| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच
ततो महाभागवत उद्धवे निर्गते वनम् । द्वारवत्यां किमकरोद्भगवान्भूतभावनः १
ततस् महाभागवते उद्धवे निर्गते वनम् । द्वारवत्याम् किम् अकरोत् भगवान् भूतभावनः
tatas mahābhāgavate uddhave nirgate vanam . dvāravatyām kim akarot bhagavān bhūtabhāvanaḥ
ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः । प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् २
ब्रह्म-शाप-उपसंसृष्टे स्व-कुले यादव-ऋषभः । प्रेयसीम् सर्व-नेत्राणाम् तनुम् स कथम् अत्यजत्
brahma-śāpa-upasaṃsṛṣṭe sva-kule yādava-ṛṣabhaḥ . preyasīm sarva-netrāṇām tanum sa katham atyajat
प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकुः । कर्णाविष्टं न सरति ततो यत्सतामात्मलग्नम् । यच्छ्रीर्वाचां जनयति रतिं किं नु मानं कवीनां । दृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयुः ३
प्रत्याक्रष्टुम् नयनम् अबलाः यत्र लग्नम् न शेकुः । कर्ण-आविष्टम् न सरति ततस् यत् सताम् आत्म-लग्नम् । यत् श्रीः वाचाम् जनयति रतिम् किम् नु मानम् कवीनाम् । दृष्ट्वा जिष्णोः युधि रथ-गतम् यत् च तद्-साम्यम् ईयुः
pratyākraṣṭum nayanam abalāḥ yatra lagnam na śekuḥ . karṇa-āviṣṭam na sarati tatas yat satām ātma-lagnam . yat śrīḥ vācām janayati ratim kim nu mānam kavīnām . dṛṣṭvā jiṣṇoḥ yudhi ratha-gatam yat ca tad-sāmyam īyuḥ
श्री ऋषिरुवाच
दिवि भुव्यन्तरिक्षे च महोत्पातान्समुत्थितान् । दृष्ट्वासीनान्सुधर्मायां कृष्णः प्राह यदूनिदम् ४
दिवि भुवि अन्तरिक्षे च महा-उत्पातान् समुत्थितान् । दृष्ट्वा आसीनान् सुधर्मायाम् कृष्णः प्राह यदून् इदम्
divi bhuvi antarikṣe ca mahā-utpātān samutthitān . dṛṣṭvā āsīnān sudharmāyām kṛṣṇaḥ prāha yadūn idam
श्रीभगवानुवाच
एते घोरा महोत्पाता द्वार्वत्यां यमकेतवः । मुहूर्तमपि न स्थेयमत्र नो यदुपुङ्गवाः ५
एते घोराः महा-उत्पाताः द्वार्वत्याम् यम-केतवः । मुहूर्तम् अपि न स्थेयम् अत्र नः यदु-पुङ्गवाः
ete ghorāḥ mahā-utpātāḥ dvārvatyām yama-ketavaḥ . muhūrtam api na stheyam atra naḥ yadu-puṅgavāḥ
स्त्रियो बालाश्च वृद्धाश्च शङ्खोद्धारं व्रजन्त्वितः । वयं प्रभासं यास्यामो यत्र प्रत्यक्सरस्वती ६
स्त्रियः बालाः च वृद्धाः च शङ्खोद्धारम् व्रजन्तु इतस् । वयम् प्रभासम् यास्यामः यत्र प्रत्यक् सरस्वती
striyaḥ bālāḥ ca vṛddhāḥ ca śaṅkhoddhāram vrajantu itas . vayam prabhāsam yāsyāmaḥ yatra pratyak sarasvatī
तत्राभिषिच्य शुचय उपोष्य सुसमाहिताः । देवताः पूजयिष्यामः स्नपनालेपनार्हणैः ७
