| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान् स्वकान् । दध्मौ दरवरं तेषां विषादं शमयन्निव ॥ १ ॥
आनर्तान् सः उपव्रज्य सु ऋद्धान् जनपदान् स्वकान् । दध्मौ दर-वरम् तेषाम् विषादम् शमयन् इव ॥ १ ॥
ānartān saḥ upavrajya su ṛddhān janapadān svakān . dadhmau dara-varam teṣām viṣādam śamayan iva .. 1 ..
सूत उवाच ।
स उच्चकाशे धवलोदरो दरोऽपि उरुक्रमस्य अधरशोण शोणिमा । दाध्मायमानः करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः ॥ २ ॥
सः उच्चकाशे धवल-उदरः दरः अपि उरुक्रमस्य अधर-शोण शोणिमा । दाध्मायमानः कर-कञ्ज-सम्पुटे यथा अब्ज-खण्डे कलहंसः उत्स्वनः ॥ २ ॥
saḥ uccakāśe dhavala-udaraḥ daraḥ api urukramasya adhara-śoṇa śoṇimā . dādhmāyamānaḥ kara-kañja-sampuṭe yathā abja-khaṇḍe kalahaṃsaḥ utsvanaḥ .. 2 ..
तमुपश्रुत्य निनदं जगद्भयभयावहम् । प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः ॥ ३ ॥
तम् उपश्रुत्य निनदम् जगत्-भय-भय-आवहम् । प्रत्युद्ययुः प्रजाः सर्वाः भर्तृ-दर्शन-लालसाः ॥ ३ ॥
tam upaśrutya ninadam jagat-bhaya-bhaya-āvaham . pratyudyayuḥ prajāḥ sarvāḥ bhartṛ-darśana-lālasāḥ .. 3 ..
तत्रोपनीतबलयो रवेर्दीपमिवादृताः । आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥ ४ ॥
तत्र उपनीत-बलयः रवेः दीपम् इव आदृताः । आत्म-आरामम् पूर्ण-कामम् निज-लाभेन नित्यदा ॥ ४ ॥
tatra upanīta-balayaḥ raveḥ dīpam iva ādṛtāḥ . ātma-ārāmam pūrṇa-kāmam nija-lābhena nityadā .. 4 ..
प्रीत्युत्फुल्लमुखाः प्रोचुः हर्षगद्गदया गिरा । पितरं सर्वसुहृदं अवितारं इवार्भकाः ॥ ५ ॥
प्रीति-उत्फुल्ल-मुखाः प्रोचुः हर्ष-गद्गदया गिरा । पितरम् सर्व-सुहृदम् अवितारम् इव अर्भकाः ॥ ५ ॥
prīti-utphulla-mukhāḥ procuḥ harṣa-gadgadayā girā . pitaram sarva-suhṛdam avitāram iva arbhakāḥ .. 5 ..
नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्च्य सुरेन्द्र वन्दितम् । परायणं क्षेममिहेच्छतां परं न यत्र कालः प्रभवेत्परः प्रभुः ॥ ६ ॥
नताः स्म ते नाथ सदा अङ्घ्रि-पङ्कजम् विरिञ्च-वैरिञ्च्य सुर-इन्द्र वन्दितम् । परायणम् क्षेमम् इह इच्छताम् परम् न यत्र कालः प्रभवेत् परः प्रभुः ॥ ६ ॥
natāḥ sma te nātha sadā aṅghri-paṅkajam viriñca-vairiñcya sura-indra vanditam . parāyaṇam kṣemam iha icchatām param na yatra kālaḥ prabhavet paraḥ prabhuḥ .. 6 ..
भवाय नस्त्वं भव विश्वभावन त्वमेव माताथ सुहृत्पतिः पिता । त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम ॥ ७ ॥
भवाय नः त्वम् भव विश्वभावन त्वम् एव माता अथ सुहृद्-पतिः पिता । त्वम् सत्-गुरुः नः परमम् च दैवतम् यस्य अनुवृत्त्या कृतिनः बभूविम ॥ ७ ॥
bhavāya naḥ tvam bhava viśvabhāvana tvam eva mātā atha suhṛd-patiḥ pitā . tvam sat-guruḥ naḥ paramam ca daivatam yasya anuvṛttyā kṛtinaḥ babhūvima .. 7 ..
अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानामपि दूरदर्शनम् । प्रेमस्मित स्निग्ध निरीक्षणाननं पश्येम रूपं तव सर्वसौभगम् ॥ ८ ॥
अहो सनाथाः भवता स्म यत् वयम् त्रैविष्टपानाम् अपि दूर-दर्शनम् । प्रेम-स्मित स्निग्ध निरीक्षण-आननम् पश्येम रूपम् तव सर्व-सौभगम् ॥ ८ ॥
aho sanāthāḥ bhavatā sma yat vayam traiviṣṭapānām api dūra-darśanam . prema-smita snigdha nirīkṣaṇa-ānanam paśyema rūpam tava sarva-saubhagam .. 8 ..
यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद् दिदृक्षया । तत्राब्दकोटिप्रतिमः क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ ९ ॥
यर्हि अम्बुज-अक्ष अपससार भो भवान् कुरून् मधून् वा अथ सुहृद् दिदृक्षया । तत्र अब्द-कोटि-प्रतिमः क्षणः भवेत् रविम् नः तव अच्युत ॥ ९ ॥
yarhi ambuja-akṣa apasasāra bho bhavān kurūn madhūn vā atha suhṛd didṛkṣayā . tatra abda-koṭi-pratimaḥ kṣaṇaḥ bhavet ravim naḥ tava acyuta .. 9 ..
इति चोदीरिता वाचः प्रजानां भक्तवत्सलः । शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत्पुरम् ॥ १० ॥
इति च उदीरिताः वाचः प्रजानाम् भक्त-वत्सलः । शृण्वानः अनुग्रहम् दृष्ट्याः वितन्वन् प्राविशत् पुरम् ॥ १० ॥
iti ca udīritāḥ vācaḥ prajānām bhakta-vatsalaḥ . śṛṇvānaḥ anugraham dṛṣṭyāḥ vitanvan prāviśat puram .. 10 ..
मधुभोजदशार्हार्ह कुकुरान्धक वृष्णिभिः । आत्मतुल्य बलैर्गुप्तां नागैर्भोगवतीमिव ॥ ११ ॥
मधु-भोज-दशार्ह-अर्ह कुकुर-अन्धक वृष्णिभिः । आत्म-तुल्य बलैः गुप्ताम् नागैः भोगवतीम् इव ॥ ११ ॥
madhu-bhoja-daśārha-arha kukura-andhaka vṛṣṇibhiḥ . ātma-tulya balaiḥ guptām nāgaiḥ bhogavatīm iva .. 11 ..
सर्वर्तु सर्वविभव पुण्यवृक्षलताश्रमैः । उद्यानोपवनारामैः वृत पद्माकर श्रियम् ॥ १२ ॥
सर्व-ऋतु सर्व-विभव पुण्य-वृक्ष-लता-आश्रमैः । उद्यान-उपवन-आरामैः वृत-पद्म-आकर-श्रियम् ॥ १२ ॥
sarva-ṛtu sarva-vibhava puṇya-vṛkṣa-latā-āśramaiḥ . udyāna-upavana-ārāmaiḥ vṛta-padma-ākara-śriyam .. 12 ..
गोपुरद्वारमार्गेषु कृतकौतुक तोरणाम् । चित्रध्वजपताकाग्रैः अन्तः प्रतिहतातपाम् ॥ १३ ॥
गोपुर-द्वार-मार्गेषु तोरणाम् । चित्र-ध्वज-पताका-अग्रैः अन्तर् प्रतिहत-आतपाम् ॥ १३ ॥
gopura-dvāra-mārgeṣu toraṇām . citra-dhvaja-patākā-agraiḥ antar pratihata-ātapām .. 13 ..
