| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
खट्वांगात दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवाः । अजस्ततो महाराजः तस्मात् दशरथोऽभवत् ॥ १ ॥
दीर्घबाहुः च रघुः तस्मात् पृथुश्रवाः । अजः ततस् महा-राजः तस्मात् दशरथः अभवत् ॥ १ ॥
dīrghabāhuḥ ca raghuḥ tasmāt pṛthuśravāḥ . ajaḥ tatas mahā-rājaḥ tasmāt daśarathaḥ abhavat .. 1 ..
तस्यापि भगवान् एष साक्षाद् ब्रह्ममयो हरिः । अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थितः सुरैः । रामलक्ष्मणभरत शत्रुघ्ना इति संज्ञया ॥ २ ॥
तस्य अपि भगवान् एष साक्षात् ब्रह्म-मयः हरिः । अंशांशेन चतुर्धा अगात् पुत्र-त्वम् प्रार्थितः सुरैः । राम-लक्ष्मण-भरत शत्रुघ्नाः इति संज्ञया ॥ २ ॥
tasya api bhagavān eṣa sākṣāt brahma-mayaḥ hariḥ . aṃśāṃśena caturdhā agāt putra-tvam prārthitaḥ suraiḥ . rāma-lakṣmaṇa-bharata śatrughnāḥ iti saṃjñayā .. 2 ..
तस्यानुचरितं राजन् ऋषिभिः तत्त्वदर्शिभिः । श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः ॥ ३ ॥
तस्य अनुचरितम् राजन् ऋषिभिः तत्त्व-दर्शिभिः । श्रुतम् हि वर्णितम् भूरि त्वया सीतापतेः मुहुर् ॥ ३ ॥
tasya anucaritam rājan ṛṣibhiḥ tattva-darśibhiḥ . śrutam hi varṇitam bhūri tvayā sītāpateḥ muhur .. 3 ..
गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियायाः । पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम् । वैरूप्यात् शूर्पणख्याः प्रियविरहरुषाऽऽ रोपितभ्रूविजृम्भ । त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः कोसलेन्द्रोऽवतान्नः ॥ ४ ॥
गुरु-अर्थे त्यक्त-राज्यः व्यचरत् अनुवनम् पद्म-पद्भ्याम् प्रियायाः । पाणि-स्पर्श-अक्षमाभ्याम् मृजित-पथ-रुजः यः हरि-इन्द्र-अनुजाभ्याम् । वैरूप्यात् शूर्पणख्याः प्रिय-विरह-रुषा आ रोपित-भ्रू-विजृम्भ । त्रस्त-अब्धिः बद्ध-सेतुः खल-दव-दहनः कोसल-इन्द्रः अवत अन् नः ॥ ४ ॥
guru-arthe tyakta-rājyaḥ vyacarat anuvanam padma-padbhyām priyāyāḥ . pāṇi-sparśa-akṣamābhyām mṛjita-patha-rujaḥ yaḥ hari-indra-anujābhyām . vairūpyāt śūrpaṇakhyāḥ priya-viraha-ruṣā ā ropita-bhrū-vijṛmbha . trasta-abdhiḥ baddha-setuḥ khala-dava-dahanaḥ kosala-indraḥ avata an naḥ .. 4 ..
विश्वामित्राध्वरे येन मारीचाद्या निशाचराः । पश्यतो लक्ष्मणस्यैव हता नैर्ऋतपुंगवाः ॥ ५ ॥
विश्वामित्र-अध्वरे येन मारीच-आद्याः निशाचराः । पश्यतः लक्ष्मणस्य एव हताः नैरृत-पुंगवाः ॥ ५ ॥
viśvāmitra-adhvare yena mārīca-ādyāḥ niśācarāḥ . paśyataḥ lakṣmaṇasya eva hatāḥ nairṛta-puṃgavāḥ .. 5 ..
यो लोकवीरसमितौ धनुरैशमुग्रं सीतास्वयंवरगृहे त्रिशतोपनीतम् ॥ आदाय बालगजलील इवेक्षुयष्टिं सज्ज्यीकृतं नृप विकृष्य बभञ्ज मध्ये ॥ ६ ॥
यः लोक-वीर-समितौ धनुः ऐशम् उग्रम् सीता-स्वयंवर-गृहे त्रि-शत-उपनीतम् ॥ आदाय बाल-गज-लीले इव इक्षु-यष्टिम् सज्ज्यीकृतम् नृप विकृष्य बभञ्ज मध्ये ॥ ६ ॥
yaḥ loka-vīra-samitau dhanuḥ aiśam ugram sītā-svayaṃvara-gṛhe tri-śata-upanītam .. ādāya bāla-gaja-līle iva ikṣu-yaṣṭim sajjyīkṛtam nṛpa vikṛṣya babhañja madhye .. 6 ..
