| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
अथ ब्रह्मात्मजैर्देवैः प्रजेशैरावृतोऽभ्यगात् । भवश्च भूतभव्येशो ययौ भूतगणैर्वृतः १ ।
अथ ब्रह्म-आत्मजैः देवैः प्रजा-ईशैः आवृतः अभ्यगात् । भवः च भूत-भव्य-ईशः ययौ भूत-गणैः वृतः ।
atha brahma-ātmajaiḥ devaiḥ prajā-īśaiḥ āvṛtaḥ abhyagāt . bhavaḥ ca bhūta-bhavya-īśaḥ yayau bhūta-gaṇaiḥ vṛtaḥ .
इन्द्रो मरुद्भिर्भगवानादित्या वसवोऽश्विनौ । ऋभवोऽङ्गिरसो रुद्रा विश्वे साध्याश्च देवताः २ ।
इन्द्रः मरुद्भिः भगवान् आदित्याः वसवः अश्विनौ । ऋभवः अङ्गिरसः रुद्राः विश्वे साध्याः च देवताः ।
indraḥ marudbhiḥ bhagavān ādityāḥ vasavaḥ aśvinau . ṛbhavaḥ aṅgirasaḥ rudrāḥ viśve sādhyāḥ ca devatāḥ .
गन्धर्वाप्सरसो नागाः सिद्धचारणगुह्यकाः । ऋषयः पितरश्चैव सविद्याधरकिन्नराः ३ ।
गन्धर्व-अप्सरसः नागाः सिद्ध-चारण-गुह्यकाः । ऋषयः पितरः च एव सविद्याधर-किन्नराः ।
gandharva-apsarasaḥ nāgāḥ siddha-cāraṇa-guhyakāḥ . ṛṣayaḥ pitaraḥ ca eva savidyādhara-kinnarāḥ .
द्वारकामुपसञ्जग्मुः सर्वे कृष्णदिदृक्षवः । वपुषा येन भगवान्नरलोकमनोरमः । यशो वितेने लोकेषु सर्वलोकमलापहम् ४ ।
द्वारकाम् उपसञ्जग्मुः सर्वे कृष्ण-दिदृक्षवः । वपुषा येन भगवान् नर-लोक-मनोरमः । यशः वितेने लोकेषु सर्वलोक-मल-अपहम् ।
dvārakām upasañjagmuḥ sarve kṛṣṇa-didṛkṣavaḥ . vapuṣā yena bhagavān nara-loka-manoramaḥ . yaśaḥ vitene lokeṣu sarvaloka-mala-apaham .
तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभिः । व्यचक्षतावितृप्ताक्षाः कृष्णमद्भुतदर्शनम् ५ ।
तस्याम् विभ्राजमानायाम् समृद्धायाम् महा-ऋद्धिभिः । व्यचक्षत अ वितृप्त-अक्षाः कृष्णम् अद्भुत-दर्शनम् ।
tasyām vibhrājamānāyām samṛddhāyām mahā-ṛddhibhiḥ . vyacakṣata a vitṛpta-akṣāḥ kṛṣṇam adbhuta-darśanam .
स्वर्गोद्यानोपगैर्माल्यैश्छादयन्तो यदूत्तमम् । गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम् ६ ।
स्वर्ग-उद्यान-उपगैः माल्यैः छादयन्तः यदु-उत्तमम् । गीर्भिः चित्र-पदार्थाभिः तुष्टुवुः जगत्-ईश्वरम् ।
svarga-udyāna-upagaiḥ mālyaiḥ chādayantaḥ yadu-uttamam . gīrbhiḥ citra-padārthābhiḥ tuṣṭuvuḥ jagat-īśvaram .