सम्मार्जित महामार्ग रथ्यापणक चत्वराम् । सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः ॥ १४ ॥
सम्मार्जित-महा-मार्ग रथ्यापणक चत्वराम् । सिक्ताम् गन्ध-जलैः उप्ताम् फल-पुष्प-अक्षत-अङ्कुरैः ॥ १४ ॥
sammārjita-mahā-mārga rathyāpaṇaka catvarām . siktām gandha-jalaiḥ uptām phala-puṣpa-akṣata-aṅkuraiḥ .. 14 ..
द्वारि द्वारि गृहाणां च दध्यक्षत फलेक्षुभिः । अलङ्कृतां पूर्णकुम्भैः बलिभिः धूपदीपकैः ॥ १५ ॥
द्वारि द्वारि गृहाणाम् च दधि अक्षत फल-इक्षुभिः । अलङ्कृताम् पूर्णकुम्भैः बलिभिः धूप-दीपकैः ॥ १५ ॥
dvāri dvāri gṛhāṇām ca dadhi akṣata phala-ikṣubhiḥ . alaṅkṛtām pūrṇakumbhaiḥ balibhiḥ dhūpa-dīpakaiḥ .. 15 ..
निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः । अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः ॥ १६ ॥
निशम्य प्रेष्ठम् आयान्तम् वसुदेवः महा-मनाः । अक्रूरः च उग्रसेनः च रामः च अद्भुत-विक्रमः ॥ १६ ॥
niśamya preṣṭham āyāntam vasudevaḥ mahā-manāḥ . akrūraḥ ca ugrasenaḥ ca rāmaḥ ca adbhuta-vikramaḥ .. 16 ..
प्रद्युम्नः चारुदेष्णश्च साम्बो जाम्बवतीसुतः । प्रहर्षवेग उच्छशित शयनासन भोजनाः ॥ १७ ॥
प्रद्युम्नः चारुदेष्णः च साम्बः जाम्बवती-सुतः । भोजनाः ॥ १७ ॥
pradyumnaḥ cārudeṣṇaḥ ca sāmbaḥ jāmbavatī-sutaḥ . bhojanāḥ .. 17 ..
वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः । शङ्खतूर्य निनादेन ब्रह्मघोषेण चादृताः । प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागत साध्वसाः ॥ १८ ॥
वारण-इन्द्रम् पुरस्कृत्य ब्राह्मणैः स सु मङ्गलैः । शङ्ख-तूर्य निनादेन ब्रह्मघोषेण च आदृताः । प्रत्युज्जग्मुः रथैः हृष्टाः प्रणय-आगत साध्वसाः ॥ १८ ॥
vāraṇa-indram puraskṛtya brāhmaṇaiḥ sa su maṅgalaiḥ . śaṅkha-tūrya ninādena brahmaghoṣeṇa ca ādṛtāḥ . pratyujjagmuḥ rathaiḥ hṛṣṭāḥ praṇaya-āgata sādhvasāḥ .. 18 ..
वारमुख्याश्च शतशो यानैः तत् दर्शनोत्सुकाः । लसत्कुण्डल निर्भात कपोल वदनश्रियः ॥ १९ ॥
वारमुख्याः च शतशस् यानैः तत् दर्शन-उत्सुकाः । लसत्-कुण्डल निर्भात-कपोल वदन-श्रियः ॥ १९ ॥
vāramukhyāḥ ca śataśas yānaiḥ tat darśana-utsukāḥ . lasat-kuṇḍala nirbhāta-kapola vadana-śriyaḥ .. 19 ..
नटनर्तकगन्धर्वाः सूत मागध वन्दिनः । गायन्ति चोत्तमश्लोक चरितानि अद्भुतानि च ॥ २० ॥
नट-नर्तक-गन्धर्वाः सूत मागध वन्दिनः । गायन्ति च उत्तमश्लोक-चरितानि अद्भुतानि च ॥ २० ॥
naṭa-nartaka-gandharvāḥ sūta māgadha vandinaḥ . gāyanti ca uttamaśloka-caritāni adbhutāni ca .. 20 ..
