| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

राजोवाच।
स एष देहात्ममानिनां सत्त्वादिगुणविशेषविकल्पित-कुशलाकुशल-समवहारविनिर्मित-विविधदेहावलिभिर्वियोगसंयोगाद्यनादिसंसारानुभवस्य द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन्दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरः स्वदेहनिष्पादितकर्मानुभवः श्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेह-स्तत्तापोपशमनीं हरिगुरुचरणारविन्दमधुकरानुपदवीमवरुन्धे १
सः एष देह-आत्म-मानिनाम् सत्त्व-आदि-गुण-विशेष-विकल्पित-कुशल-अकुशल-समवहार-विनिर्मित-विविध-देह-आवलिभिः वियोग-संयोग-आदि-अनादि-संसार-अनुभवस्य द्वार-भूतेन षष्-इन्द्रिय-वर्गेण तस्मिन् दुर्ग-अध्व-वत् असुगमे अध्वनि आपतिते ईश्वरस्य भगवतः विष्णोः वश-वर्तिन्या मायया जीव-लोकः अयम् यथा वणिज्-सार्थः अर्थ-परः स्व-देह-निष्पादित-कर्म-अनुभवः श्मशान-वत् अशिवतमायाम् संसार-अटव्याम् गतः न अद्य अपि विफल-बहु-प्रतियोग-ईहः तद्-ताप-उपशमनीम् हरि-गुरु-चरण-अरविन्द-मधुकर-अनु पदवीम् अवरुन्धे
saḥ eṣa deha-ātma-māninām sattva-ādi-guṇa-viśeṣa-vikalpita-kuśala-akuśala-samavahāra-vinirmita-vividha-deha-āvalibhiḥ viyoga-saṃyoga-ādi-anādi-saṃsāra-anubhavasya dvāra-bhūtena ṣaṣ-indriya-vargeṇa tasmin durga-adhva-vat asugame adhvani āpatite īśvarasya bhagavataḥ viṣṇoḥ vaśa-vartinyā māyayā jīva-lokaḥ ayam yathā vaṇij-sārthaḥ artha-paraḥ sva-deha-niṣpādita-karma-anubhavaḥ śmaśāna-vat aśivatamāyām saṃsāra-aṭavyām gataḥ na adya api viphala-bahu-pratiyoga-īhaḥ tad-tāpa-upaśamanīm hari-guru-caraṇa-aravinda-madhukara-anu padavīm avarundhe
यस्यामु ह वा एते षडिन्द्रियनामानः कर्मणा दस्यव एव ते तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपयिकं बहुकृच्छ्राधिगतं साक्षात्परम-पुरुषाराधनलक्षणो योऽसौ धर्मस्तं तु साम्पराय उदाहरन्ति तद्धर्म्यं धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसायगृहग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्पन्ति २
यस्याम् उ ह वै एते षष्-इन्द्रिय-नामानः कर्मणा दस्यवः एव ते तत् यथा पुरुषस्य धनम् यत् किञ्चिद् धर्म-औपयिकम् बहु-कृच्छ्र-अधिगतम् साक्षात् परम-पुरुष-आराधन-लक्षणः यः धर्मः तम् तु साम्पराये उदाहरन्ति तत् धर्म्यम् धनम् दर्शन-स्पर्शन-श्रवण-आस्वादन-अवघ्राण-सङ्कल्प-व्यवसाय-गृह-ग्राम्य-उपभोगेन कु नाथस्य अजित-आत्मनः यथा सार्थस्य विलुम्पन्ति
yasyām u ha vai ete ṣaṣ-indriya-nāmānaḥ karmaṇā dasyavaḥ eva te tat yathā puruṣasya dhanam yat kiñcid dharma-aupayikam bahu-kṛcchra-adhigatam sākṣāt parama-puruṣa-ārādhana-lakṣaṇaḥ yaḥ dharmaḥ tam tu sāmparāye udāharanti tat dharmyam dhanam darśana-sparśana-śravaṇa-āsvādana-avaghrāṇa-saṅkalpa-vyavasāya-gṛha-grāmya-upabhogena ku nāthasya ajita-ātmanaḥ yathā sārthasya vilumpanti
स होवाच
अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि कदर्यस्य कुटुम्बिन उरणकवत्संरक्ष्यमाणं मिषतोऽपि हरन्ति ३