श्रीदेवा ऊचुः।
नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रियप्राणमनोवचोभिः । यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तैर्मुमुक्षुभिः कर्ममयोरुपाशात् ७ ।
नताः स्म ते नाथ पद-अरविन्दम् बुद्धीन्द्रिय-प्राण-मनः-वचोभिः । यत् चिन्त्यते अन्तर् हृदि भाव-युक्तैः मुमुक्षुभिः कर्म-मय-उरु-पाशात् ।
natāḥ sma te nātha pada-aravindam buddhīndriya-prāṇa-manaḥ-vacobhiḥ . yat cintyate antar hṛdi bhāva-yuktaiḥ mumukṣubhiḥ karma-maya-uru-pāśāt .
त्वं मायया त्रिगुणयात्मनि दुर्विभाव्यं । व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः । नैतैर्भवानजित कर्मभिरज्यते वै । यत्स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ८ ।
त्वम् मायया त्रिगुणया आत्मनि दुर्विभाव्यम् । व्यक्तम् सृजसि अवसि लुम्पसि तद्-गुण-स्थः । न एतैः भवान् अजित कर्मभिः अज्यते वै । यत् स्वे सुखे अव्यवहिते अभिरतः अनवद्यः ।
tvam māyayā triguṇayā ātmani durvibhāvyam . vyaktam sṛjasi avasi lumpasi tad-guṇa-sthaḥ . na etaiḥ bhavān ajita karmabhiḥ ajyate vai . yat sve sukhe avyavahite abhirataḥ anavadyaḥ .
शुद्धिर्नृणां न तु तथेड्य दुराशयानां । विद्याश्रुताध्ययनदानतपःक्रियाभिः । सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध । सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ९ ।
शुद्धिः नृणाम् न तु तथा ईड्य दुराशयानाम् । विद्या-श्रुत-अध्ययन-दान-तपः-क्रियाभिः । सत्त्व-आत्मनाम् ऋषभ ते यशसि प्रवृद्ध । सत्-श्रद्धया श्रवण-सम्भृतया यथा स्यात् ।
śuddhiḥ nṛṇām na tu tathā īḍya durāśayānām . vidyā-śruta-adhyayana-dāna-tapaḥ-kriyābhiḥ . sattva-ātmanām ṛṣabha te yaśasi pravṛddha . sat-śraddhayā śravaṇa-sambhṛtayā yathā syāt .
स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः । क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः । यः सात्वतैः समविभूतय आत्मवद्भिर् । व्यूहेऽर्चितः सवनशः स्वरतिक्रमाय १० ।
स्यात् नः तव अङ्घ्रिः अशुभ-आशय-धूमकेतुः । क्षेमाय यः मुनिभिः आर्द्र-हृदा उह्यमानः । यः सात्वतैः सम-विभूतये आत्मवद्भिः । व्यूहे अर्चितः सवनशस् स्वरतिक्रमाय ।
syāt naḥ tava aṅghriḥ aśubha-āśaya-dhūmaketuḥ . kṣemāya yaḥ munibhiḥ ārdra-hṛdā uhyamānaḥ . yaḥ sātvataiḥ sama-vibhūtaye ātmavadbhiḥ . vyūhe arcitaḥ savanaśas svaratikramāya .
यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ । त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा । अध्यात्मयोग उत योगिभिरात्ममायां । जिज्ञासुभिः परमभागवतैः परीष्टः ११ ।
यः चिन्त्यते प्रयत-पाणिभिः अध्वर-अग्नौ । त्रय्याः निरुक्त-विधिना ईश हविः गृहीत्वा । अध्यात्म-योगः उत योगिभिः आत्म-मायाम् । जिज्ञासुभिः परम-भागवतैः परीष्टः ।
yaḥ cintyate prayata-pāṇibhiḥ adhvara-agnau . trayyāḥ nirukta-vidhinā īśa haviḥ gṛhītvā . adhyātma-yogaḥ uta yogibhiḥ ātma-māyām . jijñāsubhiḥ parama-bhāgavataiḥ parīṣṭaḥ .
