| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

उक्तस्त्वया भूमण्डलायामविशेषो यावदादित्यस्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा सह दृश्यते १
उक्तः त्वया भू-मण्डल-आयाम-विशेषः यावत् आदित्यः तपति यत्र च असौ ज्योतिषाम् गणैः चन्द्रमाः वा सह दृश्यते
uktaḥ tvayā bhū-maṇḍala-āyāma-viśeṣaḥ yāvat ādityaḥ tapati yatra ca asau jyotiṣām gaṇaiḥ candramāḥ vā saha dṛśyate
तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः सप्त सिन्धव उपकॢप्ता यत एतस्याः सप्तद्वीपविशेषविकल्पस्त्वया भगवन्खलु सूचित एतदेवाखिलमहं मानतो लक्षणतश्च सर्वं विजिज्ञासामि २
तत्र अपि प्रियव्रत-रथ-चरण-परिखातैः सप्तभिः सप्त सिन्धवः उपकॢप्ताः यतस् एतस्याः सप्त-द्वीप-विशेष-विकल्पः त्वया भगवन् खलु सूचितः एतत् एव अखिलम् अहम् मानतः लक्षणतः च सर्वम् विजिज्ञासामि
tatra api priyavrata-ratha-caraṇa-parikhātaiḥ saptabhiḥ sapta sindhavaḥ upakḷptāḥ yatas etasyāḥ sapta-dvīpa-viśeṣa-vikalpaḥ tvayā bhagavan khalu sūcitaḥ etat eva akhilam aham mānataḥ lakṣaṇataḥ ca sarvam vijijñāsāmi
राजोवाच
भगवतो गुणमये स्थूलरूप आवेशितं मनो ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुं तदु हैतद्गुरोऽर्हस्यनुवर्णयितुमिति ३
भगवतः गुण-मये स्थूल-रूपे आवेशितम् मनः हि अगुणे अपि सूक्ष्मतमे आत्म-ज्योतिषि परे ब्रह्मणि भगवति वासुदेव-आख्ये क्षमम् आवेशितुम् तत् उ ह एतत् गुरो अर्हसि अनुवर्णयितुम् इति
bhagavataḥ guṇa-maye sthūla-rūpe āveśitam manaḥ hi aguṇe api sūkṣmatame ātma-jyotiṣi pare brahmaṇi bhagavati vāsudeva-ākhye kṣamam āveśitum tat u ha etat guro arhasi anuvarṇayitum iti
न वै महाराज भगवतो मायागुणविभूतेः काष्ठां मनसा वचसा वाधिगन्तुमलं विबुधायुषापि पुरुषस्तस्मात्प्राधान्येनैव भूगोलक-विशेषं नामरूपमानलक्षणतो व्याख्यास्यामः ४
न वै महा-राज भगवतः माया-गुण-विभूतेः काष्ठाम् मनसा वचसा वा अधिगन्तुम् अलम् विबुध-आयुषा अपि पुरुषः तस्मात् प्राधान्येन एव भू-गोलक-विशेषम् नाम-रूप-मान-लक्षणतः व्याख्यास्यामः
na vai mahā-rāja bhagavataḥ māyā-guṇa-vibhūteḥ kāṣṭhām manasā vacasā vā adhigantum alam vibudha-āyuṣā api puruṣaḥ tasmāt prādhānyena eva bhū-golaka-viśeṣam nāma-rūpa-māna-lakṣaṇataḥ vyākhyāsyāmaḥ
यो वायं द्वीपः कुवलयकमलकोशाभ्यन्तरकोशो नियुतयोजनविशालः समवर्तुलो यथा पुष्करपत्रम् ५
यः वा अयम् द्वीपः कुवलय-कमल-कोश-अभ्यन्तर-कोशः नियुत-योजन-विशालः सम-वर्तुलः यथा पुष्कर-पत्रम्
yaḥ vā ayam dvīpaḥ kuvalaya-kamala-kośa-abhyantara-kośaḥ niyuta-yojana-viśālaḥ sama-vartulaḥ yathā puṣkara-patram
ऋषिरुवाच
यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मर्यादागिरिभिः सुविभक्तानि भवन्ति ६
यस्मिन् नव वर्षाणि नव-योजन-सहस्र-आयामानि अष्टभिः मर्यादा-गिरिभिः सु विभक्तानि भवन्ति
yasmin nava varṣāṇi nava-yojana-sahasra-āyāmāni aṣṭabhiḥ maryādā-giribhiḥ su vibhaktāni bhavanti
एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्वतः सौवर्णः कुलगिरिराजो मेरुर्द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्धनि द्वात्रिंशत्सहस्रयोजनविततो मूले षोडशसहस्रं तावतान्तर्भूम्यां प्रविष्टः ७
एषाम् मध्ये इलावृतम् नाम अभ्यन्तर-वर्षम् यस्य नाभ्याम् अवस्थितः सर्वतस् सौवर्णः कुलगिरि-राजः मेरुः द्वीप-आयाम-समुन्नाहः कर्णिका-भूतः कुवलय-कमलस्य मूर्धनि द्वात्रिंशत्-सहस्र-योजन-विततः मूले षोडश-सहस्रम् तावता अन्तर् भूम्याम् प्रविष्टः
eṣām madhye ilāvṛtam nāma abhyantara-varṣam yasya nābhyām avasthitaḥ sarvatas sauvarṇaḥ kulagiri-rājaḥ meruḥ dvīpa-āyāma-samunnāhaḥ karṇikā-bhūtaḥ kuvalaya-kamalasya mūrdhani dvātriṃśat-sahasra-yojana-vitataḥ mūle ṣoḍaśa-sahasram tāvatā antar bhūmyām praviṣṭaḥ
उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयो रम्यकहिरण्मय-कुरूणां वर्षाणां मर्यादागिरयः प्रागायता उभयतः क्षारोदावधयो द्विसहस्रपृथव एकैकशः पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति ८
उत्तरोत्तरेण इलावृतम् नीलः श्वेतः शृङ्गवान् इति त्रयः रम्यक-हिरण्मय-कुरूणाम् वर्षाणाम् मर्यादा-गिरयः प्राच्-आयताः उभयतस् क्षार-उद-अवधयः द्वि-सहस्र-पृथवः एकैकशस् पूर्वस्मात् पूर्वस्मात् उत्तरः उत्तरः दश-अंश-अधिक-अंशेन दैर्घ्ये एव ह्रसन्ति
uttarottareṇa ilāvṛtam nīlaḥ śvetaḥ śṛṅgavān iti trayaḥ ramyaka-hiraṇmaya-kurūṇām varṣāṇām maryādā-girayaḥ prāc-āyatāḥ ubhayatas kṣāra-uda-avadhayaḥ dvi-sahasra-pṛthavaḥ ekaikaśas pūrvasmāt pūrvasmāt uttaraḥ uttaraḥ daśa-aṃśa-adhika-aṃśena dairghye eva hrasanti
एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथा नीलादयोऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुषभारतानां यथासङ्ख्यम्९
एवम् दक्षिणेन इलावृतम् निषधः हेमकूटः हिमालयः इति प्राच्-आयताः यथा नील-आदयः अयुत-योजन-उत्सेधाः हरिवर्ष-किम्पुरुष-भारतानाम् यथासङ्ख्यम्
evam dakṣiṇena ilāvṛtam niṣadhaḥ hemakūṭaḥ himālayaḥ iti prāc-āyatāḥ yathā nīla-ādayaḥ ayuta-yojana-utsedhāḥ harivarṣa-kimpuruṣa-bhāratānām yathāsaṅkhyam
तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतुः केतुमालभद्राश्वयोः सीमानं विदधाते १०
तथा एव इलावृतम् अपरेण पूर्वेण च माल्यवत्-गन्धमादनौ आ नील-निषध-आयतौ द्वि-सहस्रम् पप्रथतुः केतुमाल-भद्राश्वयोः सीमानम् विदधाते
tathā eva ilāvṛtam apareṇa pūrveṇa ca mālyavat-gandhamādanau ā nīla-niṣadha-āyatau dvi-sahasram paprathatuḥ ketumāla-bhadrāśvayoḥ sīmānam vidadhāte
मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहा मेरोश्चतुर्दिशमवष्टम्भगिरय उपकॢप्ताः ११
मन्दरः मेरुमन्दरः सुपार्श्वः कुमुदः इति अयुत-योजन-विस्तार-उन्नाहाः मेरोः चतुर्दिशम् अवष्टम्भ-गिरयः उपकॢप्ताः
mandaraḥ merumandaraḥ supārśvaḥ kumudaḥ iti ayuta-yojana-vistāra-unnāhāḥ meroḥ caturdiśam avaṣṭambha-girayaḥ upakḷptāḥ
चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वारः पादपप्रवराः पर्वतकेतव इवाधिसहस्रयोजनोन्नाहास्तावद्विटपविततयः शतयोजनपरिणाहाः १२
चतुर्षु एतेषु चूत-जम्बू-कदम्ब-न्यग्रोधाः चत्वारः पादप-प्रवराः पर्वत-केतवः इव आधि-सहस्र-योजन-उन्नाहाः तावत्-विटप-विततयः शत-योजन-परिणाहाः
caturṣu eteṣu cūta-jambū-kadamba-nyagrodhāḥ catvāraḥ pādapa-pravarāḥ parvata-ketavaḥ iva ādhi-sahasra-yojana-unnāhāḥ tāvat-viṭapa-vitatayaḥ śata-yojana-pariṇāhāḥ
ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजला यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति १३
ह्रदाः चत्वारः पयः-मधु-इक्षु-रस-मृष्ट-जलाः यद्-उपस्पर्शिनः उपदेव-गणाः योग-ऐश्वर्याणि स्वाभाविकानि भरत-ऋषभ धारयन्ति
hradāḥ catvāraḥ payaḥ-madhu-ikṣu-rasa-mṛṣṭa-jalāḥ yad-upasparśinaḥ upadeva-gaṇāḥ yoga-aiśvaryāṇi svābhāvikāni bharata-ṛṣabha dhārayanti
देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्र मिति १४
देव-उद्यानानि च भवन्ति चत्वारि नन्दनम् चैत्ररथम् वैभ्राजकम् सर्वतोभद्रम् इति
deva-udyānāni ca bhavanti catvāri nandanam caitraratham vaibhrājakam sarvatobhadram iti
येष्वमरपरिवृढाः सह सुरललनाललामयूथपतय उपदेवगणैरुपगीयमानमहिमानः किल विहरन्ति १५
येषु अमर-परिवृढाः सह सुर-ललना-ललाम-यूथ-पतयः उपदेव-गणैः उपगीयमान-महिमानः किल विहरन्ति
yeṣu amara-parivṛḍhāḥ saha sura-lalanā-lalāma-yūtha-patayaḥ upadeva-gaṇaiḥ upagīyamāna-mahimānaḥ kila viharanti
मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति १६
मन्दर-उत्सङ्गे एकादश-शत-योजन-उत्तुङ्ग-देव-चूत-शिरसः गिरि-शिखर-स्थूलानि फलानि अमृत-कल्पानि पतन्ति
mandara-utsaṅge ekādaśa-śata-yojana-uttuṅga-deva-cūta-śirasaḥ giri-śikhara-sthūlāni phalāni amṛta-kalpāni patanti
तेषां विशीर्यमाणानामतिमधुरसुरभिसुगन्धिबहुलारुणरसोदेनारुणोदा नाम नदी मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति १७
तेषाम् विशीर्यमाणानाम् अति मधुर-सुरभि-सुगन्धि-बहुल-अरुण-रस-उदेन अरुणोदा नाम नदी मन्दर-गिरि-शिखरात् निपतन्ती पूर्वेण इलावृतम् उपप्लावयति
teṣām viśīryamāṇānām ati madhura-surabhi-sugandhi-bahula-aruṇa-rasa-udena aruṇodā nāma nadī mandara-giri-śikharāt nipatantī pūrveṇa ilāvṛtam upaplāvayati
यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्शसुगन्धवातो दशयोजनं समन्तादनुवासयति १८
यत् उपजोषणात् भवान्याः अनुचरीणाम् पुण्यजन-वधूनाम् अवयव-स्पर्श-सुगन्ध-वातः दश-योजनम् समन्तात् अनुवासयति
yat upajoṣaṇāt bhavānyāḥ anucarīṇām puṇyajana-vadhūnām avayava-sparśa-sugandha-vātaḥ daśa-yojanam samantāt anuvāsayati
एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणामिभकायनिभानां रसेन जम्बू नाम नदी मेरुमन्दरशिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेनात्मानं यावदिलावृतमुपस्यन्दयति १९
