| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
अंशुमांश्च तपस्तेपे गंगानयनकाम्यया । कालं महान्तं नाशक्नोत् ततः कालेन संस्थितः ॥ १ ॥
अंशुमान् च तपः तेपे गंगा-नयन-काम्यया । कालम् महान्तम् न अशक्नोत् ततस् कालेन संस्थितः ॥ १ ॥
aṃśumān ca tapaḥ tepe gaṃgā-nayana-kāmyayā . kālam mahāntam na aśaknot tatas kālena saṃsthitaḥ .. 1 ..
दिलीपस्तत्सुतस्तद्वद् अशक्तः कालमेयिवान् । भगीरथस्तस्य पुत्रः तेपे स सुमहत् तपः ॥ २ ॥
दिलीपः तद्-सुतः तद्वत् अशक्तः कालम् एयिवान् । भगीरथः तस्य पुत्रः तेपे स सु महत् तपः ॥ २ ॥
dilīpaḥ tad-sutaḥ tadvat aśaktaḥ kālam eyivān . bhagīrathaḥ tasya putraḥ tepe sa su mahat tapaḥ .. 2 ..
दर्शयामास तं देवी प्रसन्ना वरदास्मि ते । इत्युक्तः स्वं अभिप्रायं शशंसावनतो नृपः ॥ ३ ॥
दर्शयामास तम् देवी प्रसन्ना वर-दा अस्मि ते । इति उक्तः स्वम् अभिप्रायम् शशंस अवनतः नृपः ॥ ३ ॥
darśayāmāsa tam devī prasannā vara-dā asmi te . iti uktaḥ svam abhiprāyam śaśaṃsa avanataḥ nṛpaḥ .. 3 ..
कोऽपि धारयिता वेगं पतन्त्या मे महीतले । अन्यथा भूतलं भित्त्वा नृप यास्ये रसातलम् ॥ ४ ॥
कः अपि धारयिता वेगम् पतन्त्याः मे मही-तले । अन्यथा भू-तलम् भित्त्वा नृप यास्ये रसातलम् ॥ ४ ॥
kaḥ api dhārayitā vegam patantyāḥ me mahī-tale . anyathā bhū-talam bhittvā nṛpa yāsye rasātalam .. 4 ..
किं चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम् । मृजामि तदघं क्वाहं राजन् तत्र विचिन्त्यताम् ॥ ५ ॥
किम् च अहम् न भुवम् यास्ये नराः मयि आमृजन्ति अघम् । मृजामि तत् अघम् क्व अहम् राजन् तत्र विचिन्त्यताम् ॥ ५ ॥
kim ca aham na bhuvam yāsye narāḥ mayi āmṛjanti agham . mṛjāmi tat agham kva aham rājan tatra vicintyatām .. 5 ..
श्रीभगीरथ उवाच ।
साधवो न्यासिनः शान्ता ब्रह्मिष्ठा लोकपावनाः । हरन्ति अघं ते अंगसंगात् तेष्वास्ते ह्यघभित् हरिः ॥ ६ ॥
साधवः न्यासिनः शान्ताः ब्रह्मिष्ठाः लोक-पावनाः । हरन्ति अघम् ते अंगसंगात् तेषु आस्ते हि अघ-भिद् हरिः ॥ ६ ॥
sādhavaḥ nyāsinaḥ śāntāḥ brahmiṣṭhāḥ loka-pāvanāḥ . haranti agham te aṃgasaṃgāt teṣu āste hi agha-bhid hariḥ .. 6 ..
धारयिष्यति ते वेगं रुद्रस्त्वात्मा शरीरिणाम् । यस्मिन् ओतं इदं प्रोतं विश्वं शाटीव तन्तुषु ॥ ७ ॥
धारयिष्यति ते वेगम् रुद्रः तु आत्मा शरीरिणाम् । यस्मिन् ओतम् इदम् प्रोतम् विश्वम् शाटी इव तन्तुषु ॥ ७ ॥
dhārayiṣyati te vegam rudraḥ tu ātmā śarīriṇām . yasmin otam idam protam viśvam śāṭī iva tantuṣu .. 7 ..