पर्युष्टया तव विभो वनमालयेयं । संस्पर्धिनी भगवती प्रतिपत्निवच्छ्रीः । यः सुप्रणीतममुयार्हणमाददन्नो । भूयात्सदाङ्घ्रिरशुभाशयधूमकेतुः १२ ।
पर्युष्टया तव विभो वनमालया इयम् । संस्पर्धिनी भगवती प्रतिपत्निवत् श्रीः । यः सु प्रणीतम् अमुया अर्हणम् आददत् नः । भूयात् सदा अङ्घ्रिः अशुभ-आशय-धूमकेतुः ।
paryuṣṭayā tava vibho vanamālayā iyam . saṃspardhinī bhagavatī pratipatnivat śrīḥ . yaḥ su praṇītam amuyā arhaṇam ādadat naḥ . bhūyāt sadā aṅghriḥ aśubha-āśaya-dhūmaketuḥ .
केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको । यस्ते भयाभयकरोऽसुरदेवचम्वोः । स्वर्गाय साधुषु खलेष्वितराय भूमन् । पादः पुनातु भगवन्भजतामघं नः १३ ।
। यः ते भय-अभय-करः असुर-देव-चम्वोः । स्वर्गाय साधुषु खलेषु इतराय भूमन् । पादः पुनातु भगवन् भजताम् अघम् नः ।
. yaḥ te bhaya-abhaya-karaḥ asura-deva-camvoḥ . svargāya sādhuṣu khaleṣu itarāya bhūman . pādaḥ punātu bhagavan bhajatām agham naḥ .
नस्योतगाव इव यस्य वशे भवन्ति । ब्रह्मादयस्तनुभृतो मिथुरर्द्यमानाः । कालस्य ते प्रकृतिपूरुषयोः परस्य । शं नस्तनोतु चरणः पुरुषोत्तमस्य १४ ।
नस्य-उत गावः इव यस्य वशे भवन्ति । ब्रह्म-आदयः तनुभृतः मिथुस् अर्द्यमानाः । कालस्य ते प्रकृति-पूरुषयोः परस्य । शम् नः तनोतु चरणः पुरुषोत्तमस्य ।
nasya-uta gāvaḥ iva yasya vaśe bhavanti . brahma-ādayaḥ tanubhṛtaḥ mithus ardyamānāḥ . kālasya te prakṛti-pūruṣayoḥ parasya . śam naḥ tanotu caraṇaḥ puruṣottamasya .
अस्यासि हेतुरुदयस्थितिसंयमानाम् । अव्यक्तजीवमहतामपि कालमाहुः । सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः । कालो गभीररय उत्तमपूरुषस्त्वम् १५ ।
अस्य असि हेतुः उदय-स्थिति-संयमानाम् । अव्यक्त-जीव-महताम् अपि कालम् आहुः । सः अयम् त्रिणाभिः अखिल-अपचये प्रवृत्तः । कालः गभीर-रयः उत्तमपूरुषः त्वम् ।
asya asi hetuḥ udaya-sthiti-saṃyamānām . avyakta-jīva-mahatām api kālam āhuḥ . saḥ ayam triṇābhiḥ akhila-apacaye pravṛttaḥ . kālaḥ gabhīra-rayaḥ uttamapūruṣaḥ tvam .
त्वत्तः पुमान्समधिगम्य ययास्य वीर्यं । धत्ते महान्तमिव गर्भममोघवीर्यः । सोऽयं तयानुगत आत्मन आण्डकोशं । हैमं ससर्ज बहिरावरणैरुपेतम् १६ ।
त्वत्तः पुमान् समधिगम्य यया अस्य वीर्यम् । धत्ते महान्तम् इव गर्भम् अमोघ-वीर्यः । सः अयम् तया अनुगतः आत्मनः आण्डकोशम् । हैमम् ससर्ज बहिस् आवरणैः उपेतम् ।
tvattaḥ pumān samadhigamya yayā asya vīryam . dhatte mahāntam iva garbham amogha-vīryaḥ . saḥ ayam tayā anugataḥ ātmanaḥ āṇḍakośam . haimam sasarja bahis āvaraṇaiḥ upetam .