जित्वानुरूपगुणशीलवयोऽङ्गरूपां । सीताभिधां श्रियमुरस्यभिलब्धमानाम् ॥ मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं । दर्पं महीमकृत यस्त्रिरराजबीजाम् ॥ ७ ॥
जित्वा अनुरूप-गुण-शील-वयः-अङ्ग-रूपाम् । सीता-अभिधाम् श्रियम् उरसि अभिलब्ध-मानाम् ॥ मार्गे व्रजन् भृगु-पतेः व्यनयत् प्ररूढम् । दर्पम् महीम् अकृत यः त्रिस् अ राज-बीजाम् ॥ ७ ॥
jitvā anurūpa-guṇa-śīla-vayaḥ-aṅga-rūpām . sītā-abhidhām śriyam urasi abhilabdha-mānām .. mārge vrajan bhṛgu-pateḥ vyanayat prarūḍham . darpam mahīm akṛta yaḥ tris a rāja-bījām .. 7 ..
यः सत्यपाशपरिवीतपितुर्निदेशं । स्त्रैणस्य चापि शिरसा जगृहे सभार्यः ॥ राज्यं श्रियं प्रणयिनः सुहृदो निवासं । त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्गः ॥ ८ ॥
यः सत्य-पाश-परिवीत-पितुः निदेशम् । स्त्रैणस्य च अपि शिरसा जगृहे स भार्यः ॥ राज्यम् श्रियम् प्रणयिनः सुहृदः निवासम् । त्यक्त्वा ययौ वन-मसून् इव मुक्त-सङ्गः ॥ ८ ॥
yaḥ satya-pāśa-parivīta-pituḥ nideśam . straiṇasya ca api śirasā jagṛhe sa bhāryaḥ .. rājyam śriyam praṇayinaḥ suhṛdaḥ nivāsam . tyaktvā yayau vana-masūn iva mukta-saṅgaḥ .. 8 ..
रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धेः । तस्याः खरत्रिशिरदूषणमुख्यबन्धून् ॥ जघ्ने चतुर्दशसहस्रमपारणीय । कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ ९ ॥
रक्षःस्वसुः व्यकृत रूपम् अशुद्ध-बुद्धेः । तस्याः खर-त्रिशिर-दूषण-मुख्य-बन्धून् ॥ जघ्ने चतुर्दश-सहस्रम् अपारणीय । कोदण्ड-पाणिः अटमानः उवास कृच्छ्रम् ॥ ९ ॥
rakṣaḥsvasuḥ vyakṛta rūpam aśuddha-buddheḥ . tasyāḥ khara-triśira-dūṣaṇa-mukhya-bandhūn .. jaghne caturdaśa-sahasram apāraṇīya . kodaṇḍa-pāṇiḥ aṭamānaḥ uvāsa kṛcchram .. 9 ..
सीताकथाश्रवणदीपितहृच्छयेन । सृष्टं विलोक्य नृपते दशकन्धरेण ॥ जघ्नेऽद्भुतैण वपुषाऽऽश्रमतोऽपकृष्टो । मारीचमाशु विशिखेन यथा कमुग्रः ॥ १० ॥
सीता-कथा-श्रवण-दीपित-हृच्छयेन । सृष्टम् विलोक्य नृपते दश-कन्धरेण ॥ जघ्ने अद्भुतैण वपुषा आश्रमतः अपकृष्टः । मारीचम् आशु विशिखेन यथा कम् उग्रः ॥ १० ॥
sītā-kathā-śravaṇa-dīpita-hṛcchayena . sṛṣṭam vilokya nṛpate daśa-kandhareṇa .. jaghne adbhutaiṇa vapuṣā āśramataḥ apakṛṣṭaḥ . mārīcam āśu viśikhena yathā kam ugraḥ .. 10 ..
रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं । वैदेहराजदुहितर्यपयापितायाम् ॥ भ्रात्रा वने कृपणवत्प्रियया वियुक्तः । स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार ॥ ११ ॥
रक्षः-अधमेन वृक-वत् विपिने अ समक्षम् । वैदेह-राज-दुहितरि अपयापितायाम् ॥ भ्रात्रा वने कृपण-वत् प्रियया वियुक्तः । स्त्री-सङ्गिनाम् गतिम् इति प्रथयन् चचार ॥ ११ ॥
rakṣaḥ-adhamena vṛka-vat vipine a samakṣam . vaideha-rāja-duhitari apayāpitāyām .. bhrātrā vane kṛpaṇa-vat priyayā viyuktaḥ . strī-saṅginām gatim iti prathayan cacāra .. 11 ..
