| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः । सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किमकारषीत्ततः ॥ १ ॥
हत्वा स्व-रिक्थ-स्पृधः आततायिनः युधिष्ठिरः धर्म-भृताम् वरिष्ठः । सह अनुजैः प्रत्यवरुद्ध-भोजनः कथम् प्रवृत्तः किम् अकारषीत् ततस् ॥ १ ॥
hatvā sva-riktha-spṛdhaḥ ātatāyinaḥ yudhiṣṭhiraḥ dharma-bhṛtām variṣṭhaḥ . saha anujaiḥ pratyavaruddha-bhojanaḥ katham pravṛttaḥ kim akāraṣīt tatas .. 1 ..
शौनक उवाच । - (वंशस्थ)
वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरिः । निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह ॥ २ ॥
वंशम् कुरोः वंश-दवाग्नि-निर्हृतम् संरोहयित्वा भव-भावनः हरिः । निवेशयित्वा निज-राज्ये ईश्वरः युधिष्ठिरम् प्रीत-मनाः बभूव ह ॥ २ ॥
vaṃśam kuroḥ vaṃśa-davāgni-nirhṛtam saṃrohayitvā bhava-bhāvanaḥ hariḥ . niveśayitvā nija-rājye īśvaraḥ yudhiṣṭhiram prīta-manāḥ babhūva ha .. 2 ..
सूत उवाच ।
निशम्य भीष्मोक्तमथाच्युतोक्तं प्रवृत्त विज्ञान विधूत विभ्रमः । शशास गामिन्द्र इवाजिताश्रयः परिध्युपान्तां अनुजानुवर्तितः ॥ ३ ॥
निशम्य भीष्म-उक्तम् अथ अच्युत-उक्तम् प्रवृत्त-विज्ञान-विधूत-विभ्रमः । शशास गाम् इन्द्रः इव अजित-आश्रयः परिधि-उपान्ताम् अनुज-अनुवर्तितः ॥ ३ ॥
niśamya bhīṣma-uktam atha acyuta-uktam pravṛtta-vijñāna-vidhūta-vibhramaḥ . śaśāsa gām indraḥ iva ajita-āśrayaḥ paridhi-upāntām anuja-anuvartitaḥ .. 3 ..
कामं ववर्ष पर्जन्यः सर्वकामदुघा मही । सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा ॥ ४ ॥
कामम् ववर्ष पर्जन्यः सर्व-कामदुघा मही । सिषिचुः स्म व्रजान् गावः पयसा उधस्वतीः मुदा ॥ ४ ॥
kāmam vavarṣa parjanyaḥ sarva-kāmadughā mahī . siṣicuḥ sma vrajān gāvaḥ payasā udhasvatīḥ mudā .. 4 ..
(अनुष्टुप्)
नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः । फलन्त्योषधयः सर्वाः कामं अन्वृतु तस्य वै ॥ ५ ॥
नद्यः समुद्राः गिरयः स वनस्पति-वीरुधः । फलन्ति ओषधयः सर्वाः कामम् अन्वृतु तस्य वै ॥ ५ ॥
nadyaḥ samudrāḥ girayaḥ sa vanaspati-vīrudhaḥ . phalanti oṣadhayaḥ sarvāḥ kāmam anvṛtu tasya vai .. 5 ..
नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः । अजातशत्रौ अवभवन् जन्तूनां राज्ञि कर्हिचित् ॥ ६ ॥
न आधयः व्याधयः क्लेशाः दैव-भूत-आत्म-हेतवः । अजातशत्रौ अवभवन् जन्तूनाम् राज्ञि कर्हिचित् ॥ ६ ॥
na ādhayaḥ vyādhayaḥ kleśāḥ daiva-bhūta-ātma-hetavaḥ . ajātaśatrau avabhavan jantūnām rājñi karhicit .. 6 ..
उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः । सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥ ७ ॥
उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः । सुहृदाम् च विशोकाय स्वसुः च प्रिय-काम्यया ॥ ७ ॥
uṣitvā hāstinapure māsān katipayān hariḥ . suhṛdām ca viśokāya svasuḥ ca priya-kāmyayā .. 7 ..
आमंत्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् । आरुरोह रथं कैश्चित् परिष्वक्तोऽभिवादितः ॥ ८ ॥
आमंत्र्य च अभ्यनुज्ञातः परिष्वज्य अभिवाद्य तम् । आरुरोह रथम् कैश्चिद् परिष्वक्तः अभिवादितः ॥ ८ ॥
āmaṃtrya ca abhyanujñātaḥ pariṣvajya abhivādya tam . āruroha ratham kaiścid pariṣvaktaḥ abhivāditaḥ .. 8 ..