तत्तस्थूषश्च जगतश्च भवानधीशो । यन्माययोत्थगुणविक्रिययोपनीतान् । अर्थाञ्जुषन्नपि हृषीकपते न लिप्तो । येऽन्ये स्वतः परिहृतादपि बिभ्यति स्म १७ ।
जगतः च भवान् अधीशः । यद्-मायया उत्थ-गुण-विक्रियया उपनीतान् । अर्थान् जुषन् अपि हृषीक-पते न लिप्तो । ये अन्ये स्वतस् परिहृतात् अपि बिभ्यति स्म ।
jagataḥ ca bhavān adhīśaḥ . yad-māyayā uttha-guṇa-vikriyayā upanītān . arthān juṣan api hṛṣīka-pate na lipto . ye anye svatas parihṛtāt api bibhyati sma .
स्मायावलोकलवदर्शितभावहारि । भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः । पत्न्यस्तु षोडशसहस्रमनङ्गबाणैर् । यस्येन्द्रियं विमथितुं करणैर्न विभ्व्यः १८ ।
स्माया-अवलोक-लव-दर्शित-भावहारि । भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः । पत्न्यः तु षोडश-सहस्रम् अनङ्ग-बाणैः । यस्य इन्द्रियम् विमथितुम् करणैः न विभ्व्यः ।
smāyā-avaloka-lava-darśita-bhāvahāri . bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ . patnyaḥ tu ṣoḍaśa-sahasram anaṅga-bāṇaiḥ . yasya indriyam vimathitum karaṇaiḥ na vibhvyaḥ .
विभ्व्यस्तवामृतकथोदवहास्त्रिलोक्याः । पादावनेजसरितः शमलानि हन्तुम् । आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गैस् । तीर्थद्वयं शुचिषदस्त उपस्पृशन्ति १९ ।
विभ्व्यः तव अमृत-कथा-उद-वहाः त्रिलोक्याः । पादावनेज-सरितः शमलानि हन्तुम् । आनुश्रवम् श्रुतिभिः अङ्घ्रि-जम् अङ्गसङ्गैः । तीर्थ-द्वयम् शुचिषदः ते उपस्पृशन्ति ।
vibhvyaḥ tava amṛta-kathā-uda-vahāḥ trilokyāḥ . pādāvaneja-saritaḥ śamalāni hantum . ānuśravam śrutibhiḥ aṅghri-jam aṅgasaṅgaiḥ . tīrtha-dvayam śuciṣadaḥ te upaspṛśanti .
श्रीबादरायणिरुवाच।
इत्यभिष्टूय विबुधैः सेशः शतधृतिर्हरिम् । अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रितः २० ।
इति अभिष्टूय विबुधैः स ईशः शतधृतिः हरिम् । अभ्यभाषत गोविन्दम् प्रणम्य अम्बरम् आश्रितः ।
iti abhiṣṭūya vibudhaiḥ sa īśaḥ śatadhṛtiḥ harim . abhyabhāṣata govindam praṇamya ambaram āśritaḥ .
श्रीब्रह्मोवाच।
भूमेर्भारावताराय पुरा विज्ञापितः प्रभो । त्वमस्माभिरशेषात्मन्तत्तथैवोपपादितम् २१ ।
भूमेः भार-अवताराय पुरा विज्ञापितः प्रभो । त्वम् अस्माभिः अशेष-आत्मन् तत् तथा एव उपपादितम् ।
bhūmeḥ bhāra-avatārāya purā vijñāpitaḥ prabho . tvam asmābhiḥ aśeṣa-ātman tat tathā eva upapāditam .