दग्ध्वाऽऽत्मकृत्यहतकृत्यमहन् कबन्धं । सख्यं विधाय कपिभिर्दयितागतिं तैः ॥ बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यैः । वेलामगात् स मनुजोऽजभवार्चिताङ्घ्रि ॥ १२ ॥
दग्ध्वा आत्म-कृत्य-हतकृत्यम् अहन् कबन्धम् । सख्यम् विधाय कपिभिः दयिता-गतिम् तैः ॥ बुद्ध्वा अथ वालिनि हते प्लवग-इन्द्र-सैन्यैः । वेलाम् अगात् स मनुजः अज-भव-अर्चित-अङ्घ्रि ॥ १२ ॥
dagdhvā ātma-kṛtya-hatakṛtyam ahan kabandham . sakhyam vidhāya kapibhiḥ dayitā-gatim taiḥ .. buddhvā atha vālini hate plavaga-indra-sainyaiḥ . velām agāt sa manujaḥ aja-bhava-arcita-aṅghri .. 12 ..
यद्रोषविभ्रमविवृत्तकटाक्षपात । सम्भ्रान्तनक्रमकरो भयगीर्णघोषः ॥ सिन्धुः शिरस्यर्हणं परिगृह्य रूपी । पादारविन्दमुपगम्य बभाष एतत् ॥ १३ ॥
यत् रोष-विभ्रम-विवृत्त-कटाक्ष-पात । सम्भ्रान्त-नक्र-मकरः भय-गीर्ण-घोषः ॥ सिन्धुः शिरसि अर्हणम् परिगृह्य रूपी । पाद-अरविन्दम् उपगम्य बभाष एतत् ॥ १३ ॥
yat roṣa-vibhrama-vivṛtta-kaṭākṣa-pāta . sambhrānta-nakra-makaraḥ bhaya-gīrṇa-ghoṣaḥ .. sindhuḥ śirasi arhaṇam parigṛhya rūpī . pāda-aravindam upagamya babhāṣa etat .. 13 ..
न त्वां वयं जडधियो नु विदाम भूमन् । कूटस्थमादिपुरुषं जगतामधीशम् ॥ यत्सत्त्वतः सुरगणा रजसः प्रजेशा । मन्योश्च भूतपतयः स भवान्गुणेशः ॥ १४ ॥
न त्वाम् वयम् जड-धियः नु विदाम भूमन् । कूटस्थम् आदिपुरुषम् जगताम् अधीशम् ॥ यद्-सत्त्वतः सुर-गणाः रजसः प्रजा-ईशा । मन्योः च भूतपतयः स भवान् गुणेशः ॥ १४ ॥
na tvām vayam jaḍa-dhiyaḥ nu vidāma bhūman . kūṭastham ādipuruṣam jagatām adhīśam .. yad-sattvataḥ sura-gaṇāḥ rajasaḥ prajā-īśā . manyoḥ ca bhūtapatayaḥ sa bhavān guṇeśaḥ .. 14 ..
कामं प्रयाहि जहि विश्रवसोऽवमेहं । त्रैलोक्य रावणमवाप्नुहि वीर पत्नीम् ॥ बध्नीहि सेतुमिह ते यशसो वितत्यै । गायन्ति दिग्विजयिनो यमुपेत्य भूपाः ॥ १५ ॥
कामम् प्रयाहि जहि विश्रवसः अवमेहम् । त्रैलोक्य-रावणम् अवाप्नुहि वीर-पत्नीम् ॥ बध्नीहि सेतुम् इह ते यशसः वितत्यै । गायन्ति दिग्विजयिनः यम् उपेत्य भूपाः ॥ १५ ॥
kāmam prayāhi jahi viśravasaḥ avameham . trailokya-rāvaṇam avāpnuhi vīra-patnīm .. badhnīhi setum iha te yaśasaḥ vitatyai . gāyanti digvijayinaḥ yam upetya bhūpāḥ .. 15 ..
बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटैः । सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः ॥ सुग्रीवनीलहनुमत् प्रमुखैरनीकैः । लङ्कां विभीषणदृशाविशदग्रदग्धाम् ॥ १६ ॥
बद्ध्वा उदधौ रघुपतिः विविध-अद्रि-कूटैः । सेतुम् कपीन्द्र-कर-कम्पित-भूरुह-अङ्गैः ॥ सुग्रीव-नील-हनुमत् प्रमुखैः अनीकैः । लङ्काम् विभीषण-दृशा आविशत्-अग्र-दग्धाम् ॥ १६ ॥
baddhvā udadhau raghupatiḥ vividha-adri-kūṭaiḥ . setum kapīndra-kara-kampita-bhūruha-aṅgaiḥ .. sugrīva-nīla-hanumat pramukhaiḥ anīkaiḥ . laṅkām vibhīṣaṇa-dṛśā āviśat-agra-dagdhām .. 16 ..
सा वानरेन्द्रबलरुद्धविहारकोष्ठ । श्रीद्वारगोपुरसदोवलभीविटङ्का ॥ निर्भज्यमानधिषणध्वजहेमकुम्भ । श्रृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥ १७ ॥
सा वानर-इन्द्र-बल-रुद्ध-विहार-कोष्ठ । श्री-द्वार-गोपुर-सदः-वलभि-विटङ्का ॥ निर्भज्यमान-धिषण-ध्वज-हेम-कुम्भ । श्रृङ्गाटका गज-कुलैः ह्रदिनी इव घूर्णा ॥ १७ ॥
sā vānara-indra-bala-ruddha-vihāra-koṣṭha . śrī-dvāra-gopura-sadaḥ-valabhi-viṭaṅkā .. nirbhajyamāna-dhiṣaṇa-dhvaja-hema-kumbha . śrṛṅgāṭakā gaja-kulaiḥ hradinī iva ghūrṇā .. 17 ..
रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ । धूम्राक्ष दुर्मुख सुरान्तनरान्तकादीन् ॥ पुत्रं प्रहस्त मतिकाय विकम्पनादीन् । सर्वानुगान् समहिनोदथ कुम्भकर्णम् ॥ १८ ॥
रक्षःपतिः तत् अवलोक्य निकुम्भ-कुम्भ । धूम्राक्ष दुर्मुख सुरान्त-नरान्तक-आदीन् ॥ पुत्रम् प्रहस्त मतिकाय विकम्पन-आदीन् । सर्व-अनुगान् कुम्भकर्णम् ॥ १८ ॥
rakṣaḥpatiḥ tat avalokya nikumbha-kumbha . dhūmrākṣa durmukha surānta-narāntaka-ādīn .. putram prahasta matikāya vikampana-ādīn . sarva-anugān kumbhakarṇam .. 18 ..
तां यातुधानपृतनामसिशूलचाप । प्रासर्ष्टिशक्तिशरतोमर खड्गदुर्गाम् ॥ सुग्रीवलक्ष्मण मरुत्सुतगन्धमाद । नीलाङ्गदर्क्षपनसादिभिः अन्वितोऽगात् ॥ १९ ॥
ताम् यातुधान-पृतनाम् असि-शूल-चाप । खड्ग-दुर्गाम् ॥ सुग्रीव-लक्ष्मण मरुत्-सुत-गन्धमाद । नील-अङ्गद-ऋक्ष-पनस-आदिभिः अन्वितः अगात् ॥ १९ ॥
tām yātudhāna-pṛtanām asi-śūla-cāpa . khaḍga-durgām .. sugrīva-lakṣmaṇa marut-suta-gandhamāda . nīla-aṅgada-ṛkṣa-panasa-ādibhiḥ anvitaḥ agāt .. 19 ..
तेऽनीकपा रघुपतेरभिपत्य सर्वे । द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः ॥ जघ्नुर्द्रुमैः गिरिगदेषुभिरङ्गदाद्याः । सीताभिमर्षहतमङ्गल रावणेशान् ॥ २० ॥
ते अनीक-पाः रघुपतेः अभिपत्य सर्वे । द्वन्द्वम् वरूथम् इभ-पत्ति-रथ-अश्व-योधैः ॥ जघ्नुः द्रुमैः गिरि-गद-इषुभिः अङ्गद-आद्याः । सीता-अभिमर्ष-हत-मङ्गल रावण-ईशान् ॥ २० ॥
te anīka-pāḥ raghupateḥ abhipatya sarve . dvandvam varūtham ibha-patti-ratha-aśva-yodhaiḥ .. jaghnuḥ drumaiḥ giri-gada-iṣubhiḥ aṅgada-ādyāḥ . sītā-abhimarṣa-hata-maṅgala rāvaṇa-īśān .. 20 ..
रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट । आरुह्य यानकमथाभिससार रामम् ॥ स्वःस्यन्दने द्युमति मातलिनोपनीते । विभ्राजमानमहनन्निशितैः क्षुरप्रैः ॥ २१ ॥
रक्षःपतिः स्व-बल-नष्टिम् अवेक्ष्य रुष्ट । आरुह्य यानकम् अथ अभिससार रामम् ॥ स्वःस्यन्दने द्युमति मातलिना उपनीते । विभ्राजमानम् अहनत् निशितैः क्षुरप्रैः ॥ २१ ॥
rakṣaḥpatiḥ sva-bala-naṣṭim avekṣya ruṣṭa . āruhya yānakam atha abhisasāra rāmam .. svaḥsyandane dyumati mātalinā upanīte . vibhrājamānam ahanat niśitaiḥ kṣurapraiḥ .. 21 ..
रामस्तमाह पुरुषादपुरीष यन्नः । कान्तासमक्षमसतापहृता श्ववत् ते ॥ त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य । यच्छामि काल इव कर्तुरलंघ्यवीर्यः ॥ २२ ॥
रामः तम् आह पुरुषाद-पुरीष यत् नः । कान्ता-समक्षम् असत्-अपहृता श्व-वत् ते ॥ त्यक्त-त्रपस्य फलम् अद्य जुगुप्सितस्य । यच्छामि कालः इव कर्तुः अ लंघ्य-वीर्यः ॥ २२ ॥
rāmaḥ tam āha puruṣāda-purīṣa yat naḥ . kāntā-samakṣam asat-apahṛtā śva-vat te .. tyakta-trapasya phalam adya jugupsitasya . yacchāmi kālaḥ iva kartuḥ a laṃghya-vīryaḥ .. 22 ..