तत्र अभिषिच्य शुचयः उपोष्य सु समाहिताः । देवताः पूजयिष्यामः स्नपन-आलेपन-अर्हणैः
tatra abhiṣicya śucayaḥ upoṣya su samāhitāḥ . devatāḥ pūjayiṣyāmaḥ snapana-ālepana-arhaṇaiḥ
ब्राह्मणांस्तु महाभागान्कृतस्वस्त्ययना वयम् । गोभूहिरण्यवासोभिर्गजाश्वरथवेश्मभिः ८
ब्राह्मणान् तु महाभागान् कृत-स्वस्त्ययनाः वयम् । गो-भू-हिरण्य-वासोभिः गज-अश्व-रथ-वेश्मभिः
brāhmaṇān tu mahābhāgān kṛta-svastyayanāḥ vayam . go-bhū-hiraṇya-vāsobhiḥ gaja-aśva-ratha-veśmabhiḥ
विधिरेष ह्यरिष्टघ्नो मङ्गलायनमुत्तमम् । देवद्विजगवां पूजा भूतेषु परमो भवः ९
विधिः एष हि अरिष्ट-घ्नः मङ्गलायनम् उत्तमम् । देव-द्विज-गवाम् पूजा भूतेषु परमः भवः
vidhiḥ eṣa hi ariṣṭa-ghnaḥ maṅgalāyanam uttamam . deva-dvija-gavām pūjā bhūteṣu paramaḥ bhavaḥ
इति सर्वे समाकर्ण्य यदुवृद्धा मधुद्विषः । तथेति नौभिरुत्तीर्य प्रभासं प्रययू रथैः १०
इति सर्वे समाकर्ण्य यदु-वृद्धाः मधुद्विषः । तथा इति नौभिः उत्तीर्य प्रभासम् प्रययुः रथैः
iti sarve samākarṇya yadu-vṛddhāḥ madhudviṣaḥ . tathā iti naubhiḥ uttīrya prabhāsam prayayuḥ rathaiḥ
तस्मिन्भगवतादिष्टं यदुदेवेन यादवाः । चक्रुः परमया भक्त्या सर्वश्रेयोपबृंहितम् ११
तस्मिन् भगवता आदिष्टम् यदुदेवेन यादवाः । चक्रुः परमया भक्त्या सर्व-श्रेयः-उपबृंहितम्
tasmin bhagavatā ādiṣṭam yadudevena yādavāḥ . cakruḥ paramayā bhaktyā sarva-śreyaḥ-upabṛṃhitam
ततस्तस्मिन्महापानं पपुर्मैरेयकं मधु । दिष्टविभ्रंशितधियो यद्द्रवैर्भ्रश्यते मतिः १२
ततस् तस्मिन् महा-पानम् पपुः मैरेयकम् मधु । दिष्ट-विभ्रंशित-धियः यद्-द्रवैः भ्रश्यते मतिः
tatas tasmin mahā-pānam papuḥ maireyakam madhu . diṣṭa-vibhraṃśita-dhiyaḥ yad-dravaiḥ bhraśyate matiḥ
महापानाभिमत्तानां वीराणां दृप्तचेतसाम् । कृष्णमायाविमूढानां सङ्घर्षः सुमहानभूत् १३
महा-पान-अभिमत्तानाम् वीराणाम् दृप्त-चेतसाम् । कृष्ण-माया-विमूढानाम् सङ्घर्षः सु महान् अभूत्
mahā-pāna-abhimattānām vīrāṇām dṛpta-cetasām . kṛṣṇa-māyā-vimūḍhānām saṅgharṣaḥ su mahān abhūt
युयुधुः क्रोधसंरब्धा वेलायामाततायिनः । धनुर्भिरसिभिर्भल्लैर्गदाभिस्तोमरर्ष्टिभिः १४
युयुधुः क्रोध-संरब्धाः वेलायाम् आततायिनः । धनुर्भिः असिभिः भल्लैः गदाभिः तोमर-ऋष्टिभिः
yuyudhuḥ krodha-saṃrabdhāḥ velāyām ātatāyinaḥ . dhanurbhiḥ asibhiḥ bhallaiḥ gadābhiḥ tomara-ṛṣṭibhiḥ
पतत्पताकै रथकुञ्जरादिभिः खरोष्ट्रगोभिर्महिषैर्नरैरपि । मिथः समेत्याश्वतरैः सुदुर्मदा न्यहन्शरैर्दद्भिरिव द्विपा वने १५
