| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वतः सुते । पुत्रकामः तपस्तेपे यमुनायां शतं समाः ॥ १ ॥
एवम् गते अथ सुद्युम्ने मनुः वैवस्वतः सुते । पुत्र-कामः तपः तेपे यमुनायाम् शतम् समाः ॥ १ ॥
evam gate atha sudyumne manuḥ vaivasvataḥ sute . putra-kāmaḥ tapaḥ tepe yamunāyām śatam samāḥ .. 1 ..
ततोऽयजन् मनुर्देवं अपत्यार्थं हरिं प्रभुम् । इक्ष्वाकु पूर्वजान् पुत्रान् लेभे स्वसदृशान् दश ॥ २ ॥
ततस् अयजत् मनुः देवम् अपत्य-अर्थम् हरिम् प्रभुम् । इक्ष्वाकु पूर्वजान् पुत्रान् लेभे स्व-सदृशान् दश ॥ २ ॥
tatas ayajat manuḥ devam apatya-artham harim prabhum . ikṣvāku pūrvajān putrān lebhe sva-sadṛśān daśa .. 2 ..
पृषध्रस्तु मनोः पुत्रो गोपालो गुरुणा कृतः । पालयामास गा यत्तो रात्र्यां वीरासनव्रतः ॥ ३ ॥
पृषध्रः तु मनोः पुत्रः गोपालः गुरुणा कृतः । पालयामास गाः यत्तः रात्र्याम् वीरासन-व्रतः ॥ ३ ॥
pṛṣadhraḥ tu manoḥ putraḥ gopālaḥ guruṇā kṛtaḥ . pālayāmāsa gāḥ yattaḥ rātryām vīrāsana-vrataḥ .. 3 ..
एकदा प्राविशद् गोष्ठं शार्दूलो निशि वर्षति । शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे ॥ ४ ॥
एकदा प्राविशत् गोष्ठम् शार्दूलः निशि वर्षति । शयानाः गावः उत्थाय भीताः ताः बभ्रमुः व्रजे ॥ ४ ॥
ekadā prāviśat goṣṭham śārdūlaḥ niśi varṣati . śayānāḥ gāvaḥ utthāya bhītāḥ tāḥ babhramuḥ vraje .. 4 ..
एकां जग्राह बलवान् सा चुक्रोश भयातुरा । तस्यास्तु क्रन्दितं श्रुत्वा पृषध्रोऽनुससार ह ॥ ५ ॥
एकाम् जग्राह बलवान् सा चुक्रोश भय-आतुरा । तस्याः तु क्रन्दितम् श्रुत्वा पृषध्रः अनुससार ह ॥ ५ ॥
ekām jagrāha balavān sā cukrośa bhaya-āturā . tasyāḥ tu kranditam śrutvā pṛṣadhraḥ anusasāra ha .. 5 ..
खड्गमादाय तरसा प्रलीनोडुगणे निशि । अजानन् अहनद् बभ्रोः शिरः शार्दूलशङ्कया ॥ ६ ॥
खड्गम् आदाय तरसा प्रलीन-उडु-गणे निशि । अ जानन् अहनत् बभ्रोः शिरः शार्दूल-शङ्कया ॥ ६ ॥
khaḍgam ādāya tarasā pralīna-uḍu-gaṇe niśi . a jānan ahanat babhroḥ śiraḥ śārdūla-śaṅkayā .. 6 ..
व्याघ्रोऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्ततः । निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् ॥ ७ ॥
व्याघ्रः अपि वृक्ण-श्रवणः निस्त्रिंश-अग्र-आहतः ततस् । निश्चक्राम भृशम् भीतः रक्तम् पथि समुत्सृजन् ॥ ७ ॥
vyāghraḥ api vṛkṇa-śravaṇaḥ nistriṃśa-agra-āhataḥ tatas . niścakrāma bhṛśam bhītaḥ raktam pathi samutsṛjan .. 7 ..
मन्यमानो हतं व्याघ्रं पृषध्रः परवीरहा । अद्राक्षीत् स्वहतां बभ्रुं व्युष्टायां निशि दुःखितः ॥ ८ ॥
मन्यमानः हतम् व्याघ्रम् पृषध्रः पर-वीर-हा । अद्राक्षीत् स्व-हताम् बभ्रुम् व्युष्टायाम् निशि दुःखितः ॥ ८ ॥
manyamānaḥ hatam vyāghram pṛṣadhraḥ para-vīra-hā . adrākṣīt sva-hatām babhrum vyuṣṭāyām niśi duḥkhitaḥ .. 8 ..