धर्मश्च स्थापितः सत्सु सत्यसन्धेषु वै त्वया । कीर्तिश्च दिक्षु विक्षिप्ता सर्वलोकमलापहा २२ ।
धर्मः च स्थापितः सत्सु सत्य-सन्धेषु वै त्वया । कीर्तिः च दिक्षु विक्षिप्ता सर्वलोक-मल-अपहा ।
dharmaḥ ca sthāpitaḥ satsu satya-sandheṣu vai tvayā . kīrtiḥ ca dikṣu vikṣiptā sarvaloka-mala-apahā .
अवतीर्य यदोर्वंशे बिभ्रद्रूपमनुत्तमम् । कर्माण्युद्दामवृत्तानि हिताय जगतोऽकृथाः २३ ।
अवतीर्य यदोः वंशे बिभ्रत् रूपम् अनुत्तमम् । कर्माणि उद्दाम-वृत्तानि हिताय जगतः अकृथाः ।
avatīrya yadoḥ vaṃśe bibhrat rūpam anuttamam . karmāṇi uddāma-vṛttāni hitāya jagataḥ akṛthāḥ .
यानि ते चरितानीश मनुष्याः साधवः कलौ । शृण्वन्तः कीर्तयन्तश्च तरिष्यन्त्यञ्जसा तमः २४ ।
यानि ते चरितानि ईश मनुष्याः साधवः कलौ । शृण्वन्तः कीर्तयन्तः च तरिष्यन्ति अञ्जसा तमः ।
yāni te caritāni īśa manuṣyāḥ sādhavaḥ kalau . śṛṇvantaḥ kīrtayantaḥ ca tariṣyanti añjasā tamaḥ .
यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम । शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो २५ ।
यदु-वंशे अवतीर्णस्य भवतः पुरुषोत्तम । शरद्-शतम् व्यतीयाय पञ्चविंश-अधिकम् प्रभो ।
yadu-vaṃśe avatīrṇasya bhavataḥ puruṣottama . śarad-śatam vyatīyāya pañcaviṃśa-adhikam prabho .
नाधुना तेऽखिलाधार देवकार्यावशेषितम् । कुलं च विप्रशापेन नष्टप्रायमभूदिदम् २६ ।
न अधुना ते अखिल-आधार देव-कार्य-अवशेषितम् । कुलम् च विप्र-शापेन नष्ट-प्रायम् अभूत् इदम् ।
na adhunā te akhila-ādhāra deva-kārya-avaśeṣitam . kulam ca vipra-śāpena naṣṭa-prāyam abhūt idam .
ततः स्वधाम परमं विशस्व यदि मन्यसे । सलोकाल्लोकपालान्नः पाहि वैकुण्ठकिङ्करान् २७ ।
ततस् स्व-धाम परमम् विशस्व यदि मन्यसे । स लोकान् लोकपालान् नः पाहि वैकुण्ठ-किङ्करान् ।
tatas sva-dhāma paramam viśasva yadi manyase . sa lokān lokapālān naḥ pāhi vaikuṇṭha-kiṅkarān .
श्रीभगवानुवाच।
अवधारितमेतन्मे यदात्थ विबुधेश्वर । कृतं वः कार्यमखिलं भूमेर्भारोऽवतारितः २८ ।
अवधारितम् एतत् मे यत् आत्थ विबुध-ईश्वर । कृतम् वः कार्यम् अखिलम् भूमेः भारः अवतारितः ।
avadhāritam etat me yat āttha vibudha-īśvara . kṛtam vaḥ kāryam akhilam bhūmeḥ bhāraḥ avatāritaḥ .
तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् । लोकं जिघृक्षद्रुद्धं मे वेलयेव महार्णवः २९ ।
तत् इदम् यादव-कुलम् वीर्य-शौर्य-श्रिया उद्धतम् । लोकम् जिघृक्षत् रुद्धम् मे वेलया इव महा-अर्णवः ।
tat idam yādava-kulam vīrya-śaurya-śriyā uddhatam . lokam jighṛkṣat ruddham me velayā iva mahā-arṇavaḥ .
यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम् । गन्तास्म्यनेन लोकोऽयमुद्वेलेन विनङ्क्ष्यति ३० ।
यदि अ संहृत्य दृप्तानाम् यदूनाम् विपुलम् कुलम् । गन्ता अस्मि अनेन लोकः अयम् उद्वेलेन विनङ्क्ष्यति ।
yadi a saṃhṛtya dṛptānām yadūnām vipulam kulam . gantā asmi anena lokaḥ ayam udvelena vinaṅkṣyati .
इदानीं नाश आरब्धः कुलस्य द्विजशापजः । यास्यामि भवनं ब्रह्मन्नेतदन्ते तवानघ ३१ ।
इदानीम् नाशः आरब्धः कुलस्य द्विज-शाप-जः । यास्यामि भवनम् ब्रह्मन् एतत् अन्ते तव अनघ ।
idānīm nāśaḥ ārabdhaḥ kulasya dvija-śāpa-jaḥ . yāsyāmi bhavanam brahman etat ante tava anagha .
श्रीशुक उवाच।
इत्युक्तो लोकनाथेन स्वयम्भूः प्रणिपत्य तम् । सह देवगणैर्देवः स्वधाम समपद्यत ३२ ।
इति उक्तः लोकनाथेन स्वयम्भूः प्रणिपत्य तम् । सह देव-गणैः देवः स्व-धाम समपद्यत ।
iti uktaḥ lokanāthena svayambhūḥ praṇipatya tam . saha deva-gaṇaiḥ devaḥ sva-dhāma samapadyata .
अथ तस्यां महोत्पातान्द्वारवत्यां समुत्थितान् । विलोक्य भगवानाह यदुवृद्धान्समागतान् ३३ ।
अथ तस्याम् महा-उत्पातान् द्वारवत्याम् समुत्थितान् । विलोक्य भगवान् आह यदु-वृद्धान् समागतान् ।
atha tasyām mahā-utpātān dvāravatyām samutthitān . vilokya bhagavān āha yadu-vṛddhān samāgatān .
श्रीभगवानुवाच।
एते वै सुमहोत्पाता व्युत्तिष्ठन्तीह सर्वतः । शापश्च नः कुलस्यासीद्ब्राह्मणेभ्यो दुरत्ययः ३४ ।
एते वै सु महा-उत्पाताः व्युत्तिष्ठन्ति इह सर्वतस् । शापः च नः कुलस्य आसीत् ब्राह्मणेभ्यः दुरत्ययः ।
ete vai su mahā-utpātāḥ vyuttiṣṭhanti iha sarvatas . śāpaḥ ca naḥ kulasya āsīt brāhmaṇebhyaḥ duratyayaḥ .
न वस्तव्यमिहास्माभिर्जिजीविषुभिरार्यकाः । प्रभासं सुमहत्पुण्यं यास्यामोऽद्यैव मा चिरम् ३५ ।
न वस्तव्यम् इह अस्माभिः जिजीविषुभिः आर्यकाः । प्रभासम् सु महत्-पुण्यम् यास्यामः अद्य एव मा चिरम् ।
na vastavyam iha asmābhiḥ jijīviṣubhiḥ āryakāḥ . prabhāsam su mahat-puṇyam yāsyāmaḥ adya eva mā ciram .
यत्र स्नात्वा दक्षशापाद्गृहीतो यक्ष्मणोदुराट् । विमुक्तः किल्बिषात्सद्यो भेजे भूयः कलोदयम् ३६ ।
यत्र स्नात्वा दक्ष-शापात् गृहीतः यक्ष्मणा उदुराज् । विमुक्तः किल्बिषात् सद्यस् भेजे भूयस् कला-उदयम् ।
yatra snātvā dakṣa-śāpāt gṛhītaḥ yakṣmaṇā udurāj . vimuktaḥ kilbiṣāt sadyas bheje bhūyas kalā-udayam .
