| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
पित्रोपशिक्षितो रामः तथेति कुरुनन्दन । संवत्सरं तीर्थयात्रां चरित्वाऽऽश्रममाव्रजत् ॥ १ ॥
पित्रा उपशिक्षितः रामः तथा इति कुरु-नन्दन । संवत्सरम् तीर्थयात्राम् चरित्वा आश्रमम् आव्रजत् ॥ १ ॥
pitrā upaśikṣitaḥ rāmaḥ tathā iti kuru-nandana . saṃvatsaram tīrthayātrām caritvā āśramam āvrajat .. 1 ..
कदाचित् रेणुका याता गंगायां पद्ममालिनम् । गन्धर्वराजं क्रीडन्तं अप्सरोभिरपश्यत ॥ २ ॥
कदाचिद् रेणुका याता गंगायाम् पद्ममालिनम् । गन्धर्व-राजम् क्रीडन्तम् अप्सरोभिः अपश्यत ॥ २ ॥
kadācid reṇukā yātā gaṃgāyām padmamālinam . gandharva-rājam krīḍantam apsarobhiḥ apaśyata .. 2 ..
विलोकयन्ती क्रीडन्तं उदकार्थं नदीं गता । होमवेलां न सस्मार किञ्चित् चित्ररथस्पृहा ॥ ३ ॥
विलोकयन्ती क्रीडन्तम् उदक-अर्थम् नदीम् गता । होम-वेलाम् न सस्मार किञ्चिद् चित्ररथ-स्पृहा ॥ ३ ॥
vilokayantī krīḍantam udaka-artham nadīm gatā . homa-velām na sasmāra kiñcid citraratha-spṛhā .. 3 ..
कालात्ययं तं विलोक्य मुनेः शापविशंकिता । आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलिः ॥ ४ ॥
काल-अत्ययम् तम् विलोक्य मुनेः शाप-विशंकिता । आगत्य कलशम् तस्थौ पुरोधाय कृताञ्जलिः ॥ ४ ॥
kāla-atyayam tam vilokya muneḥ śāpa-viśaṃkitā . āgatya kalaśam tasthau purodhāya kṛtāñjaliḥ .. 4 ..
व्यभिचारं मुनिर्ज्ञात्वा पत्न्याः प्रकुपितोऽब्रवीत् । घ्नतैनां पुत्रकाः पापां इत्युक्तास्ते न चक्रिरे ॥ ५ ॥
व्यभिचारम् मुनिः ज्ञात्वा पत्न्याः प्रकुपितः अब्रवीत् । घ्नत एनाम् पुत्रकाः पापाम् इति उक्ताः ते न चक्रिरे ॥ ५ ॥
vyabhicāram muniḥ jñātvā patnyāḥ prakupitaḥ abravīt . ghnata enām putrakāḥ pāpām iti uktāḥ te na cakrire .. 5 ..
रामः सञ्चोदितः पित्रा भ्रातॄन् मात्रा सहावधीत् । प्रभावज्ञो मुनेः सम्यक् समाधेस्तपसश्च सः ॥ ६ ॥
रामः सञ्चोदितः पित्रा भ्रातॄन् मात्रा सह अवधीत् । प्रभाव-ज्ञः मुनेः सम्यक् समाधेः तपसः च सः ॥ ६ ॥
rāmaḥ sañcoditaḥ pitrā bhrātṝn mātrā saha avadhīt . prabhāva-jñaḥ muneḥ samyak samādheḥ tapasaḥ ca saḥ .. 6 ..
वरेण च्छन्दयामास प्रीतः सत्यवतीसुतः । वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे ॥ ७ ॥
वरेण छन्दयामास प्रीतः सत्यवती-सुतः । वव्रे हतानाम् रामः अपि जीवितम् च अस्मृतिम् वधे ॥ ७ ॥
vareṇa chandayāmāsa prītaḥ satyavatī-sutaḥ . vavre hatānām rāmaḥ api jīvitam ca asmṛtim vadhe .. 7 ..
उत्तस्थुस्ते कुशलिनो निद्रापाय इवाञ्जसा । पितुर्विद्वान् तपोवीर्यं रामश्चक्रे सुहृद्वधम् ॥ ८ ॥
उत्तस्थुः ते कुशलिनः निद्रा-अपाये इव अञ्जसा । पितुः विद्वान् तपः-वीर्यम् रामः चक्रे सुहृद्-वधम् ॥ ८ ॥
uttasthuḥ te kuśalinaḥ nidrā-apāye iva añjasā . pituḥ vidvān tapaḥ-vīryam rāmaḥ cakre suhṛd-vadham .. 8 ..