अथ च यत्र कौटुम्बिकाः दार-अपत्य-आदयः नाम्ना कर्मणा वृक-सृगालाः एव अन् इच्छतः अपि कदर्यस्य कुटुम्बिनः उरणक-वत् संरक्ष्यमाणम् मिषतः अपि हरन्ति
atha ca yatra kauṭumbikāḥ dāra-apatya-ādayaḥ nāmnā karmaṇā vṛka-sṛgālāḥ eva an icchataḥ api kadaryasya kuṭumbinaḥ uraṇaka-vat saṃrakṣyamāṇam miṣataḥ api haranti
यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भिर्गह्वरमिव भवत्येवमेव गृहाश्रमः कर्मक्षेत्रं यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथः ४
यथा हि अनुवत्सरम् कृष्यमाणम् अपि अदग्ध-बीजम् क्षेत्रम् पुनर् एव आवपन-काले गुल्म-तृण-वीरुद्भिः गह्वरम् इव भवति एवम् एव गृहाश्रमः कर्म-क्षेत्रम् यस्मिन् न हि कर्माणि उत्सीदन्ति यत् अयम् काम-करण्डः एषः आवसथः
yathā hi anuvatsaram kṛṣyamāṇam api adagdha-bījam kṣetram punar eva āvapana-kāle gulma-tṛṇa-vīrudbhiḥ gahvaram iva bhavati evam eva gṛhāśramaḥ karma-kṣetram yasmin na hi karmāṇi utsīdanti yat ayam kāma-karaṇḍaḥ eṣaḥ āvasathaḥ
तत्र गतो दंशमशकसमापसदैर्मनुजैः शलभ शकुन्त तस्कर मूषकादिभिरुपरुध्यमानबहिः प्राणः क्वचित्परिवर्तमानोऽस्मिन्नध्वन्यविद्या कामकर्मभिरुपरक्तमनसानुपपन्नार्थं नरलोकं गन्धर्वनगरमुपपन्नमिति मिथ्यादृष्टिरनुपश्यति ५
तत्र गतः दंश-मशक-सम-अपसदैः मनुजैः शलभ-शकुन्त-तस्कर-मूषक-आदिभिः उपरुध्यमान-बहिस् प्राणः क्वचिद् परिवर्तमानः अस्मिन् अध्वन्य-विद्या काम-कर्मभिः उपरक्त-मनसा अनुपपन्न-अर्थम् नर-लोकम् गन्धर्वनगरम् उपपन्नम् इति मिथ्या दृष्टिः अनुपश्यति
tatra gataḥ daṃśa-maśaka-sama-apasadaiḥ manujaiḥ śalabha-śakunta-taskara-mūṣaka-ādibhiḥ uparudhyamāna-bahis prāṇaḥ kvacid parivartamānaḥ asmin adhvanya-vidyā kāma-karmabhiḥ uparakta-manasā anupapanna-artham nara-lokam gandharvanagaram upapannam iti mithyā dṛṣṭiḥ anupaśyati
तत्र च क्वचिदातपोदकनिभान्विषयानुपधावति पानभोजनव्यवायादिव्यसनलोलुपः ६
तत्र च क्वचिद् आतप-उदक-निभान् विषयान् उपधावति पान-भोजन-व्यवाय-आदि-व्यसन-लोलुपः
tatra ca kvacid ātapa-udaka-nibhān viṣayān upadhāvati pāna-bhojana-vyavāya-ādi-vyasana-lolupaḥ
क्वचिच्चाशेषदोषनिषदनं पुरीषविशेषं तद्वर्णगुणनिर्मितमतिः । सुवर्णमुपादित्सत्यग्निकामकातर इवोल्मुकपिशाचम् ७
क्वचिद् च अशेष-दोष-निषदनम् पुरीष-विशेषम् तद्-वर्ण-गुण-निर्मित-मतिः । सुवर्णम् उपादित्सति अग्नि-काम-कातरः इव उल्मुक-पिशाचम्
kvacid ca aśeṣa-doṣa-niṣadanam purīṣa-viśeṣam tad-varṇa-guṇa-nirmita-matiḥ . suvarṇam upāditsati agni-kāma-kātaraḥ iva ulmuka-piśācam
अथ कदाचिन्निवासपानीयद्रविणाद्यनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्ततः परिधावति ८
अथ कदाचिद् निवास-पानीय-द्रविण-आदि-अनेक-आत्म-उपजीवन-अभिनिवेशः एतस्याम् संसार-अटव्याम् इतस्ततस् परिधावति
atha kadācid nivāsa-pānīya-draviṇa-ādi-aneka-ātma-upajīvana-abhiniveśaḥ etasyām saṃsāra-aṭavyām itastatas paridhāvati
