| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीउद्धव उवाच - ( अनुष्टुप् )
विधिश्च प्रतिषेधश्च निगमो हीश्वरस्य ते । अवेक्षतेऽरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥ १ ॥
विधिः च प्रतिषेधः च निगमः हि ईश्वरस्य ते । अवेक्षते अरविन्द-अक्ष गुणम् दोषम् च कर्मणाम् ॥ १ ॥
vidhiḥ ca pratiṣedhaḥ ca nigamaḥ hi īśvarasya te . avekṣate aravinda-akṣa guṇam doṣam ca karmaṇām .. 1 ..
वर्णाश्रमविकल्पं च प्रतिलोमानुलोमजम् । द्रव्यदेशवयः कालान् स्वर्गं नरकमेव च ॥ २ ॥
वर्ण-आश्रम-विकल्पम् च प्रतिलोम-अनुलोम-जम् । द्रव्य-देश-वयः कालान् स्वर्गम् नरकम् एव च ॥ २ ॥
varṇa-āśrama-vikalpam ca pratiloma-anuloma-jam . dravya-deśa-vayaḥ kālān svargam narakam eva ca .. 2 ..
गुणदोषभिदादृष्टिमन्तरेण वचस्तव । निःश्रेयसं कथं नॄणां निषेधविधिलक्षणम् ॥ ३ ॥
गुण-दोष-भिदा-दृष्टिम् अन्तरेण वचः तव । निःश्रेयसम् कथम् नॄणाम् निषेध-विधि-लक्षणम् ॥ ३ ॥
guṇa-doṣa-bhidā-dṛṣṭim antareṇa vacaḥ tava . niḥśreyasam katham nṝṇām niṣedha-vidhi-lakṣaṇam .. 3 ..
पितृदेवमनुष्यानां वेदश्चक्षुस्तवेश्वर । श्रेयस्त्वनुपलब्धेऽर्थे साध्यसाधनयोरपि ॥ ४ ॥
पितृ-देव-मनुष्यानाम् वेदः चक्षुः तव ईश्वर । श्रेयः तु अनुपलब्धे अर्थे साध्य-साधनयोः अपि ॥ ४ ॥
pitṛ-deva-manuṣyānām vedaḥ cakṣuḥ tava īśvara . śreyaḥ tu anupalabdhe arthe sādhya-sādhanayoḥ api .. 4 ..
गुणदोषभिदादृष्टिः निगमात्ते न हि स्वतः । निगमेनापवादश्च भिदाया इति ह भ्रमः ॥ ५ ॥
गुण-दोष-भिदा-दृष्टिः निगमात् ते न हि स्वतस् । निगमेन अपवादः च भिदायाः इति ह भ्रमः ॥ ५ ॥
guṇa-doṣa-bhidā-dṛṣṭiḥ nigamāt te na hi svatas . nigamena apavādaḥ ca bhidāyāḥ iti ha bhramaḥ .. 5 ..
श्रीभगवानुवाच -
योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया । ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ ६ ॥
योगाः त्रयः मया प्रोक्ताः नृणाम् श्रेयः-विधित्सया । ज्ञानम् कर्म च भक्तिः च न उपायः अन्यः अस्ति कुत्रचिद् ॥ ६ ॥
yogāḥ trayaḥ mayā proktāḥ nṛṇām śreyaḥ-vidhitsayā . jñānam karma ca bhaktiḥ ca na upāyaḥ anyaḥ asti kutracid .. 6 ..
निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु । तेषु अनिर्विण्णचित्तानां कर्मयोगस्तु कामिनाम् ॥ ७ ॥
निर्विण्णानाम् ज्ञान-योगः न्यासिनाम् इह कर्मसु । तेषु अनिर्विण्ण-चित्तानाम् कर्म-योगः तु कामिनाम् ॥ ७ ॥
nirviṇṇānām jñāna-yogaḥ nyāsinām iha karmasu . teṣu anirviṇṇa-cittānām karma-yogaḥ tu kāminām .. 7 ..
यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् । न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ ८ ॥
यदृच्छया मद्-कथा-आदौ जात-श्रद्धः तु यः पुमान् । न निर्विण्णः न अति सक्तः भक्ति-योगः अस्य सिद्धि-दः ॥ ८ ॥
yadṛcchayā mad-kathā-ādau jāta-śraddhaḥ tu yaḥ pumān . na nirviṇṇaḥ na ati saktaḥ bhakti-yogaḥ asya siddhi-daḥ .. 8 ..
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ ९ ॥
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मद्-कथा-श्रवण-आदौ वा श्रद्धा यावत् न जायते ॥ ९ ॥
tāvat karmāṇi kurvīta na nirvidyeta yāvatā . mad-kathā-śravaṇa-ādau vā śraddhā yāvat na jāyate .. 9 ..
स्वधर्मस्थो यजन् यज्ञैः अनाशीःकाम उद्धव । न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत् ॥ १० ॥
स्वधर्म-स्थः यजन् यज्ञैः अनाशीःकामः उद्धव । न याति स्वर्ग-नरकौ यदि अन्यत् न समाचरेत् ॥ १० ॥
svadharma-sthaḥ yajan yajñaiḥ anāśīḥkāmaḥ uddhava . na yāti svarga-narakau yadi anyat na samācaret .. 10 ..
अस्मिंल्लोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः । ज्ञानं विशुद्धमाप्नोति मद्भक्तिं वा यदृच्छया ॥ ११ ॥
अस्मिन् लोके वर्तमानः स्वधर्म-स्थः अनघः शुचिः । ज्ञानम् विशुद्धम् आप्नोति मद्-भक्तिम् वा यदृच्छया ॥ ११ ॥
asmin loke vartamānaḥ svadharma-sthaḥ anaghaḥ śuciḥ . jñānam viśuddham āpnoti mad-bhaktim vā yadṛcchayā .. 11 ..
स्वर्गिणोऽप्येतमिच्छन्ति लोकं निरयिणस्तथा । साधकं ज्ञानभक्तिभ्यां उभयं तदसाधकम् ॥ १२ ॥
स्वर्गिणः अपि एतम् इच्छन्ति लोकम् निरयिणः तथा । ॥ १२ ॥
svargiṇaḥ api etam icchanti lokam nirayiṇaḥ tathā . .. 12 ..
न नरः स्वर्गतिं काङ्क्षेत् नारकीं वा विचक्षणः । नेमं लोकं च काङ्क्षेत देहावेशात् प्रमाद्यति ॥ १३ ॥
न नरः स्वर् गतिम् काङ्क्षेत् नारकीम् वा विचक्षणः । न इमम् लोकम् च काङ्क्षेत देह-आवेशात् प्रमाद्यति ॥ १३ ॥
na naraḥ svar gatim kāṅkṣet nārakīm vā vicakṣaṇaḥ . na imam lokam ca kāṅkṣeta deha-āveśāt pramādyati .. 13 ..
एतद् विद्वान् पुरा मृत्योः अभवाय घटेत सः । अप्रमत्त इदं ज्ञात्वा मर्त्यमप्यर्थसिद्धिदम् ॥ १४ ॥
एतद्-विद्वान् पुरा मृत्योः अभवाय घटेत सः । अप्रमत्तः इदम् ज्ञात्वा मर्त्यम् अपि अर्थ-सिद्धि-दम् ॥ १४ ॥
etad-vidvān purā mṛtyoḥ abhavāya ghaṭeta saḥ . apramattaḥ idam jñātvā martyam api artha-siddhi-dam .. 14 ..
छिद्यमानं यमैः एतैः कृतनीडं वनस्पतिम् । खगः स्वकेतमुत्सृज्य क्षेमं याति ह्यलम्पटः ॥ १५ ॥
छिद्यमानम् यमैः एतैः कृत-नीडम् वनस्पतिम् । खगः स्व-केतम् उत्सृज्य क्षेमम् याति हि अलम्पटः ॥ १५ ॥
chidyamānam yamaiḥ etaiḥ kṛta-nīḍam vanaspatim . khagaḥ sva-ketam utsṛjya kṣemam yāti hi alampaṭaḥ .. 15 ..