पतत्-पताकैः रथ-कुञ्जर-आदिभिः खर-उष्ट्र-गोभिः महिषैः नरैः अपि । मिथस् समेत्य अश्वतरैः सु दुर्मदाः न्यहन् शरैः दद्भिः इव द्विपाः वने
patat-patākaiḥ ratha-kuñjara-ādibhiḥ khara-uṣṭra-gobhiḥ mahiṣaiḥ naraiḥ api . mithas sametya aśvataraiḥ su durmadāḥ nyahan śaraiḥ dadbhiḥ iva dvipāḥ vane
प्रद्युम्नसाम्बौ युधि रूढमत्सराव् अक्रूरभोजावनिरुद्धसात्यकी । सुभद्र सङ्ग्रामजितौ सुदारुणौ गदौ सुमित्रासुरथौ समीयतुः १६
प्रद्युम्न-साम्बौ युधि रूढ-मत्सरौ अक्रूर-भोजौ अनिरुद्ध-सात्यकी । सुभद्र सङ्ग्राम-जितौ सु दारुणौ गदौ सुमित्रा-सुरथौ समीयतुः
pradyumna-sāmbau yudhi rūḍha-matsarau akrūra-bhojau aniruddha-sātyakī . subhadra saṅgrāma-jitau su dāruṇau gadau sumitrā-surathau samīyatuḥ
अन्ये च ये वै निशठोल्मुकादयः सहस्रजिच्छतजिद्भानुमुख्याः । अन्योन्यमासाद्य मदान्धकारिता जघ्नुर्मुकुन्देन विमोहिता भृशम् १७
अन्ये च ये वै निशठ-उल्मुक-आदयः सहस्रजित्-शतजित्-भानु-मुख्याः । अन्योन्यम् आसाद्य मद-अन्धकारिताः जघ्नुः मुकुन्देन विमोहिताः भृशम्
anye ca ye vai niśaṭha-ulmuka-ādayaḥ sahasrajit-śatajit-bhānu-mukhyāḥ . anyonyam āsādya mada-andhakāritāḥ jaghnuḥ mukundena vimohitāḥ bhṛśam
दाशार्हवृष्ण्यन्धकभोजसात्वता । मध्वर्बुदा माथुरशूरसेनाः । विसर्जनाः कुकुराः कुन्तयश्च । मिथस्तु जघ्नुः सुविसृज्य सौहृदम् १८
दाशार्ह-वृष्णि-अन्धक-भोज-सात्वता । मध्वर्बुदाः माथुर-शूरसेनाः । विसर्जनाः कुकुराः कुन्तयः च । मिथस् तु जघ्नुः सु विसृज्य सौहृदम्
dāśārha-vṛṣṇi-andhaka-bhoja-sātvatā . madhvarbudāḥ māthura-śūrasenāḥ . visarjanāḥ kukurāḥ kuntayaḥ ca . mithas tu jaghnuḥ su visṛjya sauhṛdam
पुत्रा अयुध्यन्पितृभिर्भ्रातृभिश्च । स्वस्रीयदौहित्रपितृव्यमातुलैः। मित्राणि मित्रैः सुहृदः सुहृद्भिर् । ज्ञातींस्त्वहन्ज्ञातय एव मूढाः १९
पुत्राः अयुध्यन् पितृभिः भ्रातृभिः च । स्वस्रीय-दौहित्र-पितृव्य-मातुलैः। मित्राणि मित्रैः सुहृदः सुहृद्भिः । ज्ञातीन् तु अहन् ज्ञातयः एव मूढाः
putrāḥ ayudhyan pitṛbhiḥ bhrātṛbhiḥ ca . svasrīya-dauhitra-pitṛvya-mātulaiḥ. mitrāṇi mitraiḥ suhṛdaḥ suhṛdbhiḥ . jñātīn tu ahan jñātayaḥ eva mūḍhāḥ
शरेषु क्षीयमाणेषु भज्यमानेसु धन्वसु । शस्त्रेषु क्षीयमानेषु मुष्टिभिर्जह्रुरेरकाः २०
शरेषु क्षीयमाणेषु भज्यमानेसु धन्वसु । शस्त्रेषु क्षीयमानेषु मुष्टिभिः जह्रुः एरकाः
śareṣu kṣīyamāṇeṣu bhajyamānesu dhanvasu . śastreṣu kṣīyamāneṣu muṣṭibhiḥ jahruḥ erakāḥ
ता वज्रकल्पा ह्यभवन्परिघा मुष्टिना भृताः । जघ्नुर्द्विषस्तैः कृष्णेन वार्यमाणास्तु तं च ते २१