क्वचिच्च वात्यौपम्यया प्रमदयारोहमारोपितस्तत्कालरजसा रजनीभूत इवासाधुमर्यादो रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न विजानाति ९
क्वचिद् च वा अति औपम्यया प्रमदया आरोहम् आरोपितः तद्-काल-रजसा रजनीभूतः इव अ साधु-मर्यादः रजस्वल-अक्षः अपि दिग्देवताः अति रजस्वल-मतिः न विजानाति
kvacid ca vā ati aupamyayā pramadayā āroham āropitaḥ tad-kāla-rajasā rajanībhūtaḥ iva a sādhu-maryādaḥ rajasvala-akṣaḥ api digdevatāḥ ati rajasvala-matiḥ na vijānāti
क्वचित्सकृदवगतविषयवैतथ्यः स्वयं पराभिध्यानेन विभ्रंशित-स्मृतिस्तयैव मरीचितोयप्रायांस्तानेवाभिधावति १०
क्वचिद् सकृत् अवगत-विषय-वैतथ्यः स्वयम् पर-अभिध्यानेन विभ्रंशित-स्मृतिः तया एव मरीचि-तोय-प्रायान् तान् एव अभिधावति
kvacid sakṛt avagata-viṣaya-vaitathyaḥ svayam para-abhidhyānena vibhraṃśita-smṛtiḥ tayā eva marīci-toya-prāyān tān eva abhidhāvati
क्वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्त्सितेनातिव्यथितकर्णमूलहृदयः ११
क्वचिद् उलूक-झिल्ली-स्वन-वत् अति परुष-रभस-आटोपम् प्रत्यक्षम् परोक्षम् वा रिपु-राज-कुल-निर्भर्त्सितेन अति व्यथित-कर्ण-मूल-हृदयः
kvacid ulūka-jhillī-svana-vat ati paruṣa-rabhasa-āṭopam pratyakṣam parokṣam vā ripu-rāja-kula-nirbhartsitena ati vyathita-karṇa-mūla-hṛdayaḥ
स यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डाद्यपुण्यद्रुमलता-विषोदपानवदुभयार्थशून्यद्रविणान्जीवन्मृतान्स्वयं जीवन्म्रियमाण उपधावति १२
स यदा दुग्ध-पूर्व-सुकृतः तदा कारस्कर-काकतुण्ड-आद्य-पुण्य-द्रुम-लता-विष-उदपान-वत् उभय-अर्थ-शून्य-द्रविणान् जीवत्-मृतान् स्वयम् जीवत्-म्रियमाणः उपधावति
sa yadā dugdha-pūrva-sukṛtaḥ tadā kāraskara-kākatuṇḍa-ādya-puṇya-druma-latā-viṣa-udapāna-vat ubhaya-artha-śūnya-draviṇān jīvat-mṛtān svayam jīvat-mriyamāṇaḥ upadhāvati
एकदा सत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोतः स्खलनवदुभयतोऽपि दुःखदं । पाखण्डमभियाति १३
एकदा सत्-प्रसङ्गात् निकृत-मतिः व्युदक-स्रोतः स्खलन-वत् उभयतस् अपि दुःख-दम् । पाखण्डम् अभियाति
ekadā sat-prasaṅgāt nikṛta-matiḥ vyudaka-srotaḥ skhalana-vat ubhayatas api duḥkha-dam . pākhaṇḍam abhiyāti
यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि पितृपुत्रबर्हिष्मतः पितृपुत्रान्वा स खलु भक्षयति १४
यदा तु पर-बाधया अन्धः आत्मने न उपनमति तदा हि पितृ-पुत्र-बर्हिष्मतः पितृ-पुत्रान् वा स खलु भक्षयति
yadā tu para-bādhayā andhaḥ ātmane na upanamati tadā hi pitṛ-putra-barhiṣmataḥ pitṛ-putrān vā sa khalu bhakṣayati
क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुरमसुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति १५
क्वचिद् आसाद्य गृहम् दाव-वत् प्रिय-अर्थ-विधुरम् असुख-उदर्कम् शोक-अग्निना दह्यमानः भृशम् निर्वेदम् उपगच्छति
kvacid āsādya gṛham dāva-vat priya-artha-vidhuram asukha-udarkam śoka-agninā dahyamānaḥ bhṛśam nirvedam upagacchati