तं शशाप कुलाचार्यः कृतागसं अकामतः । न क्षत्रबन्धुः शूद्रस्त्वं कर्मणा भवितामुना ॥ ९ ॥
तम् शशाप कुल-आचार्यः कृत-आगसम् अकामतः । न क्षत्रबन्धुः शूद्रः त्वम् कर्मणा भविता अमुना ॥ ९ ॥
tam śaśāpa kula-ācāryaḥ kṛta-āgasam akāmataḥ . na kṣatrabandhuḥ śūdraḥ tvam karmaṇā bhavitā amunā .. 9 ..
एवं शप्तस्तु गुरुणा प्रत्यगृह्णात् कृताञ्जलिः । अधारयद् व्रतं वीर ऊर्ध्वरेता मुनिप्रियम् ॥ १० ॥
एवम् शप्तः तु गुरुणा प्रत्यगृह्णात् कृताञ्जलिः । अधारयत् व्रतम् वीरः ऊर्ध्वरेताः मुनि-प्रियम् ॥ १० ॥
evam śaptaḥ tu guruṇā pratyagṛhṇāt kṛtāñjaliḥ . adhārayat vratam vīraḥ ūrdhvaretāḥ muni-priyam .. 10 ..
वासुदेवे भगवति सर्वात्मनि परेऽमले । एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत् समः ॥ ११ ॥
वासुदेवे भगवति सर्व-आत्मनि परे अमले । एकान्ति-त्वम् गतः भक्त्या सर्व-भूत-सुहृद् समः ॥ ११ ॥
vāsudeve bhagavati sarva-ātmani pare amale . ekānti-tvam gataḥ bhaktyā sarva-bhūta-suhṛd samaḥ .. 11 ..
विमुक्तसंगः शान्तात्मा संयताक्षोऽपरिग्रहः । यदृच्छयोपपन्नेन कल्पयन् वृत्तिमात्मनः ॥ १२ ॥
विमुक्त-संगः शान्त-आत्मा संयत-अक्षः अपरिग्रहः । यदृच्छया उपपन्नेन कल्पयन् वृत्तिम् आत्मनः ॥ १२ ॥
vimukta-saṃgaḥ śānta-ātmā saṃyata-akṣaḥ aparigrahaḥ . yadṛcchayā upapannena kalpayan vṛttim ātmanaḥ .. 12 ..
आत्मनि आत्मानमाधाय ज्ञानतृप्तः समाहितः । विचचार महीमेतां जडान्ध-बधिराकृतिः ॥ १३ ॥
आत्मनि आत्मानम् आधाय ज्ञान-तृप्तः समाहितः । विचचार महीम् एताम् जड-अन्ध-बधिर-आकृतिः ॥ १३ ॥
ātmani ātmānam ādhāya jñāna-tṛptaḥ samāhitaḥ . vicacāra mahīm etām jaḍa-andha-badhira-ākṛtiḥ .. 13 ..
एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम् । तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनिः ॥ १४ ॥
एवम् वृत्तः वनम् गत्वा दृष्ट्वा दाव-अग्निम् उत्थितम् । तेन उपयुक्त-करणः ब्रह्म प्राप परम् मुनिः ॥ १४ ॥
evam vṛttaḥ vanam gatvā dṛṣṭvā dāva-agnim utthitam . tena upayukta-karaṇaḥ brahma prāpa param muniḥ .. 14 ..
कविः कनीयान् विषयेषु निःस्पृहो विसृज्य राज्यं सह बन्धुभिर्वनम् । निवेश्य चित्ते पुरुषं स्वरोचिषं विवेश कैशोरवयाः परं गतः ॥ १५ ॥
कविः कनीयान् विषयेषु निःस्पृहः विसृज्य राज्यम् सह बन्धुभिः वनम् । निवेश्य चित्ते पुरुषम् स्व-रोचिषम् विवेश कैशोर-वयाः परम् गतः ॥ १५ ॥
kaviḥ kanīyān viṣayeṣu niḥspṛhaḥ visṛjya rājyam saha bandhubhiḥ vanam . niveśya citte puruṣam sva-rociṣam viveśa kaiśora-vayāḥ param gataḥ .. 15 ..