इत्युक्त्वा स नृपो देवं तपसा तोषयच्छिवम् । कालेनाल्पीयसा राजन् तस्येशः समतुष्यत ॥ ८ ॥
इति उक्त्वा स नृपः देवम् तपसा तोषयत् शिवम् । कालेन अल्पीयसा राजन् तस्य ईशः समतुष्यत ॥ ८ ॥
iti uktvā sa nṛpaḥ devam tapasā toṣayat śivam . kālena alpīyasā rājan tasya īśaḥ samatuṣyata .. 8 ..
तथेति राज्ञाभिहितं सर्वलोकहितः शिवः । दधारावहितो गंगां पादपूतजलां हरेः ॥ ९ ॥
तथा इति राज्ञा अभिहितम् सर्व-लोक-हितः शिवः । दधार अवहितः गंगाम् पाद-पूत-जलाम् हरेः ॥ ९ ॥
tathā iti rājñā abhihitam sarva-loka-hitaḥ śivaḥ . dadhāra avahitaḥ gaṃgām pāda-pūta-jalām hareḥ .. 9 ..
भगीरथः स राजर्षिः निन्ये भुवनपावनीम् । यत्र स्वपितॄणां देहा भस्मीभूताः स्म शेरते ॥ १० ॥
भगीरथः स राजर्षिः निन्ये भुवन-पावनीम् । यत्र स्व-पितॄणाम् देहाः भस्मीभूताः स्म शेरते ॥ १० ॥
bhagīrathaḥ sa rājarṣiḥ ninye bhuvana-pāvanīm . yatra sva-pitṝṇām dehāḥ bhasmībhūtāḥ sma śerate .. 10 ..
रथेन वायुवेगेन प्रयान्तं अनुधावती । देशान् पुनन्ती निर्दग्धान् आसिञ्चत् सगरात्मजान् ॥ ११ ॥
रथेन वायु-वेगेन प्रयान्तम् अनुधावती । देशान् पुनन्ती निर्दग्धान् आसिञ्चत् सगर-आत्मजान् ॥ ११ ॥
rathena vāyu-vegena prayāntam anudhāvatī . deśān punantī nirdagdhān āsiñcat sagara-ātmajān .. 11 ..
यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि । सगरात्मजा दिवं जग्मुः केवलं देहभस्मभिः ॥ १२ ॥
यद्-जल-स्पर्श-मात्रेण ब्रह्मदण्ड-हताः अपि । सगर-आत्मजाः दिवम् जग्मुः केवलम् देह-भस्मभिः ॥ १२ ॥
yad-jala-sparśa-mātreṇa brahmadaṇḍa-hatāḥ api . sagara-ātmajāḥ divam jagmuḥ kevalam deha-bhasmabhiḥ .. 12 ..
भस्मीभूतांगसंगेन स्वर्याताः सगरात्मजाः । किं पुनः श्रद्धया देवीं सेवन्ते ये धृतव्रताः ॥ १३ ॥
भस्मीभूत-अंग-संगेन स्वर्याताः सगर-आत्मजाः । किम् पुनर् श्रद्धया देवीम् सेवन्ते ये धृत-व्रताः ॥ १३ ॥
bhasmībhūta-aṃga-saṃgena svaryātāḥ sagara-ātmajāḥ . kim punar śraddhayā devīm sevante ye dhṛta-vratāḥ .. 13 ..
न ह्येतत् परमाश्चर्यं स्वर्धुन्या यदिहोदितम् । अनन्तचरणाम्भोज प्रसूताया भवच्छिदः ॥ १४ ॥
न हि एतत् परम-आश्चर्यम् स्वर्धुन्याः यत् इह उदितम् । अनन्त-चरण-अम्भोज प्रसूतायाः भवत्-छिदः ॥ १४ ॥
na hi etat parama-āścaryam svardhunyāḥ yat iha uditam . ananta-caraṇa-ambhoja prasūtāyāḥ bhavat-chidaḥ .. 14 ..
सन्निवेश्य मनो यस्मिन् श्रद्धया मुनयोऽमलाः । त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम् ॥ १५ ॥
सन् निवेश्य मनः यस्मिन् श्रद्धया मुनयः अमलाः । त्रैगुण्यम् दुस्त्यजम् हित्वा सद्यस् याताः तद्-आत्म-ताम् ॥ १५ ॥
san niveśya manaḥ yasmin śraddhayā munayaḥ amalāḥ . traiguṇyam dustyajam hitvā sadyas yātāḥ tad-ātma-tām .. 15 ..