क्वचित्कालविषमितराजकुलरक्षसापहृतप्रियतमधनासुः प्रमृतक इव विगतजीवलक्षण आस्ते १६
क्वचिद् काल-विषमित-राज-कुल-रक्षसा अपहृत-प्रियतम-धन-असुः प्रमृतकः इव विगत-जीव-लक्षणः आस्ते
kvacid kāla-viṣamita-rāja-kula-rakṣasā apahṛta-priyatama-dhana-asuḥ pramṛtakaḥ iva vigata-jīva-lakṣaṇaḥ āste
कदाचिन्मनोरथोपगतपितृपितामहाद्यसत्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति १७
कदाचिद् मनोरथ-उपगत-पितृ-पितामह-आदि-असत्-सत् इति स्वप्न-निर्वृति-लक्षणम् अनुभवति
kadācid manoratha-upagata-pitṛ-pitāmaha-ādi-asat-sat iti svapna-nirvṛti-lakṣaṇam anubhavati
क्वचिद्गृहाश्रमकर्मचोदनातिभरगिरिमारुरुक्षमाणो लोकव्यसनकर्षितमनाः कण्टकशर्कराक्षेत्रं प्रविशन्निव सीदति १८
क्वचिद् गृह-आश्रम-कर्म-चोदन-अति भर-गिरिम् आरुरुक्षमाणः लोक-व्यसन-कर्षित-मनाः कण्टक-शर्करा-क्षेत्रम् प्रविशन् इव सीदति
kvacid gṛha-āśrama-karma-codana-ati bhara-girim ārurukṣamāṇaḥ loka-vyasana-karṣita-manāḥ kaṇṭaka-śarkarā-kṣetram praviśan iva sīdati
क्वचिच्च दुःसहेन कायाभ्यन्तरवह्निना गृहीतसारः स्वकुटुम्बाय क्रुध्यति १९
क्वचिद् च दुःसहेन काय-अभ्यन्तर-वह्निना गृहीत-सारः स्व-कुटुम्बाय क्रुध्यति
kvacid ca duḥsahena kāya-abhyantara-vahninā gṛhīta-sāraḥ sva-kuṭumbāya krudhyati
स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्नः शून्यारण्य इव शेते नान्यत्किञ्चन वेद शव इवापविद्धः २०
सः एव पुनर् निद्रा-जगर-गृहीतः अन्धे तमसि मग्नः शून्य-अरण्ये इव शेते न अन्यत् किञ्चन वेद शवः इव अपविद्धः
saḥ eva punar nidrā-jagara-gṛhītaḥ andhe tamasi magnaḥ śūnya-araṇye iva śete na anyat kiñcana veda śavaḥ iva apaviddhaḥ
कदाचिद्भग्नमानदंष्ट्रो दुर्जनदन्दशूकैरलब्धनिद्रा क्षणो व्यथित । हृदयेनानुक्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति २१
कदाचिद् भग्न-मान-दंष्ट्रः दुर्जन-दन्दशूकैः अलब्ध-निद्रा क्षणः व्यथित । हृदयेन अनुक्षीयमाण-विज्ञानः अन्धकूपे अन्ध-वत् पतति
kadācid bhagna-māna-daṃṣṭraḥ durjana-dandaśūkaiḥ alabdha-nidrā kṣaṇaḥ vyathita . hṛdayena anukṣīyamāṇa-vijñānaḥ andhakūpe andha-vat patati
कर्हि स्म चित्काममधुलवान्विचिन्वन्यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा निहतः पतत्यपारे निरये २२
कर्हि स्म चित् काम-मधु-लवान् विचिन्वन् यदा पर-दार-पर-द्रव्याणि अवरुन्धानः राज्ञा स्वामिभिः वा निहतः पतति अपारे निरये
karhi sma cit kāma-madhu-lavān vicinvan yadā para-dāra-para-dravyāṇi avarundhānaḥ rājñā svāmibhiḥ vā nihataḥ patati apāre niraye
अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मनः संसारावपनमुदाहरन्ति २३
अथ च तस्मात् उभयथा अपि हि कर्म अस्मिन् आत्मनः संसार-आवपनम् उदाहरन्ति
atha ca tasmāt ubhayathā api hi karma asmin ātmanaḥ saṃsāra-āvapanam udāharanti
मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति तस्मादपि विष्णुमित्र इत्यनवस्थितिः २४