अहोरात्रैः छिद्यमानं बुद्ध्वाऽऽयुर्भयवेपथुः । मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ १६ ॥
अहोरात्रैः छिद्यमानम् बुद्ध्वा आयुः-भय-वेपथुः । मुक्त-सङ्गः परम् बुद्ध्वा निरीहः उपशाम्यति ॥ १६ ॥
ahorātraiḥ chidyamānam buddhvā āyuḥ-bhaya-vepathuḥ . mukta-saṅgaḥ param buddhvā nirīhaḥ upaśāmyati .. 16 ..
( मिश्र )
नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् । मयानुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स आत्महा ॥ १७ ॥
नृ-देहम् आद्यम् सुलभम् सु दुर्लभम् प्लवम् सु कल्पम् गुरु-कर्णधारम् । मया अनुकूलेन नभस्वता ईरितम् पुमान् भव-अब्धिम् न तरेत् सः आत्म-हा ॥ १७ ॥
nṛ-deham ādyam sulabham su durlabham plavam su kalpam guru-karṇadhāram . mayā anukūlena nabhasvatā īritam pumān bhava-abdhim na taret saḥ ātma-hā .. 17 ..
( अनुष्टुप् )
यदाऽऽरम्भेषु निर्विण्णो विरक्तः संयतन्द्रियः । अभ्यासेनात्मनो योगी धारयेद् अचलं मनः ॥ १८ ॥
यदा आरम्भेषु निर्विण्णः विरक्तः संयत-इन्द्रियः । अभ्यासेन आत्मनः योगी धारयेत् अचलम् मनः ॥ १८ ॥
yadā ārambheṣu nirviṇṇaḥ viraktaḥ saṃyata-indriyaḥ . abhyāsena ātmanaḥ yogī dhārayet acalam manaḥ .. 18 ..
धार्यमाणं मनो यर्हि भ्राम्यत् आश्वनवस्थितम् । अतन्द्रितोऽनुरोधेन मार्गेणात्मवशं नयेत् ॥ १९ ॥
धार्यमाणम् मनः यर्हि भ्राम्यत् आशु अनवस्थितम् । अतन्द्रितः अनुरोधेन मार्गेण आत्म-वशम् नयेत् ॥ १९ ॥
dhāryamāṇam manaḥ yarhi bhrāmyat āśu anavasthitam . atandritaḥ anurodhena mārgeṇa ātma-vaśam nayet .. 19 ..
मनोगतिं न विसृजेत् जितप्राणो जितेन्द्रियः । सत्त्वसंपन्नया बुद्ध्या मन आत्मवशं नयेत् ॥ २० ॥
मनोगतिम् न विसृजेत् जित-प्राणः जित-इन्द्रियः । सत्त्व-संपन्नया बुद्ध्या मनः आत्म-वशम् नयेत् ॥ २० ॥
manogatim na visṛjet jita-prāṇaḥ jita-indriyaḥ . sattva-saṃpannayā buddhyā manaḥ ātma-vaśam nayet .. 20 ..
एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः । हृदयज्ञत्वमन्विच्छन् दम्यस्येवार्वतो मुहुः ॥ २१ ॥
एष वै परमः योगः मनसः सङ्ग्रहः स्मृतः । हृदय-ज्ञ-त्वम् अन्विच्छन् दम्यस्य इव अर्वतः मुहुर् ॥ २१ ॥
eṣa vai paramaḥ yogaḥ manasaḥ saṅgrahaḥ smṛtaḥ . hṛdaya-jña-tvam anvicchan damyasya iva arvataḥ muhur .. 21 ..
साङ्ख्येन सर्वभावानां प्रतिलोमानुलोमतः । भवाप्ययावनुध्यायेन् मनो यावत्प्रसीदति ॥ २२ ॥
साङ्ख्येन सर्व-भावानाम् प्रतिलोम-अनुलोमतः । भव-अप्ययौ अनुध्यायेत् मनः यावत् प्रसीदति ॥ २२ ॥
sāṅkhyena sarva-bhāvānām pratiloma-anulomataḥ . bhava-apyayau anudhyāyet manaḥ yāvat prasīdati .. 22 ..
