḥ . ete adharma-anṛta-parāḥ phalgudāḥ tīvra-manyavaḥ .
स्त्रीबालगोद्विजघ्नाश्च परदारधनादृताः । उदितास्तमितप्राया अल्पसत्त्वाल्पकायुषः ३९ ।
स्त्री-बाल-गो-द्विज-घ्नाः च पर-दार-धन-आदृताः । उदित-अस्तमित-प्रायाः अल्प-सत्त्व-अल्पक-आयुषः ।
strī-bāla-go-dvija-ghnāḥ ca para-dāra-dhana-ādṛtāḥ . udita-astamita-prāyāḥ alpa-sattva-alpaka-āyuṣaḥ .
असंस्कृताः क्रियाहीना रजसा तमसावृताः । प्रजास्ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिणः ४० ।
असंस्कृताः क्रिया-हीनाः रजसा तमसा आवृताः । प्रजाः ते भक्षयिष्यन्ति म्लेच्छाः राजन्य-रूपिणः ।
asaṃskṛtāḥ kriyā-hīnāḥ rajasā tamasā āvṛtāḥ . prajāḥ te bhakṣayiṣyanti mlecchāḥ rājanya-rūpiṇaḥ .
तन्नाथास्ते जनपदास्तच्छीलाचारवादिनः । अन्योन्यतो राजभिश्च क्षयं यास्यन्ति पीडिताः ४१
तद्-नाथाः ते जनपदाः तद्-शील-आचार-वादिनः । अन्योन्यतः राजभिः च क्षयम् यास्यन्ति पीडिताः
tad-nāthāḥ te janapadāḥ tad-śīla-ācāra-vādinaḥ . anyonyataḥ rājabhiḥ ca kṣayam yāsyanti pīḍitāḥ
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे प्रथमोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादश-स्कन्धे प्रथमः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvādaśa-skandhe prathamaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In