करूषान् मानवाद् आसन् कारूषाः क्षत्रजातयः । उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सलाः ॥ १६ ॥
करूषात् मानवात् आसन् कारूषाः क्षत्र-जातयः । उत्तरापथ-गोप्तारः ब्रह्मण्याः धर्म-वत्सलाः ॥ १६ ॥
karūṣāt mānavāt āsan kārūṣāḥ kṣatra-jātayaḥ . uttarāpatha-goptāraḥ brahmaṇyāḥ dharma-vatsalāḥ .. 16 ..
धृष्टाद् धार्ष्टमभूत् क्षत्रं ब्रह्मभूयं गतं क्षितौ । नृगस्य वंशः सुमतिः भूतज्योतिः ततो वसुः ॥ १७ ॥
धृष्टात् धार्ष्टम् अभूत् क्षत्रम् ब्रह्म-भूयम् गतम् क्षितौ । नृगस्य वंशः सुमतिः भूतज्योतिः ततस् वसुः ॥ १७ ॥
dhṛṣṭāt dhārṣṭam abhūt kṣatram brahma-bhūyam gatam kṣitau . nṛgasya vaṃśaḥ sumatiḥ bhūtajyotiḥ tatas vasuḥ .. 17 ..
वसोः प्रतीकस्तत्पुत्र ओघवान् ओघवत्पिता । कन्या चौघवती नाम सुदर्शन उवाह ताम् ॥ १८ ॥
वसोः प्रतीकः तद्-पुत्रः ओघवान् ओघवत्-पिता । कन्या च ओघवती नाम सुदर्शनः उवाह ताम् ॥ १८ ॥
vasoḥ pratīkaḥ tad-putraḥ oghavān oghavat-pitā . kanyā ca oghavatī nāma sudarśanaḥ uvāha tām .. 18 ..
चित्रसेनो नरिष्यन्ताद् ऋक्षस्तस्य सुतोऽभवत् । तस्य मीढ्वांस्ततः पूर्ण इन्द्रसेनस्तु तत्सुतः ॥ १९ ॥
चित्रसेनः नरिष्यन्तात् ऋक्षः तस्य सुतः अभवत् । तस्य मीढ्वान् ततस् पूर्णः इन्द्रसेनः तु तद्-सुतः ॥ १९ ॥
citrasenaḥ nariṣyantāt ṛkṣaḥ tasya sutaḥ abhavat . tasya mīḍhvān tatas pūrṇaḥ indrasenaḥ tu tad-sutaḥ .. 19 ..
वीतिहोत्रस्तु इन्द्रसेनात् तस्य सत्यश्रवा अभूत् । उरुश्रवाः सुतस्तस्य देवदत्तस्ततोऽभवत् ॥ २० ॥
वीतिहोत्रः तु इन्द्रसेनात् तस्य सत्यश्रवाः अभूत् । उरुश्रवाः सुतः तस्य देवदत्तः ततस् अभवत् ॥ २० ॥
vītihotraḥ tu indrasenāt tasya satyaśravāḥ abhūt . uruśravāḥ sutaḥ tasya devadattaḥ tatas abhavat .. 20 ..
ततोऽग्निवेश्यो भगवान् अग्निः स्वयं अभूत्सुतः । कानीन इति विख्यातो जातूकर्ण्यो महान् ऋषिः ॥ २१ ॥
ततस् अग्निवेश्यः भगवान् अग्निः स्वयम् अभूत् सुतः । कानीनः इति विख्यातः जातूकर्ण्यः महान् ऋषिः ॥ २१ ॥
tatas agniveśyaḥ bhagavān agniḥ svayam abhūt sutaḥ . kānīnaḥ iti vikhyātaḥ jātūkarṇyaḥ mahān ṛṣiḥ .. 21 ..
ततो ब्रह्मकुलं जातं आग्निवेश्यायनं नृप । नरिष्यन्तान्वयः प्रोक्तो दिष्टवंशमतः शृणु ॥ २२ ॥
ततस् ब्रह्म-कुलम् जातम् आग्निवेश्यायनम् नृप । नरिष्यन्त-अन्वयः प्रोक्तः दिष्ट-वंशम् अतस् शृणु ॥ २२ ॥
tatas brahma-kulam jātam āgniveśyāyanam nṛpa . nariṣyanta-anvayaḥ proktaḥ diṣṭa-vaṃśam atas śṛṇu .. 22 ..