निर्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिनः । मनस्त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥ २३ ॥
निर्विण्णस्य विरक्तस्य पुरुषस्य उक्त-वेदिनः । मनः त्यजति दौरात्म्यम् चिन्तितस्य अनुचिन्तया ॥ २३ ॥
nirviṇṇasya viraktasya puruṣasya ukta-vedinaḥ . manaḥ tyajati daurātmyam cintitasya anucintayā .. 23 ..
यमादिभिः योगपथैः आन्वीक्षिक्या च विद्यया । ममार्चोपासनाभिर्वा नान्यैर्योग्यं स्मरेन्मनः ॥ २४ ॥
यम-आदिभिः योगपथैः आन्वीक्षिक्या च विद्यया । मम अर्चा-उपासनाभिः वा न अन्यैः योग्यम् स्मरेत् मनः ॥ २४ ॥
yama-ādibhiḥ yogapathaiḥ ānvīkṣikyā ca vidyayā . mama arcā-upāsanābhiḥ vā na anyaiḥ yogyam smaret manaḥ .. 24 ..
यदि कुर्यात्प्रमादेन योगी कर्म विगर्हितम् । योगेनैव दहेदंहो नान्यत्तत्र कदाचन ॥ २५ ॥
यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् । योगेन एव दहेत् अंहः ना अन्यत् तत्र कदाचन ॥ २५ ॥
yadi kuryāt pramādena yogī karma vigarhitam . yogena eva dahet aṃhaḥ nā anyat tatra kadācana .. 25 ..
स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः । कर्मणां जात्यशुद्धानाम् अनेन नियमः कृतः । गुणदोषविधानेन सङ्गानां त्याजनेच्छया ॥ २६ ॥
स्वे स्वे अधिकारे या निष्ठा स गुणः परिकीर्तितः । कर्मणाम् जाति-अशुद्धानाम् अनेन नियमः कृतः । गुण-दोष-विधानेन सङ्गानाम् त्याजन-इच्छया ॥ २६ ॥
sve sve adhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ . karmaṇām jāti-aśuddhānām anena niyamaḥ kṛtaḥ . guṇa-doṣa-vidhānena saṅgānām tyājana-icchayā .. 26 ..
जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु । वेद दुःखात्मकान् कामान् परित्यागेऽप्यनीश्वरः ॥ २७ ॥
जात-श्रद्धः मद्-कथासु निर्विण्णः सर्व-कर्मसु । वेद दुःख-आत्मकान् कामान् परित्यागे अपि अनीश्वरः ॥ २७ ॥
jāta-śraddhaḥ mad-kathāsu nirviṇṇaḥ sarva-karmasu . veda duḥkha-ātmakān kāmān parityāge api anīśvaraḥ .. 27 ..
ततो भजेत मां प्रीतः श्रद्धालुर्दृढनिश्चयः । जुषमाणश्च तान्कामान् दुःखोदर्कांश्च गर्हयन् ॥ २८ ॥
ततस् भजेत माम् प्रीतः श्रद्धालुः दृढ-निश्चयः । जुषमाणः च तान् कामान् दुःख-उदर्कान् च गर्हयन् ॥ २८ ॥
tatas bhajeta mām prītaḥ śraddhāluḥ dṛḍha-niścayaḥ . juṣamāṇaḥ ca tān kāmān duḥkha-udarkān ca garhayan .. 28 ..
प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुनेः । कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ २९ ॥
प्रोक्तेन भक्ति-योगेन भजतः मा असकृत् मुनेः । कामाः हृदय्याः नश्यन्ति सर्वे मयि हृदि स्थिते ॥ २९ ॥
proktena bhakti-yogena bhajataḥ mā asakṛt muneḥ . kāmāḥ hṛdayyāḥ naśyanti sarve mayi hṛdi sthite .. 29 ..