एवं क्षिपन्धनुषि संधितमुत्ससर्ज । बाणं स वज्रमिव तद्हृदयं बिभेद ॥ सोऽसृग् वमन् दशमुखैर्न्यपतद् विमानाद् । हाहेति जल्पति जने सुकृतीव रिक्तः ॥ २३ ॥
एवम् क्षिपन् धनुषि संधितम् उत्ससर्ज । बाणम् स वज्रम् इव तद्-हृदयम् बिभेद ॥ सः असृज् वमन् दश-मुखैः न्यपतत् विमानात् । हाहा इति जल्पति जने सुकृती इव रिक्तः ॥ २३ ॥
evam kṣipan dhanuṣi saṃdhitam utsasarja . bāṇam sa vajram iva tad-hṛdayam bibheda .. saḥ asṛj vaman daśa-mukhaiḥ nyapatat vimānāt . hāhā iti jalpati jane sukṛtī iva riktaḥ .. 23 ..
(अनुष्टुप्)
ततो निष्क्रम्य लंकाया यातुधान्यः सहस्रशः । मन्दोदर्या समं तस्मिन् प्ररुदन्त्य उपाद्रवन् ॥ २४ ॥
ततस् निष्क्रम्य लंकायाः यातुधान्यः सहस्रशस् । मन्दोदर्या समम् तस्मिन् प्ररुदन्त्यः उपाद्रवन् ॥ २४ ॥
tatas niṣkramya laṃkāyāḥ yātudhānyaḥ sahasraśas . mandodaryā samam tasmin prarudantyaḥ upādravan .. 24 ..
स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् । रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानमात्मना ॥ २५ ॥
स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मण-इषुभिः अर्दितान् । रुरुदुः सु स्वरम् दीनाः घ्नन्त्यः आत्मानम् आत्मना ॥ २५ ॥
svān svān bandhūn pariṣvajya lakṣmaṇa-iṣubhiḥ arditān . ruruduḥ su svaram dīnāḥ ghnantyaḥ ātmānam ātmanā .. 25 ..
हा हताः स्म वयं नाथ लोकरावण रावण । कं यायाच्छरणं लंका त्वद्विहीना परार्दिता ॥ २६ ॥
हा हताः स्म वयम् नाथ लोक-रावण रावण । कम् यायात् शरणम् लंका त्वद्-विहीना पर-अर्दिता ॥ २६ ॥
hā hatāḥ sma vayam nātha loka-rāvaṇa rāvaṇa . kam yāyāt śaraṇam laṃkā tvad-vihīnā para-arditā .. 26 ..
न वै वेद महाभाग भवान् कामवशं गतः । तेजोऽनुभावं सीताया येन नीतो दशामिमाम् ॥ २७ ॥
न वै वेद महाभाग भवान् काम-वशम् गतः । तेजः-अनुभावम् सीतायाः येन नीतः दशाम् इमाम् ॥ २७ ॥
na vai veda mahābhāga bhavān kāma-vaśam gataḥ . tejaḥ-anubhāvam sītāyāḥ yena nītaḥ daśām imām .. 27 ..
कृतैषा विधवा लंका वयं च कुलनन्दन । देहः कृतोऽन्नं गृध्राणां आत्मा नरकहेतवे ॥ २८ ॥
कृता एषा विधवा लंका वयम् च कुल-नन्दन । देहः कृतः अन्नम् गृध्राणाम् आत्मा नरक-हेतवे ॥ २८ ॥
kṛtā eṣā vidhavā laṃkā vayam ca kula-nandana . dehaḥ kṛtaḥ annam gṛdhrāṇām ātmā naraka-hetave .. 28 ..
श्रीशुक उवाच ।
स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदितः । पितृमेधविधानेन यदुक्तं सांपरायिकम् ॥ २९ ॥
स्वानाम् विभीषणः चक्रे कोसल-इन्द्र-अनुमोदितः । पितृ-मेध-विधानेन यत् उक्तम् सांपरायिकम् ॥ २९ ॥
svānām vibhīṣaṇaḥ cakre kosala-indra-anumoditaḥ . pitṛ-medha-vidhānena yat uktam sāṃparāyikam .. 29 ..
ततो ददर्श भगवान् अशोकवनिकाश्रमे । क्षामां स्वविरहव्याधिं शिंशपामूलमास्थिताम् ॥ ३० ॥
ततस् ददर्श भगवान् अशोक-वनिका-आश्रमे । क्षामाम् स्व-विरह-व्याधिम् शिंशपा-मूलम् आस्थिताम् ॥ ३० ॥
tatas dadarśa bhagavān aśoka-vanikā-āśrame . kṣāmām sva-viraha-vyādhim śiṃśapā-mūlam āsthitām .. 30 ..
रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकंपत । आत्मसंदर्शनाह्लाद विकसन् मुखपंकजाम् ॥ ३१ ॥
रामः प्रियतमाम् भार्याम् दीनाम् वीक्ष्य अन्वकंपत । आत्म-संदर्शन-आह्लाद विकसन् मुख-पंकजाम् ॥ ३१ ॥
rāmaḥ priyatamām bhāryām dīnām vīkṣya anvakaṃpata . ātma-saṃdarśana-āhlāda vikasan mukha-paṃkajām .. 31 ..
आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः । विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम् ॥ ३२ ॥
आरोप्य आरुरुहे यानम् भ्रातृभ्याम् हनुमत्-युतः । विभीषणाय भगवान् दत्त्वा रक्षः-गण-ईश-ताम् ॥ ३२ ॥
āropya āruruhe yānam bhrātṛbhyām hanumat-yutaḥ . vibhīṣaṇāya bhagavān dattvā rakṣaḥ-gaṇa-īśa-tām .. 32 ..
लंकामायुश्च कल्पान्तं ययौ चीर्णव्रतः पुरीम् । अवकीर्यमाणः कुसुमैः लोकपालार्पितैः पथि ॥ ३३ ॥
लंकाम् आयुः च कल्प-अन्तम् ययौ चीर्ण-व्रतः पुरीम् । अवकीर्यमाणः कुसुमैः लोकपाल-अर्पितैः पथि ॥ ३३ ॥
laṃkām āyuḥ ca kalpa-antam yayau cīrṇa-vrataḥ purīm . avakīryamāṇaḥ kusumaiḥ lokapāla-arpitaiḥ pathi .. 33 ..
उपगीयमानचरितः शतधृत्यादिभिर्मुदा । गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् ॥ ३४ ॥
उपगीयमान-चरितः शतधृति-आदिभिः मुदा । गो-मूत्र-यावकम् श्रुत्वा भ्रातरम् वल्कल-अम्बरम् ॥ ३४ ॥
upagīyamāna-caritaḥ śatadhṛti-ādibhiḥ mudā . go-mūtra-yāvakam śrutvā bhrātaram valkala-ambaram .. 34 ..
महाकारुणिकोऽतप्यत् जटिलं स्थण्डिलेशयम् । भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः ॥ ३५ ॥
महा-कारुणिकः अतप्यत् जटिलम् स्थण्डिलेशयम् । भरतः प्राप्तम् आकर्ण्य पौर-अमात्य-पुरोहितैः ॥ ३५ ॥
mahā-kāruṇikaḥ atapyat jaṭilam sthaṇḍileśayam . bharataḥ prāptam ākarṇya paura-amātya-purohitaiḥ .. 35 ..
पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम् । नन्दिग्रामात् स्वशिबिराद् गीतवादित्रनिःस्वनैः ॥ ३६ ॥
पादुके शिरसि न्यस्य रामम् प्रत्युद्यतः अग्रजम् । नन्दिग्रामात् स्व-शिबिरात् गीत-वादित्र-निःस्वनैः ॥ ३६ ॥
pāduke śirasi nyasya rāmam pratyudyataḥ agrajam . nandigrāmāt sva-śibirāt gīta-vāditra-niḥsvanaiḥ .. 36 ..
ब्रह्मघोषेण च मुहुः पठद्भिः ब्रह्मवादिभिः । स्वर्णकक्षपताकाभिः हैमैश्चित्रध्वजै रथैः ॥ ३७ ॥
ब्रह्मघोषेण च मुहुर् पठद्भिः ब्रह्म-वादिभिः । स्वर्ण-कक्ष-पताकाभिः हैमैः चित्र-ध्वजैः रथैः ॥ ३७ ॥
brahmaghoṣeṇa ca muhur paṭhadbhiḥ brahma-vādibhiḥ . svarṇa-kakṣa-patākābhiḥ haimaiḥ citra-dhvajaiḥ rathaiḥ .. 37 ..
सदश्वै रुक्मसन्नाहैः भटैः पुरटवर्मभिः । श्रेणीभिर्वारमुख्याभिः भृत्यैश्चैव पदानुगैः ॥ ३८ ॥
सत्-अश्वैः रुक्म-सन्नाहैः भटैः पुरट-वर्मभिः । श्रेणीभिः वारमुख्याभिः भृत्यैः च एव पदानुगैः ॥ ३८ ॥
sat-aśvaiḥ rukma-sannāhaiḥ bhaṭaiḥ puraṭa-varmabhiḥ . śreṇībhiḥ vāramukhyābhiḥ bhṛtyaiḥ ca eva padānugaiḥ .. 38 ..
पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च । पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षणः ॥ ३९ ॥
पारमेष्ठ्यानि उपादाय पण्यानि उच्चावचानि च । पादयोः न्यपतत् प्रेम्णा प्रक्लिन्न-हृदय-ईक्षणः ॥ ३९ ॥
pārameṣṭhyāni upādāya paṇyāni uccāvacāni ca . pādayoḥ nyapatat premṇā praklinna-hṛdaya-īkṣaṇaḥ .. 39 ..