ताः वज्र-कल्पाः हि अभवन् परिघाः मुष्टिना भृताः । जघ्नुः द्विषः तैः कृष्णेन वार्यमाणाः तु तम् च ते
tāḥ vajra-kalpāḥ hi abhavan parighāḥ muṣṭinā bhṛtāḥ . jaghnuḥ dviṣaḥ taiḥ kṛṣṇena vāryamāṇāḥ tu tam ca te
प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः । हन्तुं कृतधियो राजन्नापन्ना आततायिनः २२
प्रत्यनीकम् मन्यमानाः बलभद्रम् च मोहिताः । हन्तुम् कृत-धियः राजन् आपन्नाः आततायिनः
pratyanīkam manyamānāḥ balabhadram ca mohitāḥ . hantum kṛta-dhiyaḥ rājan āpannāḥ ātatāyinaḥ
अथ तावपि सङ्क्रुद्धावुद्यम्य कुरुनन्दन । एरकामुष्टिपरिघौ चरन्तौ जघ्नतुर्युधि २३
अथ तौ अपि सङ्क्रुद्धौ उद्यम्य कुरु-नन्दन । एरका-मुष्टि-परिघौ चरन्तौ जघ्नतुः युधि
atha tau api saṅkruddhau udyamya kuru-nandana . erakā-muṣṭi-parighau carantau jaghnatuḥ yudhi
ब्रह्मशापोपसृष्टानां कृष्णमायावृतात्मनाम् । स्पर्धाक्रोधः क्षयं निन्ये वैणवोऽग्निर्यथा वनम् २४
ब्रह्म-शाप-उपसृष्टानाम् कृष्ण-माया-आवृत-आत्मनाम् । स्पर्धा-क्रोधः क्षयम् निन्ये वैणवः अग्निः यथा वनम्
brahma-śāpa-upasṛṣṭānām kṛṣṇa-māyā-āvṛta-ātmanām . spardhā-krodhaḥ kṣayam ninye vaiṇavaḥ agniḥ yathā vanam
एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः । अवतारितो भुवो भार इति मेनेऽवशेषितः २५
एवम् नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः । अवतारितः भुवः भारः इति मेने अवशेषितः
evam naṣṭeṣu sarveṣu kuleṣu sveṣu keśavaḥ . avatāritaḥ bhuvaḥ bhāraḥ iti mene avaśeṣitaḥ
रामः समुद्र वेलायां योगमास्थाय पौरुषम् । तत्याज लोकं मानुष्यं संयोज्यात्मानमात्मनि २६
रामः समुद्र-वेलायाम् योगम् आस्थाय पौरुषम् । तत्याज लोकम् मानुष्यम् संयोज्य आत्मानम् आत्मनि
rāmaḥ samudra-velāyām yogam āsthāya pauruṣam . tatyāja lokam mānuṣyam saṃyojya ātmānam ātmani
रामनिर्याणमालोक्य भगवान्देवकीसुतः निषसाद धरोपस्थे तुष्णीमासाद्य पिप्पलम् २७
राम-निर्याणम् आलोक्य भगवान् देवकी-सुतः निषसाद धरा-उपस्थे तुष्णीम् आसाद्य पिप्पलम्
rāma-niryāṇam ālokya bhagavān devakī-sutaḥ niṣasāda dharā-upasthe tuṣṇīm āsādya pippalam
बिभ्रच्चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया दिशो वितिमिराः कुर्वन्विधूम इव पावकः २८
बिभ्रत् चतुर्-भुजम् रूपम् भ्राजिष्णु प्रभया स्वया दिशः वितिमिराः कुर्वन् विधूमः इव पावकः
bibhrat catur-bhujam rūpam bhrājiṣṇu prabhayā svayā diśaḥ vitimirāḥ kurvan vidhūmaḥ iva pāvakaḥ