नाभागो दिष्टपुत्रोऽन्यः कर्मणा वैश्यतां गतः । भलन्दनः सुतस्तस्य वत्सप्रीतिः भलन्दनात् ॥ २३ ॥
नाभागः दिष्ट-पुत्रः अन्यः कर्मणा वैश्य-ताम् गतः । भलन्दनः सुतः तस्य वत्सप्रीतिः भलन्दनात् ॥ २३ ॥
nābhāgaḥ diṣṭa-putraḥ anyaḥ karmaṇā vaiśya-tām gataḥ . bhalandanaḥ sutaḥ tasya vatsaprītiḥ bhalandanāt .. 23 ..
वत्सप्रीतेः सुतः प्रांशुः तत्सुतं प्रमतिं विदुः । खनित्रः प्रमतेः तस्मात् चाक्षुषोऽथ विविंशतिः ॥ २४ ॥
वत्सप्रीतेः सुतः प्रांशुः तद्-सुतम् प्रमतिम् विदुः । खनित्रः प्रमतेः तस्मात् चाक्षुषः अथ विविंशतिः ॥ २४ ॥
vatsaprīteḥ sutaḥ prāṃśuḥ tad-sutam pramatim viduḥ . khanitraḥ pramateḥ tasmāt cākṣuṣaḥ atha viviṃśatiḥ .. 24 ..
विविंशतेः सुतो रंभः खनीनेत्रोऽस्य धार्मिकः । करन्धमो महाराज तस्यासीद् आत्मजो नृप ॥ २५ ॥
विविंशतेः सुतः रंभः खनीनेत्रः अस्य धार्मिकः । करन्धमः महा-राज तस्य आसीत् आत्मजः नृप ॥ २५ ॥
viviṃśateḥ sutaḥ raṃbhaḥ khanīnetraḥ asya dhārmikaḥ . karandhamaḥ mahā-rāja tasya āsīt ātmajaḥ nṛpa .. 25 ..
तस्य आवीक्षित् सुतो यस्य मरुत्तः चक्रवर्ति अभूत् । संवर्तोऽयाजयद् यं वै महायोग्यङ्गिरःसुतः ॥ २६ ॥
तस्य आवीक्षित् सुतः यस्य मरुत्तः चक्रवर्ती अभूत् । संवर्तः अयाजयत् यम् वै महा-योगी अङ्गिरः-सुतः ॥ २६ ॥
tasya āvīkṣit sutaḥ yasya maruttaḥ cakravartī abhūt . saṃvartaḥ ayājayat yam vai mahā-yogī aṅgiraḥ-sutaḥ .. 26 ..
मरुत्तस्य यथा यज्ञो न तथान्योऽस्ति कश्चन । सर्वं हिरण्मयं त्वासीत् यत्किञ्चिच्चास्य शोभनम् ॥ २७ ॥
मरुत्तस्य यथा यज्ञः न तथा अन्यः अस्ति कश्चन । सर्वम् हिरण्मयम् तु आसीत् यत् किञ्चिद् च अस्य शोभनम् ॥ २७ ॥
maruttasya yathā yajñaḥ na tathā anyaḥ asti kaścana . sarvam hiraṇmayam tu āsīt yat kiñcid ca asya śobhanam .. 27 ..
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः । मरुतः परिवेष्टारो विश्वेदेवाः सभासदः ॥ २८ ॥
अमाद्यत् इन्द्रः सोमेन दक्षिणाभिः द्विजातयः । मरुतः परिवेष्टारः विश्वेदेवाः सभासदः ॥ २८ ॥
amādyat indraḥ somena dakṣiṇābhiḥ dvijātayaḥ . marutaḥ pariveṣṭāraḥ viśvedevāḥ sabhāsadaḥ .. 28 ..
मरुत्तस्य दमः पुत्रः तस्यासीद् राज्यवर्धनः । सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नरः सुतः ॥ २९ ॥
मरुत्तस्य दमः पुत्रः तस्य आसीत् राज्य-वर्धनः । सुधृतिः तद्-सुतः जज्ञे सौधृतेयः नरः सुतः ॥ २९ ॥
maruttasya damaḥ putraḥ tasya āsīt rājya-vardhanaḥ . sudhṛtiḥ tad-sutaḥ jajñe saudhṛteyaḥ naraḥ sutaḥ .. 29 ..
