| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

एतन्निशम्य मुनिनाभिहितं परीक्षिद् । व्यासात्मजेन निखिलात्मदृशा समेन । तत्पादमूलमुपसृत्य नतेन मूर्ध्ना । बद्धाञ्जलिस्तमिदमाह स विष्णुरातः १ ।
एतत् निशम्य मुनिना अभिहितम् परीक्षित् । व्यास-आत्मजेन निखिल-आत्म-दृशा समेन । तद्-पाद-मूलम् उपसृत्य नतेन मूर्ध्ना । बद्धाञ्जलिः तम् इदम् आह स विष्णुरातः ।
etat niśamya muninā abhihitam parīkṣit . vyāsa-ātmajena nikhila-ātma-dṛśā samena . tad-pāda-mūlam upasṛtya natena mūrdhnā . baddhāñjaliḥ tam idam āha sa viṣṇurātaḥ .
राजोवाच ।
सिद्धोऽस्म्यनुगृहीतोऽस्मि भवता करुणात्मना । श्रावितो यच्च मे साक्षादनादिनिधनो हरिः २ ।
सिद्धः अस्मि अनुगृहीतः अस्मि भवता करुण-आत्मना । श्रावितः यत् च मे साक्षात् अनादिनिधनः हरिः ।
siddhaḥ asmi anugṛhītaḥ asmi bhavatā karuṇa-ātmanā . śrāvitaḥ yat ca me sākṣāt anādinidhanaḥ hariḥ .
नात्यद्भुतमहं मन्ये महतामच्युतात्मनाम् । अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रहः ३ ।
न अति अद्भुतम् अहम् मन्ये महताम् अच्युत-आत्मनाम् । अज्ञेषु ताप-तप्तेषु भूतेषु यत् अनुग्रहः ।
na ati adbhutam aham manye mahatām acyuta-ātmanām . ajñeṣu tāpa-tapteṣu bhūteṣu yat anugrahaḥ .
पुराणसंहितामेतामश्रौष्म भवतो वयम् । यस्यां खलूत्तमःश्लोको भगवाननवर्ण्यते ४ ।
पुराण-संहिताम् एताम् अश्रौष्म भवतः वयम् । यस्याम् खलु उत्तमः श्लोकः भगवान् अन् वर्ण्यते ।
purāṇa-saṃhitām etām aśrauṣma bhavataḥ vayam . yasyām khalu uttamaḥ ślokaḥ bhagavān an varṇyate .
भगवंस्तक्षकादिभ्यो मृत्युभ्यो न बिभेम्यहम् । प्रविष्टो ब्रह्म निर्वाणमभयं दर्शितं त्वया ५ ।
भगवन् तक्षक-आदिभ्यः मृत्युभ्यः न बिभेमि अहम् । प्रविष्टः ब्रह्म निर्वाणम् अभयम् दर्शितम् त्वया ।
bhagavan takṣaka-ādibhyaḥ mṛtyubhyaḥ na bibhemi aham . praviṣṭaḥ brahma nirvāṇam abhayam darśitam tvayā .
अनुजानीहि मां ब्रह्मन्वाचं यच्छाम्यधोक्षजे । मुक्तकामाशयं चेतः प्रवेश्य विसृजाम्यसून् ६ ।
अनुजानीहि माम् ब्रह्मन् वाचम् यच्छामि अधोक्षजे । मुक्त-काम-आशयम् चेतः प्रवेश्य विसृजामि असून् ।
anujānīhi mām brahman vācam yacchāmi adhokṣaje . mukta-kāma-āśayam cetaḥ praveśya visṛjāmi asūn .
अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया । भवता दर्शितं क्षेमं परं भगवतः पदम् ७ ।
अज्ञानम् च निरस्तम् मे ज्ञान-विज्ञान-निष्ठया । भवता दर्शितम् क्षेमम् परम् भगवतः पदम् ।
ajñānam ca nirastam me jñāna-vijñāna-niṣṭhayā . bhavatā darśitam kṣemam param bhagavataḥ padam .
सूत उवाच ।
इत्युक्तस्तमनुज्ञाप्य भगवान्बादरायणिः । जगाम भिक्षुभिः साकं नरदेवेन पूजितः ८ ।
इति उक्तः तम् अनुज्ञाप्य भगवान् बादरायणिः । जगाम भिक्षुभिः साकम् नरदेवेन पूजितः ।
iti uktaḥ tam anujñāpya bhagavān bādarāyaṇiḥ . jagāma bhikṣubhiḥ sākam naradevena pūjitaḥ .
परीक्षिदपि राजर्षिरात्मन्यात्मानमात्मना । समाधाय परं दध्यावस्पन्दासुर्यथा तरुः ९ ।
परीक्षित् अपि राजर्षिः आत्मनि आत्मानम् आत्मना । समाधाय परम् दध्यौ अस्पन्द-असुः यथा तरुः ।
parīkṣit api rājarṣiḥ ātmani ātmānam ātmanā . samādhāya param dadhyau aspanda-asuḥ yathā taruḥ .
प्राक्कूले बर्हिष्यासीनो गङ्गाकूल उदङ्मुखः । ब्रह्मभूतो महायोगी निःसङ्गश्छिन्नसंशयः १० ।
प्राच्-कूले बर्हिषि आसीनः गङ्गा-कूले उदक्-मुखः । ब्रह्म-भूतः महा-योगी निःसङ्गः छिन्न-संशयः ।
prāc-kūle barhiṣi āsīnaḥ gaṅgā-kūle udak-mukhaḥ . brahma-bhūtaḥ mahā-yogī niḥsaṅgaḥ chinna-saṃśayaḥ .