श्रीवत्साङ्कं घनश्यामं तप्तहाटकवर्चसम् कौशेयाम्बरयुग्मेन परिवीतं सुमङ्गलम् २९
श्रीवत्स-अङ्कम् घनश्यामम् तप्त-हाटक-वर्चसम् कौशेय-अम्बर-युग्मेन परिवीतम् सु मङ्गलम्
śrīvatsa-aṅkam ghanaśyāmam tapta-hāṭaka-varcasam kauśeya-ambara-yugmena parivītam su maṅgalam
सुन्दरस्मितवक्त्राब्जं नीलकुन्तलमण्डितम् । पुण्डरीकाभिरामाक्षं स्फुरन्मकरकुण्डलम् ३०
। पुण्डरीक-अभिराम-अक्षम् स्फुरत्-मकर-कुण्डलम्
. puṇḍarīka-abhirāma-akṣam sphurat-makara-kuṇḍalam
कटिसूत्रब्रह्मसूत्र किरीटकटकाङ्गदैः । हारनूपुरमुद्राभिः कौस्तुभेन विराजितम् ३१
कटिसूत्र-ब्रह्मसूत्र-किरीट-कटक-अङ्गदैः । हार-नूपुर-मुद्राभिः कौस्तुभेन विराजितम्
kaṭisūtra-brahmasūtra-kirīṭa-kaṭaka-aṅgadaiḥ . hāra-nūpura-mudrābhiḥ kaustubhena virājitam
वनमालापरीताङ्गं मूर्तिमद्भिर्निजायुधैः । कृत्वोरौ दक्षिणे पादमासीनं पङ्कजारुणम् ३२
वनमाला-परीत-अङ्गम् मूर्तिमद्भिः निज-आयुधैः । कृत्वा ऊरौ दक्षिणे पादम् आसीनम् पङ्कज-अरुणम्
vanamālā-parīta-aṅgam mūrtimadbhiḥ nija-āyudhaiḥ . kṛtvā ūrau dakṣiṇe pādam āsīnam paṅkaja-aruṇam
मुषलावशेषायःखण्ड कृतेषुर्लुब्धको जरा । मृगास्याकारं तच्चरणं विव्याध मृगशङ्कया ३३
कृत-इषुः लुब्धकः जरा । मृग-आस्य-आकारम् तद्-चरणम् विव्याध मृग-शङ्कया
kṛta-iṣuḥ lubdhakaḥ jarā . mṛga-āsya-ākāram tad-caraṇam vivyādha mṛga-śaṅkayā
चतुर्भुजं तं पुरुषं दृष्ट्वा स कृतकिल्बिषः । भीतः पपात शिरसा पादयोरसुरद्विषः ३४
चतुर्-भुजम् तम् पुरुषम् दृष्ट्वा स कृत-किल्बिषः । भीतः पपात शिरसा पादयोः असुरद्विषः
catur-bhujam tam puruṣam dṛṣṭvā sa kṛta-kilbiṣaḥ . bhītaḥ papāta śirasā pādayoḥ asuradviṣaḥ
अजानता कृतमिदं पापेन मधुसूदन । क्षन्तुमर्हसि पापस्य उत्तमःश्लोक मेऽनघ ३५
अ जानता कृतम् इदम् पापेन मधुसूदन । क्षन्तुम् अर्हसि पापस्य उत्तमःश्लोक मे अनघ
a jānatā kṛtam idam pāpena madhusūdana . kṣantum arhasi pāpasya uttamaḥśloka me anagha
यस्यानुस्मरणं नृणामज्ञानध्वान्तनाशनम् । वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो ३६
यस्य अनुस्मरणम् नृणाम् अज्ञान-ध्वान्त-नाशनम् । वदन्ति तस्य ते विष्णो मया असाधु कृतम् प्रभो
yasya anusmaraṇam nṛṇām ajñāna-dhvānta-nāśanam . vadanti tasya te viṣṇo mayā asādhu kṛtam prabho
तन्माऽऽशु जहि वैकुण्ठ पाप्मानं मृगलुब्धकम् । यथा पुनरहं त्वेवं न कुर्यां सदतिक्रमम् ३७
तत् मा आशु जहि वैकुण्ठ पाप्मानम् मृग-लुब्धकम् । यथा पुनर् अहम् तु एवम् न कुर्याम् सत्-अतिक्रमम्
tat mā āśu jahi vaikuṇṭha pāpmānam mṛga-lubdhakam . yathā punar aham tu evam na kuryām sat-atikramam