तत्सुतः केवलः तस्माद् बन्धुमान् वेगवान् ततः । बुधस्तस्याभवद् यस्य तृणबिन्दुर्महीपतिः ॥ ३० ॥
तद्-सुतः केवलः तस्मात् बन्धुमान् वेगवान् ततस् । बुधः तस्य अभवत् यस्य तृणबिन्दुः महीपतिः ॥ ३० ॥
tad-sutaḥ kevalaḥ tasmāt bandhumān vegavān tatas . budhaḥ tasya abhavat yasya tṛṇabinduḥ mahīpatiḥ .. 30 ..
तं भेजेऽलम्बुषा देवी भजनीयगुणालयम् । वराप्सरा यतः पुत्राः कन्या च इडविडाभवत् ॥ ३१ ॥
तम् भेजे अलम्बुषा देवी भजनीय-गुण-आलयम् । वरा अप्सराः यतस् पुत्राः कन्या च इडविडा भवत् ॥ ३१ ॥
tam bheje alambuṣā devī bhajanīya-guṇa-ālayam . varā apsarāḥ yatas putrāḥ kanyā ca iḍaviḍā bhavat .. 31 ..
यस्यां उत्पादयामास विश्रवा धनदं सुतम् । प्रादाय विद्यां परमां ऋषिर्योगेश्वरः पितुः ॥ ३२ ॥
यस्याम् उत्पादयामास विश्रवाः धनदम् सुतम् । प्रादाय विद्याम् परमाम् ऋषिः योग-ईश्वरः पितुः ॥ ३२ ॥
yasyām utpādayāmāsa viśravāḥ dhanadam sutam . prādāya vidyām paramām ṛṣiḥ yoga-īśvaraḥ pituḥ .. 32 ..
विशालः शून्यबन्धुश्च धूम्रकेतुश्च तत्सुताः । विशालो वंशकृद् राजा वैशालीं निर्ममे पुरीम् ॥ ३३ ॥
विशालः शून्यबन्धुः च धूम्रकेतुः च तद्-सुताः । विशालः वंश-कृत् राजा वैशालीम् निर्ममे पुरीम् ॥ ३३ ॥
viśālaḥ śūnyabandhuḥ ca dhūmraketuḥ ca tad-sutāḥ . viśālaḥ vaṃśa-kṛt rājā vaiśālīm nirmame purīm .. 33 ..
हेमचन्द्रः सुतस्तस्य धूम्राक्षः तस्य चात्मजः । तत्पुत्रात् संयमादासीत् कृशाश्वः सहदेवजः ॥ ३४ ॥
हेमचन्द्रः सुतः तस्य धूम्राक्षः तस्य च आत्मजः । तद्-पुत्रात् संयमात् आसीत् कृशाश्वः सहदेव-जः ॥ ३४ ॥
hemacandraḥ sutaḥ tasya dhūmrākṣaḥ tasya ca ātmajaḥ . tad-putrāt saṃyamāt āsīt kṛśāśvaḥ sahadeva-jaḥ .. 34 ..
कृशाश्वात् सोमदत्तोऽभूद् योऽश्वमेधैः इडस्पतिम् । इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रिताम् ॥ ३५ ॥
कृशाश्वात् सोमदत्तः अभूत् यः अश्वमेधैः इडस्पतिम् । इष्ट्वा पुरुषम् आप अग्र्याम् गतिम् योगेश्वर-आश्रिताम् ॥ ३५ ॥
kṛśāśvāt somadattaḥ abhūt yaḥ aśvamedhaiḥ iḍaspatim . iṣṭvā puruṣam āpa agryām gatim yogeśvara-āśritām .. 35 ..
सौमदत्तिस्तु सुमतिः तत्सुतो जनमेजयः । एते वैशालभूपालाः तृणबिन्दोर्यशोधराः ॥ ३६ ॥
सौमदत्तिः तु सुमतिः तद्-सुतः जनमेजयः । एते वैशाल-भूपालाः तृणबिन्दोः यशोधराः ॥ ३६ ॥
saumadattiḥ tu sumatiḥ tad-sutaḥ janamejayaḥ . ete vaiśāla-bhūpālāḥ tṛṇabindoḥ yaśodharāḥ .. 36 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे द्वितीयः अध्यायः ॥ २ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe dvitīyaḥ adhyāyaḥ .. 2 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In