श्रुतो भगीरथाज्जज्ञे तस्य नाभोऽपरोऽभवत् । सिन्धुद्वीपः ततस्तस्मात् अयुतायुः ततोऽभवत् ॥ १६ ॥
श्रुतः भगीरथात् जज्ञे तस्य नाभः अपरः अभवत् । सिन्धुद्वीपः ततस् तस्मात् अयुतायुः ततस् अभवत् ॥ १६ ॥
śrutaḥ bhagīrathāt jajñe tasya nābhaḥ aparaḥ abhavat . sindhudvīpaḥ tatas tasmāt ayutāyuḥ tatas abhavat .. 16 ..
ऋतूपर्णो नलसखो योऽश्वविद्यामयान्नलात् । दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुतम् ॥ १७ ॥
ऋतूपर्णः नलसखः यः अश्व-विद्या-मयात् नलात् । दत्त्वा अक्ष-हृदयम् च अस्मै सर्व-कामः तु तद्-सुतम् ॥ १७ ॥
ṛtūparṇaḥ nalasakhaḥ yaḥ aśva-vidyā-mayāt nalāt . dattvā akṣa-hṛdayam ca asmai sarva-kāmaḥ tu tad-sutam .. 17 ..
ततः सुदासः तत्पुत्रो मदयन्तीपतिर्नृपः । आहुर्मित्रसहं यं वै कल्माषाङ्घ्रिमुत क्वचित् । वसिष्ठशापाद्रक्षोऽभूत् अनपत्यः स्वकर्मणा ॥ १८ ॥
ततस् सुदासः तद्-पुत्रः मदयन्ती-पतिः नृपः । आहुः मित्रसहम् यम् वै कल्माषाङ्घ्रिम् उत क्वचिद् । वसिष्ठ-शापात् रक्षः अभूत् अनपत्यः स्व-कर्मणा ॥ १८ ॥
tatas sudāsaḥ tad-putraḥ madayantī-patiḥ nṛpaḥ . āhuḥ mitrasaham yam vai kalmāṣāṅghrim uta kvacid . vasiṣṭha-śāpāt rakṣaḥ abhūt anapatyaḥ sva-karmaṇā .. 18 ..
श्रीराजोवाच ।
किं निमित्तो गुरोः शापः सौदासस्य महात्मनः । एतद् वेदितुमिच्छामः कथ्यतां न रहो यदि ॥ १९ ॥
किम् निमित्तः गुरोः शापः सौदासस्य महात्मनः । एतत् वेदितुम् इच्छामः कथ्यताम् न रहः यदि ॥ १९ ॥
kim nimittaḥ guroḥ śāpaḥ saudāsasya mahātmanaḥ . etat veditum icchāmaḥ kathyatām na rahaḥ yadi .. 19 ..
श्रीशुक उवाच ।
सौदासो मृगयां किञ्चित् चरन् रक्षो जघान ह । मुमोच भ्रातरं सोऽथ गतः प्रतिचिकीर्षया ॥ २० ॥
सौदासः मृगयाम् किञ्चिद् चरन् रक्षः जघान ह । मुमोच भ्रातरम् सः अथ गतः प्रतिचिकीर्षया ॥ २० ॥
saudāsaḥ mṛgayām kiñcid caran rakṣaḥ jaghāna ha . mumoca bhrātaram saḥ atha gataḥ praticikīrṣayā .. 20 ..
सञ्चिन्तयन् अघं राज्ञः सूदरूपधरो गृहे । गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम् ॥ २१ ॥
सञ्चिन्तयन् अघम् राज्ञः सूद-रूप-धरः गृहे । गुरवे भोक्तु-कामाय पक्त्वा निन्ये नर-आमिषम् ॥ २१ ॥
sañcintayan agham rājñaḥ sūda-rūpa-dharaḥ gṛhe . gurave bhoktu-kāmāya paktvā ninye nara-āmiṣam .. 21 ..