भगवान् तत्र बन्धूनां पौराणां अनुवर्तिनाम् । यथाविधि उपसङ्गम्य सर्वेषां मानमादधे ॥ २१ ॥
भगवान् तत्र बन्धूनाम् पौराणाम् अनुवर्तिनाम् । यथाविधि उपसङ्गम्य सर्वेषाम् मानम् आदधे ॥ २१ ॥
bhagavān tatra bandhūnām paurāṇām anuvartinām . yathāvidhi upasaṅgamya sarveṣām mānam ādadhe .. 21 ..
प्रह्वाभिवादन आश्लेष करस्पर्श स्मितेक्षणैः । आश्वास्य चाश्वपाकेभ्यो वरैश्च अभिमतैर्विभुः ॥ २२ ॥
प्रह्व-अभिवादन-आश्लेष-कर-स्पर्श-स्मित-ईक्षणैः । आश्वास्य च अश्व-पाकेभ्यः वरैः च अभिमतैः विभुः ॥ २२ ॥
prahva-abhivādana-āśleṣa-kara-sparśa-smita-īkṣaṇaiḥ . āśvāsya ca aśva-pākebhyaḥ varaiḥ ca abhimataiḥ vibhuḥ .. 22 ..
स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि । आशीर्भिः युज्यमानोऽन्यैः वन्दिभिश्चाविशत् पुरम् ॥ २३ ॥
स्वयम् च गुरुभिः विप्रैः स दारैः स्थविरैः अपि । आशीर्भिः युज्यमानः अन्यैः वन्दिभिः च अविशत् पुरम् ॥ २३ ॥
svayam ca gurubhiḥ vipraiḥ sa dāraiḥ sthaviraiḥ api . āśīrbhiḥ yujyamānaḥ anyaiḥ vandibhiḥ ca aviśat puram .. 23 ..
राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः । हर्म्याण्यारुरुहुर्विप्र तदीक्षण महोत्सवाः ॥ २४ ॥
राजमार्गम् गते कृष्णे द्वारकायाः कुल-स्त्रियः । हर्म्याणि आरुरुहुः विप्र तद्-ईक्षण महा-उत्सवाः ॥ २४ ॥
rājamārgam gate kṛṣṇe dvārakāyāḥ kula-striyaḥ . harmyāṇi āruruhuḥ vipra tad-īkṣaṇa mahā-utsavāḥ .. 24 ..
नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् । न वितृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम् ॥ २५ ॥
नित्यम् निरीक्षमाणानाम् यत् अपि द्वारका-ओकसाम् । न वितृप्यन्ति हि दृशः श्रियः धाम-अङ्गम् अच्युतम् ॥ २५ ॥
nityam nirīkṣamāṇānām yat api dvārakā-okasām . na vitṛpyanti hi dṛśaḥ śriyaḥ dhāma-aṅgam acyutam .. 25 ..
श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् । बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥ २६ ॥
श्रियः निवासः यस्य उरः पान-पात्रम् मुखम् दृशाम् । बाहवः लोकपालानाम् सारङ्गाणाम् पद-अम्बुजम् ॥ २६ ॥
śriyaḥ nivāsaḥ yasya uraḥ pāna-pātram mukham dṛśām . bāhavaḥ lokapālānām sāraṅgāṇām pada-ambujam .. 26 ..
सितातपत्रव्यजनैः उपस्कृतः नवर्षैः अभिवर्षितः पथि । पिशङ्गवासा वनमालया बभौ यथार्कोडुप चाप वैद्युतैः ॥ २७ ॥
सितातपत्रव्यजनैः उपस्कृतः नव-ऋषैः अभिवर्षितः पथि । पिशङ्ग-वासाः वनमालया बभौ यथा अर्क-उडुप चाप वैद्युतैः ॥ २७ ॥
sitātapatravyajanaiḥ upaskṛtaḥ nava-ṛṣaiḥ abhivarṣitaḥ pathi . piśaṅga-vāsāḥ vanamālayā babhau yathā arka-uḍupa cāpa vaidyutaiḥ .. 27 ..
