| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः । भुवोऽवतारयद्भारं जविष्ठं जनयन्कलिम् ॥१॥
कृत्वा दैत्य-वधम् कृष्णः सरामः यदुभिः वृतः । भुवः अवतारयत्-भारम् जविष्ठम् जनयन् कलिम् ॥१॥
kṛtvā daitya-vadham kṛṣṇaḥ sarāmaḥ yadubhiḥ vṛtaḥ . bhuvaḥ avatārayat-bhāram javiṣṭham janayan kalim ..1..
ये कोपिताः सुबहु पाण्डुसुताः सपत्नैः दुर्द्यूतहेलनकचग्रहणादिभिस्तान् । कृत्वा निमित्तमितरेतरतः समेतान् हत्वा नृपान्निरहरत्क्षितिभारमीशः॥२॥
ये कोपिताः सु बहु पाण्डु-सुताः सपत्नैः दुर्द्यूत-हेलन-कचग्रहण-आदिभिः तान् । कृत्वा निमित्तम् इतरेतरतः समेतान् हत्वा नृपात् निरहरत् क्षिति-भारम् ईशः॥२॥
ye kopitāḥ su bahu pāṇḍu-sutāḥ sapatnaiḥ durdyūta-helana-kacagrahaṇa-ādibhiḥ tān . kṛtvā nimittam itaretarataḥ sametān hatvā nṛpāt niraharat kṣiti-bhāram īśaḥ..2..
भूभारराजपृतना यदुभिर्निरस्य गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः । मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं यद्यादवं कुलमहो अविषह्यमास्ते ॥३॥
भू-भार-राज-पृतनाः यदुभिः निरस्य गुप्तैः स्व-बाहुभिः अचिन्तयत् अप्रमेयः । मन्ये अवनेः ननु गतः अपि अगतम् हि भारम् यत् यादवम् कुलम् अहो अविषह्यम् आस्ते ॥३॥
bhū-bhāra-rāja-pṛtanāḥ yadubhiḥ nirasya guptaiḥ sva-bāhubhiḥ acintayat aprameyaḥ . manye avaneḥ nanu gataḥ api agatam hi bhāram yat yādavam kulam aho aviṣahyam āste ..3..
नैवान्यतः परिभवोऽस्य भवेत्कथञ्चिन् मत्संश्रयस्य विभवोन्नहनस्य नित्यम् । अन्तः कलिं यदुकुलस्य विधाय वेणु स्तम्बस्य वह्निमिव शान्तिमुपैमि धाम ॥४॥
ना एव अन्यतस् परिभवः अस्य भवेत् कथञ्चिद् मद्-संश्रयस्य विभव-उन्नहनस्य नित्यम् । अन्तर् कलिम् यदु-कुलस्य विधाय वेणु स्तम्बस्य वह्निम् इव शान्तिम् उपैमि धाम ॥४॥
nā eva anyatas paribhavaḥ asya bhavet kathañcid mad-saṃśrayasya vibhava-unnahanasya nityam . antar kalim yadu-kulasya vidhāya veṇu stambasya vahnim iva śāntim upaimi dhāma ..4..
एवं व्यवसितो राजन्सत्यसङ्कल्प ईश्वरः । शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभुः ॥५॥
एवम् व्यवसितः राजन् सत्य-सङ्कल्पः ईश्वरः । शाप-व्याजेन विप्राणाम् सञ्जह्रे स्व-कुलम् विभुः ॥५॥
evam vyavasitaḥ rājan satya-saṅkalpaḥ īśvaraḥ . śāpa-vyājena viprāṇām sañjahre sva-kulam vibhuḥ ..5..
स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् । गीर्भिस्ताः स्मरतां चित्तं पदैस्तानीक्षतां क्रियाः ॥६॥
स्व-मूर्त्याः लोक-लावण्य-निर्मुक्त्या लोचनम् नृणाम् । गीर्भिः ताः स्मरताम् चित्तम् पदैः तान् ईक्षताम् क्रियाः ॥६॥
sva-mūrtyāḥ loka-lāvaṇya-nirmuktyā locanam nṛṇām . gīrbhiḥ tāḥ smaratām cittam padaiḥ tān īkṣatām kriyāḥ ..6..
आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ । तमोऽनया तरिष्यन्तीत्यगात्स्वं पदमीश्वरः ॥७॥
आच्छिद्य कीर्तिम् सुश्लोकाम् वितत्य हि अञ्जसा नु कौ । तमः अनया तरिष्यन्ति इति अगात् स्वम् पदम् ईश्वरः ॥७॥
ācchidya kīrtim suślokām vitatya hi añjasā nu kau . tamaḥ anayā tariṣyanti iti agāt svam padam īśvaraḥ ..7..
श्रीराजोवाच
ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् । विप्रशापः कथमभूद्वृष्णीनां कृष्णचेतसाम् ॥८॥
ब्रह्मण्यानाम् वदान्यानाम् नित्यम् वृद्ध-उपसेविनाम् । विप्र-शापः कथम् अभूत् वृष्णीनाम् कृष्ण-चेतसाम् ॥८॥
brahmaṇyānām vadānyānām nityam vṛddha-upasevinām . vipra-śāpaḥ katham abhūt vṛṣṇīnām kṛṣṇa-cetasām ..8..
