| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा । वन एव वसेत् शान्तः तृतीयं भागमायुषः ॥ १ ॥
वनम् विविक्षुः पुत्रेषु भार्याम् न्यस्य सह एव वा । वने एव वसेत् शान्तः तृतीयम् भागम् आयुषः ॥ १ ॥
vanam vivikṣuḥ putreṣu bhāryām nyasya saha eva vā . vane eva vaset śāntaḥ tṛtīyam bhāgam āyuṣaḥ .. 1 ..
श्रीभगवानुवाच - ( अनुष्टुप् )
कन्दमूलफलैः वन्यैः मेध्यैः वृत्तिं प्रकल्पयेत् । वसीत वल्कलं वासः तृणपर्णाजिनानि च ॥ २ ॥
कन्द-मूल-फलैः वन्यैः मेध्यैः वृत्तिम् प्रकल्पयेत् । वसीत वल्कलम् वासः तृण-पर्ण-अजिनानि च ॥ २ ॥
kanda-mūla-phalaiḥ vanyaiḥ medhyaiḥ vṛttim prakalpayet . vasīta valkalam vāsaḥ tṛṇa-parṇa-ajināni ca .. 2 ..
केशरोमनखश्मश्रुमलानि बिभृयाद् दतः । न धावेदप्सु मज्जेत त्रिकालं स्थण्डिलेशयः ॥ ३ ॥
केश-रोम-नख-श्मश्रु-मलानि बिभृयात् । न धावेत् अप्सु मज्जेत त्रिकालम् स्थण्डिलेशयः ॥ ३ ॥
keśa-roma-nakha-śmaśru-malāni bibhṛyāt . na dhāvet apsu majjeta trikālam sthaṇḍileśayaḥ .. 3 ..
ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड् जले । आकण्ठमग्नः शिशिरे एवंवृत्तस्तपश्चरेत् ॥ ४ ॥
ग्रीष्मे तप्येत पञ्च अग्नीन् वर्षासु आसार-साह् जले । आ कण्ठ-मग्नः शिशिरे एवंवृत्तः तपः चरेत् ॥ ४ ॥
grīṣme tapyeta pañca agnīn varṣāsu āsāra-sāh jale . ā kaṇṭha-magnaḥ śiśire evaṃvṛttaḥ tapaḥ caret .. 4 ..
अग्निपक्वं समश्नीयात् कालपक्वमथापि वा । उलूखलाश्मकुट्टो वा दन्तोलूखल एव वा ॥ ५ ॥
अग्नि-पक्वम् समश्नीयात् काल-पक्वम् अथ अपि वा । उलूखल-अश्मकुट्टः वा दन्त-उलूखलः एव वा ॥ ५ ॥
agni-pakvam samaśnīyāt kāla-pakvam atha api vā . ulūkhala-aśmakuṭṭaḥ vā danta-ulūkhalaḥ eva vā .. 5 ..
स्वयं सञ्चिनुयात् सर्वम् आत्मनो वृत्तिकारणम् । देशकालबलाभिज्ञो नाददीतान्यदाऽऽहृतम् ॥ ६ ॥
स्वयम् सञ्चिनुयात् सर्वम् आत्मनः वृत्ति-कारणम् । देश-काल-बल-अभिज्ञः न आददीत अन्यत् आहृतम् ॥ ६ ॥
svayam sañcinuyāt sarvam ātmanaḥ vṛtti-kāraṇam . deśa-kāla-bala-abhijñaḥ na ādadīta anyat āhṛtam .. 6 ..
वन्यैश्चरु-पुरोडाशैः निर्वपेत् कालचोदितान् । न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ ७ ॥
वन्यैः चरु-पुरोडाशैः निर्वपेत् काल-चोदितान् । न तु श्रौतेन पशुना माम् यजेत वन-आश्रमी ॥ ७ ॥
vanyaiḥ caru-puroḍāśaiḥ nirvapet kāla-coditān . na tu śrautena paśunā mām yajeta vana-āśramī .. 7 ..