वयं च तस्मिन्नाप्लुत्य तर्पयित्वा पितॄन्सुरान् । भोजयित्वोशिजो विप्रान्नानागुणवतान्धसा ३७ ।
वयम् च तस्मिन् आप्लुत्य तर्पयित्वा पितॄन् सुरान् । भोजयित्वा उशिजः विप्रान् नाना गुणवता अन्धसा ।
vayam ca tasmin āplutya tarpayitvā pitṝn surān . bhojayitvā uśijaḥ viprān nānā guṇavatā andhasā .
तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै । वृजिनानि तरिष्यामो दानैर्नौभिरिवार्णवम् ३८ ।
तेषु दानानि पात्रेषु श्रद्धया उप्त्वा महान्ति वै । वृजिनानि तरिष्यामः दानैः नौभिः इव अर्णवम् ।
teṣu dānāni pātreṣu śraddhayā uptvā mahānti vai . vṛjināni tariṣyāmaḥ dānaiḥ naubhiḥ iva arṇavam .
श्रीशुक उवाच।
एवं भगवतादिष्टा यादवाः कुरुनन्दन । गन्तुं कृतधियस्तीर्थं स्यन्दनान्समयूयुजन् ३९ ।
एवम् भगवता आदिष्टाः यादवाः कुरु-नन्दन । गन्तुम् कृत-धियः तीर्थम् स्यन्दनान् समयूयुजन् ।
evam bhagavatā ādiṣṭāḥ yādavāḥ kuru-nandana . gantum kṛta-dhiyaḥ tīrtham syandanān samayūyujan .
तन्निरीक्ष्योद्धवो राजन्श्रुत्वा भगवतोदितम् । दृष्ट्वारिष्टानि घोराणि नित्यं कृष्णमनुव्रतः ४० ।
तत् निरीक्ष्य उद्धवः राजन् श्रुत्वा भगवता उदितम् । दृष्ट्वा अरिष्टानि घोराणि नित्यम् कृष्णम् अनुव्रतः ।
tat nirīkṣya uddhavaḥ rājan śrutvā bhagavatā uditam . dṛṣṭvā ariṣṭāni ghorāṇi nityam kṛṣṇam anuvrataḥ .
विविक्त उपसङ्गम्य जगतामीश्वरेश्वरम् । प्रणम्य शिरसा पादौ प्राञ्जलिस्तमभाषत ४१ ।
विविक्तः उपसङ्गम्य जगताम् ईश्वर-ईश्वरम् । प्रणम्य शिरसा पादौ प्राञ्जलिः तम् अभाषत ।
viviktaḥ upasaṅgamya jagatām īśvara-īśvaram . praṇamya śirasā pādau prāñjaliḥ tam abhāṣata .
श्रीउद्धव उवाच।
देवदेवेश योगेश पुण्यश्रवणकीर्तन । संहृत्यैतत्कुलं नूनं लोकं सन्त्यक्ष्यते भवान् । विप्रशापं समर्थोऽपि प्रत्यहन्न यदीश्वरः ४२ ।
देवदेवेश योगेश पुण्य-श्रवण-कीर्तन । संहृत्य एतत् कुलम् नूनम् लोकम् सन्त्यक्ष्यते भवान् । विप्र-शापम् समर्थः अपि प्रत्यहन् न यत् ईश्वरः ।
devadeveśa yogeśa puṇya-śravaṇa-kīrtana . saṃhṛtya etat kulam nūnam lokam santyakṣyate bhavān . vipra-śāpam samarthaḥ api pratyahan na yat īśvaraḥ .
नाहं तवाङ्घ्रिकमलं क्षणार्धमपि केशव । त्यक्तुं समुत्सहे नाथ स्वधाम नय मामपि ४३ ।
न अहम् तव अङ्घ्रि-कमलम् क्षण-अर्धम् अपि केशव । त्यक्तुम् समुत्सहे नाथ स्व-धाम नय माम् अपि ।
na aham tava aṅghri-kamalam kṣaṇa-ardham api keśava . tyaktum samutsahe nātha sva-dhāma naya mām api .