मुक्तः ततस् यदि बन्धात् देवदत्तः उपाच्छिनत्ति तस्मात् अपि विष्णुमित्रः इति अनवस्थितिः
muktaḥ tatas yadi bandhāt devadattaḥ upācchinatti tasmāt api viṣṇumitraḥ iti anavasthitiḥ
क्वचिच्च शीतवाताद्यनेकाधिदैविकभौतिकात्मीयानां दशानां प्रतिनिवारणेऽकल्पो दुरन्तचिन्तया विषण्ण आस्ते २५
क्वचिद् च शीत-वात-आदि-अनेक-आधिदैविक-भौतिक-आत्मीयानाम् दशानाम् प्रतिनिवारणे अकल्पः दुरन्त-चिन्तया विषण्णः आस्ते
kvacid ca śīta-vāta-ādi-aneka-ādhidaivika-bhautika-ātmīyānām daśānām pratinivāraṇe akalpaḥ duranta-cintayā viṣaṇṇaḥ āste
क्वचिन्मिथो व्यवहरन्यत्किञ्चिद्धनमन्येभ्यो वा काकिणिकामात्रमप्यपहरन्यत्किञ्चिद्वा विद्वेषमेति वित्तशाठ्यात् २६
क्वचिद् मिथस् व्यवहरन् यत् किञ्चिद् धनम् अन्येभ्यः वा काकिणिका-मात्रम् अपि अपहरन् यत् किञ्चिद् वा विद्वेषम् एति वित्त-शाठ्यात्
kvacid mithas vyavaharan yat kiñcid dhanam anyebhyaḥ vā kākiṇikā-mātram api apaharan yat kiñcid vā vidveṣam eti vitta-śāṭhyāt
अध्वन्यमुष्मिन्निम उपसर्गास्तथा सुखदुःखरागद्वेषभयाभिमानप्रमादोन्माद शोक मोह लोभ मात्सर्येर्ष्यावमान क्षुत्पिपासाधिव्याधिजन्मजरामरणादयः २७
अध्वनि अमुष्मिन् इमे उपसर्गाः तथा सुख-दुःख-राग-द्वेष-भय-अभिमान-प्रमाद-उन्माद-शोक-मोह-लोभ-मात्सर्य-ईर्ष्या-अवमान-क्षुध्-पिपासा-आधि-व्याधि-जन्म-जरा-मरण-आदयः
adhvani amuṣmin ime upasargāḥ tathā sukha-duḥkha-rāga-dveṣa-bhaya-abhimāna-pramāda-unmāda-śoka-moha-lobha-mātsarya-īrṣyā-avamāna-kṣudh-pipāsā-ādhi-vyādhi-janma-jarā-maraṇa-ādayaḥ
क्वापि देवमायया स्त्रिया भुजलतोपगूढः प्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भाकुलहृदयस्तदाश्रयावसक्त सुतदुहितृकलत्रभाषितावलोकविचेष्टितापहृतहृदय आत्मानमजितात्मापारेऽन्धे तमसि प्रहिणोति २८
क्वापि देव-मायया स्त्रिया भुज-लता-उपगूढः प्रस्कन्न-विवेक-विज्ञानः यद्-विहार-गृह-आरम्भ-आकुल-हृदयः तद्-आश्रय-अवसक्त- सुत-दुहितृ-कलत्र-भाषित-अवलोक-विचेष्टित-अपहृत-हृदयः आत्मानम् अजित-आत्म-अपारे अन्धे तमसि प्रहिणोति
kvāpi deva-māyayā striyā bhuja-latā-upagūḍhaḥ praskanna-viveka-vijñānaḥ yad-vihāra-gṛha-ārambha-ākula-hṛdayaḥ tad-āśraya-avasakta- suta-duhitṛ-kalatra-bhāṣita-avaloka-viceṣṭita-apahṛta-hṛdayaḥ ātmānam ajita-ātma-apāre andhe tamasi prahiṇoti
कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात्परमाण्वादि द्विपरार्धापवर्ग - कालोपलक्षणात्परिवर्तितेन वयसा रंहसा हरत आब्रह्मतृणस्तम्बादीनां भूतानामनिमिषतो मिषतां वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं साक्षाद्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्डदेवताः कङ्कगृध्रबकवटप्राया आर्यसमयपरिहृताः साङ्केत्येनाभिधत्ते २९
कदाचिद् ईश्वरस्य भगवतः विष्णोः चक्रात् परमाणु-आदि काल-उपलक्षणात् परिवर्तितेन वयसा रंहसा हरतः आ ब्रह्मतृण-स्तम्ब-आदीनाम् भूतानाम् अनिमिषतः मिषताम् वित्रस्त-हृदयः तम् एव ईश्वरम् काल-चक्र-निज-आयुधम् साक्षात् भगवन्तम् यज्ञपुरुषम् अन् आदृत्य पाखण्ड-देवताः कङ्क-गृध्र-बक-वट-प्रायाः आर्य-समय-परिहृताः साङ्केत्येन
