| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्मायजत १।
नाभिः अपत्य-कामः अप्रजया मेरुदेव्या भगवन्तम् यज्ञपुरुषम् अवहित-आत्मा अयजत।
nābhiḥ apatya-kāmaḥ aprajayā merudevyā bhagavantam yajñapuruṣam avahita-ātmā ayajata.
तस्य ह वाव श्रद्धया विशुद्धभावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्यदेशकाल मन्त्रर्त्विग्दक्षिणाविधानयोगोपपत्त्या दुरधिगमोऽपि भगवान्भागवतवात्सल्यतया सुप्रतीक आत्मानमपराजितं निजजनाभिप्रेतार्थविधित्सया गृहीतहृदयो हृदयङ्गमं मनो नयनानन्दनावयवाभिराममाविश्चकार २।
तस्य ह वाव श्रद्धया विशुद्ध-भावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्य-देश-काल-मन्त्र-ऋत्विज्-दक्षिणा-विधान-योग-उपपत्त्या दुरधिगमः अपि भगवान् भागवत-वात्सल्य-तया सुप्रतीकः आत्मानम् अपराजितम् निज-जन-अभिप्रेत-अर्थ-विधित्सया गृहीत-हृदयः हृदयङ्गमम् मनः नयन-आनन्दन-अवयव-अभिरामम् आविश्चकार।
tasya ha vāva śraddhayā viśuddha-bhāvena yajataḥ pravargyeṣu pracaratsu dravya-deśa-kāla-mantra-ṛtvij-dakṣiṇā-vidhāna-yoga-upapattyā duradhigamaḥ api bhagavān bhāgavata-vātsalya-tayā supratīkaḥ ātmānam aparājitam nija-jana-abhipreta-artha-vidhitsayā gṛhīta-hṛdayaḥ hṛdayaṅgamam manaḥ nayana-ānandana-avayava-abhirāmam āviścakāra.
श्रीशुक उवाच
अथ ह तमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं कपिशकौशेयाम्बर धरमुरसि विलसच्छ्रीवत्सललामं दरवरवनरुहवनमालाच्छूर्यमृतमणिगदादिभिरुपलक्षितं स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूरनूपुराद्यङ्गभूषणविभूषितमृत्विक्सदस्यगृहपतयोऽधना इवोत्तमधनमुपलभ्य सबहु मानमर्हणेनावनतशीर्षाण उपतस्थुः ३।
अथ ह तम् आविष्कृत-भुज-युगल-द्वयम् हिरण्मयम् पुरुष-विशेषम् कपिश-कौशेय-अम्बर-धरम् उरसि विलसत्-श्रीवत्स-ललामम् दर-वर-वनरुह-वनमाला-चूरी-अमृत-मणि-गद-आदिभिः स्फुट-किरण-प्रवर-मुकुट-कुण्डल-कटक-कटिसूत्र-हार-केयूर-नूपुर-आदि-अङ्ग-भूषण-विभूषितम् ऋत्विज्-सदस्य-गृहपतयः अधनाः इव उत्तम-धनम् उपलभ्य स बहु मानम्।
atha ha tam āviṣkṛta-bhuja-yugala-dvayam hiraṇmayam puruṣa-viśeṣam kapiśa-kauśeya-ambara-dharam urasi vilasat-śrīvatsa-lalāmam dara-vara-vanaruha-vanamālā-cūrī-amṛta-maṇi-gada-ādibhiḥ sphuṭa-kiraṇa-pravara-mukuṭa-kuṇḍala-kaṭaka-kaṭisūtra-hāra-keyūra-nūpura-ādi-aṅga-bhūṣaṇa-vibhūṣitam ṛtvij-sadasya-gṛhapatayaḥ adhanāḥ iva uttama-dhanam upalabhya sa bahu mānam.
अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां नमो नम इत्येतावत्सदुपशिक्षितं कोऽर्हति पुमान्प्रकृतिगुणव्यतिकरमतिरनीश ईश्वरस्य परस्य प्रकृतिपुरुषयोरर्वाक्तनाभिर्नामरूपाकृतिभीरूपनिरूपणम्सकलजननिकायवृजिननिरसनशिवतमप्रवरगुणगणैकदेशकथनादृते ४।
अर्हसि मुहुर् अर्हत्तम-अर्हणम् अस्माकम् अनुपथानाम् नमः नमः इति एतावत् सत्-उपशिक्षितम् कः अर्हति पुमान् प्रकृति-गुण-व्यतिकर-मतिः अनीश ईश्वरस्य परस्य प्रकृति-पुरुषयोः अर्वाक्तनाभिः नाम-रूप-आकृति-भी-रूप-निरूपणम् सकल-जन-निकाय-वृजिन-निरसन-शिवतम-प्रवर-गुण-गण-एक-देश-कथनात् ऋते।
arhasi muhur arhattama-arhaṇam asmākam anupathānām namaḥ namaḥ iti etāvat sat-upaśikṣitam kaḥ arhati pumān prakṛti-guṇa-vyatikara-matiḥ anīśa īśvarasya parasya prakṛti-puruṣayoḥ arvāktanābhiḥ nāma-rūpa-ākṛti-bhī-rūpa-nirūpaṇam sakala-jana-nikāya-vṛjina-nirasana-śivatama-pravara-guṇa-gaṇa-eka-deśa-kathanāt ṛte.
परिजनानुरागविरचितशबलसंशब्दसलिलसितकिसलतुलसिका दूर्वाङ्कुरैरपि सम्भृतया सपर्यया किल परम परितुष्यसि ५।
परिजन-अनुराग-विरचित-शबल-संशब्द-सलिल-सित-किसल-तुलसिका दूर्वा-अङ्कुरैः अपि सम्भृतया सपर्यया किल परम परितुष्यसि।
parijana-anurāga-viracita-śabala-saṃśabda-salila-sita-kisala-tulasikā dūrvā-aṅkuraiḥ api sambhṛtayā saparyayā kila parama parituṣyasi.
ऋत्विज ऊचुः।
अथानयापि न भवत इज्ययोरुभारभरया समुचितमर्थमिहोपलभामहे ६।
अथ अनया अपि न भवतः इज्यया उरु-भार-भरया समुचितम् अर्थम् इह उपलभामहे।
atha anayā api na bhavataḥ ijyayā uru-bhāra-bharayā samucitam artham iha upalabhāmahe.
आत्मन एवानुसवनमञ्जसाव्यतिरेकेण बोभूयमानाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष। आशासानानामेतदभिसंराधनमात्रं भवितुमर्हति ७।
आत्मनः एव अनुसवनम् अञ्जसा अ व्यतिरेकेण बोभूयमान-अशेष-पुरुष-अर्थ-स्वरूपस्य किन्तु। आशासानानाम् एतत् अभिसंराधन-मात्रम् भवितुम् अर्हति।
ātmanaḥ eva anusavanam añjasā a vyatirekeṇa bobhūyamāna-aśeṣa-puruṣa-artha-svarūpasya kintu. āśāsānānām etat abhisaṃrādhana-mātram bhavitum arhati.
तद्यथा बालिशानां स्वयमात्मनः श्रेयः परमविदुषां परमपरमपुरुष प्रकर्षकरुणया स्वमहिमानं चापवर्गाख्यमुपकल्पयिष्यन्स्वयं नापचित एवेतरवदिहोपलक्षितः ८।
तत् यथा बालिशानाम् स्वयम् आत्मनः श्रेयः परम-विदुषाम् परम-परम-पुरुष-प्रकर्ष-करुणया स्व-महिमानम् च अपवर्ग-आख्यम् उपकल्पयिष्यन् स्वयम् न अपचितः एवा इतर-वत् इह उपलक्षितः।
tat yathā bāliśānām svayam ātmanaḥ śreyaḥ parama-viduṣām parama-parama-puruṣa-prakarṣa-karuṇayā sva-mahimānam ca apavarga-ākhyam upakalpayiṣyan svayam na apacitaḥ evā itara-vat iha upalakṣitaḥ.