अग्निहोत्रं च दर्शश्च पौर्णमासश्च पूर्ववत् । चातुर्मास्यानि च मुनेः आम्नातानि च नैगमैः ॥ ८ ॥
अग्निहोत्रम् च दर्शः च पौर्णमासः च पूर्ववत् । चातुर्मास्यानि च मुनेः आम्नातानि च नैगमैः ॥ ८ ॥
agnihotram ca darśaḥ ca paurṇamāsaḥ ca pūrvavat . cāturmāsyāni ca muneḥ āmnātāni ca naigamaiḥ .. 8 ..
एवं चीर्णेन तपसा मुनिः र्धमनिसंततः । मां तपोमयमाराध्य ऋषिलोकादुपैति माम् ॥ ९ ॥
एवम् चीर्णेन तपसा मुनिः ऋधमनिसंततः । माम् तपः-मयम् आराध्य ऋषि-लोकात् उपैति माम् ॥ ९ ॥
evam cīrṇena tapasā muniḥ ṛdhamanisaṃtataḥ . mām tapaḥ-mayam ārādhya ṛṣi-lokāt upaiti mām .. 9 ..
यस्त्वेतत्कृच्छ्रतश्चीर्णं तपो निःश्रेयसं महत् । कामायाल्पीयसे युञ्ज्याद् बालिशः कोऽपरस्ततः ॥ १० ॥
यः तु एतत् कृच्छ्रतः चीर्णम् तपः निःश्रेयसम् महत् । कामाय अल्पीयसे युञ्ज्यात् बालिशः कः अपरः ततस् ॥ १० ॥
yaḥ tu etat kṛcchrataḥ cīrṇam tapaḥ niḥśreyasam mahat . kāmāya alpīyase yuñjyāt bāliśaḥ kaḥ aparaḥ tatas .. 10 ..
यदासौ नियमेऽकल्पो जरया जातवेपथुः । आत्मन्यग्नीन् समारोप्य मच्चित्तोऽग्निं समाविशेत् ॥ ११ ॥
यदा असौ नियमे अकल्पः जरया जात-वेपथुः । आत्मनि अग्नीन् समारोप्य मद्-चित्तः अग्निम् समाविशेत् ॥ ११ ॥
yadā asau niyame akalpaḥ jarayā jāta-vepathuḥ . ātmani agnīn samāropya mad-cittaḥ agnim samāviśet .. 11 ..
यदा कर्मविपाकेषु लोकेषु निरयात्मसु । विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत्ततः ॥ १२ ॥
यदा कर्म-विपाकेषु लोकेषु निरय-आत्मसु । विरागः जायते सम्यक् न्यस्त-अग्निः प्रव्रजेत् ततस् ॥ १२ ॥
yadā karma-vipākeṣu lokeṣu niraya-ātmasu . virāgaḥ jāyate samyak nyasta-agniḥ pravrajet tatas .. 12 ..
इष्ट्वा यथोपदेशं मां दत्त्वा सर्वस्वमृत्विजे । अग्नीन् स्वप्राण आवेश्य निरपेक्षः परिव्रजेत् ॥ १३ ॥
इष्ट्वा यथोपदेशम् माम् दत्त्वा सर्व-स्वम् ऋत्विजे । अग्नीन् स्व-प्राणे आवेश्य निरपेक्षः परिव्रजेत् ॥ १३ ॥
iṣṭvā yathopadeśam mām dattvā sarva-svam ṛtvije . agnīn sva-prāṇe āveśya nirapekṣaḥ parivrajet .. 13 ..
विप्रस्य वै संन्यसतो देवा दारादिरूपिणः । विघ्नान् कुर्वन्त्ययं ह्यस्मान् आक्रम्य समियात् परम् ॥ १४ ॥
विप्रस्य वै संन्यसतः देवाः दार-आदि-रूपिणः । विघ्नान् कुर्वन्ति अयम् हि अस्मान् आक्रम्य समियात् परम् ॥ १४ ॥
viprasya vai saṃnyasataḥ devāḥ dāra-ādi-rūpiṇaḥ . vighnān kurvanti ayam hi asmān ākramya samiyāt param .. 14 ..