तक्षकः प्रहितो विप्राः क्रुद्धेन द्विजसूनुना । हन्तुकामो नृपं गच्छन्ददर्श पथि कश्यपम् ११ ।
तक्षकः प्रहितः विप्राः क्रुद्धेन द्विजसूनुना । हन्तु-कामः नृपम् गच्छन् ददर्श पथि कश्यपम् ।
takṣakaḥ prahitaḥ viprāḥ kruddhena dvijasūnunā . hantu-kāmaḥ nṛpam gacchan dadarśa pathi kaśyapam .
तं तर्पयित्वा द्रविणैर्निवर्त्य विषहारिणम् । द्विजरूपप्रतिच्छन्नः कामरूपोऽदशन्नृपम् १२ ।
तम् तर्पयित्वा द्रविणैः निवर्त्य विष-हारिणम् । द्विज-रूप-प्रतिच्छन्नः कामरूपः अदशत् नृपम् ।
tam tarpayitvā draviṇaiḥ nivartya viṣa-hāriṇam . dvija-rūpa-praticchannaḥ kāmarūpaḥ adaśat nṛpam .
ब्रह्मभूतस्य राजर्षेर्देहोऽहिगरलाग्निना । बभूव भस्मसात्सद्यः पश्यतां सर्वदेहिनाम् १३ ।
ब्रह्म-भूतस्य राजर्षेः देहः अहि-गरल-अग्निना । बभूव भस्मसात् सद्यस् पश्यताम् सर्व-देहिनाम् ।
brahma-bhūtasya rājarṣeḥ dehaḥ ahi-garala-agninā . babhūva bhasmasāt sadyas paśyatām sarva-dehinām .
हाहाकारो महानासीद्भुवि खे दिक्षु सर्वतः । विस्मिता ह्यभवन्सर्वे देवासुरनरादयः १४ ।
हाहाकारः महान् आसीत् भुवि खे दिक्षु सर्वतस् । विस्मिताः हि अभवन् सर्वे देव-असुर-नर-आदयः ।
hāhākāraḥ mahān āsīt bhuvi khe dikṣu sarvatas . vismitāḥ hi abhavan sarve deva-asura-nara-ādayaḥ .
देवदुन्दुभयो नेदुर्गन्धर्वाप्सरसो जगुः । ववृषुः पुष्पवर्षाणि विबुधाः साधुवादिनः १५ ।
देव-दुन्दुभयः नेदुः गन्धर्व-अप्सरसः जगुः । ववृषुः पुष्प-वर्षाणि विबुधाः साधु-वादिनः ।
deva-dundubhayaḥ neduḥ gandharva-apsarasaḥ jaguḥ . vavṛṣuḥ puṣpa-varṣāṇi vibudhāḥ sādhu-vādinaḥ .
जनमेजयः स्वपितरं श्रुत्वा तक्षकभक्षितम् । यथाजुहाव सन्क्रुद्धो नागान्सत्रे सह द्विजैः १६ ।
जनमेजयः स्व-पितरम् श्रुत्वा तक्षक-भक्षितम् । यथा आजुहाव सन् क्रुद्धः नागान् सत्रे सह द्विजैः ।
janamejayaḥ sva-pitaram śrutvā takṣaka-bhakṣitam . yathā ājuhāva san kruddhaḥ nāgān satre saha dvijaiḥ .
सर्पसत्रे समिद्धाग्नौ दह्यमानान्महोरगान् । दृष्ट्वेन्द्रं भयसंविग्नस्तक्षकः शरणं ययौ १७ ।
सर्प-सत्रे समिद्ध-अग्नौ दह्यमानान् महा-उरगान् । दृष्ट्वा इन्द्रम् भय-संविग्नः तक्षकः शरणम् ययौ ।
sarpa-satre samiddha-agnau dahyamānān mahā-uragān . dṛṣṭvā indram bhaya-saṃvignaḥ takṣakaḥ śaraṇam yayau .
अपश्यंस्तक्षकं तत्र राजा पारीक्षितो द्विजान् । उवाच तक्षकः कस्मान्न दह्येतोरगाधमः १८ ।
अपश्यन् तक्षकम् तत्र राजा पारीक्षितः द्विजान् । उवाच तक्षकः कस्मात् न दह्येत उरग-अधमः ।
apaśyan takṣakam tatra rājā pārīkṣitaḥ dvijān . uvāca takṣakaḥ kasmāt na dahyeta uraga-adhamaḥ .
तं गोपायति राजेन्द्र शक्रः शरणमागतम् । तेन संस्तम्भितः सर्पस्तस्मान्नाग्नौ पतत्यसौ १९ ।
तम् गोपायति राज-इन्द्र शक्रः शरणम् आगतम् । तेन संस्तम्भितः सर्पः तस्मात् न अग्नौ पतति असौ ।
tam gopāyati rāja-indra śakraḥ śaraṇam āgatam . tena saṃstambhitaḥ sarpaḥ tasmāt na agnau patati asau .
पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधीः । सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते २० ।
पारीक्षितः इति श्रुत्वा प्राह ऋत्विजः उदार-धीः । सह इन्द्रः तक्षकः विप्राः न अग्नौ किम् इति पात्यते ।
pārīkṣitaḥ iti śrutvā prāha ṛtvijaḥ udāra-dhīḥ . saha indraḥ takṣakaḥ viprāḥ na agnau kim iti pātyate .
तच्छ्रुत्वाजुहुवुर्विप्राः सहेन्द्रं तक्षकं मखे । तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता २१ ।
तत् श्रुत्वा जुहुवुः विप्राः सह इन्द्रम् तक्षकम् मखे । तक्षक आशु पतस्व इह सह इन्द्रेण मरुत्वता ।
tat śrutvā juhuvuḥ viprāḥ saha indram takṣakam makhe . takṣaka āśu patasva iha saha indreṇa marutvatā .
इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः । बभूव सम्भ्रान्तमतिः सविमानः सतक्षकः २२ ।
इति ब्रह्म-उदित-आक्षेपैः स्थानात् इन्द्रः प्रचालितः । बभूव सम्भ्रान्त-मतिः स विमानः स तक्षकः ।
iti brahma-udita-ākṣepaiḥ sthānāt indraḥ pracālitaḥ . babhūva sambhrānta-matiḥ sa vimānaḥ sa takṣakaḥ .
तं पतन्तं विमानेन सहतक्षकमम्बरात् । विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः २३ ।
तम् पतन्तम् विमानेन सह तक्षकम् अम्बरात् । विलोक्य अङ्गिरसः प्राह राजानम् तम् बृहस्पतिः ।
tam patantam vimānena saha takṣakam ambarāt . vilokya aṅgirasaḥ prāha rājānam tam bṛhaspatiḥ .
नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट् । अनेन पीतममृतमथ वा अजरामरः २४ ।
न एष त्वया मनुष्य-इन्द्र वधम् अर्हति सर्प-राज् । अनेन पीतम् अमृतम् अथ वा अजर-अमरः ।
na eṣa tvayā manuṣya-indra vadham arhati sarpa-rāj . anena pītam amṛtam atha vā ajara-amaraḥ .
जीवितं मरणं जन्तोर्गतिः स्वेनैव कर्मणा । राजंस्ततोऽन्यो नास्त्यस्य प्रदाता सुखदुःखयोः २५ ।
जीवितम् मरणम् जन्तोः गतिः स्वेन एव कर्मणा । राजन् ततस् अन्यः न अस्ति अस्य प्रदाता सुख-दुःखयोः ।
jīvitam maraṇam jantoḥ gatiḥ svena eva karmaṇā . rājan tatas anyaḥ na asti asya pradātā sukha-duḥkhayoḥ .
सर्पचौराग्निविद्युद्भ्यः क्षुत्तृड् । व्याध्यादिभिर्नृप । पञ्चत्वमृच्छते जन्तुर्भुङ्क्त आरब्धकर्म तत् २६ ।
सर्प-चौर-अग्नि-विद्युद्भ्यः क्षुत्-तृष् । व्याधि-आदिभिः नृप । पञ्चत्वम् ऋच्छते जन्तुः भुङ्क्ते आरब्ध-कर्म तत् ।
sarpa-caura-agni-vidyudbhyaḥ kṣut-tṛṣ . vyādhi-ādibhiḥ nṛpa . pañcatvam ṛcchate jantuḥ bhuṅkte ārabdha-karma tat .
तस्मात्सत्रमिदं राजन्संस्थीयेताभिचारिकम् । सर्पा अनागसो दग्धा जनैर्दिष्टं हि भुज्यते २७ ।
तस्मात् सत्रम् इदम् राजन् संस्थीयेत आभिचारिकम् । सर्पाः अनागसः दग्धाः जनैः दिष्टम् हि भुज्यते ।
tasmāt satram idam rājan saṃsthīyeta ābhicārikam . sarpāḥ anāgasaḥ dagdhāḥ janaiḥ diṣṭam hi bhujyate .
सूत उवाच ।
इत्युक्तः स तथेत्याह महर्षेर्मानयन्वचः । सर्पसत्रादुपरतः पूजयामास वाक्पतिम् २८ ।
इति उक्तः स तथा इति आह महा-ऋषेः मानयन् वचः । सर्प-सत्रात् उपरतः पूजयामास वाक्पतिम् ।
iti uktaḥ sa tathā iti āha mahā-ṛṣeḥ mānayan vacaḥ . sarpa-satrāt uparataḥ pūjayāmāsa vākpatim .
सैषा विष्णोर्महामाया बाध्ययालक्षणा यया । मुह्यन्त्यस्यैवात्मभूता भूतेषु गुणवृत्तिभिः २९ ।
सा एषा विष्णोः महामाया बाध्यया अलक्षणा यया । मुह्यन्ति अस्य एव आत्म-भूताः भूतेषु गुण-वृत्तिभिः ।
sā eṣā viṣṇoḥ mahāmāyā bādhyayā alakṣaṇā yayā . muhyanti asya eva ātma-bhūtāḥ bhūteṣu guṇa-vṛttibhiḥ .
न यत्र दम्भीत्यभया विराजिता मायात्मवादेऽसकृदात्मवादिभिः । न यद्विवादो विविधस्तदाश्रयो मनश्च सङ्कल्पविकल्पवृत्ति यत् ३० ।
न यत्र दम्भी इति अभया विराजिता माया आत्म-वादे असकृत् आत्म-वादिभिः । न यद्-विवादः विविधः तद्-आश्रयः मनः च सङ्कल्प-विकल्प-वृत्ति यत् ।
na yatra dambhī iti abhayā virājitā māyā ātma-vāde asakṛt ātma-vādibhiḥ . na yad-vivādaḥ vividhaḥ tad-āśrayaḥ manaḥ ca saṅkalpa-vikalpa-vṛtti yat .