परिवेक्ष्यमाणं भगवान् विलोक्य अभक्ष्यमञ्जसा । राजानं अशपत् क्रुद्धो रक्षो ह्येवं भविष्यसि ॥ २२ ॥
परिवेक्ष्यमाणम् भगवान् विलोक्य अभक्ष्यम् अञ्जसा । राजानम् अशपत् क्रुद्धः रक्षः हि एवम् भविष्यसि ॥ २२ ॥
parivekṣyamāṇam bhagavān vilokya abhakṣyam añjasā . rājānam aśapat kruddhaḥ rakṣaḥ hi evam bhaviṣyasi .. 22 ..
रक्षःकृतं तद्विदित्वा चक्रे द्वादशवार्षिकम् । सोऽपि अपोऽञ्जलिनादाय गुरुं शप्तुं समुद्यतः ॥ २३ ॥
रक्षः-कृतम् तत् विदित्वा चक्रे द्वादश-वार्षिकम् । सः अपि अपः अञ्जलिना आदाय गुरुम् शप्तुम् समुद्यतः ॥ २३ ॥
rakṣaḥ-kṛtam tat viditvā cakre dvādaśa-vārṣikam . saḥ api apaḥ añjalinā ādāya gurum śaptum samudyataḥ .. 23 ..
वारितो मदयन्त्यापो रुशतीः पादयोर्जहौ । दिशः खमवनीं सर्वं पश्यन् जीवमयं नृपः ॥ २४ ॥
वारितः मदयन्तीः आपः रुशतीः पादयोः जहौ । दिशः खम् अवनीम् सर्वम् पश्यन् जीव-मयम् नृपः ॥ २४ ॥
vāritaḥ madayantīḥ āpaḥ ruśatīḥ pādayoḥ jahau . diśaḥ kham avanīm sarvam paśyan jīva-mayam nṛpaḥ .. 24 ..
राक्षसं भावमापन्नः पादे कल्माषतां गतः । व्यवायकाले ददृशे वनौकोदम्पती द्विजौ ॥ २५ ॥
राक्षसम् भावम् आपन्नः पादे कल्माष-ताम् गतः । व्यवाय-काले ददृशे वनौकः-दम्पती द्विजौ ॥ २५ ॥
rākṣasam bhāvam āpannaḥ pāde kalmāṣa-tām gataḥ . vyavāya-kāle dadṛśe vanaukaḥ-dampatī dvijau .. 25 ..
क्षुधार्तो जगृहे विप्रं तत्पत्न्याहाकृतार्थवत् । न भवान् राक्षसः साक्षात् इक्ष्वाकूणां महारथः ॥ २६ ॥
क्षुधा-आर्तः जगृहे विप्रम् तद्-पत्नी आह अकृतार्थ-वत् । न भवान् राक्षसः साक्षात् इक्ष्वाकूणाम् महा-रथः ॥ २६ ॥
kṣudhā-ārtaḥ jagṛhe vipram tad-patnī āha akṛtārtha-vat . na bhavān rākṣasaḥ sākṣāt ikṣvākūṇām mahā-rathaḥ .. 26 ..
मदयन्त्याः पतिर्वीर नाधर्मं कर्तुमर्हसि । देहि मेऽपत्यकामाया अकृतार्थं पतिं द्विजम् ॥ २७ ॥
मदयन्त्याः पतिः वीर न अधर्मम् कर्तुम् अर्हसि । देहि मे अपत्य-कामायै अकृतार्थम् पतिम् द्विजम् ॥ २७ ॥
madayantyāḥ patiḥ vīra na adharmam kartum arhasi . dehi me apatya-kāmāyai akṛtārtham patim dvijam .. 27 ..
देहोऽयं मानुषो राजन् पुरुषस्याखिलार्थदः । तस्मादस्य वधो वीर सर्वार्थवध उच्यते ॥ २८ ॥
देहः अयम् मानुषः राजन् पुरुषस्य अखिल-अर्थ-दः । तस्मात् अस्य वधः वीर सर्व-अर्थ-वधः उच्यते ॥ २८ ॥
dehaḥ ayam mānuṣaḥ rājan puruṣasya akhila-artha-daḥ . tasmāt asya vadhaḥ vīra sarva-artha-vadhaḥ ucyate .. 28 ..