बिभृयाच्चेन् मुनिर्वासः कौपीनाच्छादनं परम् । त्यक्तं न दण्डपात्राभ्याम् अन्यत् किञ्चिद् अनापदि ॥ १५ ॥
बिभृयात् चेद् मुनिः वासः कौपीन-आच्छादनम् परम् । त्यक्तम् न दण्ड-पात्राभ्याम् अन्यत् किञ्चिद् अनापदि ॥ १५ ॥
bibhṛyāt ced muniḥ vāsaḥ kaupīna-ācchādanam param . tyaktam na daṇḍa-pātrābhyām anyat kiñcid anāpadi .. 15 ..
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेत् जलम् । सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ १६ ॥
दृष्टि-पूतम् न्यसेत् पादम् वस्त्र-पूतम् पिबेत् जलम् । सत्य-पूताम् वदेत् वाचम् मनः-पूतम् समाचरेत् ॥ १६ ॥
dṛṣṭi-pūtam nyaset pādam vastra-pūtam pibet jalam . satya-pūtām vadet vācam manaḥ-pūtam samācaret .. 16 ..
मौनानीहानिलायामाः दण्डा वाक्-देह-चेतसाम् । न ह्येते यस्य सन्त्यङ्ग वेणुभिर्न भवेद् यतिः ॥ १७ ॥
। न हि एते यस्य सन्ति अङ्ग वेणुभिः न भवेत् यतिः ॥ १७ ॥
. na hi ete yasya santi aṅga veṇubhiḥ na bhavet yatiḥ .. 17 ..
भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयन् चरेत् । सप्तागारान् असङ्क्लृप्तान् तुष्येत् लब्धेन तावता ॥ १८ ॥
भिक्षाम् चतुर्षु वर्णेषु विगर्ह्यान् वर्जयन् चरेत् । सप्त-अगारान् अ सङ्क्लृप्तान् तुष्येत् लब्धेन तावता ॥ १८ ॥
bhikṣām caturṣu varṇeṣu vigarhyān varjayan caret . sapta-agārān a saṅklṛptān tuṣyet labdhena tāvatā .. 18 ..
बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाग्यतः । विभज्य पावितं शेषं भुञ्जीताशेषमाहृतम् ॥ १९ ॥
बहिस् जलाशयम् गत्वा तत्र उपस्पृश्य वाग्यतः । विभज्य पावितम् शेषम् भुञ्जीत अशेषम् आहृतम् ॥ १९ ॥
bahis jalāśayam gatvā tatra upaspṛśya vāgyataḥ . vibhajya pāvitam śeṣam bhuñjīta aśeṣam āhṛtam .. 19 ..
एकश्चरेत् महीमेतां निःसङ्गः संयतेन्द्रियः । आत्मक्रीड आत्मरत आत्मवान् समदर्शनः ॥ २० ॥
एकः चरेत् महीम् एताम् निःसङ्गः संयत-इन्द्रियः । आत्म-क्रीडः आत्म-रतः आत्मवान् समदर्शनः ॥ २० ॥
ekaḥ caret mahīm etām niḥsaṅgaḥ saṃyata-indriyaḥ . ātma-krīḍaḥ ātma-rataḥ ātmavān samadarśanaḥ .. 20 ..
विविक्तक्षेमशरणो मद्भावविमलाशयः । आत्मानं चिन्तयेदेकमभेदेन मया मुनिः ॥ २१ ॥
विविक्त-क्षेम-शरणः मद्-भाव-विमल-आशयः । आत्मानम् चिन्तयेत् एकम् अभेदेन मया मुनिः ॥ २१ ॥
vivikta-kṣema-śaraṇaḥ mad-bhāva-vimala-āśayaḥ . ātmānam cintayet ekam abhedena mayā muniḥ .. 21 ..
अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया । बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयमः ॥ २२ ॥
अन्वीक्षेत आत्मनः बन्धम् मोक्षम् च ज्ञान-निष्ठया । बन्धः इन्द्रिय-विक्षेपः मोक्षः एषाम् च संयमः ॥ २२ ॥
anvīkṣeta ātmanaḥ bandham mokṣam ca jñāna-niṣṭhayā . bandhaḥ indriya-vikṣepaḥ mokṣaḥ eṣām ca saṃyamaḥ .. 22 ..
तस्मान्नियम्य षड्वर्गं मद्भावेन चरेन् मुनिः । विरक्तः क्षुद्रकामेभ्यो लब्ध्वा आत्मनि सुखं महत् ॥ २३ ॥
तस्मात् नियम्य षड्वर्गम् मद्-भावेन चरेत् मुनिः । विरक्तः क्षुद्र-कामेभ्यः लब्ध्वा आत्मनि सुखम् महत् ॥ २३ ॥
tasmāt niyamya ṣaḍvargam mad-bhāvena caret muniḥ . viraktaḥ kṣudra-kāmebhyaḥ labdhvā ātmani sukham mahat .. 23 ..
पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशंश्चरेत् । पुण्यदेश सरिच्छैशैल वनाश्रमवतीं महीम् ॥ २४ ॥
पुर-ग्राम-व्रजान् सार्थान् भिक्षा-अर्थम् प्रविशन् चरेत् । पुण्य-देश सरित्-शैशैल वन-आश्रमवतीम् महीम् ॥ २४ ॥
pura-grāma-vrajān sārthān bhikṣā-artham praviśan caret . puṇya-deśa sarit-śaiśaila vana-āśramavatīm mahīm .. 24 ..
वानप्रस्थाश्रमपदेषु अभीक्ष्णं भैक्ष्यमाचरेत् । संसिध्यत्याश्वसंमोहः शुद्धसत्त्वः शिलान्धसा ॥ २५ ॥
वानप्रस्थ-आश्रम-पदेषु अभीक्ष्णम् भैक्ष्यम् आचरेत् । संसिध्यति आशु-असंमोहः शुद्ध-सत्त्वः शिलान्धसा ॥ २५ ॥
vānaprastha-āśrama-padeṣu abhīkṣṇam bhaikṣyam ācaret . saṃsidhyati āśu-asaṃmohaḥ śuddha-sattvaḥ śilāndhasā .. 25 ..
नैतद् वस्तुतया पश्येद् दृश्यमानं विनश्यति । असक्तचित्तो विरमेद् इहामुत्र चिकीर्षितात् ॥ २६ ॥
न एतत् वस्तु-तया पश्येत् दृश्यमानम् विनश्यति । असक्त-चित्तः विरमेत् इह अमुत्र चिकीर्षितात् ॥ २६ ॥
na etat vastu-tayā paśyet dṛśyamānam vinaśyati . asakta-cittaḥ viramet iha amutra cikīrṣitāt .. 26 ..
यदेतदात्मनि जगन् मनो-वाक्-प्राण-संहतम् । सर्वं मायेति तर्केण स्वस्थः त्यक्त्वा न तत्स्मरेत् ॥ २७ ॥
यत् एतत् आत्मनि जगत् मनः-वाच्-प्राण-संहतम् । सर्वम् माया इति तर्केण स्वस्थः त्यक्त्वा न तत् स्मरेत् ॥ २७ ॥
yat etat ātmani jagat manaḥ-vāc-prāṇa-saṃhatam . sarvam māyā iti tarkeṇa svasthaḥ tyaktvā na tat smaret .. 27 ..
ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वाऽनपेक्षकः । सलिङ्गान् आश्रमान् त्यक्त्वा चरेद् अविधिगोचरः ॥ २८ ॥
ज्ञान-निष्ठः विरक्तः वा मद्-भक्तः वा अनपेक्षकः । सलिङ्गान् आश्रमान् त्यक्त्वा चरेत् अ विधि-गोचरः ॥ २८ ॥
jñāna-niṣṭhaḥ viraktaḥ vā mad-bhaktaḥ vā anapekṣakaḥ . saliṅgān āśramān tyaktvā caret a vidhi-gocaraḥ .. 28 ..