यस्यात्मयोगरचितं न विदुर्विरिञ्चो । रुद्रादयोऽस्य तनयाः पतयो गिरां ये
यस्य आत्म-योग-रचितम् न विदुः विरिञ्चो । रुद्र-आदयः अस्य तनयाः पतयः गिराम् ये
yasya ātma-yoga-racitam na viduḥ viriñco . rudra-ādayaḥ asya tanayāḥ patayaḥ girām ye
त्वन्मायया पिहितदृष्टय एतदञ्जः । किं तस्य ते वयमसद्गतयो गृणीमः ३८
त्वद्-मायया पिहित-दृष्टयः एतत् अञ्जस् । किम् तस्य ते वयम् असत्-गतयः गृणीमः
tvad-māyayā pihita-dṛṣṭayaḥ etat añjas . kim tasya te vayam asat-gatayaḥ gṛṇīmaḥ
श्रीभगवानुवाच
मा भैर्जरे त्वमुत्तिष्ठ काम एष कृतो हि मे । याहि त्वं मदनुज्ञातः स्वर्गं सुकृतिनां पदम् ३९
मा भैर्जरे त्वम् उत्तिष्ठ कामः एष कृतः हि मे । याहि त्वम् मद्-अनुज्ञातः स्वर्गम् सु कृतिनाम् पदम्
mā bhairjare tvam uttiṣṭha kāmaḥ eṣa kṛtaḥ hi me . yāhi tvam mad-anujñātaḥ svargam su kṛtinām padam
इत्यादिष्टो भगवता कृष्णेनेच्छाशरीरिणा । त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ४०
इति आदिष्टः भगवता कृष्णेन इच्छा-शरीरिणा । त्रिस् परिक्रम्य तम् नत्वा विमानेन दिवम् ययौ
iti ādiṣṭaḥ bhagavatā kṛṣṇena icchā-śarīriṇā . tris parikramya tam natvā vimānena divam yayau
दारुकः कृष्णपदवीमन्विच्छन्नधिगम्य ताम् । वायुं तुलसिकामोदमाघ्रायाभिमुखं ययौ ४१
दारुकः कृष्ण-पदवीम् अन्विच्छन् अधिगम्य ताम् । वायुम् तुलसिका-आमोदम् आघ्राय अभिमुखम् ययौ
dārukaḥ kṛṣṇa-padavīm anvicchan adhigamya tām . vāyum tulasikā-āmodam āghrāya abhimukham yayau
तं तत्र तिग्मद्युभिरायुधैर्वृतं ह्यश्वत्थमूले कृतकेतनं पतिम् । स्नेहप्लुतात्मा निपपात पादयो रथादवप्लुत्य सबाष्पलोचनः ४२
तम् तत्र तिग्म-द्युभिः आयुधैः वृतम् हि अश्वत्थ-मूले कृत-केतनम् पतिम् । स्नेह-प्लुत-आत्मा निपपात पादयः रथात् अवप्लुत्य स बाष्प-लोचनः
tam tatra tigma-dyubhiḥ āyudhaiḥ vṛtam hi aśvattha-mūle kṛta-ketanam patim . sneha-pluta-ātmā nipapāta pādayaḥ rathāt avaplutya sa bāṣpa-locanaḥ
अपश्यतस्त्वच्चरणाम्बुजं प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा । दिशो न जाने न लभे च शान्तिं यथा निशायामुडुपे प्रणष्टे ४३
अ पश्यतः त्वद्-चरण-अम्बुजम् प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा । दिशः न जाने न लभे च शान्तिम् यथा निशायाम् उडुपे प्रणष्टे
a paśyataḥ tvad-caraṇa-ambujam prabho dṛṣṭiḥ praṇaṣṭā tamasi praviṣṭā . diśaḥ na jāne na labhe ca śāntim yathā niśāyām uḍupe praṇaṣṭe
इति ब्रुवति सूते वै रथो गरुडलाञ्छनः । खमुत्पपात राजेन्द्र साश्वध्वज उदीक्षतः ४४