सुभद्रा द्रौपदी कुन्ती विराटतनया तथा । गान्धारी धृतराष्ट्रश्च युयुत्सुः गौतमो यमौ ॥ ९ ॥
सुभद्रा द्रौपदी कुन्ती विराट-तनया तथा । गान्धारी धृतराष्ट्रः च युयुत्सुः गौतमः यमौ ॥ ९ ॥
subhadrā draupadī kuntī virāṭa-tanayā tathā . gāndhārī dhṛtarāṣṭraḥ ca yuyutsuḥ gautamaḥ yamau .. 9 ..
वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः । न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ॥ १० ॥
वृकोदरः च धौम्यः च स्त्रियः मत्स्य-सुत-आदयः । न सेहिरे विमुह्यन्तः विरहम् शार्ङ्गधन्वनः ॥ १० ॥
vṛkodaraḥ ca dhaumyaḥ ca striyaḥ matsya-suta-ādayaḥ . na sehire vimuhyantaḥ viraham śārṅgadhanvanaḥ .. 10 ..
सत्सङ्गात् मुक्तदुःसङ्गो हातुं नोत्सहते बुधः । कीर्त्यमानं यशो यस्य सकृत् आकर्ण्य रोचनम् ॥ ११ ॥
सत्-सङ्गात् मुक्त-दुःसङ्गः हातुम् ना उत्सहते बुधः । कीर्त्यमानम् यशः यस्य सकृत् आकर्ण्य रोचनम् ॥ ११ ॥
sat-saṅgāt mukta-duḥsaṅgaḥ hātum nā utsahate budhaḥ . kīrtyamānam yaśaḥ yasya sakṛt ākarṇya rocanam .. 11 ..
तस्मिन् न्यस्तधियः पार्थाः सहेरन् विरहं कथम् । दर्शनस्पर्शसंलाप शयनासन भोजनैः ॥ १२ ॥
तस्मिन् न्यस्त-धियः पार्थाः सहेरन् विरहम् कथम् । दर्शन-स्पर्श-संलाप-शयन-आसन-भोजनैः ॥ १२ ॥
tasmin nyasta-dhiyaḥ pārthāḥ saheran viraham katham . darśana-sparśa-saṃlāpa-śayana-āsana-bhojanaiḥ .. 12 ..
सर्वे तेऽनिमिषैः अक्षैः तं अनु द्रुतचेतसः । वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ १३ ॥
सर्वे ते अनिमिषैः अक्षैः तम् अनु द्रुत-चेतसः । वीक्षन्तः स्नेह-सम्बद्धाः विचेलुः तत्र तत्र ह ॥ १३ ॥
sarve te animiṣaiḥ akṣaiḥ tam anu druta-cetasaḥ . vīkṣantaḥ sneha-sambaddhāḥ viceluḥ tatra tatra ha .. 13 ..
न्यरुन्धन् उद्गलत् बाष्पं औत्कण्ठ्यात् देवकीसुते । निर्यात्यगारात् नोऽभद्रं इति स्यात् बान्धवस्त्रियः ॥ १४ ॥
न्यरुन्धन् उद्गलत् बाष्पम् औत्कण्ठ्यात् देवकीसुते । निर्याति अगारात् इति स्यात् बान्धव-स्त्रियः ॥ १४ ॥
nyarundhan udgalat bāṣpam autkaṇṭhyāt devakīsute . niryāti agārāt iti syāt bāndhava-striyaḥ .. 14 ..
मृदङ्गशङ्खभेर्यश्च वीणापणव गोमुखाः । धुन्धुर्यानक घण्टाद्या नेदुः दुन्दुभयस्तथा ॥ १५ ॥
मृदङ्ग-शङ्ख-भेर्यः च वीणा-पणव गोमुखाः । धुन्धुः यानक-घण्टा-आद्याः नेदुः दुन्दुभयः तथा ॥ १५ ॥
mṛdaṅga-śaṅkha-bheryaḥ ca vīṇā-paṇava gomukhāḥ . dhundhuḥ yānaka-ghaṇṭā-ādyāḥ neduḥ dundubhayaḥ tathā .. 15 ..
प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया । ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः ॥ १६ ॥
प्रासाद-शिखर-आरूढाः कुरु-नार्यः दिदृक्षया । ववृषुः कुसुमैः कृष्णम् प्रेम-व्रीडा-स्मित-ईक्षणाः ॥ १६ ॥
prāsāda-śikhara-ārūḍhāḥ kuru-nāryaḥ didṛkṣayā . vavṛṣuḥ kusumaiḥ kṛṣṇam prema-vrīḍā-smita-īkṣaṇāḥ .. 16 ..