बुधो बालकवत् क्रीडेत् कुशलो जडवच्चरेत् । वदेद् उन्मत्तवद् विद्वान् गोचर्यां नैगमश्चरेत् ॥ २९ ॥
बुधः बालक-वत् क्रीडेत् कुशलः जड-वत् चरेत् । वदेत् उन्मत्त-वत् विद्वान् गोचर्याम् नैगमः चरेत् ॥ २९ ॥
budhaḥ bālaka-vat krīḍet kuśalaḥ jaḍa-vat caret . vadet unmatta-vat vidvān gocaryām naigamaḥ caret .. 29 ..
वेदवादरतो न स्यात् न पाखण्डी न हैतुकः । शुष्कवादविवादे न कञ्चित् पक्षं समाश्रयेत् ॥ ३० ॥
वेद-वाद-रतः न स्यात् न पाखण्डी न हैतुकः । शुष्क-वाद-विवादे न कञ्चिद् पक्षम् समाश्रयेत् ॥ ३० ॥
veda-vāda-rataḥ na syāt na pākhaṇḍī na haitukaḥ . śuṣka-vāda-vivāde na kañcid pakṣam samāśrayet .. 30 ..
नोद्विजेत जनाद् धीरो जनं चोद्वेजयेत् न तु । अतिवादान् तितिक्षेत नावमन्येत कञ्चन । देहमुद्दिश्य पशुवत् वैरं कुर्यान् न केनचित् ॥ ३१ ॥
न उद्विजेत जनात् धीरः जनम् च उद्वेजयेत् न तु । अतिवादान् तितिक्षेत न अवमन्येत कञ्चन । देहम् उद्दिश्य पशु-वत् वैरम् कुर्यात् न केनचिद् ॥ ३१ ॥
na udvijeta janāt dhīraḥ janam ca udvejayet na tu . ativādān titikṣeta na avamanyeta kañcana . deham uddiśya paśu-vat vairam kuryāt na kenacid .. 31 ..
एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः । यथेदमुदपात्रेषु भूतान्येकात्मकानि च ॥ ३२ ॥
एकः एव परः हि आत्मा भूतेषु आत्मनि अवस्थितः । यथा इदम् उद-पात्रेषु भूतानि एक-आत्मकानि च ॥ ३२ ॥
ekaḥ eva paraḥ hi ātmā bhūteṣu ātmani avasthitaḥ . yathā idam uda-pātreṣu bhūtāni eka-ātmakāni ca .. 32 ..
अलब्ध्वा न विषीदेत कालेकालेऽशनं क्वचित् । लब्ध्वा न हृष्येद्-धृतिमानुभयं दैवतं त्रितम् ॥ ३३ ॥
अ लब्ध्वा न विषीदेत काले काले अशनम् क्वचिद् । लब्ध्वा न हृष्येत् धृतिमान् उभयम् दैवतम् त्रितम् ॥ ३३ ॥
a labdhvā na viṣīdeta kāle kāle aśanam kvacid . labdhvā na hṛṣyet dhṛtimān ubhayam daivatam tritam .. 33 ..
आहारार्थं समीहेत युक्तं तत् प्राणधारणम् । तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते ॥ ३४ ॥
आहार-अर्थम् समीहेत युक्तम् तत् प्राणधारणम् । तत्त्वम् विमृश्यते तेन तत् विज्ञाय विमुच्यते ॥ ३४ ॥
āhāra-artham samīheta yuktam tat prāṇadhāraṇam . tattvam vimṛśyate tena tat vijñāya vimucyate .. 34 ..
यदृच्छयोपपन्नान्नमद्यात् श्रेष्ठमुतापरम् । तथा वासः तथा शय्यां प्राप्तं प्राप्तं भजेन् मुनिः ॥ ३५ ॥
यदृच्छया उपपन्न-अन्नम् अद्यात् श्रेष्ठम् उत अपरम् । तथा वासः तथा शय्याम् प्राप्तम् प्राप्तम् भजेत् मुनिः ॥ ३५ ॥
yadṛcchayā upapanna-annam adyāt śreṣṭham uta aparam . tathā vāsaḥ tathā śayyām prāptam prāptam bhajet muniḥ .. 35 ..