एष हि ब्राह्मणो विद्वान् तपःशीलगुणान्वितः । आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् । सर्वभूतात्मभावेन भूतेष्वन्तर्हितं गुणैः ॥ २९ ॥
एष हि ब्राह्मणः विद्वान् तपः-शील-गुण-अन्वितः । आरिराधयिषुः ब्रह्म महापुरुष-संज्ञितम् । सर्व-भूत-आत्म-भावेन भूतेषु अन्तर्हितम् गुणैः ॥ २९ ॥
eṣa hi brāhmaṇaḥ vidvān tapaḥ-śīla-guṇa-anvitaḥ . ārirādhayiṣuḥ brahma mahāpuruṣa-saṃjñitam . sarva-bhūta-ātma-bhāvena bhūteṣu antarhitam guṇaiḥ .. 29 ..
सोऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद् विभो । कथमर्हति धर्मज्ञ वधं पितुरिवात्मजः ॥ ३० ॥
सः अयम् ब्रह्मर्षि-वर्यः ते राजर्षि-प्रवरात् विभो । कथम् अर्हति धर्म-ज्ञ वधम् पितुः इव आत्मजः ॥ ३० ॥
saḥ ayam brahmarṣi-varyaḥ te rājarṣi-pravarāt vibho . katham arhati dharma-jña vadham pituḥ iva ātmajaḥ .. 30 ..
तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः । कथं वधं यथा बभ्रोः मन्यते सन्मतो भवान् ॥ ३१ ॥
तस्य साधोः अपापस्य भ्रूणस्य ब्रह्म-वादिनः । कथम् वधम् यथा बभ्रोः मन्यते सत्-मतः भवान् ॥ ३१ ॥
tasya sādhoḥ apāpasya bhrūṇasya brahma-vādinaḥ . katham vadham yathā babhroḥ manyate sat-mataḥ bhavān .. 31 ..
यइ अयं क्रियते भक्षः तर्हि मां खाद पूर्वतः । न जीविष्ये विना येन क्षणं च मृतकं यथा ॥ ३२ ॥
यै अयम् क्रियते भक्षः तर्हि माम् खाद पूर्वतस् । न जीविष्ये विना येन क्षणम् च मृतकम् यथा ॥ ३२ ॥
yai ayam kriyate bhakṣaḥ tarhi mām khāda pūrvatas . na jīviṣye vinā yena kṣaṇam ca mṛtakam yathā .. 32 ..
एवं करुणभाषिण्या विलपन्त्या अनाथवत् । व्याघ्रः पशुमिवाखादत् सौदासः शापमोहितः ॥ ३३ ॥
एवम् करुण-भाषिण्या विलपन्त्या अनाथ-वत् । व्याघ्रः पशुम् इव अखादत् सौदासः शाप-मोहितः ॥ ३३ ॥
evam karuṇa-bhāṣiṇyā vilapantyā anātha-vat . vyāghraḥ paśum iva akhādat saudāsaḥ śāpa-mohitaḥ .. 33 ..
ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् । शोचन्ति आत्मानमुर्वीशं अशपत् कुपिता सती ॥ ३४ ॥
ब्राह्मणी वीक्ष्य दिधिषुम् पुरुषादेन भक्षितम् । शोचन्ति आत्मानम् उर्वी-ईशम् अशपत् कुपिता सती ॥ ३४ ॥
brāhmaṇī vīkṣya didhiṣum puruṣādena bhakṣitam . śocanti ātmānam urvī-īśam aśapat kupitā satī .. 34 ..
यस्मान्मे भक्षितः पाप कामार्तायाः पतिस्त्वया । तवापि मृत्युः आधानाद् अकृतप्रज्ञ दर्शितः ॥ ३५ ॥
यस्मात् मे भक्षितः पाप काम-आर्तायाः पतिः त्वया । तव अपि मृत्युः आधानात् अकृत-प्रज्ञ दर्शितः ॥ ३५ ॥
yasmāt me bhakṣitaḥ pāpa kāma-ārtāyāḥ patiḥ tvayā . tava api mṛtyuḥ ādhānāt akṛta-prajña darśitaḥ .. 35 ..