येऽर्जुनस्य सुता राजन् स्मरन्तः स्वपितुर्वधम् । रामवीर्यपराभूता लेभिरे शर्म न क्वचित् ॥ ९ ॥
ये अर्जुनस्य सुताः राजन् स्मरन्तः स्व-पितुः वधम् । राम-वीर्य-पराभूताः लेभिरे शर्म न क्वचिद् ॥ ९ ॥
ye arjunasya sutāḥ rājan smarantaḥ sva-pituḥ vadham . rāma-vīrya-parābhūtāḥ lebhire śarma na kvacid .. 9 ..
एकदाश्रमतो रामे सभ्रातरि वनं गते । वैरं सिसाधयिषवो लब्धच्छिद्रा उपागमन् ॥ १० ॥
एकदा आश्रमतः रामे स भ्रातरि वनम् गते । वैरम् सिसाधयिषवः लब्ध-छिद्राः उपागमन् ॥ १० ॥
ekadā āśramataḥ rāme sa bhrātari vanam gate . vairam sisādhayiṣavaḥ labdha-chidrāḥ upāgaman .. 10 ..
दृष्ट्वाग्न्यगार आसीनं आवेशितधियं मुनिम् । भगवति उत्तमश्लोके जघ्नुस्ते पापनिश्चयाः ॥ ११ ॥
दृष्ट्वा अग्न्यगारे आसीनम् आवेशित-धियम् मुनिम् । भगवति उत्तमश्लोके जघ्नुः ते पाप-निश्चयाः ॥ ११ ॥
dṛṣṭvā agnyagāre āsīnam āveśita-dhiyam munim . bhagavati uttamaśloke jaghnuḥ te pāpa-niścayāḥ .. 11 ..
याच्यमानाः कृपणया राममात्रातिदारुणाः । प्रसह्य शिर उत्कृत्य निन्युस्ते क्षत्रबन्धवः ॥ १२ ॥
याच्यमानाः कृपणया राम-मात्रा-अति दारुणाः । प्रसह्य शिरः उत्कृत्य निन्युः ते क्षत्रबन्धवः ॥ १२ ॥
yācyamānāḥ kṛpaṇayā rāma-mātrā-ati dāruṇāḥ . prasahya śiraḥ utkṛtya ninyuḥ te kṣatrabandhavaḥ .. 12 ..
रेणुका दुःखशोकार्ता निघ्नन्त्यात्मानमात्मना । राम रामेति तातेति विचुक्रोशोच्चकैः सती ॥ १३ ॥
रेणुकाः दुःख-शोक-आर्ताः निघ्नन्ति आत्मानम् आत्मना । राम राम इति तात इति विचुक्रोश उच्चकैस् सती ॥ १३ ॥
reṇukāḥ duḥkha-śoka-ārtāḥ nighnanti ātmānam ātmanā . rāma rāma iti tāta iti vicukrośa uccakais satī .. 13 ..
तदुपश्रुत्य दूरस्था हा रामेत्यार्तवत्स्वनम् । त्वरयाऽऽश्रममासाद्य ददृशुः पितरं हतम् ॥ १४ ॥
तत् उपश्रुत्य दूर-स्थाः हा राम इति आर्त-वत् स्वनम् । त्वरया आश्रमम् आसाद्य ददृशुः पितरम् हतम् ॥ १४ ॥
tat upaśrutya dūra-sthāḥ hā rāma iti ārta-vat svanam . tvarayā āśramam āsādya dadṛśuḥ pitaram hatam .. 14 ..
ते दुःखरोषामर्षार्ति शोकवेगविमोहिताः । हा तात साधो धर्मिष्ठ त्यक्त्वास्मान् स्वर्गतो भवान् ॥ १५ ॥
ते दुःख-रोष-अमर्ष-आर्ति शोक-वेग-विमोहिताः । हा तात साधो धर्मिष्ठ त्यक्त्वा अस्मान् स्वर्गतः भवान् ॥ १५ ॥
te duḥkha-roṣa-amarṣa-ārti śoka-vega-vimohitāḥ . hā tāta sādho dharmiṣṭha tyaktvā asmān svargataḥ bhavān .. 15 ..
विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयम् । प्रगृह्य परशुं रामः क्षत्रान्ताय मनो दधे ॥ १६ ॥
विलप्य एवम् पितुः देहम् निधाय भ्रातृषु स्वयम् । प्रगृह्य परशुम् रामः क्षत्र-अन्ताय मनः दधे ॥ १६ ॥
vilapya evam pituḥ deham nidhāya bhrātṛṣu svayam . pragṛhya paraśum rāmaḥ kṣatra-antāya manaḥ dadhe .. 16 ..
गत्वा माहिष्मतीं रामो ब्रह्मघ्नविहतश्रियम् । तेषां स शीर्षभी राजन् मध्ये चक्रे महागिरिम् ॥ १७ ॥
गत्वा माहिष्मतीम् रामः ब्रह्म-घ्न-विहत-श्रियम् । तेषाम् स शीर्षभिः राजन् मध्ये चक्रे महा-गिरिम् ॥ १७ ॥
gatvā māhiṣmatīm rāmaḥ brahma-ghna-vihata-śriyam . teṣām sa śīrṣabhiḥ rājan madhye cakre mahā-girim .. 17 ..
तद् रक्तेन नदीं घोरां अब्रह्मण्यभयावहाम् । हेतुं कृत्वा पितृवधं क्षत्रेऽमंगलकारिणि ॥ १८ ॥
तत् रक्तेन नदीम् घोराम् अब्रह्मण्य-भय-आवहाम् । हेतुम् कृत्वा पितृ-वधम् क्षत्रे अमंगल-कारिणि ॥ १८ ॥
tat raktena nadīm ghorām abrahmaṇya-bhaya-āvahām . hetum kṛtvā pitṛ-vadham kṣatre amaṃgala-kāriṇi .. 18 ..
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः । समन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नृप ॥ १९ ॥
त्रिस् सप्त-कृत्वस् पृथिवीम् कृत्वा निःक्षत्रियाम् प्रभुः । समन्तपञ्चके चक्रे शोणित-उदान् ह्रदान् नृप ॥ १९ ॥
tris sapta-kṛtvas pṛthivīm kṛtvā niḥkṣatriyām prabhuḥ . samantapañcake cakre śoṇita-udān hradān nṛpa .. 19 ..
पितुः कायेन सन्धाय शिर आदाय बर्हिषि । सर्वदेवमयं देवं आत्मानं अयजन्मखैः ॥ २० ॥
पितुः कायेन सन्धाय शिरः आदाय बर्हिषि । सर्व-देव-मयम् देवम् आत्मानम् अयजत् मखैः ॥ २० ॥
pituḥ kāyena sandhāya śiraḥ ādāya barhiṣi . sarva-deva-mayam devam ātmānam ayajat makhaiḥ .. 20 ..
ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम् । अध्वर्यवे प्रतीचीं वै उद्गात्रे उत्तरां दिशम् ॥ २१ ॥
ददौ प्राचीम् दिशम् होत्रे ब्रह्मणे दक्षिणाम् दिशम् । अध्वर्यवे प्रतीचीम् वै उद्गात्रे उत्तराम् दिशम् ॥ २१ ॥
dadau prācīm diśam hotre brahmaṇe dakṣiṇām diśam . adhvaryave pratīcīm vai udgātre uttarām diśam .. 21 ..
अन्येभ्योऽवान्तरदिशः कश्यपाय च मध्यतः । आर्यावर्तं उपद्रष्ट्रे सदस्येभ्यस्ततः परम् ॥ २२ ॥
अन्येभ्यः अवान्तर-दिशः कश्यपाय च मध्यतस् । आर्यावर्तम् उपद्रष्ट्रे सदस्येभ्यः ततस् परम् ॥ २२ ॥
anyebhyaḥ avāntara-diśaḥ kaśyapāya ca madhyatas . āryāvartam upadraṣṭre sadasyebhyaḥ tatas param .. 22 ..