शौचमाचमनं स्नानं न तु चोदनया चरेत् । अन्यांश्च नियमान् ज्ञानी यथाहं लीलयेश्वरः ॥ ३६ ॥
शौचम् आचमनम् स्नानम् न तु चोदनया चरेत् । अन्यान् च नियमान् ज्ञानी यथा अहम् लीलया ईश्वरः ॥ ३६ ॥
śaucam ācamanam snānam na tu codanayā caret . anyān ca niyamān jñānī yathā aham līlayā īśvaraḥ .. 36 ..
न हि तस्य विकल्पाख्या या च मद् वीक्षया हता । आ देहान्तात् क्वचित् ख्यातिः ततः संपद्यते मया ॥ ३७ ॥
न हि तस्य विकल्प-आख्या या च मत् वीक्षया हता । आ देहान्तात् क्वचिद् ख्यातिः ततस् संपद्यते मया ॥ ३७ ॥
na hi tasya vikalpa-ākhyā yā ca mat vīkṣayā hatā . ā dehāntāt kvacid khyātiḥ tatas saṃpadyate mayā .. 37 ..
दुःखोदर्केषु कामेषु जातनिर्वेद आत्मवान् । अजिज्ञासित मद्धर्मो गुरुं मुनिमुपाव्रजेत् ॥ ३८ ॥
दुःख-उदर्केषु कामेषु जात-निर्वेदः आत्मवान् । अजिज्ञासित मद्-धर्मः गुरुम् मुनिम् उपाव्रजेत् ॥ ३८ ॥
duḥkha-udarkeṣu kāmeṣu jāta-nirvedaḥ ātmavān . ajijñāsita mad-dharmaḥ gurum munim upāvrajet .. 38 ..
तावत् परिचरेद् भक्तः श्रद्धावान् अनसूयकः । यावद् ब्रह्म विजानीयान् मामेव गुरुमादृतः ॥ ३९ ॥
तावत् परिचरेत् भक्तः श्रद्धावान् अनसूयकः । यावत् ब्रह्म विजानीयात् माम् एव गुरुम् आदृतः ॥ ३९ ॥
tāvat paricaret bhaktaḥ śraddhāvān anasūyakaḥ . yāvat brahma vijānīyāt mām eva gurum ādṛtaḥ .. 39 ..
यस्त्वसंयत षड्वर्गः प्रचण्डेन्द्रिय सारथिः । ज्ञानवैराग्यरहितः त्रिदण्डमुपजीवति ॥ ४० ॥
यः तु असंयत-षड्वर्गः प्रचण्ड-इन्द्रिय-सारथिः । ज्ञान-वैराग्य-रहितः त्रिदण्डम् उपजीवति ॥ ४० ॥
yaḥ tu asaṃyata-ṣaḍvargaḥ pracaṇḍa-indriya-sārathiḥ . jñāna-vairāgya-rahitaḥ tridaṇḍam upajīvati .. 40 ..
सुरान् आत्मानमात्मस्थं निह्नुते मां च धर्महा । अविपक्वकषायोऽस्माद् अमुष्माच्च विहीयते ॥ ४१ ॥
सुरान् आत्मानम् आत्म-स्थम् निह्नुते माम् च धर्म-हा । अविपक्व-कषायः अस्मात् अमुष्मात् च विहीयते ॥ ४१ ॥
surān ātmānam ātma-stham nihnute mām ca dharma-hā . avipakva-kaṣāyaḥ asmāt amuṣmāt ca vihīyate .. 41 ..
भिक्षोः धर्मः शमोऽहिंसा तप ईक्षा वनौकसः । गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम् ॥ ४२ ॥
भिक्षोः धर्मः शमः अहिंसा तपः ईक्षा वनौकसः । गृहिणः भूत-रक्षा-इज्या द्विजस्य आचार्य-सेवनम् ॥ ४२ ॥
bhikṣoḥ dharmaḥ śamaḥ ahiṃsā tapaḥ īkṣā vanaukasaḥ . gṛhiṇaḥ bhūta-rakṣā-ijyā dvijasya ācārya-sevanam .. 42 ..
