| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच - ( अनुष्टुप् )
अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर्विनिश्चितम् । यद्विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम् ॥ १ ॥
अथ ते सम्प्रवक्ष्यामि साङ्ख्यम् पूर्वैः विनिश्चितम् । यत् विज्ञाय पुमान् सद्यस् जह्यात् वैकल्पिकम् भ्रमम् ॥ १ ॥
atha te sampravakṣyāmi sāṅkhyam pūrvaiḥ viniścitam . yat vijñāya pumān sadyas jahyāt vaikalpikam bhramam .. 1 ..
आसीज्ज्ञानमथो अर्थ एकमेवाविकल्पितम् । यदा विवेकनिपुणा आदौ कृतयुगेऽयुगे ॥ २ ॥
आसीत् ज्ञानम् अथो अर्थः एकम् एव अ विकल्पितम् । यदा विवेक-निपुणाः आदौ कृत-युगे अयुगे ॥ २ ॥
āsīt jñānam atho arthaḥ ekam eva a vikalpitam . yadā viveka-nipuṇāḥ ādau kṛta-yuge ayuge .. 2 ..
तन्मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनोऽगोचरं सत्यं द्विधा समभवद् बृहत् ॥ ३ ॥
तत् माया-फल-रूपेण केवलम् निः विकल्पितम् । वाच्-मनः-अगोचरम् सत्यम् द्विधा समभवत् बृहत् ॥ ३ ॥
tat māyā-phala-rūpeṇa kevalam niḥ vikalpitam . vāc-manaḥ-agocaram satyam dvidhā samabhavat bṛhat .. 3 ..
तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका । ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते ॥ ४ ॥
तयोः एकतरः हि अर्थः प्रकृतिः सा उभय-आत्मिका । ज्ञानम् तु अन्यतमः भावः पुरुषः सः अभिधीयते ॥ ४ ॥
tayoḥ ekataraḥ hi arthaḥ prakṛtiḥ sā ubhaya-ātmikā . jñānam tu anyatamaḥ bhāvaḥ puruṣaḥ saḥ abhidhīyate .. 4 ..
तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥ ५ ॥
तमः रजः सत्त्वम् इति प्रकृतेः अभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुष-अनुमतेन च ॥ ५ ॥
tamaḥ rajaḥ sattvam iti prakṛteḥ abhavan guṇāḥ . mayā prakṣobhyamāṇāyāḥ puruṣa-anumatena ca .. 5 ..
तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः । ततो विकुर्वतो जातो अहङ्कारो विमोहनः ॥ ६ ॥
तेभ्यः समभवत् सूत्रम् महान् सूत्रेण संयुतः । ततस् विकुर्वतः जातः अहङ्कारः विमोहनः ॥ ६ ॥
tebhyaḥ samabhavat sūtram mahān sūtreṇa saṃyutaḥ . tatas vikurvataḥ jātaḥ ahaṅkāraḥ vimohanaḥ .. 6 ..
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् । तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः ॥ ७ ॥
वैकारिकः तैजसः च तामसः च इति अहम् त्रिवृत् । तन्मात्र-इन्द्रिय-मनसाम् कारणम् चित्-अचित्-मयः ॥ ७ ॥
vaikārikaḥ taijasaḥ ca tāmasaḥ ca iti aham trivṛt . tanmātra-indriya-manasām kāraṇam cit-acit-mayaḥ .. 7 ..
अर्थस्तन्मात्रिकाज्जज्ञे तामसादिन्द्रियाणि च । तैजसाद् देवता आसन् एकादश च वैकृतात् ॥ ८ ॥
अर्थः तन्मात्रिकात् जज्ञे तामसात् इन्द्रियाणि च । तैजसात् देवताः आसन् एकादश च वैकृतात् ॥ ८ ॥
arthaḥ tanmātrikāt jajñe tāmasāt indriyāṇi ca . taijasāt devatāḥ āsan ekādaśa ca vaikṛtāt .. 8 ..
मया सञ्चोदिता भावाः सर्वे संहत्यकारिणः । अण्डं उत्पादयामासुं ममायतनमुत्तमम् ॥ ९ ॥
मया सञ्चोदिताः भावाः सर्वे संहत्य-कारिणः । अण्डम् उत्पादयामासुम् मम आयतनम् उत्तमम् ॥ ९ ॥
mayā sañcoditāḥ bhāvāḥ sarve saṃhatya-kāriṇaḥ . aṇḍam utpādayāmāsum mama āyatanam uttamam .. 9 ..
तस्मिन् अहं समभवं अण्डे सलिलसंस्थितौ । मम नाभ्यामभूत् पद्मं विश्वाख्यं तत्र चात्मभूः ॥ १० ॥
तस्मिन् अहम् समभवम् अण्डे सलिल-संस्थितौ । मम नाभ्याम् अभूत् पद्मम् विश्व-आख्यम् तत्र च आत्मभूः ॥ १० ॥
tasmin aham samabhavam aṇḍe salila-saṃsthitau . mama nābhyām abhūt padmam viśva-ākhyam tatra ca ātmabhūḥ .. 10 ..