अथायमेव वरो ह्यर्हत्तम यर्हि बर्हिषि राजर्षेर्वरदर्षभो भवान्निजपुरुषेक्षणविषय आसीत् ९।
अथ अयम् एव वरः हि अर्हत्तम यर्हि बर्हिषि राजर्षेः वर-द-ऋषभः भवान् निज-पुरुष-ईक्षण-विषयः आसीत्।
atha ayam eva varaḥ hi arhattama yarhi barhiṣi rājarṣeḥ vara-da-ṛṣabhaḥ bhavān nija-puruṣa-īkṣaṇa-viṣayaḥ āsīt.
असङ्गनिशितज्ञानानलविधूताशेषमलानां भवत्स्वभावानामात्मारामाणां। मुनीनामनवरतपरिगुणितगुणगण परममङ्गलायनगुणगणकथनोऽसि १०।
असङ्ग-निशित-ज्ञान-अनल-विधूत-अशेष-मलानाम् भवत्-स्वभावानाम् आत्म-आरामाणाम्। मुनीनाम् अनवरत-परिगुणित-गुण-गण परम-मङ्गलायन-गुण-गण-कथनः असि।
asaṅga-niśita-jñāna-anala-vidhūta-aśeṣa-malānām bhavat-svabhāvānām ātma-ārāmāṇām. munīnām anavarata-pariguṇita-guṇa-gaṇa parama-maṅgalāyana-guṇa-gaṇa-kathanaḥ asi.
अथ कथञ्चित्स्खलनक्षुत्पतनजृम्भणदुरवस्थानादिषु विवशानां नः स्मरणाय ज्वरमरणदशायामपि सकलकश्मलनिरसनानि तव गुणकृतनामधेयानि वचनगोचराणि भवन्तु ११।
अथ कथञ्चिद् स्खलन-क्षुध्-पतन-जृम्भण-दुरवस्थान-आदिषु विवशानाम् नः स्मरणाय ज्वर-मरण-दशायाम् अपि सकल-कश्मल-निरसनानि तव गुण-कृत-नामधेयानि वचन-गोचराणि भवन्तु।
atha kathañcid skhalana-kṣudh-patana-jṛmbhaṇa-duravasthāna-ādiṣu vivaśānām naḥ smaraṇāya jvara-maraṇa-daśāyām api sakala-kaśmala-nirasanāni tava guṇa-kṛta-nāmadheyāni vacana-gocarāṇi bhavantu.
किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासान ईश्वरमाशिषां स्वर्गापवर्गयोरपि भवन्तमुपधावति प्रजायामर्थप्रत्ययो धनदमिवाधनः फलीकरणम् १२।
किञ्च अयम् राजर्षिः अपत्य-कामः प्रजाम् भवादृशीम् आशासानः ईश्वरम् आशिषाम् स्वर्ग-अपवर्गयोः अपि भवन्तम् उपधावति प्रजायाम् अर्थ-प्रत्ययः धनदम् इव अधनः फलीकरणम्।
kiñca ayam rājarṣiḥ apatya-kāmaḥ prajām bhavādṛśīm āśāsānaḥ īśvaram āśiṣām svarga-apavargayoḥ api bhavantam upadhāvati prajāyām artha-pratyayaḥ dhanadam iva adhanaḥ phalīkaraṇam.