एवम् जम्बु-फलानाम् अत्युच्च-निपात-विशीर्णानाम् अन् अस्थि-प्रायाणाम् इभ-काय-निभानाम् रसेन जम्बू नाम नदी मेरु-मन्दर-शिखरात् अयुत-योजनात् अवनि-तले निपतन्ती दक्षिणेन आत्मानम् यावत् इलावृतम् उपस्यन्दयति
evam jambu-phalānām atyucca-nipāta-viśīrṇānām an asthi-prāyāṇām ibha-kāya-nibhānām rasena jambū nāma nadī meru-mandara-śikharāt ayuta-yojanāt avani-tale nipatantī dakṣiṇena ātmānam yāvat ilāvṛtam upasyandayati
तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवति २०
तावत् उभयोः अपि रोधसोः या मृत्तिका तद्-रसेन अनुविध्यमाना वायु-अर्क-संयोग-विपाकेन सदा अमर-लोक-आभरणम् जाम्बूनदम् नाम सुवर्णम् भवति
tāvat ubhayoḥ api rodhasoḥ yā mṛttikā tad-rasena anuvidhyamānā vāyu-arka-saṃyoga-vipākena sadā amara-loka-ābharaṇam jāmbūnadam nāma suvarṇam bhavati
यदु ह वाव विबुधादयः सह युवतिभिर्मुकुटकटककटिसूत्राद्याभरणरूपेण खलु धारयन्ति २१
यत् उ ह वाव विबुध-आदयः सह युवतिभिः मुकुट-कटक-कटिसूत्र-आदि-आभरण-रूपेण खलु धारयन्ति
yat u ha vāva vibudha-ādayaḥ saha yuvatibhiḥ mukuṭa-kaṭaka-kaṭisūtra-ādi-ābharaṇa-rūpeṇa khalu dhārayanti
यस्तु महाकदम्बः सुपार्श्वनिरूढो यास्तस्य कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्वशिखरात्पतन्त्योऽपरेणात्मानमिलावृतमनुमोदयन्ति २२
यः तु महा-कदम्बः सुपार्श्व-निरूढः याः तस्य कोटरेभ्यः विनिःसृताः पञ्च-आयाम-परिणाहाः पञ्च मधु-धाराः सुपार्श्व-शिखरात् पतन्त्यः अपरेण आत्मानम् इलावृतम् अनुमोदयन्ति
yaḥ tu mahā-kadambaḥ supārśva-nirūḍhaḥ yāḥ tasya koṭarebhyaḥ viniḥsṛtāḥ pañca-āyāma-pariṇāhāḥ pañca madhu-dhārāḥ supārśva-śikharāt patantyaḥ apareṇa ātmānam ilāvṛtam anumodayanti
या ह्युपयुञ्जानानां मुखनिर्वासितो वायुः समन्ताच्छतयोजनमनुवासयति २३
याः हि उपयुञ्जानानाम् मुख-निर्वासितः वायुः समन्तात् शत-योजनम् अनुवासयति
yāḥ hi upayuñjānānām mukha-nirvāsitaḥ vāyuḥ samantāt śata-yojanam anuvāsayati
एवं कुमुदनिरूढो यः शतवल्शो नाम वटस्तस्य स्कन्धेभ्यो नीचीनाः पयोदधिमधुघृतगुडान्नाद्यम्बरशय्यासनाभरणादयः सर्व एव कामदुघा नदाः कुमुदाग्रात्पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति २४
एवम् कुमुदनिरूढः यः शतवल्शः नाम वटः तस्य स्कन्धेभ्यः नीचीनाः पयः-दधि-मधु-घृत-गुड-अन्नाद्य-अम्बर-शय्या-आसन-आभरण-आदयः सर्वे एव कामदुघाः नदाः कुमुद-अग्रात् पतन्तः तम् उत्तरेण इलावृतम् उपयोजयन्ति
evam kumudanirūḍhaḥ yaḥ śatavalśaḥ nāma vaṭaḥ tasya skandhebhyaḥ nīcīnāḥ payaḥ-dadhi-madhu-ghṛta-guḍa-annādya-ambara-śayyā-āsana-ābharaṇa-ādayaḥ sarve eva kāmadughāḥ nadāḥ kumuda-agrāt patantaḥ tam uttareṇa ilāvṛtam upayojayanti
यानुपजुषाणानां न कदाचिदपि प्रजानां वलीपलितक्लमस्वेददौर्गन्ध्यजरामयमृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा भवन्ति यावज्जीवं सुखं निरतिशयमेव २५
यान् उपजुषाणानाम् न कदाचिद् अपि प्रजानाम् वली-पलित-क्लम-स्वेद-दौर्गन्ध्य-जरा-आमय-मृत्यु-शीत-उष्ण-वैवर्ण्य-उपसर्ग-आदयः ताप-विशेषाः भवन्ति यावज्जीवम् सुखम् निरतिशयम् एव