पादुके न्यस्य पुरतः प्राञ्जलिर्बाष्पलोचनः । तमाश्लिष्य चिरं दोर्भ्यां स्नापयन् नेत्रजैर्जलैः ॥ ४० ॥
पादुके न्यस्य पुरतस् प्राञ्जलिः बाष्प-लोचनः । तम् आश्लिष्य चिरम् दोर्भ्याम् स्नापयन् नेत्र-जैः जलैः ॥ ४० ॥
pāduke nyasya puratas prāñjaliḥ bāṣpa-locanaḥ . tam āśliṣya ciram dorbhyām snāpayan netra-jaiḥ jalaiḥ .. 40 ..
रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येऽर्हसत्तमाः । तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः ॥ ४१ ॥
रामः लक्ष्मण-सीताभ्याम् विप्रेभ्यः ये अर्ह-सत्तमाः । तेभ्यः स्वयम् नमश्चक्रे प्रजाभिः च नमस्कृतः ॥ ४१ ॥
rāmaḥ lakṣmaṇa-sītābhyām viprebhyaḥ ye arha-sattamāḥ . tebhyaḥ svayam namaścakre prajābhiḥ ca namaskṛtaḥ .. 41 ..
धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य चिरागतम् । उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा ॥ ४२ ॥
धुन्वन्तः उत्तरासङ्गान् पतिम् वीक्ष्य चिर-आगतम् । उत्तराः कोसलाः माल्यैः किरन्तः ननृतुः मुदा ॥ ४२ ॥
dhunvantaḥ uttarāsaṅgān patim vīkṣya cira-āgatam . uttarāḥ kosalāḥ mālyaiḥ kirantaḥ nanṛtuḥ mudā .. 42 ..
पादुके भरतोऽगृह्णात् चामरव्यजनोत्तमे । विभीषणः ससुग्रीवः श्वेतच्छत्रं मरुत्सुतः ॥ ४३ ॥
पादुके भरतः अगृह्णात् चामर-व्यजन-उत्तमे । विभीषणः स सुग्रीवः श्वेत-छत्रम् मरुत्-सुतः ॥ ४३ ॥
pāduke bharataḥ agṛhṇāt cāmara-vyajana-uttame . vibhīṣaṇaḥ sa sugrīvaḥ śveta-chatram marut-sutaḥ .. 43 ..
धनुर्निषङ्गान् शत्रुघ्नः सीता तीर्थकमण्डलुम् । अबिभ्रदङ्गदः खड्गं हैमं चर्मर्क्षराण् नृप ॥ ४४ ॥
धनुः-निषङ्गान् शत्रुघ्नः सीता तीर्थ-कमण्डलुम् । अबिभ्रत् अङ्गदः खड्गम् हैमम् चर्म ऋक्ष-राज् नृप ॥ ४४ ॥
dhanuḥ-niṣaṅgān śatrughnaḥ sītā tīrtha-kamaṇḍalum . abibhrat aṅgadaḥ khaḍgam haimam carma ṛkṣa-rāj nṛpa .. 44 ..
पुष्पकस्थोऽन्वितः स्त्रीभिः स्तूयमानश्च वन्दिभिः । विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदितः ॥ ४५ ॥
पुष्पक-स्थः अन्वितः स्त्रीभिः स्तूयमानः च वन्दिभिः । विरेजे भगवान् राजन् ग्रहैः चन्द्रः इव उदितः ॥ ४५ ॥
puṣpaka-sthaḥ anvitaḥ strībhiḥ stūyamānaḥ ca vandibhiḥ . vireje bhagavān rājan grahaiḥ candraḥ iva uditaḥ .. 45 ..
भ्रात्राभिर्नन्दितः सोऽपि सोत्सवां प्राविशत् पुरीम् । प्रविश्य राजभवनं गुरुपत्नीः स्वमातरम् ॥ ४६ ॥
भ्रात्रा आभिः नन्दितः सः अपि स उत्सवाम् प्राविशत् पुरीम् । प्रविश्य राज-भवनम् गुरु-पत्नीः स्व-मातरम् ॥ ४६ ॥
bhrātrā ābhiḥ nanditaḥ saḥ api sa utsavām prāviśat purīm . praviśya rāja-bhavanam guru-patnīḥ sva-mātaram .. 46 ..
गुरून् वयस्यावरजान् पूजितः प्रत्यपूजयत् । वैदेही लक्ष्मणश्चैव यथावत् समुपेयतुः ॥ ४७ ॥
गुरून् वयस्य-अवरजान् पूजितः प्रत्यपूजयत् । वैदेही लक्ष्मणः च एव यथावत् समुपेयतुः ॥ ४७ ॥
gurūn vayasya-avarajān pūjitaḥ pratyapūjayat . vaidehī lakṣmaṇaḥ ca eva yathāvat samupeyatuḥ .. 47 ..
पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिताः । आरोप्याङ्केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहुः शुचः ॥ ४८ ॥
पुत्रान् स्व-मातरः ताः तु प्राणान् तन्वः इव उत्थिताः । आरोप्य अङ्के अभिषिञ्चन्त्यः बाष्प-ओघैः विजहुः शुचः ॥ ४८ ॥
putrān sva-mātaraḥ tāḥ tu prāṇān tanvaḥ iva utthitāḥ . āropya aṅke abhiṣiñcantyaḥ bāṣpa-oghaiḥ vijahuḥ śucaḥ .. 48 ..
जटा निर्मुच्य विधिवत् कुलवृद्धैः समं गुरुः । अभ्यषिञ्चद् यथैवेन्द्रं चतुःसिन्धुजलादिभिः ॥ ४९ ॥
जटाः निर्मुच्य विधिवत् कुल-वृद्धैः समम् गुरुः । अभ्यषिञ्चत् यथा एव इन्द्रम् चतुर्-सिन्धु-जल-आदिभिः ॥ ४९ ॥
jaṭāḥ nirmucya vidhivat kula-vṛddhaiḥ samam guruḥ . abhyaṣiñcat yathā eva indram catur-sindhu-jala-ādibhiḥ .. 49 ..
एवं कृतशिरःस्नानः सुवासाः स्रग्व्यलंकृतः । स्वलंकृतैः सुवासोभिः भ्रातृभिर्भार्यया बभौ ॥ ५० ॥
एवम् कृत-शिरःस्नानः सु वासाः स्रग्वी अलंकृतः । सु अलंकृतैः सु वासोभिः भ्रातृभिः भार्यया बभौ ॥ ५० ॥
evam kṛta-śiraḥsnānaḥ su vāsāḥ sragvī alaṃkṛtaḥ . su alaṃkṛtaiḥ su vāsobhiḥ bhrātṛbhiḥ bhāryayā babhau .. 50 ..
अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः । प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः ।
अग्रहीत् आसनम् भ्रात्रा प्रणिपत्य प्रसादितः । प्रजाः स्वधर्म-निरताः वर्ण-आश्रम-गुण-अन्विताः ।
agrahīt āsanam bhrātrā praṇipatya prasāditaḥ . prajāḥ svadharma-niratāḥ varṇa-āśrama-guṇa-anvitāḥ .
त्रेतायां वर्तमानायां कालः कृतसमोऽभवत् । रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ॥ ५२ ॥
त्रेतायाम् वर्तमानायाम् कालः कृत-समः अभवत् । रामे राजनि धर्म-ज्ञे सर्व-भूत-सुख-आवहे ॥ ५२ ॥
tretāyām vartamānāyām kālaḥ kṛta-samaḥ abhavat . rāme rājani dharma-jñe sarva-bhūta-sukha-āvahe .. 52 ..
वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धवः । सर्वे कामदुघा आसन् प्रजानां भरतर्षभ ॥ ५३ ॥
वनानि नद्यः गिरयः वर्षाणि द्वीप-सिन्धवः । सर्वे कामदुघाः आसन् प्रजानाम् भरत-ऋषभ ॥ ५३ ॥
vanāni nadyaḥ girayaḥ varṣāṇi dvīpa-sindhavaḥ . sarve kāmadughāḥ āsan prajānām bharata-ṛṣabha .. 53 ..
नाधिव्याधिजराग्लानि दुःखशोकभयक्लमाः । मृत्युश्च अनिच्छतां नासीद् रामे राजन्यधोक्षजे ॥ ५४ ॥
न आधि-व्याधि-जरा-ग्लानि दुःख-शोक-भय-क्लमाः । मृत्युः च अन् इच्छताम् न आसीत् रामे राजनि अधोक्षजे ॥ ५४ ॥
na ādhi-vyādhi-jarā-glāni duḥkha-śoka-bhaya-klamāḥ . mṛtyuḥ ca an icchatām na āsīt rāme rājani adhokṣaje .. 54 ..
एकपत्नीव्रतधरो राजर्षिचरितः शुचिः । स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत् ॥ ५५ ॥
। स्वधर्मम् गृहमेधीयम् शिक्षयन् स्वयम् आचरत् ॥ ५५ ॥
. svadharmam gṛhamedhīyam śikṣayan svayam ācarat .. 55 ..
प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती । भिया ह्रिया च भावज्ञा भर्तुः सीताहरन्मनः ॥ ५६ ॥
प्रेम्णा अनुवृत्त्या शीलेन प्रश्रय-अवनता सती । भिया ह्रिया च भाव-ज्ञा भर्तुः सीता अहरत् मनः ॥ ५६ ॥
premṇā anuvṛttyā śīlena praśraya-avanatā satī . bhiyā hriyā ca bhāva-jñā bhartuḥ sītā aharat manaḥ .. 56 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे दशमोऽध्यायः ॥ १० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे दशमः अध्यायः ॥ १० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe daśamaḥ adhyāyaḥ .. 10 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In