kadācid īśvarasya bhagavataḥ viṣṇoḥ cakrāt paramāṇu-ādi kāla-upalakṣaṇāt parivartitena vayasā raṃhasā harataḥ ā brahmatṛṇa-stamba-ādīnām bhūtānām animiṣataḥ miṣatām vitrasta-hṛdayaḥ tam eva īśvaram kāla-cakra-nija-āyudham sākṣāt bhagavantam yajñapuruṣam an ādṛtya pākhaṇḍa-devatāḥ kaṅka-gṛdhra-baka-vaṭa-prāyāḥ ārya-samaya-parihṛtāḥ sāṅketyena
यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरु वञ्चितो ब्रह्मकुलं समावसंस्तेषां । शीलमुपनयनादिश्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन्शूद्र कुलं भजते निगमाचारेऽशुद्धितो यस्य मिथनीभावः कुटुम्बभरणं यथा वानरजातेः ३०
यदा पाखण्डिभिः आत्म-वञ्चितैः तैः उरु वञ्चितः ब्रह्म-कुलम् समावसन् तेषाम् । शीलम् उपनयन-आदि-श्रौत-स्मार्त-कर्म-अनुष्ठानेन भगवतः यज्ञपुरुषस्य आराधनम् एव तत् अरोचयन् शूद्र कुलम् भजते निगम-आचारे अशुद्धितः यस्य मिथनीभावः कुटुम्ब-भरणम् यथा वानर-जातेः
yadā pākhaṇḍibhiḥ ātma-vañcitaiḥ taiḥ uru vañcitaḥ brahma-kulam samāvasan teṣām . śīlam upanayana-ādi-śrauta-smārta-karma-anuṣṭhānena bhagavataḥ yajñapuruṣasya ārādhanam eva tat arocayan śūdra kulam bhajate nigama-ācāre aśuddhitaḥ yasya mithanībhāvaḥ kuṭumba-bharaṇam yathā vānara-jāteḥ
तत्रापि निरवरोधः स्वैरेण विहरन्नतिकृपणबुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव विस्मृतकालावधिः ३१
तत्र अपि निरवरोधः स्वैरेण विहरन् अति कृपण-बुद्धिः अन्योन्य-मुख-निरीक्षण-आदिना ग्राम्य-कर्मणा एव विस्मृत-काल-अवधिः
tatra api niravarodhaḥ svaireṇa viharan ati kṛpaṇa-buddhiḥ anyonya-mukha-nirīkṣaṇa-ādinā grāmya-karmaṇā eva vismṛta-kāla-avadhiḥ
क्वचिद्द्रुमवदैहिकार्थेषु गृहेषु रंस्यन्यथा वानरः सुतदारवत्सलो व्यवायक्षणः ३२
क्वचिद् द्रुम-वत् ऐहिक-अर्थेषु गृहेषु रंसि अन्यथा वानरः सुत-दार-वत्सलः व्यवाय-क्षणः
kvacid druma-vat aihika-artheṣu gṛheṣu raṃsi anyathā vānaraḥ suta-dāra-vatsalaḥ vyavāya-kṣaṇaḥ
एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि गिरिकन्दरप्राये ३३
एवम् अध्वनि अवरुन्धानः मृत्यु-गज-भयात् तमसि गिरि-कन्दर-प्राये
evam adhvani avarundhānaḥ mṛtyu-gaja-bhayāt tamasi giri-kandara-prāye
क्वचिच्छीतवाताद्यनेकदैविकभौतिकात्मीयानां दुःखानां प्रतिनिवारणेऽकल्पो दुरन्तविषयविषण्ण आस्ते ३४
क्वचिद् शीत-वात-आदि-अनेक-दैविक-भौतिक-आत्मीयानाम् दुःखानाम् प्रतिनिवारणे अकल्पः दुरन्त-विषय-विषण्णः आस्ते
kvacid śīta-vāta-ādi-aneka-daivika-bhautika-ātmīyānām duḥkhānām pratinivāraṇe akalpaḥ duranta-viṣaya-viṣaṇṇaḥ āste
क्वचिन्मिथो व्यवहरन्यत्किञ्चिद्धनमुपयाति वित्तशाठ्येन ३५
क्वचिद् मिथस् व्यवहरन् यत् किञ्चिद् धनम् उपयाति वित्त-शाठ्येन
kvacid mithas vyavaharan yat kiñcid dhanam upayāti vitta-śāṭhyena