yān upajuṣāṇānām na kadācid api prajānām valī-palita-klama-sveda-daurgandhya-jarā-āmaya-mṛtyu-śīta-uṣṇa-vaivarṇya-upasarga-ādayaḥ tāpa-viśeṣāḥ bhavanti yāvajjīvam sukham niratiśayam eva
कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्गरुचकनिषधशिनीवास-कपिलशङ्खवैदूर्यजारुधिहंसऋषभनागकालञ्जरनारदादयो विंशतिगिरयो मेरोः कर्णिकाया इव केसरभूता मूलदेशे परित उपकॢप्ताः२६
कुरङ्ग-कुरर-कुसुम्भ-वैकङ्क-त्रिकूट-शिशिरपतङ्ग-रुचक-निषध-शिनीवास-कपिल-शङ्ख-वैदूर्य-जारुधि-हंस-ऋषभ-नाग-कालञ्जर-नारद-आदयः विंशति-गिरयः मेरोः कर्णिकायाः इव केसर-भूताः मूल-देशे परितस् उपकॢप्ताः
kuraṅga-kurara-kusumbha-vaikaṅka-trikūṭa-śiśirapataṅga-rucaka-niṣadha-śinīvāsa-kapila-śaṅkha-vaidūrya-jārudhi-haṃsa-ṛṣabha-nāga-kālañjara-nārada-ādayaḥ viṃśati-girayaḥ meroḥ karṇikāyāḥ iva kesara-bhūtāḥ mūla-deśe paritas upakḷptāḥ
जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजनसहस्रमुदगायतौ द्विसहस्रं पृथुतुङ्गौ भवतः एवमपरेण पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ प्रागायतावेवमुत्तरतस्त्रिशृङ्गमकरावष्टभिरेतैः परिसृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरिः २७
जठर-देवकूटौ मेरुम् पूर्वेण अष्टादश-योजन-सहस्रम् उदक्-आयतौ द्वि-सहस्रम् पृथु-तुङ्गौ भवतः एवम् अपरेण पवन-पारियात्रौ दक्षिणेन कैलास-करवीरौ प्राच्-आयतौ एवम् उत्तरतस् त्रिशृङ्ग-मकरौ अष्टभिः एतैः परिसृतः अग्निः इव परितस् चकास्ति काञ्चन-गिरिः
jaṭhara-devakūṭau merum pūrveṇa aṣṭādaśa-yojana-sahasram udak-āyatau dvi-sahasram pṛthu-tuṅgau bhavataḥ evam apareṇa pavana-pāriyātrau dakṣiṇena kailāsa-karavīrau prāc-āyatau evam uttaratas triśṛṅga-makarau aṣṭabhiḥ etaiḥ parisṛtaḥ agniḥ iva paritas cakāsti kāñcana-giriḥ
मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत उपकॢप्तां पुरीमयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं वदन्ति २८
मेरोः मूर्धनि भगवतः आत्मयोनेः मध्यतः उपकॢप्ताम् पुरीम् अयुत-योजन-साहस्रीम् सम-चतुर्-अस्राम् शातकौम्भीम् वदन्ति
meroḥ mūrdhani bhagavataḥ ātmayoneḥ madhyataḥ upakḷptām purīm ayuta-yojana-sāhasrīm sama-catur-asrām śātakaumbhīm vadanti
तामनुपरितो लोकपालानामष्टानां यथादिशं यथारूपं तुरीयमानेन पुरोऽष्टावुपकॢप्ताः २९
ताम् अनुपरितस् लोकपालानाम् अष्टानाम् यथादिशम् यथारूपम् तुरीयमानेन पुरस् अष्टौ उपकॢप्ताः
tām anuparitas lokapālānām aṣṭānām yathādiśam yathārūpam turīyamānena puras aṣṭau upakḷptāḥ
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भुवनकोशवर्णनं नाम षोडशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे भुवनकोशवर्णनम् नाम षोडशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe bhuvanakośavarṇanam nāma ṣoḍaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In