एवं मित्रसहं शप्त्वा पतिलोकपरायणा । तदस्थीनि समिद्धेऽग्नौ प्रास्य भर्तुर्गतिं गता ॥ ३६ ॥
एवम् मित्रसहम् शप्त्वा पति-लोक-परायणा । तद्-अस्थीनि समिद्धे अग्नौ प्रास्य भर्तुः गतिम् गता ॥ ३६ ॥
evam mitrasaham śaptvā pati-loka-parāyaṇā . tad-asthīni samiddhe agnau prāsya bhartuḥ gatim gatā .. 36 ..
विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः । विज्ञाय ब्राह्मणीशापं महिष्या स निवारितः ॥ ३७ ॥
विशापः द्वादश-अब्द-अन्ते मैथुनाय समुद्यतः । विज्ञाय ब्राह्मणी-शापम् महिष्या स निवारितः ॥ ३७ ॥
viśāpaḥ dvādaśa-abda-ante maithunāya samudyataḥ . vijñāya brāhmaṇī-śāpam mahiṣyā sa nivāritaḥ .. 37 ..
अत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाप्रजाः । वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात् ॥ ३८ ॥
अतस् ऊर्ध्वम् स तत्याज स्त्री-सुखम् कर्मणा अप्रजाः । वसिष्ठः तद्-अनुज्ञातः मदयन्त्याम् प्रजाम् अधात् ॥ ३८ ॥
atas ūrdhvam sa tatyāja strī-sukham karmaṇā aprajāḥ . vasiṣṭhaḥ tad-anujñātaḥ madayantyām prajām adhāt .. 38 ..
सा वै सप्त समा गर्भं अबिभ्रन्न व्यजायत । जघ्नेऽश्मनोदरं तस्याः सोऽश्मकस्तेन कथ्यते ॥ ३९ ॥
सा वै सप्त समाः गर्भम् अबिभ्रत् न व्यजायत । जघ्ने अश्मना उदरम् तस्याः सः अश्मकः तेन कथ्यते ॥ ३९ ॥
sā vai sapta samāḥ garbham abibhrat na vyajāyata . jaghne aśmanā udaram tasyāḥ saḥ aśmakaḥ tena kathyate .. 39 ..
अश्मकान् मूलको जज्ञे यः स्त्रीभिः परिरक्षितः । नारीकवच इत्युक्तो निःक्षत्रे मूलकोऽभवत् ॥ ४० ॥
अश्मकात् मूलकः जज्ञे यः स्त्रीभिः परिरक्षितः । नारीकवचः इति उक्तः निःक्षत्रे मूलकः अभवत् ॥ ४० ॥
aśmakāt mūlakaḥ jajñe yaḥ strībhiḥ parirakṣitaḥ . nārīkavacaḥ iti uktaḥ niḥkṣatre mūlakaḥ abhavat .. 40 ..
ततो दशरथस्तस्मात् पुत्र ऐडविडिस्ततः । राजा विश्वसहो यस्य खट्वांगश्चक्रवर्त्यभूत् ॥ ४१ ॥
ततस् दशरथः तस्मात् पुत्रः ऐडविडिः ततस् । राजा विश्वसहः यस्य खट्वांगः चक्रवर्ती अभूत् ॥ ४१ ॥
tatas daśarathaḥ tasmāt putraḥ aiḍaviḍiḥ tatas . rājā viśvasahaḥ yasya khaṭvāṃgaḥ cakravartī abhūt .. 41 ..
यो देवैरर्थितो दैत्यान् अवधीद् युधि दुर्जयः । मुहूर्तं आयुः ज्ञात्वैत्य स्वपुरं सन्दधे मनः ॥ ४२ ॥
यः देवैः अर्थितः दैत्यान् अवधीत् युधि दुर्जयः । मुहूर्तम् आयुः ज्ञात्वा एत्य स्व-पुरम् सन्दधे मनः ॥ ४२ ॥
yaḥ devaiḥ arthitaḥ daityān avadhīt yudhi durjayaḥ . muhūrtam āyuḥ jñātvā etya sva-puram sandadhe manaḥ .. 42 ..