सितातपत्रं जग्राह मुक्तादामविभूषितम् । रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह ॥ १७ ॥
सित-आतपत्रम् जग्राह मुक्ता-दाम-विभूषितम् । रत्न-दण्डम् गुडाकेशः प्रियः प्रियतमस्य ह ॥ १७ ॥
sita-ātapatram jagrāha muktā-dāma-vibhūṣitam . ratna-daṇḍam guḍākeśaḥ priyaḥ priyatamasya ha .. 17 ..
उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते । विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ॥ १८ ॥
उद्धवः सात्यकिः च एव व्यजने परम-अद्भुते । विकीर्यमाणः कुसुमैः रेजे मधुपतिः पथि ॥ १८ ॥
uddhavaḥ sātyakiḥ ca eva vyajane parama-adbhute . vikīryamāṇaḥ kusumaiḥ reje madhupatiḥ pathi .. 18 ..
अश्रूयन्ताशिषः सत्याः तत्र तत्र द्विजेरिताः । नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥ १९ ॥
अश्रूयन्त आशिषः सत्याः तत्र तत्र द्विज-ईरिताः । न अनुरूप-अनुरूपाः च निर्गुणस्य गुण-आत्मनः ॥ १९ ॥
aśrūyanta āśiṣaḥ satyāḥ tatra tatra dvija-īritāḥ . na anurūpa-anurūpāḥ ca nirguṇasya guṇa-ātmanaḥ .. 19 ..
अन्योन्यमासीत् संजल्प उत्तमश्लोकचेतसाम् । कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः ॥ २० ॥
अन्योन्यम् आसीत् संजल्पः उत्तमश्लोक-चेतसाम् । कौरव-इन्द्र-पुर-स्त्रीणाम् सर्व-श्रुति-मनोहरः ॥ २० ॥
anyonyam āsīt saṃjalpaḥ uttamaśloka-cetasām . kaurava-indra-pura-strīṇām sarva-śruti-manoharaḥ .. 20 ..
स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि । अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मन्निशि सुप्तशक्तिषु ॥ २१ ॥
स वै किल अयम् पुरुषः पुरातनः यः एकः आसीत् अविशेषे आत्मनि । अग्रे गुणेभ्यः जगदात्मनि ईश्वरे निमीलित-आत्मन् निशि सुप्त-शक्तिषु ॥ २१ ॥
sa vai kila ayam puruṣaḥ purātanaḥ yaḥ ekaḥ āsīt aviśeṣe ātmani . agre guṇebhyaḥ jagadātmani īśvare nimīlita-ātman niśi supta-śaktiṣu .. 21 ..
स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् । अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्त्रकृत् ॥ २२ ॥
सः एव भूयस् निज-वीर्य-चोदिताम् स्व-जीव-मायाम् प्रकृतिम् सिसृक्षतीम् । अ नाम-रूप-आत्मनि रूप-नामनी विधित्समानः अनुससार शास्त्र-कृत् ॥ २२ ॥
saḥ eva bhūyas nija-vīrya-coditām sva-jīva-māyām prakṛtim sisṛkṣatīm . a nāma-rūpa-ātmani rūpa-nāmanī vidhitsamānaḥ anusasāra śāstra-kṛt .. 22 ..
स वा अयं यत्पदमत्र सूरयो जितेन्द्रिया निर्जितमातरिश्वनः । पश्यन्ति भक्ति उत्कलितामलात्मना नन्वेष सत्त्वं परिमार्ष्टुमर्हति ॥ २३ ॥
स वै अयम् यत् पदम् अत्र सूरयः जित-इन्द्रियाः निर्जित-मातरिश्वनः । पश्यन्ति उत्कलित-अमल-आत्मना ननु एष सत्त्वम् परिमार्ष्टुम् अर्हति ॥ २३ ॥
sa vai ayam yat padam atra sūrayaḥ jita-indriyāḥ nirjita-mātariśvanaḥ . paśyanti utkalita-amala-ātmanā nanu eṣa sattvam parimārṣṭum arhati .. 23 ..