ब्रह्मचर्यं तपः शौचं संतोषो भूतसौहृदम् । गृहस्थस्यापि ऋतौ गन्तुः सर्वेषां मदुपासनम् ॥ ४३ ॥
ब्रह्मचर्यम् तपः शौचम् संतोषः भूत-सौहृदम् । गृहस्थस्य अपि ऋतौ गन्तुः सर्वेषाम् मद्-उपासनम् ॥ ४३ ॥
brahmacaryam tapaḥ śaucam saṃtoṣaḥ bhūta-sauhṛdam . gṛhasthasya api ṛtau gantuḥ sarveṣām mad-upāsanam .. 43 ..
इति मां यः स्वधर्मेण भजन् नित्यमनन्यभाक् । सर्वभूतेषु मद्भावो मद्भक्तिं विन्दते दृढाम् ॥ ४४ ॥
इति माम् यः स्वधर्मेण भजन् नित्यम् अनन्य-भाज् । सर्व-भूतेषु मद्-भावः मद्-भक्तिम् विन्दते दृढाम् ॥ ४४ ॥
iti mām yaḥ svadharmeṇa bhajan nityam ananya-bhāj . sarva-bhūteṣu mad-bhāvaḥ mad-bhaktim vindate dṛḍhām .. 44 ..
भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् । सर्वोत्पत्त्यप्ययं ब्रह्म कारणं मोपयाति सः ॥ ४५ ॥
भक्त्या उद्धव-अनपायिन्या सर्व-लोक-महेश्वरम् । सर्व-उत्पत्ति-अप्ययम् ब्रह्म कारणम् मा उपयाति सः ॥ ४५ ॥
bhaktyā uddhava-anapāyinyā sarva-loka-maheśvaram . sarva-utpatti-apyayam brahma kāraṇam mā upayāti saḥ .. 45 ..
इति स्वधर्मनिर्णिक्तसत्त्वो निर्ज्ञातमद्गतिः । ज्ञानविज्ञान सम्पन्नो न चिरात् समुपैति माम् ॥ ४६ ॥
इति स्वधर्म-निर्णिक्त-सत्त्वः निर्ज्ञात-मद्-गतिः । ज्ञान-विज्ञान-सम्पन्नः न चिरात् समुपैति माम् ॥ ४६ ॥
iti svadharma-nirṇikta-sattvaḥ nirjñāta-mad-gatiḥ . jñāna-vijñāna-sampannaḥ na cirāt samupaiti mām .. 46 ..
वर्णाश्रमवतां धर्म एष आचार लक्षणः । स एव मद्भक्तियुतो निःश्रेयसकरः परः ॥ ४७ ॥
वर्ण-आश्रमवताम् धर्मः एषः आचार लक्षणः । सः एव मद्-भक्ति-युतः निःश्रेयस-करः परः ॥ ४७ ॥
varṇa-āśramavatām dharmaḥ eṣaḥ ācāra lakṣaṇaḥ . saḥ eva mad-bhakti-yutaḥ niḥśreyasa-karaḥ paraḥ .. 47 ..
एतत्तेऽभिहितं साधो भवान् पृच्छति यच्च माम् । यथा स्वधर्मसंयुक्तो भक्तो मां समियात् परम् ॥ ४८ ॥
एतत् ते अभिहितम् साधो भवान् पृच्छति यत् च माम् । यथा स्वधर्म-संयुक्तः भक्तः माम् समियात् परम् ॥ ४८ ॥
etat te abhihitam sādho bhavān pṛcchati yat ca mām . yathā svadharma-saṃyuktaḥ bhaktaḥ mām samiyāt param .. 48 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे अष्टादशः अध्यायः ॥ १८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe aṣṭādaśaḥ adhyāyaḥ .. 18 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In