| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

भरतस्तु महाभागवतो यदा भगवतावनितलपरिपालनाय सञ्चिन्तितस्तदनुशासनपरः पञ्चजनीं विश्वरूपदुहितरमुपयेमे १।
भरतः तु महा-भागवतः यदा भगवता अवनि-तल-परिपालनाय सञ्चिन्तितः तद्-अनुशासन-परः पञ्चजनीम् विश्वरूप-दुहितरम् उपयेमे।
bharataḥ tu mahā-bhāgavataḥ yadā bhagavatā avani-tala-paripālanāya sañcintitaḥ tad-anuśāsana-paraḥ pañcajanīm viśvarūpa-duhitaram upayeme.
तस्यामु ह वा आत्मजान्कार्त्स्न्येनानुरूपानात्मनः पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति २।
तस्याम् उ ह वै आत्मजान् कार्त्स्न्येन अनुरूपान् आत्मनः पञ्च जनयामास भूतादिः इव भूत-सूक्ष्माणि सुमतिम् राष्ट्रभृतम् सुदर्शनम् आवरणम् धूम्रकेतुम् इति।
tasyām u ha vai ātmajān kārtsnyena anurūpān ātmanaḥ pañca janayāmāsa bhūtādiḥ iva bhūta-sūkṣmāṇi sumatim rāṣṭrabhṛtam sudarśanam āvaraṇam dhūmraketum iti.
श्रीशुक उवाच
अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य व्यपदिशन्ति ३।
अजनाभम् नाम एतत् वर्षम् भारतम् इति यतस् आरभ्य व्यपदिशन्ति।
ajanābham nāma etat varṣam bhāratam iti yatas ārabhya vyapadiśanti.
स बहुविन्महीपतिः पितृपितामहवदुरुवत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्वधर्ममनुवर्तमानः पर्यपालयत् ४।
स बहु-विद् महीपतिः पितृ-पितामह-वत् उरु-वत्सल-तया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्वधर्मम् अनुवर्तमानः पर्यपालयत्।
sa bahu-vid mahīpatiḥ pitṛ-pitāmaha-vat uru-vatsala-tayā sve sve karmaṇi vartamānāḥ prajāḥ svadharmam anuvartamānaḥ paryapālayat.
ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभिरुच्चावचैः श्रद्धयाहृताग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं चा-तुर्होत्रविधिना ५।
ईजे च भगवन्तम् यज्ञक्रतु-रूपम् क्रतुभिः उच्चावचैः श्रद्धया आहृत-अग्निहोत्र-दर्श-पूर्णमास-चातुर्मास्य-पशु-सोमानाम् प्रकृति-विकृतिभिः अनुसवनम् चातुर्होत्र-विधिना।
īje ca bhagavantam yajñakratu-rūpam kratubhiḥ uccāvacaiḥ śraddhayā āhṛta-agnihotra-darśa-pūrṇamāsa-cāturmāsya-paśu-somānām prakṛti-vikṛtibhiḥ anusavanam cāturhotra-vidhinā.
सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे सर्वदेवतालिङ्गानां मन्त्राणामर्थनिया-मकतया साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव भावयमान आत्मनैपुण्यमृदितकषायो हविःष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो देवांस्तान्पुरुषावयवेष्वभ्यध्यायत् ६।
सम्प्रचरत्सु नाना यागेषु विरचित-अङ्ग-क्रियेषु अपूर्वम् यत् तत् क्रिया-फलम् धर्म-आख्यम् परे ब्रह्मणि यज्ञपुरुषे सर्व-देवता-लिङ्गानाम् मन्त्राणाम् अर्थ-नियामक-तया साक्षात् कर्तरि पर-देवतायाम् भगवति वासुदेवे एव भावयमानः आत्म-नैपुण्य-मृदित-कषायः हविःषु अध्वर्युभिः गृह्यमाणेषु स यजमानः यज्ञ-भाजः देवान् तान् पुरुष-अवयवेषु अभ्यध्यायत्।
sampracaratsu nānā yāgeṣu viracita-aṅga-kriyeṣu apūrvam yat tat kriyā-phalam dharma-ākhyam pare brahmaṇi yajñapuruṣe sarva-devatā-liṅgānām mantrāṇām artha-niyāmaka-tayā sākṣāt kartari para-devatāyām bhagavati vāsudeve eva bhāvayamānaḥ ātma-naipuṇya-mṛdita-kaṣāyaḥ haviḥṣu adhvaryubhiḥ gṛhyamāṇeṣu sa yajamānaḥ yajña-bhājaḥ devān tān puruṣa-avayaveṣu abhyadhyāyat.
एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाशशरीरे ब्रह्मणि भगवति वासुदेवे महापुरुषरूपोपलक्षणे श्रीवत्सकौस्तुभवनमाला-रिदरगदादिभिरुपलक्षिते निजपुरुषहृल्लिखितेनात्मनि पुरुषरूपेण विरोचमान उच्चैस्तरां भक्तिरनुदिनमेधमानरयाजायत ७।
एवम् कर्म-विशुद्ध्या विशुद्ध-सत्त्वस्य अन्तर् हृदय-आकाश-शरीरे ब्रह्मणि भगवति वासुदेवे महापुरुष-रूप-उपलक्षणे श्रीवत्स-कौस्तुभ-वनमाला-रिदर-गद-आदिभिः उपलक्षिते निज-पुरुष-हृद्-लिखितेन आत्मनि पुरुष-रूपेण विरोचमाने उच्चैस्तराम् भक्तिः अनुदिनम् एधमान-रया अजायत।
evam karma-viśuddhyā viśuddha-sattvasya antar hṛdaya-ākāśa-śarīre brahmaṇi bhagavati vāsudeve mahāpuruṣa-rūpa-upalakṣaṇe śrīvatsa-kaustubha-vanamālā-ridara-gada-ādibhiḥ upalakṣite nija-puruṣa-hṛd-likhitena ātmani puruṣa-rūpeṇa virocamāne uccaistarām bhaktiḥ anudinam edhamāna-rayā ajāyata.
एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरोऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं यथादायं विभज्य स्वयं सकल-सम्पन्निकेतात्स्वनिकेतात्पुलहाश्रमं प्रवव्राज ८।
एवम् वर्ष-अयुत-सहस्र-पर्यन्त-अवसित-कर्म-निर्वाण-अवसरः अधिभुज्यमानम् स्व-तनयेभ्यः रिक्थम् पितृपैतामहम् यथादायम् विभज्य स्वयम् सकल-सम्पद्-निकेतात् स्व-निकेतात् पुलह-आश्रमम् प्रवव्राज।
evam varṣa-ayuta-sahasra-paryanta-avasita-karma-nirvāṇa-avasaraḥ adhibhujyamānam sva-tanayebhyaḥ riktham pitṛpaitāmaham yathādāyam vibhajya svayam sakala-sampad-niketāt sva-niketāt pulaha-āśramam pravavrāja.
यत्र ह वाव भगवान्हरिरद्यापि तत्रत्यानां निजजनानां वात्सल्येन सन्निधाप्यत इच्छारूपेण ९।
यत्र ह वाव भगवान् हरिः अद्य अपि तत्रत्यानाम् निज-जनानाम् वात्सल्येन सन्निधाप्यते इच्छा-रूपेण।
yatra ha vāva bhagavān hariḥ adya api tatratyānām nija-janānām vātsalyena sannidhāpyate icchā-rūpeṇa.
यत्राश्रमपदान्युभयतो नाभिभिर्दृषच्चक्रैश्चक्रनदी नाम सरित्प्रवरा सर्वतः पवित्री करोति १०।
यत्र आश्रम-पदानि उभयतस् नाभिभिः दृषद्-चक्रैः चक्रनदी नाम सरित् प्रवरा सर्वतस् पवित्री करोति।
yatra āśrama-padāni ubhayatas nābhibhiḥ dṛṣad-cakraiḥ cakranadī nāma sarit pravarā sarvatas pavitrī karoti.
तस्मिन्वाव किल स एकलः पुलहाश्रमोपवने विविधकुसुमकिसलयतुलसिकाम्बुभिः कन्दमूलफलोपहारैश्च समीहमानो भगवत आराधनं विविक्त उपरतविषयाभिलाष उपभृतोपशमः परां निर्वृतिमवाप ११।
तस्मिन् वाव किल सः एकलः पुलह-आश्रम-उपवने विविध-कुसुम-किसलय-तुलसिका-अम्बुभिः कन्द-मूल-फल-उपहारैः च समीहमानः भगवतः आराधनम् विविक्तः उपरत-विषय-अभिलाषः उपभृत-उपशमः पराम् निर्वृतिम् अवाप।
tasmin vāva kila saḥ ekalaḥ pulaha-āśrama-upavane vividha-kusuma-kisalaya-tulasikā-ambubhiḥ kanda-mūla-phala-upahāraiḥ ca samīhamānaḥ bhagavataḥ ārādhanam viviktaḥ uparata-viṣaya-abhilāṣaḥ upabhṛta-upaśamaḥ parām nirvṛtim avāpa.
तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमानानुरागभरद्रुतहृदयशैथिल्यः प्रहर्षवेगेनात्मन्युद्भिद्यमानरोमपुलककुलक औत्कण्ठ्यप्रवृत्तप्रणयबाष्पनिरुद्धावलोकनयन एवं निजरमणारुणचरणारविन्दानुध्यानपरिचितभक्तियोगेन परिप्लुतपरमाह्लादगम्भीरहृदयह्रदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्यां न सस्मार १२।
तया इत्थम् अविरत-पुरुष-परिचर्यया भगवति प्रवर्धमान-अनुराग-भर-द्रुत-हृदय-शैथिल्यः प्रहर्ष-वेगेन आत्मनि उद्भिद्यमान-रोम-पुलक-कुलक औत्कण्ठ्य-प्रवृत्त-प्रणय-बाष्प-निरुद्ध-अवलोक-नयन एवम् निज-रमण-अरुण-चरण-अरविन्द-अनुध्यान-परिचित-भक्ति-योगेन परिप्लुत-परम-आह्लाद-गम्भीर-हृदय-ह्रद-अवगाढ-धिषणः ताम् अपि क्रियमाणाम् भगवत्-सपर्याम् न सस्मार।
tayā ittham avirata-puruṣa-paricaryayā bhagavati pravardhamāna-anurāga-bhara-druta-hṛdaya-śaithilyaḥ praharṣa-vegena ātmani udbhidyamāna-roma-pulaka-kulaka autkaṇṭhya-pravṛtta-praṇaya-bāṣpa-niruddha-avaloka-nayana evam nija-ramaṇa-aruṇa-caraṇa-aravinda-anudhyāna-paricita-bhakti-yogena paripluta-parama-āhlāda-gambhīra-hṛdaya-hrada-avagāḍha-dhiṣaṇaḥ tām api kriyamāṇām bhagavat-saparyām na sasmāra.
इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्र कपिश-कुटिलजटाकलापेन च विरोचमानः सूर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्युपतिष्ठन्नेत होवाच १३।
इत्थम् धृत-भगवत्-व्रतः ऐणेय-अजिन-वास-सानु-सवन-अभिषेक-आर्द्र-कपिश-कुटिल-जटा-कलापेन च विरोचमानः सूर्य-ऋचा भगवन्तम् हिरण्मयम् पुरुषम् उज्जिहाने सूर्य-मण्डले अभ्युपतिष्ठन् एत ह उवाच।
ittham dhṛta-bhagavat-vrataḥ aiṇeya-ajina-vāsa-sānu-savana-abhiṣeka-ārdra-kapiśa-kuṭila-jaṭā-kalāpena ca virocamānaḥ sūrya-ṛcā bhagavantam hiraṇmayam puruṣam ujjihāne sūrya-maṇḍale abhyupatiṣṭhan eta ha uvāca.
परोरजः सवितुर्जातवेदो देवस्य भर्गो मनसेदं जजान। सुरेतसादः पुनराविश्य चष्टे हंसं गृध्राणं नृषद्रिङ्गिरामिमः १४।
परोरजः सवितुः जातवेदः देवस्य भर्गः मनसा इदम् जजान। सुरेतसादः पुनर् आविश्य चष्टे हंसम् गृध्राणम् नृषद्-रिङ्गिराम् इमः।
parorajaḥ savituḥ jātavedaḥ devasya bhargaḥ manasā idam jajāna. suretasādaḥ punar āviśya caṣṭe haṃsam gṛdhrāṇam nṛṣad-riṅgirām imaḥ.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भरतचरिते भगवत्परिचर्यायां सप्तमोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे भरतचरिते भगवत्-परिचर्यायाम् सप्तमः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe bharatacarite bhagavat-paricaryāyām saptamaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In