प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः । ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥ २८ ॥
प्रविष्टः तु गृहम् पित्रोः परिष्वक्तः स्व-मातृभिः । ववन्दे शिरसा सप्त देवकी-प्रमुखाः मुदा ॥ २८ ॥
praviṣṭaḥ tu gṛham pitroḥ pariṣvaktaḥ sva-mātṛbhiḥ . vavande śirasā sapta devakī-pramukhāḥ mudā .. 28 ..
ताः पुत्रमङ्कं आरोप्य स्नेहस्नुत पयोधराः । हर्षविह्वलितात्मानः सिषिचुः नेत्रजैर्जलैः ॥ २९ ॥
ताः पुत्रम् अङ्कम् आरोप्य स्नेह-स्नुत पयोधराः । हर्ष-विह्वलित-आत्मानः सिषिचुः नेत्र-जैः जलैः ॥ २९ ॥
tāḥ putram aṅkam āropya sneha-snuta payodharāḥ . harṣa-vihvalita-ātmānaḥ siṣicuḥ netra-jaiḥ jalaiḥ .. 29 ..
अथाविशत् स्वभवनं सर्वकाममनुत्तमम् । प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥ ३० ॥
अथा अविशत् स्व-भवनम् सर्व-कामम् अनुत्तमम् । प्रासादाः यत्र पत्नीनाम् सहस्राणि च षोडश ॥ ३० ॥
athā aviśat sva-bhavanam sarva-kāmam anuttamam . prāsādāḥ yatra patnīnām sahasrāṇi ca ṣoḍaśa .. 30 ..
पत्न्यः पतिं प्रोष्य गृहानुपागतं क्य सञ्जात मनोमहोत्सवाः । उत्तस्थुरारात् सहसासनाशयात् व्रतैः व्रीडित लोचनाननाः ॥ ३१ ॥
पत्न्यः पतिम् प्रोष्य गृहान् उपागतम् मनः-महा-उत्सवाः । उत्तस्थुः आरात् सहसा आसन-आशयात् व्रतैः व्रीडित-लोचन-आननाः ॥ ३१ ॥
patnyaḥ patim proṣya gṛhān upāgatam manaḥ-mahā-utsavāḥ . uttasthuḥ ārāt sahasā āsana-āśayāt vrataiḥ vrīḍita-locana-ānanāḥ .. 31 ..
तं आत्मजैः दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम् । निरुद्धमप्यास्रवदम्बु नेत्रयोः विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ३२ ॥
तम् आत्मजैः दृष्टिभिः अन्तरात्मना दुरन्त-भावाः परिरेभिरे पतिम् । निरुद्धम् अपि आस्रवत् अम्बु नेत्रयोः विलज्जतीनाम् भृगु-वर्य वैक्लवात् ॥ ३२ ॥
tam ātmajaiḥ dṛṣṭibhiḥ antarātmanā duranta-bhāvāḥ parirebhire patim . niruddham api āsravat ambu netrayoḥ vilajjatīnām bhṛgu-varya vaiklavāt .. 32 ..
यद्यप्यसौ पार्श्वगतो रहोगतः तथापि तस्याङ्घ्रियुगं नवं नवम् । पदे पदे का विरमेत तत्पदात् चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ ३३ ॥
यदि अपि असौ पार्श्व-गतः रहः-गतः तथा अपि तस्य अङ्घ्रि-युगम् नवम् नवम् । पदे पदे का विरमेत तद्-पदात् चला अपि यत् श्रीः न जहाति कर्हिचित् ॥ ३३ ॥
yadi api asau pārśva-gataḥ rahaḥ-gataḥ tathā api tasya aṅghri-yugam navam navam . pade pade kā virameta tad-padāt calā api yat śrīḥ na jahāti karhicit .. 33 ..