ततश्चावभृथस्नान विधूताशेषकिल्बिषः । सरस्वत्यां महानद्यां रेजे व्यभ्र इवांशुमान् ॥ २३ ॥
ततस् च अवभृथ-स्नान विधूत-अशेष-किल्बिषः । सरस्वत्याम् महा-नद्याम् रेजे व्यभ्रः इव अंशुमान् ॥ २३ ॥
tatas ca avabhṛtha-snāna vidhūta-aśeṣa-kilbiṣaḥ . sarasvatyām mahā-nadyām reje vyabhraḥ iva aṃśumān .. 23 ..
स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम् । ऋषीणां मण्डले सोऽभूत् सप्तमो रामपूजितः ॥ २४ ॥
स्व-देहम् जमदग्निः तु लब्ध्वा संज्ञान-लक्षणम् । ऋषीणाम् मण्डले सः अभूत् सप्तमः राम-पूजितः ॥ २४ ॥
sva-deham jamadagniḥ tu labdhvā saṃjñāna-lakṣaṇam . ṛṣīṇām maṇḍale saḥ abhūt saptamaḥ rāma-pūjitaḥ .. 24 ..
जामदग्न्योऽपि भगवान् रामः कमललोचनः । आगामिन्यन्तरे राजन् वर्तयिष्यति वै बृहत् ॥ २५ ॥
जामदग्न्यः अपि भगवान् रामः कमल-लोचनः । आगामिनि अन्तरे राजन् वर्तयिष्यति वै बृहत् ॥ २५ ॥
jāmadagnyaḥ api bhagavān rāmaḥ kamala-locanaḥ . āgāmini antare rājan vartayiṣyati vai bṛhat .. 25 ..
आस्तेऽद्यापि महेन्द्राद्रौ न्यस्तदण्डः प्रशान्तधीः । उपगीयमानचरितः सिद्धगन्धर्वचारणैः ॥ २६ ॥
आस्ते अद्य अपि महेन्द्र-अद्रौ न्यस्त-दण्डः प्रशान्त-धीः । उपगीयमान-चरितः सिद्ध-गन्धर्व-चारणैः ॥ २६ ॥
āste adya api mahendra-adrau nyasta-daṇḍaḥ praśānta-dhīḥ . upagīyamāna-caritaḥ siddha-gandharva-cāraṇaiḥ .. 26 ..
एवं भृगुषु विश्वात्मा भगवान् हरिरीश्वरः । अवतीर्य परं भारं भुवोऽहन् बहुशो नृपान् ॥ २७ ॥
एवम् भृगुषु विश्वात्मा भगवान् हरिः ईश्वरः । अवतीर्य परम् भारम् भुवः अहन् बहुशस् नृपान् ॥ २७ ॥
evam bhṛguṣu viśvātmā bhagavān hariḥ īśvaraḥ . avatīrya param bhāram bhuvaḥ ahan bahuśas nṛpān .. 27 ..
गाधेरभूत् महातेजाः समिद्ध इव पावकः । तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम् ॥ २८ ॥
गाधेः अभूत् महा-तेजाः समिद्धः इव पावकः । तपसा क्षात्रम् उत्सृज्य यः लेभे ब्रह्मवर्चसम् ॥ २८ ॥
gādheḥ abhūt mahā-tejāḥ samiddhaḥ iva pāvakaḥ . tapasā kṣātram utsṛjya yaḥ lebhe brahmavarcasam .. 28 ..
विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप । मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते ॥ २९ ॥
विश्वामित्रस्य च एव आसन् पुत्राः एक-शतम् नृप । मध्यमः तु मधुच्छन्दाः मधुच्छन्दसः एव ते ॥ २९ ॥
viśvāmitrasya ca eva āsan putrāḥ eka-śatam nṛpa . madhyamaḥ tu madhucchandāḥ madhucchandasaḥ eva te .. 29 ..
पुत्रं कृत्वा शुनःशेपं देवरातं च भार्गवम् । आजीगर्तं सुतानाह ज्येष्ठ एष प्रकल्प्यताम् ॥ ३० ॥
पुत्रम् कृत्वा शुनःशेपम् देवरातम् च भार्गवम् । आजीगर्तम् सुतान् आह ज्येष्ठः एष प्रकल्प्यताम् ॥ ३० ॥
putram kṛtvā śunaḥśepam devarātam ca bhārgavam . ājīgartam sutān āha jyeṣṭhaḥ eṣa prakalpyatām .. 30 ..