इति ब्रुवति सूते वै रथः गरुड-लाञ्छनः । खम् उत्पपात राज-इन्द्र स अश्व-ध्वजः उदीक्षतः
iti bruvati sūte vai rathaḥ garuḍa-lāñchanaḥ . kham utpapāta rāja-indra sa aśva-dhvajaḥ udīkṣataḥ
तमन्वगच्छन्दिव्यानि विष्णुप्रहरणानि च । तेनातिविस्मितात्मानं सूतमाह जनार्दनः ४५
तम् अन्वगच्छन् दिव्यानि विष्णु-प्रहरणानि च । तेन अति विस्मित-आत्मानम् सूतम् आह जनार्दनः
tam anvagacchan divyāni viṣṇu-praharaṇāni ca . tena ati vismita-ātmānam sūtam āha janārdanaḥ
गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः । सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्दशाम् ४६
गच्छ द्वारवतीम् सूत ज्ञातीनाम् निधनम् मिथस् । सङ्कर्षणस्य निर्याणम् बन्धुभ्यः ब्रूहि मद्-दशाम्
gaccha dvāravatīm sūta jñātīnām nidhanam mithas . saṅkarṣaṇasya niryāṇam bandhubhyaḥ brūhi mad-daśām
द्वारकायां च न स्थेयं भवद्भिश्च स्वबन्धुभिः । मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ४७
द्वारकायाम् च न स्थेयम् भवद्भिः च स्व-बन्धुभिः । मया त्यक्ताम् यदु-पुरीम् समुद्रः प्लावयिष्यति
dvārakāyām ca na stheyam bhavadbhiḥ ca sva-bandhubhiḥ . mayā tyaktām yadu-purīm samudraḥ plāvayiṣyati
स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः । अर्जुनेनाविताः सर्व इन्द्र प्रस्थं गमिष्यथ ४८
स्वम् स्वम् परिग्रहम् सर्वे आदाय पितरौ च नः । अर्जुनेन अविताः सर्वे इन्द्र प्रस्थम् गमिष्यथ
svam svam parigraham sarve ādāya pitarau ca naḥ . arjunena avitāḥ sarve indra prastham gamiṣyatha
त्वं तु मद्धर्ममास्थाय ज्ञाननिष्ठ उपेक्षकः । मन्मायारचितामेतां विज्ञयोपशमं व्रज ४९
त्वम् तु मद्-धर्मम् आस्थाय ज्ञान-निष्ठः उपेक्षकः । मद्-माया-रचिताम् एताम् विज्ञया उपशमम् व्रज
tvam tu mad-dharmam āsthāya jñāna-niṣṭhaḥ upekṣakaḥ . mad-māyā-racitām etām vijñayā upaśamam vraja
इत्युक्तस्तं परिक्रम्य नमस्कृत्य पुनः पुनः । तत्पादौ शीर्ष्ण्युपाधाय दुर्मनाः प्रययौ पुरीम् ५०
इति उक्तः तम् परिक्रम्य नमस्कृत्य पुनर् पुनर् । तद्-पादौ शीर्ष्णि उपाधाय दुर्मनाः प्रययौ पुरीम्
iti uktaḥ tam parikramya namaskṛtya punar punar . tad-pādau śīrṣṇi upādhāya durmanāḥ prayayau purīm
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे त्रिंशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे त्रिंशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe triṃśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In