स वा अयं सख्यनुगीत सत्कथो वेदेषु गुह्येषु च गुह्यवादिभिः । य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते ॥ २४ ॥
स वै अयम् सखि अनुगीत सत्-कथः वेदेषु गुह्येषु च गुह्य-वादिभिः । यः एकः ईशः जगत्-आत्म-लीलया सृजति अवति अत्ति न तत्र सज्जते ॥ २४ ॥
sa vai ayam sakhi anugīta sat-kathaḥ vedeṣu guhyeṣu ca guhya-vādibhiḥ . yaḥ ekaḥ īśaḥ jagat-ātma-līlayā sṛjati avati atti na tatra sajjate .. 24 ..
यदा ह्यधर्मेण तमोधियो नृपा जीवन्ति तत्रैष हि सत्त्वतः किल । धत्ते भगं सत्यमृतं दयां यशो भवाय रूपाणि दधत् युगे युगे ॥ २५ ॥
यदा हि अधर्मेण तमः-धियः नृपाः जीवन्ति तत्र एष हि सत्त्वतः किल । धत्ते भगम् सत्यम् ऋतम् दयाम् यशः भवाय रूपाणि दधत् युगे युगे ॥ २५ ॥
yadā hi adharmeṇa tamaḥ-dhiyaḥ nṛpāḥ jīvanti tatra eṣa hi sattvataḥ kila . dhatte bhagam satyam ṛtam dayām yaśaḥ bhavāya rūpāṇi dadhat yuge yuge .. 25 ..
अहो अलं श्लाघ्यतमं यदोः कुलं अहो अलं पुण्यतमं मधोर्वनम् । यदेष पुंसां ऋषभः श्रियः पतिः स्वजन्मना चङ्क्रमणेन चाञ्चति ॥ २६ ॥
अहो अलम् श्लाघ्यतमम् यदोः कुलम् अहो अलम् पुण्यतमम् मधोः वनम् । यत् एष पुंसाम् ऋषभः श्रियः पतिः स्व-जन्मना चङ्क्रमणेन च अञ्चति ॥ २६ ॥
aho alam ślāghyatamam yadoḥ kulam aho alam puṇyatamam madhoḥ vanam . yat eṣa puṃsām ṛṣabhaḥ śriyaḥ patiḥ sva-janmanā caṅkramaṇena ca añcati .. 26 ..
अहो बत स्वर्यशसः तिरस्करी कुशस्थली पुण्ययशस्करी भुवः । पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपतिं स्म यत्प्रजाः ॥ २७ ॥
अहो बत स्वर् यशसः तिरस्करी कुशस्थली पुण्य-यशस्करी भुवः । पश्यन्ति नित्यम् यद्-अनुग्रह-इषितम् स्मित-अवलोकम् स्व-पतिम् स्म यत् प्रजाः ॥ २७ ॥
aho bata svar yaśasaḥ tiraskarī kuśasthalī puṇya-yaśaskarī bhuvaḥ . paśyanti nityam yad-anugraha-iṣitam smita-avalokam sva-patim sma yat prajāḥ .. 27 ..
नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः । पिबंति याः सख्यधरामृतं मुहुः व्रजस्त्रियः सम्मुमुहुः यदाशयाः ॥ २८ ॥
नूनम् व्रत-स्नान-हुत-अदिना ईश्वरः समर्चितः हि अस्य गृहीत-पाणिभिः । पिबंति याः सखी-अधर-अमृतम् मुहुर् व्रजस्त्रियः सम्मुमुहुः यद्-आशयाः ॥ २८ ॥
nūnam vrata-snāna-huta-adinā īśvaraḥ samarcitaḥ hi asya gṛhīta-pāṇibhiḥ . pibaṃti yāḥ sakhī-adhara-amṛtam muhur vrajastriyaḥ sammumuhuḥ yad-āśayāḥ .. 28 ..
या वीर्यशुल्केन हृताः स्वयंवरे प्रमथ्य चैद्यः प्रमुखान्हि शुष्मिणः । प्रद्युम्न साम्बाम्ब सुतादयोऽपरा याः चाहृता भौमवधे सहस्रशः ॥ २९ ॥
याः वीर्य-शुल्केन हृताः स्वयंवरे प्रमथ्य चैद्यः प्रमुखान् हि शुष्मिणः । प्रद्युम्न-साम्ब-अम्ब-सुत-आदयः अपरा याः च आहृताः भौम-वधे सहस्रशस् ॥ २९ ॥
yāḥ vīrya-śulkena hṛtāḥ svayaṃvare pramathya caidyaḥ pramukhān hi śuṣmiṇaḥ . pradyumna-sāmba-amba-suta-ādayaḥ aparā yāḥ ca āhṛtāḥ bhauma-vadhe sahasraśas .. 29 ..