यन्निमित्तः स वै शापो यादृशो द्विजसत्तम । कथमेकात्मनां भेद एतत्सर्वं वदस्व मे ॥९॥
यद्-निमित्तः स वै शापः यादृशः द्विजसत्तम । कथम् एक-आत्मनाम् भेदः एतत् सर्वम् वदस्व मे ॥९॥
yad-nimittaḥ sa vai śāpaḥ yādṛśaḥ dvijasattama . katham eka-ātmanām bhedaḥ etat sarvam vadasva me ..9..
श्रीबादरायणिरुवाच
बिभ्रद्वपुः सकलसुन्दरसन्निवेशं कर्माचरन्भुवि सुमङ्गलमाप्तकामः । आस्थाय धाम रममाण उदारकीर्तिः संहर्तुमैच्छत कुलं स्थितकृत्यशेषः ॥१०॥
बिभ्रत् वपुः सकल-सुन्दर-सन्निवेशम् कर्म आचरन् भुवि सु मङ्गलम् आप्त-कामः । आस्थाय धाम रममाणः उदार-कीर्तिः संहर्तुम् ऐच्छत कुलम् स्थित-कृत्यशेषः ॥१०॥
bibhrat vapuḥ sakala-sundara-sanniveśam karma ācaran bhuvi su maṅgalam āpta-kāmaḥ . āsthāya dhāma ramamāṇaḥ udāra-kīrtiḥ saṃhartum aicchata kulam sthita-kṛtyaśeṣaḥ ..10..
कर्माणि पुण्यनिवहानि सुमङ्गलानि गायज्जगत्कलिमलापहराणि कृत्वा । कालात्मना निवसता यदुदेवगेहे पिण्डारकं समगमन्मुनयो निसृष्टाः॥।१॥
कर्माणि पुण्य-निवहानि सु मङ्गलानि गायत्-जगत्-कलि-मल-अपहराणि कृत्वा । काल-आत्मना निवसता यदु-देव-गेहे पिण्डारकम् समगमन् मुनयः निसृष्टाः॥।१॥
karmāṇi puṇya-nivahāni su maṅgalāni gāyat-jagat-kali-mala-apaharāṇi kṛtvā . kāla-ātmanā nivasatā yadu-deva-gehe piṇḍārakam samagaman munayaḥ nisṛṣṭāḥ...1..
विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुरङ्गिराः । कश्यपो वामदेवोऽत्रिः वसिष्ठो नारदादयः ॥१२॥
विश्वामित्रः असितः कण्वः दुर्वासाः भृगुः अङ्गिराः । कश्यपः वामदेवः अत्रिः वसिष्ठः नारद-आदयः ॥१२॥
viśvāmitraḥ asitaḥ kaṇvaḥ durvāsāḥ bhṛguḥ aṅgirāḥ . kaśyapaḥ vāmadevaḥ atriḥ vasiṣṭhaḥ nārada-ādayaḥ ..12..
क्रीडन्तस्तानुपव्रज्य कुमारा यदुनन्दनाः । उपसङ्गृह्य पप्रच्छुरविनीता विनीतवत् ॥१३॥
क्रीडन्तः तान् उपव्रज्य कुमाराः यदु-नन्दनाः । उपसङ्गृह्य पप्रच्छुः अविनीताः विनीत-वत् ॥१३॥
krīḍantaḥ tān upavrajya kumārāḥ yadu-nandanāḥ . upasaṅgṛhya papracchuḥ avinītāḥ vinīta-vat ..13..
ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम् । एषा पृच्छति वो विप्रा अन्तर्वत्न्यसितेक्षणा ॥१४॥
ते वेषयित्वा स्त्री-वेषैः साम्बम् जाम्बवती-सुतम् । एषा पृच्छति वः विप्राः अन्तर्वत्नी असित-ईक्षणा ॥१४॥
te veṣayitvā strī-veṣaiḥ sāmbam jāmbavatī-sutam . eṣā pṛcchati vaḥ viprāḥ antarvatnī asita-īkṣaṇā ..14..
प्रष्टुं विलज्जती साक्षात्प्रब्रूतामोघदर्शनाः । प्रसोष्यन्ती पुत्रकामा किं स्वित्सञ्जनयिष्यति ॥१५॥
प्रष्टुम् विलज्जती साक्षात् प्रब्रूत अमोघ-दर्शनाः । प्रसोष्यन्ती पुत्र-कामा किम् स्विद् सन् जनयिष्यति ॥१५॥
praṣṭum vilajjatī sākṣāt prabrūta amogha-darśanāḥ . prasoṣyantī putra-kāmā kim svid san janayiṣyati ..15..