तव विक्रीडितं कृष्ण नृणां परममङ्गलम् । कर्णपीयूषमासाद्य त्यजन्त्यन्यस्पृहां जनाः ४४ ।
तव विक्रीडितम् कृष्ण नृणाम् परम-मङ्गलम् । कर्ण-पीयूषम् आसाद्य त्यजन्ति अन्य-स्पृहाम् जनाः ।
tava vikrīḍitam kṛṣṇa nṛṇām parama-maṅgalam . karṇa-pīyūṣam āsādya tyajanti anya-spṛhām janāḥ .
शय्यासनाटनस्थान स्नानक्रीडाशनादिषु । कथं त्वां प्रियमात्मानं वयं भक्तास्त्यजेम हि ४५ ।
शय्या-आसन-अटन-स्थान-स्नान-क्रीडा-अशन-आदिषु । कथम् त्वाम् प्रियम् आत्मानम् वयम् भक्ताः त्यजेम हि ।
śayyā-āsana-aṭana-sthāna-snāna-krīḍā-aśana-ādiṣu . katham tvām priyam ātmānam vayam bhaktāḥ tyajema hi .
त्वयोपभुक्तस्रग्गन्ध वासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां जयेम हि ४६ ।
त्वया उपभुक्त-स्रज्-गन्ध वासः-अलङ्कार-चर्चिताः । उच्छिष्ट-भोजिनः दासाः तव मायाम् जयेम हि ।
tvayā upabhukta-sraj-gandha vāsaḥ-alaṅkāra-carcitāḥ . ucchiṣṭa-bhojinaḥ dāsāḥ tava māyām jayema hi .
वातरशना य ऋषयः श्रमणा ऊर्ध्वमन्थिनः । ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः ४७ ।
वातरशनाः ये ऋषयः श्रमणाः ऊर्ध्वमन्थिनः । ब्रह्म-आख्यम् धाम ते यान्ति शान्ताः सन्न्यासिनः अमलाः ।
vātaraśanāḥ ye ṛṣayaḥ śramaṇāḥ ūrdhvamanthinaḥ . brahma-ākhyam dhāma te yānti śāntāḥ sannyāsinaḥ amalāḥ .
वयं त्विह महायोगिन्भ्रमन्तः कर्मवर्त्मसु । त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ४८ ।
वयम् तु इह महायोगिन् भ्रमन्तः कर्म-वर्त्मसु । त्वद्-वार्तया तरिष्यामः तावकैः दुस्तरम् तमः ।
vayam tu iha mahāyogin bhramantaḥ karma-vartmasu . tvad-vārtayā tariṣyāmaḥ tāvakaiḥ dustaram tamaḥ .
स्मरन्तः कीर्तयन्तस्ते कृतानि गदितानि च । गत्युत्स्मितेक्षणक्ष्वेलि यन्नृलोकविडम्बनम् ४९ ।
स्मरन्तः कीर्तयन्तः ते कृतानि गदितानि च । यत् नृ-लोक-विडम्बनम् ।
smarantaḥ kīrtayantaḥ te kṛtāni gaditāni ca . yat nṛ-loka-viḍambanam .
श्रीशुक उवाच।
एवं विज्ञापितो राजन्भगवान्देवकीसुतः । एकान्तिनं प्रियं भृत्यमुद्धवं समभाषत ५० ।
एवम् विज्ञापितः राजन् भगवान् देवकी-सुतः । एकान्तिनम् प्रियम् भृत्यम् उद्धवम् समभाषत ।
evam vijñāpitaḥ rājan bhagavān devakī-sutaḥ . ekāntinam priyam bhṛtyam uddhavam samabhāṣata .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे षष्ठोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे षष्ठः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe ṣaṣṭhaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In