न मे ब्रह्मकुलात् प्राणाः कुलदैवान्न चात्मजाः । न श्रियो न मही राज्यं न दाराश्चातिवल्लभाः ॥ ४३ ॥
न मे ब्रह्म-कुलात् प्राणाः कुल-दैवात् न च आत्मजाः । न श्रियः न मही राज्यम् न दाराः च अति वल्लभाः ॥ ४३ ॥
na me brahma-kulāt prāṇāḥ kula-daivāt na ca ātmajāḥ . na śriyaḥ na mahī rājyam na dārāḥ ca ati vallabhāḥ .. 43 ..
न बाल्येऽपि मतिर्मह्यं अधर्मे रमते क्वचित् । नापश्यं उत्तमश्लोकात् अन्यत् किञ्चन वस्त्वहम् ॥ ४४ ॥
न बाल्ये अपि मतिः मह्यम् अधर्मे रमते क्वचिद् । न अपश्यम् उत्तमश्लोकात् अन्यत् किञ्चन वस्तु अहम् ॥ ४४ ॥
na bālye api matiḥ mahyam adharme ramate kvacid . na apaśyam uttamaślokāt anyat kiñcana vastu aham .. 44 ..
देवैः कामवरो दत्तो मह्यं त्रिभुवनेश्वरैः । न वृणे तमहं कामं भूतभावनभावनः ॥ ४५ ॥
देवैः काम-वरः दत्तः मह्यम् त्रिभुवन-ईश्वरैः । न वृणे तम् अहम् कामम् भूत-भावन-भावनः ॥ ४५ ॥
devaiḥ kāma-varaḥ dattaḥ mahyam tribhuvana-īśvaraiḥ . na vṛṇe tam aham kāmam bhūta-bhāvana-bhāvanaḥ .. 45 ..
ये विक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितम् । न विन्दन्ति प्रियं शश्वद् आत्मानं किमुतापरे ॥ ४६ ॥
ये विक्षिप्त-इन्द्रिय-धियः देवाः ते स्व-हृदि स्थितम् । न विन्दन्ति प्रियम् शश्वत् आत्मानम् किम् उत अपरे ॥ ४६ ॥
ye vikṣipta-indriya-dhiyaḥ devāḥ te sva-hṛdi sthitam . na vindanti priyam śaśvat ātmānam kim uta apare .. 46 ..
अथेशमायारचितेषु संगं गुणेषु गन्धर्वपुरोपमेषु । रूढं प्रकृत्यात्मनि विश्वकर्तुः भावेन हित्वा तमहं प्रपद्ये ॥ ४७ ॥
अथ ईश-माया-रचितेषु संगम् गुणेषु गन्धर्व-पुर-उपमेषु । रूढम् प्रकृत्या आत्मनि विश्वकर्तुः भावेन हित्वा तम् अहम् प्रपद्ये ॥ ४७ ॥
atha īśa-māyā-raciteṣu saṃgam guṇeṣu gandharva-pura-upameṣu . rūḍham prakṛtyā ātmani viśvakartuḥ bhāvena hitvā tam aham prapadye .. 47 ..
इति व्यवसितो बुद्ध्या नारायणगृहीतया । हित्वान्यभावमज्ञानं ततः स्वं भावमास्थितः ॥ ४८ ॥
इति व्यवसितः बुद्ध्या नारायण-गृहीतया । हित्वा अन्य-भावम् अज्ञानम् ततस् स्वम् भावम् आस्थितः ॥ ४८ ॥
iti vyavasitaḥ buddhyā nārāyaṇa-gṛhītayā . hitvā anya-bhāvam ajñānam tatas svam bhāvam āsthitaḥ .. 48 ..
यत्तद्ब्रह्म परं सूक्ष्मं अशून्यं शून्यकल्पितम् । भगवान् वासुदेवेति यं गृणन्ति हि सात्वताः ॥ ४९ ॥
यत् तत् ब्रह्म परम् सूक्ष्मम् अ शून्यम् शून्य-कल्पितम् । भगवान् वासुदेव इति यम् गृणन्ति हि सात्वताः ॥ ४९ ॥
yat tat brahma param sūkṣmam a śūnyam śūnya-kalpitam . bhagavān vāsudeva iti yam gṛṇanti hi sātvatāḥ .. 49 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे नवमोऽध्यायः ॥ ९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे नवमः अध्यायः ॥ ९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe navamaḥ adhyāyaḥ .. 9 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In