एताः परं स्त्रीत्वमपास्तपेशलं निरस्तशौचं बत साधु कुर्वते । यासां गृहात् पुष्करलोचनः पतिः न जातु अपैत्याहृतिभिः हृदि स्पृशन् ॥ ३० ॥
एताः परम् स्त्री-त्वम् अपास्त-पेशलम् निरस्त-शौचम् बत साधु कुर्वते । यासाम् गृहात् पुष्कर-लोचनः पतिः न जातु अपैति आहृतिभिः हृदि स्पृशन् ॥ ३० ॥
etāḥ param strī-tvam apāsta-peśalam nirasta-śaucam bata sādhu kurvate . yāsām gṛhāt puṣkara-locanaḥ patiḥ na jātu apaiti āhṛtibhiḥ hṛdi spṛśan .. 30 ..
एवंविधा गदन्तीनां स गिरः पुरयोषिताम् । निरीक्षणेन अभिनन्दन् सस्मितेन ययौ हरिः ॥ ३१ ॥
एवंविधाः गदन्तीनाम् स गिरः पुर-योषिताम् । निरीक्षणेन अभिनन्दन् स स्मितेन ययौ हरिः ॥ ३१ ॥
evaṃvidhāḥ gadantīnām sa giraḥ pura-yoṣitām . nirīkṣaṇena abhinandan sa smitena yayau hariḥ .. 31 ..
(अनुष्टुप्)
अजातशत्रुः पृतनां गोपीथाय मधुद्विषः । परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्गिणीम् ॥ ३२ ॥
अजातशत्रुः पृतनाम् गोपीथाय मधुद्विषः । परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्गिणीम् ॥ ३२ ॥
ajātaśatruḥ pṛtanām gopīthāya madhudviṣaḥ . parebhyaḥ śaṅkitaḥ snehāt prāyuṅkta caturaṅgiṇīm .. 32 ..
अथ दूरागतान् शौरिः कौरवान् विरहातुरान् । सन्निवर्त्य दृढं स्निग्धान् प्रायात्स्वनगरीं प्रियैः ॥ ३३ ॥
अथ दूर-आगतान् शौरिः कौरवान् विरह-आतुरान् । सन् निवर्त्य दृढम् स्निग्धान् प्रायात् स्व-नगरीम् प्रियैः ॥ ३३ ॥
atha dūra-āgatān śauriḥ kauravān viraha-āturān . san nivartya dṛḍham snigdhān prāyāt sva-nagarīm priyaiḥ .. 33 ..
कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् । ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ ॥ ३४ ॥
कुरुजाङ्गल-पाञ्चालान् शूरसेनान् स यामुनान् । ब्रह्मावर्तम् कुरुक्षेत्रम् मत्स्यान् सारस्वतान् अथ ॥ ३४ ॥
kurujāṅgala-pāñcālān śūrasenān sa yāmunān . brahmāvartam kurukṣetram matsyān sārasvatān atha .. 34 ..
मरुधन्वमतिक्रम्य सौवीराभीरयोः परान् । आनर्तान् भार्गवोपागात् श्रान्तवाहो मनाग्विभुः ॥ ३५ ॥
मरु-धन्वम् अतिक्रम्य सौवीर-आभीरयोः परान् । आनर्तान् भार्गव उपागात् श्रान्त-वाहः मनाक् विभुः ॥ ३५ ॥
maru-dhanvam atikramya sauvīra-ābhīrayoḥ parān . ānartān bhārgava upāgāt śrānta-vāhaḥ manāk vibhuḥ .. 35 ..
तत्र तत्र ह तत्रत्यैः हरिः प्रत्युद्यतार्हणः । सायं भेजे दिशं पश्चात् गविष्ठो गां गतस्तदा ॥ ३६ ॥
तत्र तत्र ह तत्रत्यैः हरिः प्रत्युद्यत-अर्हणः । सायम् भेजे दिशम् पश्चात् गविष्ठः गाम् गतः तदा ॥ ३६ ॥
tatra tatra ha tatratyaiḥ hariḥ pratyudyata-arhaṇaḥ . sāyam bheje diśam paścāt gaviṣṭhaḥ gām gataḥ tadā .. 36 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे श्रीकृष्णद्वारकागमनं नाम दशमोऽध्यायः ॥ १० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथम-स्कन्धे श्रीकृष्णद्वारकागमनम् नाम दशमः अध्यायः ॥ १० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām prathama-skandhe śrīkṛṣṇadvārakāgamanam nāma daśamaḥ adhyāyaḥ .. 10 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In