को वा इह तेऽपराजितोऽपराजितया माययानवसितपदव्यानावृतमतिर्विषयविषरयानावृतप्रकृतिरनुपासितमहच्चरणः १३।
कः वै इह ते अपराजितः अपराजितया मायया अनवसित-पदव्यान् आवृत-मतिः विषय-विषरया अन् आवृत-प्रकृतिः अनुपासित-महत्-चरणः।
kaḥ vai iha te aparājitaḥ aparājitayā māyayā anavasita-padavyān āvṛta-matiḥ viṣaya-viṣarayā an āvṛta-prakṛtiḥ anupāsita-mahat-caraṇaḥ.
यदु ह वाव तव पुनरदभ्रकर्तरिह समाहूतस्तत्रार्थधियां मन्दानां। नस्तद्यद्देवहेलनं देवदेवार्हसि साम्येन सर्वान्प्रतिवोढुमविदुषाम् १४।
यत् उ ह वाव तव पुनर् अदभ्र-कर्तर् इह समाहूतः तत्र अर्थ-धियाम् मन्दानाम्। नः तत् यत् देव-हेलनम् देवदेव अर्हसि साम्येन सर्वान् प्रतिवोढुम् अविदुषाम्।
yat u ha vāva tava punar adabhra-kartar iha samāhūtaḥ tatra artha-dhiyām mandānām. naḥ tat yat deva-helanam devadeva arhasi sāmyena sarvān prativoḍhum aviduṣām.
इति निगदेनाभिष्टूयमानो भगवाननिमिषर्षभो वर्षधराभिवादिताभिवन्दितचरणः सदयमिदमाह १५।
इति निगदेन अभिष्टूयमानः भगवान् अनिमिष-ऋषभः वर्षधर-अभिवादित-अभिवन्दित-चरणः स दयम् इदम् आह।
iti nigadena abhiṣṭūyamānaḥ bhagavān animiṣa-ṛṣabhaḥ varṣadhara-abhivādita-abhivandita-caraṇaḥ sa dayam idam āha.
अहो बताहमृषयो भवद्भिरवितथगीर्भिर्वरमसुलभमभियाचितो यदमुष्यात्मजो मया सदृशो भूयादिति ममाहमेवाभिरूपः कैवल्यादथापि ब्रह्मवादो न मृषा भवितुमर्हति ममैव हि मुखं यद्द्विज-देवकुलम् १६।
अहो बत अहम् ऋषयः भवद्भिः अवितथ-गीर्भिः वरम् असुलभम् अभियाचितः यत् अमुष्य आत्मजः मया सदृशः भूयात् इति मम अहम् एव अभिरूपः कैवल्यात् अथ अपि ब्रह्म-वादः न मृषा भवितुम् अर्हति मम एव हि मुखम् यत् द्विज-देवकुलम्।
aho bata aham ṛṣayaḥ bhavadbhiḥ avitatha-gīrbhiḥ varam asulabham abhiyācitaḥ yat amuṣya ātmajaḥ mayā sadṛśaḥ bhūyāt iti mama aham eva abhirūpaḥ kaivalyāt atha api brahma-vādaḥ na mṛṣā bhavitum arhati mama eva hi mukham yat dvija-devakulam.
श्रीशुक उवाच।
तत आग्नीध्रीयेंऽशकलयावतरिष्याम्यात्मतुल्यमनुपलभमानः १७।
ततस् आग्नीध्रीये इं शकलया अवतरिष्यामि आत्म-तुल्यम् अन् उपलभमानः।
tatas āgnīdhrīye iṃ śakalayā avatariṣyāmi ātma-tulyam an upalabhamānaḥ.
श्रीभगवानुवाच।
इति निशामयन्त्या मेरुदेव्याः पतिमभिधायान्तर्दधे भगवान् १८।
इति निशामयन्त्या मेरुदेव्याः पतिम् अभिधाय अन्तर्दधे भगवान्।
iti niśāmayantyā merudevyāḥ patim abhidhāya antardadhe bhagavān.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे नाभिचरिते ऋषभावतारो नाम तृतीयोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे नाभिचरिते ऋषभावतारः नाम तृतीयः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe nābhicarite ṛṣabhāvatāraḥ nāma tṛtīyaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In