क्वचित्क्षीणधनः शय्यासनाशनाद्युपभोगविहीनो यावदप्रतिलब्ध-मनोरथोपगतादानेऽवसितमतिस्ततस्ततोऽवमानादीनि जनादभिलभते ३६
क्वचिद् क्षीण-धनः शय्या-आसन-अशन-आदि-उपभोग-विहीनः यावत् अ प्रतिलब्ध-मनोरथ-उपगत-आदाने अवसित-मतिः ततस् ततस् अवमान-आदीनि जनात् अभिलभते
kvacid kṣīṇa-dhanaḥ śayyā-āsana-aśana-ādi-upabhoga-vihīnaḥ yāvat a pratilabdha-manoratha-upagata-ādāne avasita-matiḥ tatas tatas avamāna-ādīni janāt abhilabhate
एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि पूर्ववासनया मिथ उद्वहत्यथापवहति ३७
एवम् वित्त-व्यतिषङ्ग-विवृद्ध-वैर-अनुबन्धः अपि पूर्व-वासनया मिथस् उद्वहति अथ अपवहति
evam vitta-vyatiṣaṅga-vivṛddha-vaira-anubandhaḥ api pūrva-vāsanayā mithas udvahati atha apavahati
एतस्मिन्संसाराध्वनि नानाक्लेशोपसर्गबाधित आपन्नविपन्नो यत्र यस्तमु ह वावेतरस्तत्र विसृज्य जातं जातमुपादाय शोचन्मुह्यन्बिभ्यद् विवदन्क्रन्दन्संहृष्यन्गायन्नह्यमानः साधुवर्जितो नैवावर्ततेऽद्यापि यत आरब्ध एष नरलोकसार्थो यमध्वनः पारमुपदिशन्ति ३८
एतस्मिन् संसार-अध्वनि नाना क्लेश-उपसर्ग-बाधितः आपन्न-विपन्नः यत्र यः तम् उ ह वाव इतरः तत्र विसृज्य जातम् जातम् उपादाय शोचन् मुह्यन् बिभ्यत् विवदन् क्रन्दन् संहृष्यन् गायन् अह्यमानः साधु-वर्जितः न एव आवर्तते अद्य अपि यतस् आरब्धः एष नर-लोक-सार्थः यम् अध्वनः पारम् उपदिशन्ति
etasmin saṃsāra-adhvani nānā kleśa-upasarga-bādhitaḥ āpanna-vipannaḥ yatra yaḥ tam u ha vāva itaraḥ tatra visṛjya jātam jātam upādāya śocan muhyan bibhyat vivadan krandan saṃhṛṣyan gāyan ahyamānaḥ sādhu-varjitaḥ na eva āvartate adya api yatas ārabdhaḥ eṣa nara-loka-sārthaḥ yam adhvanaḥ pāram upadiśanti
यदिदं योगानुशासनं न वा एतदवरुन्धते यन्न्यस्तदण्डा मुनय उपशमशीला उपरतात्मानः समवगच्छन्ति ३९
यत् इदम् योग-अनुशासनम् न वै एतत् अवरुन्धते यत् न्यस्त-दण्डाः मुनयः उपशम-शीलाः उपरत-आत्मानः समवगच्छन्ति
yat idam yoga-anuśāsanam na vai etat avarundhate yat nyasta-daṇḍāḥ munayaḥ upaśama-śīlāḥ uparata-ātmānaḥ samavagacchanti
यदपि दिगिभजयिनो यज्विनो ये वै राजर्षयः किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृताः ४०
यत् अपि दिगिभ-जयिनः यज्विनः ये वै राजर्षयः किम् तु परम् मृधे शयीरन् अस्याम् एव मम इयम् इति कृत-वैर-अनुबन्धायाम् विसृज्य स्वयम् उपसंहृताः
yat api digibha-jayinaḥ yajvinaḥ ye vai rājarṣayaḥ kim tu param mṛdhe śayīran asyām eva mama iyam iti kṛta-vaira-anubandhāyām visṛjya svayam upasaṃhṛtāḥ
कर्मवल्लीमवलम्ब्य तत आपदः कथञ्चिन्नरकाद्विमुक्तः पुनरप्येवं संसाराध्वनि वर्तमानो नरलोकसार्थमुपयाति एवमुपरि गतोऽपि ४१
कर्म-वल्लीम् अवलम्ब्य ततस् आपदः कथञ्चिद् नरकात् विमुक्तः पुनर् अपि एवम् संसार-अध्वनि वर्तमानः नर-लोक-सार्थम् उपयाति एवम् उपरि गतः अपि
karma-vallīm avalambya tatas āpadaḥ kathañcid narakāt vimuktaḥ punar api evam saṃsāra-adhvani vartamānaḥ nara-loka-sārtham upayāti evam upari gataḥ api