एवं प्रलब्धा मुनयस्तानूचुः कुपिता नृप । जनयिष्यति वो मन्दा मुसलं कुलनाशनम् ॥१६॥
एवम् प्रलब्धाः मुनयः तान् ऊचुः कुपिताः नृप । जनयिष्यति वः मन्दाः मुसलम् कुल-नाशनम् ॥१६॥
evam pralabdhāḥ munayaḥ tān ūcuḥ kupitāḥ nṛpa . janayiṣyati vaḥ mandāḥ musalam kula-nāśanam ..16..
तच्छ्रुत्वा तेऽतिसन्त्रस्ता विमुच्य सहसोदरम् । साम्बस्य ददृशुस्तस्मिन् मुसलं खल्वयस्मयम् ॥१७॥
तत् श्रुत्वा ते अति सन्त्रस्ताः विमुच्य सहसा उदरम् । साम्बस्य ददृशुः तस्मिन् मुसलम् खल्व-अयस्मयम् ॥१७॥
tat śrutvā te ati santrastāḥ vimucya sahasā udaram . sāmbasya dadṛśuḥ tasmin musalam khalva-ayasmayam ..17..
किं कृतं मन्दभाग्यैर्नः किं वदिष्यन्ति नो जनाः । इति विह्वलिता गेहानादाय मुसलं ययुः ॥१८॥
किम् कृतम् मन्दभाग्यैः नः किम् वदिष्यन्ति नः जनाः । इति विह्वलिताः गेहान् आदाय मुसलम् ययुः ॥१८॥
kim kṛtam mandabhāgyaiḥ naḥ kim vadiṣyanti naḥ janāḥ . iti vihvalitāḥ gehān ādāya musalam yayuḥ ..18..
तच्चोपनीय सदसि परिम्लानमुखश्रियः । राज्ञ आवेदयाञ्चक्रुः सर्वयादवसन्निधौ ॥१९॥
तत् च उपनीय सदसि परिम्लान-मुख-श्रियः । राज्ञः आवेदयाञ्चक्रुः सर्व-यादव-सन्निधौ ॥१९॥
tat ca upanīya sadasi parimlāna-mukha-śriyaḥ . rājñaḥ āvedayāñcakruḥ sarva-yādava-sannidhau ..19..
श्रुत्वामोघं विप्रशापं दृष्ट्वा च मुसलं नृप । विस्मिता भयसन्त्रस्ता बभूवुर्द्वारकौकसः ॥२०॥
श्रुत्वा अमोघम् विप्र-शापम् दृष्ट्वा च मुसलम् नृप । विस्मिताः भय-सन्त्रस्ताः बभूवुः द्वारका-ओकसः ॥२०॥
śrutvā amogham vipra-śāpam dṛṣṭvā ca musalam nṛpa . vismitāḥ bhaya-santrastāḥ babhūvuḥ dvārakā-okasaḥ ..20..
तच्चूर्णयित्वा मुसलं यदुराजः स आहुकः । समुद्रसलिले प्रास्यल्लोहं चास्यावशेषितम् ॥२१॥
तत् चूर्णयित्वा मुसलम् यदु-राजः सः आहुकः । समुद्र-सलिले प्रास्यत् लोहम् च अस्य अवशेषितम् ॥२१॥
tat cūrṇayitvā musalam yadu-rājaḥ saḥ āhukaḥ . samudra-salile prāsyat loham ca asya avaśeṣitam ..21..
कश्चिन्मत्स्योऽग्रसील्लोहं चूर्णानि तरलैस्ततः । उह्यमानानि वेलायां लग्नान्यासन्किलैरकाः ॥२२॥
कश्चिद् मत्स्यः अग्रसीत् लोहम् चूर्णानि तरलैः ततस् । उह्यमानानि वेलायाम् लग्नानि आसन् किल ऐरकाः ॥२२॥
kaścid matsyaḥ agrasīt loham cūrṇāni taralaiḥ tatas . uhyamānāni velāyām lagnāni āsan kila airakāḥ ..22..
मत्स्यो गृहीतो मत्स्यघ्नैर्जालेनान्यैः सहार्णवे । तस्योदरगतं लोहं स शल्ये लुब्धकोऽकरोत् ॥२३॥
मत्स्यः गृहीतः मत्स्य-घ्नैः जालेन अन्यैः सह अर्णवे । तस्य उदर-गतम् लोहम् स शल्ये लुब्धकः अकरोत् ॥२३॥
matsyaḥ gṛhītaḥ matsya-ghnaiḥ jālena anyaiḥ saha arṇave . tasya udara-gatam loham sa śalye lubdhakaḥ akarot ..23..
भगवान्ज्ञातसर्वार्थ ईश्वरोऽपि तदन्यथा । कर्तुं नैच्छद्विप्रशापं कालरूप्यन्वमोदत ॥२४॥
भगवान् ज्ञात-सर्व-अर्थः ईश्वरः अपि तत् अन्यथा । कर्तुम् न ऐच्छत् विप्र-शापम् कालरूपी अन्वमोदत ॥२४॥
bhagavān jñāta-sarva-arthaḥ īśvaraḥ api tat anyathā . kartum na aicchat vipra-śāpam kālarūpī anvamodata ..24..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे प्रथमोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे प्रथमः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe prathamaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In