न यत्र सृज्यं सृजतोभयोः परं श्रेयश्च जीवस्त्रिभिरन्वितस्त्वहम् । तदेतदुत्सादितबाध्यबाधकं निषिध्य चोर्मीन्विरमेत तन्मुनिः ३१ ।
न यत्र सृज्यम् सृजता उभयोः परम् श्रेयः च जीवः त्रिभिः अन्वितः तु अहम् । तत् एतत् उत्सादित-बाध्य-बाधकम् निषिध्य च ऊर्मीन् विरमेत तत् मुनिः ।
na yatra sṛjyam sṛjatā ubhayoḥ param śreyaḥ ca jīvaḥ tribhiḥ anvitaḥ tu aham . tat etat utsādita-bādhya-bādhakam niṣidhya ca ūrmīn virameta tat muniḥ .
परं पदं वैष्णवमामनन्ति तद्यन्नेति नेतीत्यतदुत्सिसृक्षवः । विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यावसितं समाहितैः ३२ ।
परम् पदम् वैष्णवम् आमनन्ति तत् यत् न इति न इति इति अ तद्-उत्सिसृक्षवः । विसृज्य दौरात्म्यम् अनन्य-सौहृदाः हृदा उपगुह्य अवसितम् समाहितैः ।
param padam vaiṣṇavam āmananti tat yat na iti na iti iti a tad-utsisṛkṣavaḥ . visṛjya daurātmyam ananya-sauhṛdāḥ hṛdā upaguhya avasitam samāhitaiḥ .
त एतदधिगच्छन्ति विष्णोर्यत्परमं पदम् । अहं ममेति दौर्जन्यं न येषां देहगेहजम् ३३ ।
ते एतत् अधिगच्छन्ति विष्णोः यत् परमम् पदम् । अहम् मम इति दौर्जन्यम् न येषाम् देह-गेह-जम् ।
te etat adhigacchanti viṣṇoḥ yat paramam padam . aham mama iti daurjanyam na yeṣām deha-geha-jam .
अतिवादांस्तितिक्षेत नावमन्येत कञ्चन । न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ३४ ।
अतिवादान् तितिक्षेत न अवमन्येत कञ्चन । न च इमम् देहम् आश्रित्य वैरम् कुर्वीत केनचिद् ।
ativādān titikṣeta na avamanyeta kañcana . na ca imam deham āśritya vairam kurvīta kenacid .
नमो भगवते तस्मै कृष्णायाकुण्ठमेधसे । यत्पादाम्बुरुहध्यानात्संहितामध्यगामिमाम् ३५ ।
नमः भगवते तस्मै कृष्णाय अकुण्ठ-मेधसे । यद्-पाद-अम्बुरुह-ध्यानात् संहिता-मध्य-गाम् इमाम् ।
namaḥ bhagavate tasmai kṛṣṇāya akuṇṭha-medhase . yad-pāda-amburuha-dhyānāt saṃhitā-madhya-gām imām .
श्रीशौनक उवाच ।
पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभिः । वेदाश्च कथिता व्यस्ता एतत्सौम्याभिधेहि नः ३६ ।
पैल-आदिभिः व्यास-शिष्यैः वेद-आचार्यैः महात्मभिः । वेदाः च कथिताः व्यस्ताः एतत् सौम्य अभिधेहि नः ।
paila-ādibhiḥ vyāsa-śiṣyaiḥ veda-ācāryaiḥ mahātmabhiḥ . vedāḥ ca kathitāḥ vyastāḥ etat saumya abhidhehi naḥ .
सूत उवाच ।
समाहितात्मनो ब्रह्मन्ब्रह्मणः परमेष्ठिनः । हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते ३७ ।
समाहित-आत्मनः ब्रह्मन् ब्रह्मणः परमेष्ठिनः । हृदि आकाशात् अभूत् नादः वृत्ति-रोधात् विभाव्यते ।
samāhita-ātmanaḥ brahman brahmaṇaḥ parameṣṭhinaḥ . hṛdi ākāśāt abhūt nādaḥ vṛtti-rodhāt vibhāvyate .
यदुपासनया ब्रह्मन्योगिनो मलमात्मनः । द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् ३८ ।
यत् उपासनया ब्रह्मन् योगिनः मलम् आत्मनः । द्रव्य-क्रिया-कारक-आख्यम् धूत्वा यान्ति अपुनर्भवम् ।
yat upāsanayā brahman yoginaḥ malam ātmanaḥ . dravya-kriyā-kāraka-ākhyam dhūtvā yānti apunarbhavam .
ततोऽभूत्त्रिवृदॐकारो योऽव्यक्तप्रभवः स्वराट् । यत्तल्लिङ्गं भगवतो ब्रह्मणः परमात्मनः ३९ ।
ततस् अभूत् त्रिवृत् अओंकारः यः अव्यक्त-प्रभवः स्वराज् । यत् तत् लिङ्गम् भगवतः ब्रह्मणः परमात्मनः ।
tatas abhūt trivṛt aoṃkāraḥ yaḥ avyakta-prabhavaḥ svarāj . yat tat liṅgam bhagavataḥ brahmaṇaḥ paramātmanaḥ .
शृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यदृक् । येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः ४० ।
शृणोति यः इमम् स्फोटम् सुप्त-श्रोत्रे च शून्य-दृश् । येन वाच् व्यज्यते यस्य व्यक्तिः आकाशः आत्मनः ।
śṛṇoti yaḥ imam sphoṭam supta-śrotre ca śūnya-dṛś . yena vāc vyajyate yasya vyaktiḥ ākāśaḥ ātmanaḥ .
स्वधाम्नो ब्राह्मणः साक्षाद्वाचकः परमात्मनः । स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम् ४१ ।
स्व-धाम्नः ब्राह्मणः साक्षात् वाचकः परमात्मनः । स सर्व-मन्त्र-उपनिषद्-वेद-बीजम् सनातनम् ।
sva-dhāmnaḥ brāhmaṇaḥ sākṣāt vācakaḥ paramātmanaḥ . sa sarva-mantra-upaniṣad-veda-bījam sanātanam .
तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगूद्वह । धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तयः ४२ ।
तस्य हि आसन् त्रयः वर्णाः अकार-आद्याः भृगूद्वह । धार्यन्ते यैः त्रयः भावाः गुण-नाम-अर्थ-वृत्तयः ।
tasya hi āsan trayaḥ varṇāḥ akāra-ādyāḥ bhṛgūdvaha . dhāryante yaiḥ trayaḥ bhāvāḥ guṇa-nāma-artha-vṛttayaḥ .
ततोऽक्षरसमाम्नायमसृजद्भगवानजः । अन्तस्थोष्मस्वरस्पर्श ह्रस्वदीर्घादिलक्षणम् ४३ ।
ततस् अक्षर-समाम्नायम् असृजत् भगवान् अजः । अन्तस्थ-ऊष्म-स्वर-स्पर्श ह्रस्व-दीर्घ-आदि-लक्षणम् ।
tatas akṣara-samāmnāyam asṛjat bhagavān ajaḥ . antastha-ūṣma-svara-sparśa hrasva-dīrgha-ādi-lakṣaṇam .
तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः । सव्याहृतिकान्सॐकारांश्चातुर्होत्रविवक्षया ४४ ।
तेन असौ चतुरः वेदान् चतुर्भिः वदनैः विभुः । स व्याहृतिकान् स ओंकारान् चातुर्होत्र-विवक्षया ।
tena asau caturaḥ vedān caturbhiḥ vadanaiḥ vibhuḥ . sa vyāhṛtikān sa oṃkārān cāturhotra-vivakṣayā .
पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन्ब्रह्मकोविदान् । ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् ४५ ।
पुत्रान् अध्यापयत् तान् तु ब्रह्मर्षीन् ब्रह्म-कोविदान् । ते तु धर्म-उपदेष्टारः स्व-पुत्रेभ्यः समादिशन् ।
putrān adhyāpayat tān tu brahmarṣīn brahma-kovidān . te tu dharma-upadeṣṭāraḥ sva-putrebhyaḥ samādiśan .
ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः । चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ४६ ।
ते परम्परया प्राप्ताः तद्-तद्-शिष्यैः धृत-व्रतैः । चतुर्-युगेषु अथ व्यस्ताः द्वापर-आदौ महा-ऋषिभिः ।
te paramparayā prāptāḥ tad-tad-śiṣyaiḥ dhṛta-vrataiḥ . catur-yugeṣu atha vyastāḥ dvāpara-ādau mahā-ṛṣibhiḥ .
क्षीणायुषः क्षीणसत्त्वान्दुर्मेधान्वीक्ष्य कालतः । वेदान्ब्रह्मर्षयो व्यस्यन्हृदिस्थाच्युतचोदिताः ४७ ।
क्षीण-आयुषः क्षीण-सत्त्वान् दुर्मेधान् वीक्ष्य कालतः । वेदान् ब्रह्मर्षयः व्यस्यन् हृदिस्थ-अच्युत-चोदिताः ।
kṣīṇa-āyuṣaḥ kṣīṇa-sattvān durmedhān vīkṣya kālataḥ . vedān brahmarṣayaḥ vyasyan hṛdistha-acyuta-coditāḥ .
अस्मिन्नप्यन्तरे ब्रह्मन्भगवान्लोकभावनः । ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये ४८ ।
अस्मिन् अपि अन्तरे ब्रह्मन् भगवान् लोक-भावनः । ब्रह्म-ईश-आद्यैः लोकपालैः याचितः धर्म-गुप्तये ।
asmin api antare brahman bhagavān loka-bhāvanaḥ . brahma-īśa-ādyaiḥ lokapālaiḥ yācitaḥ dharma-guptaye .
पराशरात्सत्यवत्यामंशांशकलया विभुः । अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ४९ ।
पराशरात् सत्यवत्याम् अंश-अंश-कलया विभुः । अवतीर्णः महाभाग वेदम् चक्रे चतुर्विधम् ।
parāśarāt satyavatyām aṃśa-aṃśa-kalayā vibhuḥ . avatīrṇaḥ mahābhāga vedam cakre caturvidham .
ऋगथर्वयजुःसाम्नां राशीरुद्धृत्य वर्गशः । चतस्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव ५० ।
ऋक्-अथर्व-यजुः-साम्नाम् राशीः उद्धृत्य वर्गशस् । चतस्रः संहिताः चक्रे मन्त्रैः मणि-गणाः इव ।
ṛk-atharva-yajuḥ-sāmnām rāśīḥ uddhṛtya vargaśas . catasraḥ saṃhitāḥ cakre mantraiḥ maṇi-gaṇāḥ iva .
तासां स चतुरः शिष्यानुपाहूय महामतिः । एकैकां संहितां ब्रह्मन्नेकैकस्मै ददौ विभुः ५१ ।
तासाम् स चतुरः शिष्यान् उपाहूय महामतिः । एकैकाम् संहिताम् ब्रह्मन् एकैकस्मै ददौ विभुः ।
tāsām sa caturaḥ śiṣyān upāhūya mahāmatiḥ . ekaikām saṃhitām brahman ekaikasmai dadau vibhuḥ .
पैलाय संहितामाद्यां बह्वृचाख्यां उवाच ह । वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ५२ ।
पैलाय संहिताम् आद्याम् बह्वृच-आख्याम् उवाच ह । वैशम्पायन-संज्ञाय निगद-आख्यम् यजुः-गणम् ।
pailāya saṃhitām ādyām bahvṛca-ākhyām uvāca ha . vaiśampāyana-saṃjñāya nigada-ākhyam yajuḥ-gaṇam .
साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् । अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ५३ ।
साम्नाम् जैमिनये प्राह तथा छन्दोग-संहिताम् । अथर्वाङ्गिरसीम् नाम स्व-शिष्याय सुमन्तवे ।
sāmnām jaiminaye prāha tathā chandoga-saṃhitām . atharvāṅgirasīm nāma sva-śiṣyāya sumantave .
पैलः स्वसंहितामूचे इन्द्र प्रमितये मुनिः । बाष्कलाय च सोऽप्याह शिष्येभ्यः संहितां स्वकाम् ५४ ।
पैलः स्व-संहिताम् ऊचे इन्द्र प्रमितये मुनिः । बाष्कलाय च सः अपि आह शिष्येभ्यः संहिताम् स्वकाम् ।
pailaḥ sva-saṃhitām ūce indra pramitaye muniḥ . bāṣkalāya ca saḥ api āha śiṣyebhyaḥ saṃhitām svakām .
चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव । पराशरायाग्निमित्र इन्द्र प्रमितिरात्मवान् ५५ ।
चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव । पराशराय अग्निमित्रः इन्द्र प्रमितिः आत्मवान् ।
caturdhā vyasya bodhyāya yājñavalkyāya bhārgava . parāśarāya agnimitraḥ indra pramitiḥ ātmavān .
अध्यापयत्संहितां स्वां माण्डूकेयमृषिं कविम् । तस्य शिष्यो देवमित्रः सौभर्यादिभ्य ऊचिवान् ५६ ।
अध्यापयत् संहिताम् स्वाम् माण्डूकेयम् ऋषिम् कविम् । तस्य शिष्यः देवमित्रः सौभरि-आदिभ्यः ऊचिवान् ।
adhyāpayat saṃhitām svām māṇḍūkeyam ṛṣim kavim . tasya śiṣyaḥ devamitraḥ saubhari-ādibhyaḥ ūcivān .
शाकल्यस्तत्सुतः स्वां तु पञ्चधा व्यस्य संहिताम् । वात्स्यमुद्गलशालीय गोखल्यशिशिरेष्वधात् ५७ ।
शाकल्यः तद्-सुतः स्वाम् तु पञ्चधा व्यस्य संहिताम् । वात्स्य-मुद्गल-शालीय गो-खल्य-शिशिरेषु अधात् ।
śākalyaḥ tad-sutaḥ svām tu pañcadhā vyasya saṃhitām . vātsya-mudgala-śālīya go-khalya-śiśireṣu adhāt .
जातूकर्ण्यश्च तच्छिष्यः सनिरुक्तां स्वसंहिताम् । बलाकपैलजाबाल विरजेभ्यो ददौ मुनिः ५८ ।
जातूकर्ण्यः च तद्-शिष्यः स निरुक्ताम् स्व-संहिताम् । बलाक-पैल-जाबाल विरजेभ्यः ददौ मुनिः ।
jātūkarṇyaḥ ca tad-śiṣyaḥ sa niruktām sva-saṃhitām . balāka-paila-jābāla virajebhyaḥ dadau muniḥ .
बाष्कलिः प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम् । चक्रे बालायनिर्भज्यः कासारश्चैव तां दधुः ५९ ।
बाष्कलिः प्रतिशाखाभ्यः वालखिल्य-आख्य-संहिताम् । चक्रे बालायनिः भज्यः कासारः च एव ताम् ।
bāṣkaliḥ pratiśākhābhyaḥ vālakhilya-ākhya-saṃhitām . cakre bālāyaniḥ bhajyaḥ kāsāraḥ ca eva tām .
बह्वृचाः संहिता ह्येता एभिर्ब्रह्मर्षिभिर्धृताः । श्रुत्वैतच्छन्दसां व्यासं सर्वपापैः प्रमुच्यते ६० ।
बह्वृचाः संहिताः हि एताः एभिः ब्रह्मर्षिभिः धृताः । श्रुत्वा एतत् छन्दसाम् व्यासम् सर्व-पापैः प्रमुच्यते ।
bahvṛcāḥ saṃhitāḥ hi etāḥ ebhiḥ brahmarṣibhiḥ dhṛtāḥ . śrutvā etat chandasām vyāsam sarva-pāpaiḥ pramucyate .
वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन् । यच्चेरुर्ब्रह्महत्यांहः क्षपणं स्वगुरोर्व्रतम् ६१ ।
वैशम्पायन-शिष्याः वै चरक-अध्वर्यवः अभवन् । यत् चेरुः ब्रह्महत्या-अंहः क्षपणम् स्व-गुरोः व्रतम् ।
vaiśampāyana-śiṣyāḥ vai caraka-adhvaryavaḥ abhavan . yat ceruḥ brahmahatyā-aṃhaḥ kṣapaṇam sva-guroḥ vratam .
याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन्कियत् । चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ६२ ।
याज्ञवल्क्यः च तद्-शिष्यः आह अहो भगवन् कियत् । चरितेन अल्प-साराणाम् चरिष्ये अहम् सु दुश्चरम् ।
yājñavalkyaḥ ca tad-śiṣyaḥ āha aho bhagavan kiyat . caritena alpa-sārāṇām cariṣye aham su duścaram .
इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया । विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ६३ ।
इति उक्तः गुरुः अपि आह कुपितः याहि अलम् त्वया । विप्र-अवमन्त्रा शिष्येण मत् अधीतम् त्यज अश्विति इति ।
iti uktaḥ guruḥ api āha kupitaḥ yāhi alam tvayā . vipra-avamantrā śiṣyeṇa mat adhītam tyaja aśviti iti .
देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम् । ततो गतोऽथ मुनयो ददृशुस्तान्यजुर्गणान् ६४ ।
देवरात-सुतः सः अपि छर्दित्वा यजुषाम् गणम् । ततस् गतः अथ मुनयः ददृशुः तान् यजुः-गणान् ।
devarāta-sutaḥ saḥ api charditvā yajuṣām gaṇam . tatas gataḥ atha munayaḥ dadṛśuḥ tān yajuḥ-gaṇān .
यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाऽऽददुः । तैत्तिरीया इति यजुः शाखा आसन्सुपेशलाः ६५ ।
यजूंषि तित्तिराः भूत्वा तत् लोलुप-तया आददुः । तैत्तिरीयाः इति यजुः-शाखाः आसन् सुपेशलाः ।
yajūṃṣi tittirāḥ bhūtvā tat lolupa-tayā ādaduḥ . taittirīyāḥ iti yajuḥ-śākhāḥ āsan supeśalāḥ .
याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दांस्यधि गवेषयन् । गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ६६ ।
याज्ञवल्क्यः ततस् ब्रह्मन् छन्दांसि अधि गवेषयन् । गुरोः अ विद्यमानानि सु उपतस्थे अर्कम् ईश्वरम् ।
yājñavalkyaḥ tatas brahman chandāṃsi adhi gaveṣayan . guroḥ a vidyamānāni su upatasthe arkam īśvaram .
श्रीयाज्ञवल्क्य उवाच ।
ॐ नमो भगवते आदित्यायाखिलजगतामात्मस्वरूपेण काल । स्वरूपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु । बहिरपि चाकाश इवोपाधिनाव्यवधीयमानो भवानेक । एव क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादान । विसर्गाभ्यामिमां लोकयात्रामनुवहति ६७ ।
ओम् नमः भगवते आदित्याय अखिल-जगताम् आत्म-स्वरूपेण काल । स्व-रूपेण चतुर्विध-भूत-निकायानाम् ब्रह्म-आदि-स्तम्ब-पर्यन्तानाम् अन्तर् हृदयेषु । बहिस् अपि च आकाशे इव उपाधिना अ व्यवधीयमानः भवान् एक । एव क्षण-लव-निमेष-अवयव-उपचित-संवत्सर-गणेन अपाम् आदान । विसर्गाभ्याम् इमाम् लोकयात्राम् अनुवहति ।
om namaḥ bhagavate ādityāya akhila-jagatām ātma-svarūpeṇa kāla . sva-rūpeṇa caturvidha-bhūta-nikāyānām brahma-ādi-stamba-paryantānām antar hṛdayeṣu . bahis api ca ākāśe iva upādhinā a vyavadhīyamānaḥ bhavān eka . eva kṣaṇa-lava-nimeṣa-avayava-upacita-saṃvatsara-gaṇena apām ādāna . visargābhyām imām lokayātrām anuvahati .
यदु ह वाव विबुधर्षभ सवितरदस्तपत्यनुसवनमहर् । अहराम्नायविधिनोपतिष्ठमानानामखिलदुरितवृजिन । बीजावभर्जन भगवतः समभिधीमहि तपन मण्डलम् ६८ । य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनैन्द्रियासु । गणाननात्मनः स्वयमात्मान्तर्यामी प्रचोदयति ६९ ।
यत् उ ह वाव विबुध-ऋषभ सविता रदः तपति अनुसवनम् अहर् । अहर्-आम्नाय-विधिना उपतिष्ठमानानाम् अखिल-दुरित-वृजिन । बीज-अवभर्जन भगवतः समभिधीमहि तपन-मण्डलम् । यः इह वाव स्थिर-चर-निकराणाम् निज-निकेतनानाम् मन-इन्द्रियासु । गणानन-आत्मनः स्वयम् आत्म-अन्तर्यामी प्रचोदयति ।
yat u ha vāva vibudha-ṛṣabha savitā radaḥ tapati anusavanam ahar . ahar-āmnāya-vidhinā upatiṣṭhamānānām akhila-durita-vṛjina . bīja-avabharjana bhagavataḥ samabhidhīmahi tapana-maṇḍalam . yaḥ iha vāva sthira-cara-nikarāṇām nija-niketanānām mana-indriyāsu . gaṇānana-ātmanaḥ svayam ātma-antaryāmī pracodayati .
य एवेमं लोकमतिकरालवदनान्धकारसंज्ञाजगरग्रह । गिलितं मृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक । ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्माख्यात्माव । स्थने प्रवर्तयति ७० ।
यः एव इमम् लोकम् अति कराल-वदन-अन्धकार-संज्ञा-जगर-ग्रह । गिलितम् मृतकम् इव विचेतनम् अवलोक्य अनुकम्पया परम-कारुणिक । ईक्षय एव उत्थाप्य अहरहर् अनुसवनम् श्रेयसि । स्थने प्रवर्तयति ।
yaḥ eva imam lokam ati karāla-vadana-andhakāra-saṃjñā-jagara-graha . gilitam mṛtakam iva vicetanam avalokya anukampayā parama-kāruṇika . īkṣaya eva utthāpya aharahar anusavanam śreyasi . sthane pravartayati .
अवनिपतिरिवासाधूनां भयमुदीरयन्नटति परित आशापालैस् । तत्र तत्र कमलकोशाञ्जलिभिरुपहृतार्हणः ७१ ।
अवनिपतिः इव असाधूनाम् भयम् उदीरयन् अटति परितस् आशापालैः । तत्र तत्र कमल-कोश-अञ्जलिभिः उपहृत-अर्हणः ।
avanipatiḥ iva asādhūnām bhayam udīrayan aṭati paritas āśāpālaiḥ . tatra tatra kamala-kośa-añjalibhiḥ upahṛta-arhaṇaḥ .