यो वै हरिश्चन्द्रमखे विक्रीतः पुरुषः पशुः । स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाशबन्धनात् ॥ ३१ ॥
यः वै हरिश्चन्द्र-मखे विक्रीतः पुरुषः पशुः । स्तुत्वा देवान् प्रजा-ईश-आदीन् मुमुचे पाश-बन्धनात् ॥ ३१ ॥
yaḥ vai hariścandra-makhe vikrītaḥ puruṣaḥ paśuḥ . stutvā devān prajā-īśa-ādīn mumuce pāśa-bandhanāt .. 31 ..
यो रातो देवयजने देवैर्गाधिषु तापसः । देवरात इति ख्यातः शुनःशेपस्तु भार्गवः ॥ ३२ ॥
यः रातः देवयजने देवैः गाधिषु तापसः । देवरातः इति ख्यातः शुनःशेपः तु भार्गवः ॥ ३२ ॥
yaḥ rātaḥ devayajane devaiḥ gādhiṣu tāpasaḥ . devarātaḥ iti khyātaḥ śunaḥśepaḥ tu bhārgavaḥ .. 32 ..
ये मधुच्छन्दसो ज्येष्ठाः कुशलं मेनिरे न तत् । अशपत् तान् मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः ॥ ३३ ॥
ये मधुच्छन्दसः ज्येष्ठाः कुशलम् मेनिरे न तत् । अशपत् तान् मुनिः क्रुद्धः म्लेच्छाः भवत दुर्जनाः ॥ ३३ ॥
ye madhucchandasaḥ jyeṣṭhāḥ kuśalam menire na tat . aśapat tān muniḥ kruddhaḥ mlecchāḥ bhavata durjanāḥ .. 33 ..
स होवाच मधुच्छन्दाः सार्धं पञ्चाशता ततः । यन्नो भवान् संजानीते तस्मिन् तिष्ठामहे वयम् ॥ ३४ ॥
स ह उवाच मधुच्छन्दाः सार्धम् पञ्चाशता ततस् । यत् नः भवान् संजानीते तस्मिन् तिष्ठामहे वयम् ॥ ३४ ॥
sa ha uvāca madhucchandāḥ sārdham pañcāśatā tatas . yat naḥ bhavān saṃjānīte tasmin tiṣṭhāmahe vayam .. 34 ..
ज्येष्ठं मन्त्रदृशं चक्रुः त्वां अन्वञ्चो वयं स्म हि । विश्वामित्रः सुतानाह वीरवन्तो भविष्यथ । ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त माम् ॥ ३५ ॥
ज्येष्ठम् मन्त्र-दृशम् चक्रुः त्वाम् अन्वञ्चः वयम् स्म हि । विश्वामित्रः सुतान् आह वीरवन्तः भविष्यथ । ये मानम् मे अनुगृह्णन्तः वीरवन्तम् अकर्त माम् ॥ ३५ ॥
jyeṣṭham mantra-dṛśam cakruḥ tvām anvañcaḥ vayam sma hi . viśvāmitraḥ sutān āha vīravantaḥ bhaviṣyatha . ye mānam me anugṛhṇantaḥ vīravantam akarta mām .. 35 ..
एष वः कुशिका वीरो देवरातस्तमन्वित । अन्ये चाष्टकहारीत जयक्रतुमदादयः ॥ ३६ ॥
एष वः कुशिकाः वीरः देवरातः तम् अन्वित । अन्ये च अष्टक-हारीत जय-क्रतुमत्-आदयः ॥ ३६ ॥
eṣa vaḥ kuśikāḥ vīraḥ devarātaḥ tam anvita . anye ca aṣṭaka-hārīta jaya-kratumat-ādayaḥ .. 36 ..
एवं कौशिकगोत्रं तु विश्वामित्रैः पृथग्विधम् । प्रवरान्तरमापन्नं तद्धि चैवं प्रकल्पितम् ॥ ३७ ॥
एवम् कौशिक-गोत्रम् तु विश्वामित्रैः पृथग्विधम् । प्रवर-अन्तरम् आपन्नम् तत् हि च एवम् प्रकल्पितम् ॥ ३७ ॥
evam kauśika-gotram tu viśvāmitraiḥ pṛthagvidham . pravara-antaram āpannam tat hi ca evam prakalpitam .. 37 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे षोडशोऽध्यायः ॥ १६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे षोडशः अध्यायः ॥ १६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe ṣoḍaśaḥ adhyāyaḥ .. 16 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In