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ ३० ॥
भिद्यते हृदय-ग्रन्थिः छिद्यन्ते सर्व-संशयाः । क्षीयन्ते च अस्य कर्माणि मयि दृष्टे अखिलात्मनि ॥ ३० ॥
bhidyate hṛdaya-granthiḥ chidyante sarva-saṃśayāḥ . kṣīyante ca asya karmāṇi mayi dṛṣṭe akhilātmani .. 30 ..
तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥ ३१ ॥
तस्मात् मद्-भक्ति-युक्तस्य योगिनः वै मद्-आत्मनः । न ज्ञानम् न च वैराग्यम् प्रायस् श्रेयः भवेत् इह ॥ ३१ ॥
tasmāt mad-bhakti-yuktasya yoginaḥ vai mad-ātmanaḥ . na jñānam na ca vairāgyam prāyas śreyaḥ bhavet iha .. 31 ..
यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् । योगेन दानधर्मेण श्रेयोभिः इतरैरपि ॥ ३२ ॥
यत् कर्मभिः यत् तपसा ज्ञान-वैराग्यतः च यत् । योगेन दान-धर्मेण श्रेयोभिः इतरैः अपि ॥ ३२ ॥
yat karmabhiḥ yat tapasā jñāna-vairāgyataḥ ca yat . yogena dāna-dharmeṇa śreyobhiḥ itaraiḥ api .. 32 ..
सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं मद्धाम कथञ्चिद् यदि वाञ्छति ॥ ३३ ॥
सर्वम् मद्-भक्ति-योगेन मद्-भक्तः लभते अञ्जसा । स्वर्ग-अपवर्गम् मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ ३३ ॥
sarvam mad-bhakti-yogena mad-bhaktaḥ labhate añjasā . svarga-apavargam mad-dhāma kathañcid yadi vāñchati .. 33 ..
न किञ्चित् साधवो धीरा भक्ता ह्येकान्तिनो मम । वाञ्छन्त्यपि मया दत्तं कैवल्यं अपुनर्भवम् ॥ ३४ ॥
न किञ्चिद् साधवः धीराः भक्ताः हि एकान्तिनः मम । वाञ्छन्ति अपि मया दत्तम् कैवल्यम् अपुनर्भवम् ॥ ३४ ॥
na kiñcid sādhavaḥ dhīrāḥ bhaktāḥ hi ekāntinaḥ mama . vāñchanti api mayā dattam kaivalyam apunarbhavam .. 34 ..
नैरपेक्ष्यं परं प्राहुः निःश्रेयसमनल्पकम् । तस्मान्निराशिषो भक्तिः निरपेक्षस्य मे भवेत् ॥ ३५ ॥
नैरपेक्ष्यम् परम् प्राहुः निःश्रेयसम् अनल्पकम् । तस्मात् भक्तिः निरपेक्षस्य मे भवेत् ॥ ३५ ॥
nairapekṣyam param prāhuḥ niḥśreyasam analpakam . tasmāt bhaktiḥ nirapekṣasya me bhavet .. 35 ..
न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः । साधूनां समचित्तानां बुद्धेः परमुपेयुषाम् ॥ ३६ ॥
न मयि एकान्त-भक्तानाम् गुण-दोष-उद्भवाः गुणाः । साधूनाम् समचित्तानाम् बुद्धेः परम् उपेयुषाम् ॥ ३६ ॥
na mayi ekānta-bhaktānām guṇa-doṣa-udbhavāḥ guṇāḥ . sādhūnām samacittānām buddheḥ param upeyuṣām .. 36 ..
एवमेतान्मया दिष्टान् अनुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत्स्थानं यद् ब्रह्म परमं विदुः ॥ ३७ ॥
एवम् एतान् मया दिष्टान् अनुतिष्ठन्ति मे पथः । क्षेमम् विन्दन्ति मत् स्थानम् यत् ब्रह्म परमम् विदुः ॥ ३७ ॥
evam etān mayā diṣṭān anutiṣṭhanti me pathaḥ . kṣemam vindanti mat sthānam yat brahma paramam viduḥ .. 37 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे विंशोऽध्यायः ॥ २० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे विंशः अध्यायः ॥ २० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe viṃśaḥ adhyāyaḥ .. 20 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In