तस्येदमुपगायन्ति । आर्षभस्येह राजर्षेर्मनसापि महात्मनः । नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ४२
तस्य इदम् उपगायन्ति । आर्षभस्य इह राजर्षेः मनसा अपि महात्मनः । न अनुवर्त्मा अर्हति नृपः मक्षिका इव गरुत्मतः
tasya idam upagāyanti . ārṣabhasya iha rājarṣeḥ manasā api mahātmanaḥ . na anuvartmā arhati nṛpaḥ makṣikā iva garutmataḥ
यो दुस्त्यजान्दारसुतान्सुहृद्राज्यं हृदिस्पृशः । जहौ युवैव मलवदुत्तमश्लोकलालसः ४३ ॥
यः दुस्त्यजान् दार-सुतान् सुहृद्-राज्यम् हृदिस्पृशः । जहौ युवा एव मलवत्-उत्तमश्लोक-लालसः ॥
yaḥ dustyajān dāra-sutān suhṛd-rājyam hṛdispṛśaḥ . jahau yuvā eva malavat-uttamaśloka-lālasaḥ ..
यो दुस्त्यजान्क्षितिसुतस्वजनार्थदारान् । प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् । नैच्छन्नृपस्तदुचितं महतां मधुद्विट् । सेवानुरक्तमनसामभवोऽपि फल्गुः ४४ ॥
यः दुस्त्यजान् क्षिति-सुत-स्व-जन-अर्थ-दारान् । प्रार्थ्याम् श्रियम् सुर-वरैः स दया-अवलोकाम् । न ऐच्छत् नृपः तत् उचितम् महताम् मधुद्विष् । सेवा-अनुरक्त-मनसाम् अभवः अपि फल्गुः ॥
yaḥ dustyajān kṣiti-suta-sva-jana-artha-dārān . prārthyām śriyam sura-varaiḥ sa dayā-avalokām . na aicchat nṛpaḥ tat ucitam mahatām madhudviṣ . sevā-anurakta-manasām abhavaḥ api phalguḥ ..
यज्ञाय धर्मपतये विधिनैपुणाय । योगाय साङ्ख्यशिरसे प्रकृतीश्वराय । नारायणाय हरये नम इत्युदारं । हास्यन्मृगत्वमपि यः समुदाजहार ४५ ॥
यज्ञाय धर्म-पतये विधि-नैपुणाय । योगाय साङ्ख्य-शिरसे प्रकृति-ईश्वराय । नारायणाय हरये नमः इति उदारम् । हास्यन् मृग-त्वम् अपि यः समुदाजहार ॥
yajñāya dharma-pataye vidhi-naipuṇāya . yogāya sāṅkhya-śirase prakṛti-īśvarāya . nārāyaṇāya haraye namaḥ iti udāram . hāsyan mṛga-tvam api yaḥ samudājahāra ..
य इदं भागवतसभाजितावदातगुणकर्मणो राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुशृणोत्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत इति ४६
यः इदम् भागवत-सभाजित-अवदात-गुण-कर्मणः राजर्षेः भरतस्य अनुचरितम् स्वस्त्ययनम् आयुष्यम् धन्यम् यशस्यम् स्वर्ग्य-अपवर्ग्यम् वा अनुशृणोति आख्यास्यति अभिनन्दति च सर्वाः एव आशिषः आत्मने आशास्ते न काञ्चन परतस् इति
yaḥ idam bhāgavata-sabhājita-avadāta-guṇa-karmaṇaḥ rājarṣeḥ bharatasya anucaritam svastyayanam āyuṣyam dhanyam yaśasyam svargya-apavargyam vā anuśṛṇoti ākhyāsyati abhinandati ca sarvāḥ eva āśiṣaḥ ātmane āśāste na kāñcana paratas iti
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भरतोपाख्याने पारोक्ष्यविवरणं नाम चतुर्दशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे भरतोपाख्याने पारोक्ष्यविवरणम् नाम चतुर्दशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe bharatopākhyāne pārokṣyavivaraṇam nāma caturdaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In