अथ ह भगवंस्तव चरणनलिनयुगलं त्रिभुवनगुरुभिरभिवन्दितम् । अहमयातयामयजुष्काम उपसरामीति ७२ ।
अथ ह भगवन् तव चरण-नलिन-युगलम् त्रिभुवन-गुरुभिः अभिवन्दितम् । अहम् अयातयाम-यजुष्कामः उपसरामि इति ।
atha ha bhagavan tava caraṇa-nalina-yugalam tribhuvana-gurubhiḥ abhivanditam . aham ayātayāma-yajuṣkāmaḥ upasarāmi iti .
सूत उवाच ।
एवं स्तुतः स भगवान्वाजिरूपधरो रविः । यजूंष्ययातयामानि मुनयेऽदात्प्रसादितः ७३ ।
एवम् स्तुतः स भगवान् वाजि-रूप-धरः रविः । यजूंषि अयातयामानि मुनये अदात् प्रसादितः ।
evam stutaḥ sa bhagavān vāji-rūpa-dharaḥ raviḥ . yajūṃṣi ayātayāmāni munaye adāt prasāditaḥ .
यजुर्भिरकरोच्छाखा दश पञ्च शतैर्विभुः । जगृहुर्वाजसन्यस्ताः काण्वमाध्यन्दिनादयः ७४ ।
यजुर्भिः अकरोत् शाखाः दश पञ्च शतैः विभुः । जगृहुः वाजसन्यस्ताः काण्व-माध्यन्दिन-आदयः ।
yajurbhiḥ akarot śākhāḥ daśa pañca śataiḥ vibhuḥ . jagṛhuḥ vājasanyastāḥ kāṇva-mādhyandina-ādayaḥ .
जैमिनेः समगस्यासीत्सुमन्तुस्तनयो मुनिः । सुत्वांस्तु तत्सुतस्ताभ्यामेकैकां प्राह संहिताम् ७५ ।
जैमिनेः समगस्य आसीत् सुमन्तुः तनयः मुनिः । सुत्वान् तु तद्-सुतः ताभ्याम् एकैकाम् प्राह संहिताम् ।
jaimineḥ samagasya āsīt sumantuḥ tanayaḥ muniḥ . sutvān tu tad-sutaḥ tābhyām ekaikām prāha saṃhitām .
सुकर्मा चापि तच्छिष्यः सामवेदतरोर्महान् । सहस्रसंहिताभेदं चक्रे साम्नां ततो द्विज ७६ ।
सुकर्मा च अपि तद्-शिष्यः सामवेद-तरोः महान् । सहस्र-संहिता-भेदम् चक्रे साम्नाम् ततस् द्विज ।
sukarmā ca api tad-śiṣyaḥ sāmaveda-taroḥ mahān . sahasra-saṃhitā-bhedam cakre sāmnām tatas dvija .
हिरण्यनाभः कौशल्यः पौष्यञ्जिश्च सुकर्मणः । शिष्यौ जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तमः ७७ ।
हिरण्यनाभः कौशल्यः पौष्यञ्जिः च सुकर्मणः । शिष्यौ जगृहतुः च अन्यः आवन्त्यः ब्रह्म-वित्तमः ।
hiraṇyanābhaḥ kauśalyaḥ pauṣyañjiḥ ca sukarmaṇaḥ . śiṣyau jagṛhatuḥ ca anyaḥ āvantyaḥ brahma-vittamaḥ .
उदीच्याः सामगाः शिष्या आसन्पञ्चशतानि वै । पौष्यञ्ज्यावन्त्ययोश्चापि तांश्च प्राच्यान्प्रचक्षते ७८ ।
उदीच्याः सामगाः शिष्याः आसन् पञ्चशतानि वै । पौष्यन् ज्यावन्त्ययोः च अपि तान् च प्राच्यान् प्रचक्षते ।
udīcyāḥ sāmagāḥ śiṣyāḥ āsan pañcaśatāni vai . pauṣyan jyāvantyayoḥ ca api tān ca prācyān pracakṣate .
लौगाक्षिर्माङ्गलिः कुल्यः कुशीदः कुक्षिरेव च । पौष्यञ्जिशिष्या जगृहुः संहितास्ते शतं शतम् ७९ ।
लौगाक्षिः माङ्गलिः कुल्यः कुशीदः कुक्षिः एव च । पौष्यञ्जि-शिष्याः जगृहुः संहिताः ते शतम् शतम् ।
laugākṣiḥ māṅgaliḥ kulyaḥ kuśīdaḥ kukṣiḥ eva ca . pauṣyañji-śiṣyāḥ jagṛhuḥ saṃhitāḥ te śatam śatam .
कृतो हिरण्यनाभस्य चतुर्विंशति संहिताः । शिष्य ऊचे स्वशिष्येभ्यः शेषा आवन्त्य आत्मवान् ८० ।
कृतः हिरण्यनाभस्य चतुर्विंशति संहिताः । शिष्यः ऊचे स्व-शिष्येभ्यः शेषाः आवन्त्यः आत्मवान् ।
kṛtaḥ hiraṇyanābhasya caturviṃśati saṃhitāḥ . śiṣyaḥ ūce sva-śiṣyebhyaḥ śeṣāḥ āvantyaḥ ātmavān .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे वेदशाखाप्रणयनं नाम षष्ठोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादश-स्कन्धे वेदशाखाप्रणयनम् नाम षष्ठः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvādaśa-skandhe vedaśākhāpraṇayanam nāma ṣaṣṭhaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In