सोऽसृजत्तपसा युक्तो रजसा मदनुग्रहात् । लोकान् सपालान् विश्वात्मा भूर्भुवः स्वरिति त्रिधा ॥ ११ ॥
सः असृजत् तपसा युक्तः रजसा मद्-अनुग्रहात् । लोकान् स पालान् विश्वात्मा भूः भुवः स्वर् इति त्रिधा ॥ ११ ॥
saḥ asṛjat tapasā yuktaḥ rajasā mad-anugrahāt . lokān sa pālān viśvātmā bhūḥ bhuvaḥ svar iti tridhā .. 11 ..
देवानामोक आसीत् स्वर्भूतानां च भुवः पदम् । मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात् परम् ॥ १२ ॥
देवानाम् ओकः आसीत् स्वर्भूतानाम् च भुवः पदम् । मर्त्य-आदीनाम् च भूर्लोकः सिद्धानाम् त्रितयात् परम् ॥ १२ ॥
devānām okaḥ āsīt svarbhūtānām ca bhuvaḥ padam . martya-ādīnām ca bhūrlokaḥ siddhānām tritayāt param .. 12 ..
अधोऽसुराणां नागानां भूमेरोकोऽसृजत् प्रभुः । त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् ॥ १३ ॥
अधस् असुराणाम् नागानाम् भूमेः ओकः असृजत् प्रभुः । त्रिलोक्याम् गतयः सर्वाः कर्मणाम् त्रिगुण-आत्मनाम् ॥ १३ ॥
adhas asurāṇām nāgānām bhūmeḥ okaḥ asṛjat prabhuḥ . trilokyām gatayaḥ sarvāḥ karmaṇām triguṇa-ātmanām .. 13 ..
योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः । महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः ॥ १४ ॥
योगस्य तपसः च एव न्यासस्य गतयः अमलाः । महर् जनः तपः सत्यम् भक्ति-योगस्य मद्-गतिः ॥ १४ ॥
yogasya tapasaḥ ca eva nyāsasya gatayaḥ amalāḥ . mahar janaḥ tapaḥ satyam bhakti-yogasya mad-gatiḥ .. 14 ..
मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् । गुणप्रवाह एतस्मिन् उन्मज्जति निमज्जति ॥ १५ ॥
मया काल-आत्मना धात्रा कर्म-युक्तम् इदम् जगत् । गुण-प्रवाहः एतस्मिन् उन्मज्जति निमज्जति ॥ १५ ॥
mayā kāla-ātmanā dhātrā karma-yuktam idam jagat . guṇa-pravāhaḥ etasmin unmajjati nimajjati .. 15 ..
अणुर्बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति । सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ १६ ॥
अणुः बृहत् कृशः स्थूलः यः यः भावः प्रसिध्यति । सर्वः अपि उभय-संयुक्तः प्रकृत्या पुरुषेण च ॥ १६ ॥
aṇuḥ bṛhat kṛśaḥ sthūlaḥ yaḥ yaḥ bhāvaḥ prasidhyati . sarvaḥ api ubhaya-saṃyuktaḥ prakṛtyā puruṣeṇa ca .. 16 ..
यस्तु यस्यादिरन्तश्च स वै मध्यं च तस्य सन् । विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥ १७ ॥
यः तु यस्य आदिः अन्तः च स वै मध्यम् च तस्य सन् । विकारः व्यवहार-अर्थः यथा तैजस-पार्थिवाः ॥ १७ ॥
yaḥ tu yasya ādiḥ antaḥ ca sa vai madhyam ca tasya san . vikāraḥ vyavahāra-arthaḥ yathā taijasa-pārthivāḥ .. 17 ..
यदुपादाय पूर्वस्तु भावो विकुरुतेऽपरम् । आदिरन्तो यदा यस्य तत् सत्यमभिधीयते ॥ १८ ॥
यत् उपादाय पूर्वः तु भावः विकुरुते अपरम् । आदिः अन्तः यदा यस्य तत् सत्यम् अभिधीयते ॥ १८ ॥
yat upādāya pūrvaḥ tu bhāvaḥ vikurute aparam . ādiḥ antaḥ yadā yasya tat satyam abhidhīyate .. 18 ..
प्रकृतिर्यस्य उपादानं आधारः पुरुषः परः । सतोऽभिव्यञ्जकः कालो ब्रह्म तत्त्रितयं त्वहम् ॥ १९ ॥
प्रकृतिः यस्य उपादानम् आधारः पुरुषः परः । सतः अभिव्यञ्जकः कालः ब्रह्म तद्-त्रितयम् तु अहम् ॥ १९ ॥
prakṛtiḥ yasya upādānam ādhāraḥ puruṣaḥ paraḥ . sataḥ abhivyañjakaḥ kālaḥ brahma tad-tritayam tu aham .. 19 ..