एवं नृपाणां क्षितिभारजन्मनां अक्षौहिणीभिः परिवृत्ततेजसाम् । विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः ॥ ३४ ॥
एवम् नृपाणाम् क्षिति-भार-जन्मनाम् अक्षौहिणीभिः परिवृत्त-तेजसाम् । विधाय वैरम् श्वसनः यथा अनलम् मिथस् वधेन उपरतः निरायुधः ॥ ३४ ॥
evam nṛpāṇām kṣiti-bhāra-janmanām akṣauhiṇībhiḥ parivṛtta-tejasām . vidhāya vairam śvasanaḥ yathā analam mithas vadhena uparataḥ nirāyudhaḥ .. 34 ..
स एष नरलोकेऽस्मिन् अवतीर्णः स्वमायया । रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥ ३५ ॥
सः एष नर-लोके अस्मिन् अवतीर्णः स्व-मायया । रेमे स्त्री-रत्न-कूट-स्थः भगवान् प्राकृतः यथा ॥ ३५ ॥
saḥ eṣa nara-loke asmin avatīrṇaḥ sva-māyayā . reme strī-ratna-kūṭa-sthaḥ bhagavān prākṛtaḥ yathā .. 35 ..
उद्दामभाव पिशुनामल वल्गुहास । व्रीडावलोकनिहतो मदनोऽपि यासाम् ॥ सम्मुह्य चापमजहात् प्रमदोत्तमास्ता । यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ ३६ ॥
उद्दाम-भाव पिशुन-अमल वल्गु-हास । व्रीडा-अवलोक-निहतः मदनः अपि यासाम् ॥ सम्मुह्य चापम् अजहात् प्रमदा-उत्तमा अस्ता । यस्य इन्द्रियम् विमथितुम् कुहकैः न शेकुः ॥ ३६ ॥
uddāma-bhāva piśuna-amala valgu-hāsa . vrīḍā-avaloka-nihataḥ madanaḥ api yāsām .. sammuhya cāpam ajahāt pramadā-uttamā astā . yasya indriyam vimathitum kuhakaiḥ na śekuḥ .. 36 ..
तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम् । आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः ॥ ३७ ॥
तम् अयम् मन्यते लोकः हि असङ्गम् अपि सङ्गिनम् । आत्म-औपम्येन मनुजम् व्यापृण्वानम् यतस् अबुधः ॥ ३७ ॥
tam ayam manyate lokaḥ hi asaṅgam api saṅginam . ātma-aupamyena manujam vyāpṛṇvānam yatas abudhaḥ .. 37 ..
एतत् ईशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः । न युज्यते सदाऽत्मस्थैः यथा बुद्धिस्तदाश्रया ॥ ३८ ॥
एतत् ईशनम् ईशस्य प्रकृति-स्थः अपि तद्-गुणैः । न युज्यते सदा आत्म-स्थैः यथा बुद्धिः तद्-आश्रया ॥ ३८ ॥
etat īśanam īśasya prakṛti-sthaḥ api tad-guṇaiḥ . na yujyate sadā ātma-sthaiḥ yathā buddhiḥ tad-āśrayā .. 38 ..
तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः । अप्रमाणविदो भर्तुः ईश्वरं मतयो यथा ॥ ३९ ॥
तम् मेनिरे अबलाः मूढाः स्त्रैणम् च अनुव्रतम् रहः । अप्रमाण-विदः भर्तुः ईश्वरम् मतयः यथा ॥ ३९ ॥
tam menire abalāḥ mūḍhāḥ straiṇam ca anuvratam rahaḥ . apramāṇa-vidaḥ bhartuḥ īśvaram matayaḥ yathā .. 39 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने श्रीकृष्णद्वारकाप्रवेशो नाम एकादशोऽध्यायः ॥ ११ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथम-स्कन्धे नैमिषीयोपाख्याने श्रीकृष्णद्वारकाप्रवेशः नाम एकादशः अध्यायः ॥ ११ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām prathama-skandhe naimiṣīyopākhyāne śrīkṛṣṇadvārakāpraveśaḥ nāma ekādaśaḥ adhyāyaḥ .. 11 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In