सर्गः प्रवर्तते तावत् पौवापर्येण नित्यशः । महान् गुणविसर्गार्थः स्थित्यन्तो यावदीक्षणम् ॥ २० ॥
सर्गः प्रवर्तते तावत् पौवापर्येण नित्यशस् । महान् गुण-विसर्ग-अर्थः स्थिति-अन्तः यावदीक्षणम् ॥ २० ॥
sargaḥ pravartate tāvat pauvāparyeṇa nityaśas . mahān guṇa-visarga-arthaḥ sthiti-antaḥ yāvadīkṣaṇam .. 20 ..
विराण्मयाऽऽसाद्यमानो लोककल्पविकल्पकः । पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ २१ ॥
विराज् मया आसाद्यमानः लोक-कल्प-विकल्पकः । पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ २१ ॥
virāj mayā āsādyamānaḥ loka-kalpa-vikalpakaḥ . pañcatvāya viśeṣāya kalpate bhuvanaiḥ saha .. 21 ..
अन्ने प्रलीयते मर्त्यं अन्नं धानासु लीयते । धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते ॥ २२ ॥
अन्ने प्रलीयते मर्त्यम् अन्नम् धानासु लीयते । धानाः भूमौ प्रलीयन्ते भूमिः गन्धे प्रलीयते ॥ २२ ॥
anne pralīyate martyam annam dhānāsu līyate . dhānāḥ bhūmau pralīyante bhūmiḥ gandhe pralīyate .. 22 ..
अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे । लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते ॥ २३ ॥
अप्सु प्रलीयते गन्धः आपः च स्व-गुणे रसे । लीयते ज्योतिषि रसः ज्योतिः रूपे प्रलीयते ॥ २३ ॥
apsu pralīyate gandhaḥ āpaḥ ca sva-guṇe rase . līyate jyotiṣi rasaḥ jyotiḥ rūpe pralīyate .. 23 ..
रूपं वायौ स च स्पर्शे लीयते सोऽपि चाम्बरे । अम्बरं शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु ॥ २४ ॥
रूपम् वायौ स च स्पर्शे लीयते सः अपि च अम्बरे । अम्बरम् शब्द-तन्मात्रे इन्द्रियाणि स्व-योनिषु ॥ २४ ॥
rūpam vāyau sa ca sparśe līyate saḥ api ca ambare . ambaram śabda-tanmātre indriyāṇi sva-yoniṣu .. 24 ..
योनिर्वैकारिके सौम्य लीयते मनसीश्वरे । शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः ॥ २५ ॥
योनिः वैकारिके सौम्य लीयते मनसि ईश्वरे । शब्दः भूतादिम् अप्येति भूतादिः महति प्रभुः ॥ २५ ॥
yoniḥ vaikārike saumya līyate manasi īśvare . śabdaḥ bhūtādim apyeti bhūtādiḥ mahati prabhuḥ .. 25 ..
स लीयते महान् स्वेषु गुणेशु गुणवत्तमः । तेऽव्यक्ते संप्रलीयन्ते तत्काले लीयतेऽव्यये ॥ २६ ॥
स लीयते महान् स्वेषु गुणेशु गुणवत्तमः । ते अव्यक्ते संप्रलीयन्ते तद्-काले लीयते अव्यये ॥ २६ ॥
sa līyate mahān sveṣu guṇeśu guṇavattamaḥ . te avyakte saṃpralīyante tad-kāle līyate avyaye .. 26 ..
कालो मायामये जीवे जीव आत्मनि मय्यजे । आत्मा केवल आत्मस्थो विकल्पापायलक्षणः ॥ २७ ॥
कालः माया-मये जीवे जीवः आत्मनि मयि अजे । आत्मा केवलः आत्म-स्थः विकल्प-अपाय-लक्षणः ॥ २७ ॥
kālaḥ māyā-maye jīve jīvaḥ ātmani mayi aje . ātmā kevalaḥ ātma-sthaḥ vikalpa-apāya-lakṣaṇaḥ .. 27 ..
एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः । मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः ॥ २८ ॥
एवम् अन्वीक्षमाणस्य कथम् वैकल्पिकः भ्रमः । मनसः हृदि तिष्ठेत व्योम्नि इव अर्क-उदये तमः ॥ २८ ॥
evam anvīkṣamāṇasya katham vaikalpikaḥ bhramaḥ . manasaḥ hṛdi tiṣṭheta vyomni iva arka-udaye tamaḥ .. 28 ..
एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः । प्रतिलोमानुलोमाभ्यां परावरदृशा मया ॥ २९ ॥
एष साङ्ख्य-विधिः प्रोक्तः संशय-ग्रन्थि-भेदनः । प्रतिलोम-अनुलोमाभ्याम् पर-अवर-दृशा मया ॥ २९ ॥
eṣa sāṅkhya-vidhiḥ proktaḥ saṃśaya-granthi-bhedanaḥ . pratiloma-anulomābhyām para-avara-dṛśā mayā .. 29 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे चतुर्विंशोऽध्यायः ॥ २४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे चतुर्विंशः अध्यायः ॥ २४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe caturviṃśaḥ adhyāyaḥ .. 24 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In