| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ १ ॥
सम्प्रस्थिते द्वारकायाम् जिष्णौ बन्धु-दिदृक्षया । ज्ञातुम् च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ १ ॥
samprasthite dvārakāyām jiṣṇau bandhu-didṛkṣayā . jñātum ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam .. 1 ..
सूत उवाच ।
व्यतीताः कतिचिन्मासाः तदा नायात् ततोऽर्जुनः । ददर्श घोररूपाणि निमित्तानि कुरूद्वहः ॥ २ ॥
व्यतीताः कतिचिद् मासाः तदा न आयात् ततस् अर्जुनः । ददर्श घोर-रूपाणि निमित्तानि कुरु-उद्वहः ॥ २ ॥
vyatītāḥ katicid māsāḥ tadā na āyāt tatas arjunaḥ . dadarśa ghora-rūpāṇi nimittāni kuru-udvahaḥ .. 2 ..
कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः । पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ॥ ३ ॥
कालस्य च गतिम् रौद्राम् विपर्यस्त-ऋतु-धर्मिणः । पापीयसीम् नृणाम् वार्ताम् क्रोध-लोभ-अनृत-आत्मनाम् ॥ ३ ॥
kālasya ca gatim raudrām viparyasta-ṛtu-dharmiṇaḥ . pāpīyasīm nṛṇām vārtām krodha-lobha-anṛta-ātmanām .. 3 ..
जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् । पितृमातृसुहृद्भ्रातृ दम्पतीनां च कल्कनम् ॥ ४ ॥
जिह्म-प्रायम् व्यवहृतम् शाठ्य-मिश्रम् च सौहृदम् । पितृ-मातृ-सुहृद्-भ्रातृ दम्पतीनाम् च कल्कनम् ॥ ४ ॥
jihma-prāyam vyavahṛtam śāṭhya-miśram ca sauhṛdam . pitṛ-mātṛ-suhṛd-bhrātṛ dampatīnām ca kalkanam .. 4 ..
निमित्तान्यत्यरिष्टानि काले तु अनुगते नृणाम् । लोभादि अधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः ॥ ५ ॥
निमित्तानि अति अरिष्टानि काले तु अनुगते नृणाम् । लोभ-आदि अधर्म-प्रकृतिम् दृष्ट्वा उवाच अनुजम् नृपः ॥ ५ ॥
nimittāni ati ariṣṭāni kāle tu anugate nṛṇām . lobha-ādi adharma-prakṛtim dṛṣṭvā uvāca anujam nṛpaḥ .. 5 ..
सम्प्रेषितो द्वारकायां जिष्णुर्बन्धु दिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ ६ ॥
सम्प्रेषितः द्वारकायाम् जिष्णुः बन्धु दिदृक्षया । ज्ञातुम् च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ ६ ॥
sampreṣitaḥ dvārakāyām jiṣṇuḥ bandhu didṛkṣayā . jñātum ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam .. 6 ..
युधिष्ठिर उवाच ।
गताः सप्ताधुना मासा भीमसेन तवानुजः । नायाति कस्य वा हेतोः नाहं वेदेदमञ्जसा ॥ ७ ॥
गताः सप्त अधुना मासाः भीमसेन तव अनुजः । न आयाति कस्य वा हेतोः न अहम् वेद इदम् अञ्जसा ॥ ७ ॥
gatāḥ sapta adhunā māsāḥ bhīmasena tava anujaḥ . na āyāti kasya vā hetoḥ na aham veda idam añjasā .. 7 ..
अपि देवर्षिणाऽऽदिष्टः स कालोऽयमुपस्थितः । यदाऽऽत्मनोऽङ्गमाक्रीडं भगवान् उत्सिसृक्षति ॥ ८ ॥
अपि देवर्षिणा आदिष्टः स कालः अयम् उपस्थितः । यदा आत्मनः अङ्गम् आक्रीडम् भगवान् उत्सिसृक्षति ॥ ८ ॥
api devarṣiṇā ādiṣṭaḥ sa kālaḥ ayam upasthitaḥ . yadā ātmanaḥ aṅgam ākrīḍam bhagavān utsisṛkṣati .. 8 ..
यस्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः । आसन् सपत्नविजयो लोकाश्च यदनुग्रहात् ॥ ९ ॥
यस्मात् नः सम्पदः राज्यम् दाराः प्राणाः कुलम् प्रजाः । आसन् सपत्न-विजयः लोकाः च यद्-अनुग्रहात् ॥ ९ ॥
yasmāt naḥ sampadaḥ rājyam dārāḥ prāṇāḥ kulam prajāḥ . āsan sapatna-vijayaḥ lokāḥ ca yad-anugrahāt .. 9 ..
पश्योत्पातान् नरव्याघ्र दिव्यान् भौमान् सदैहिकान् । दारुणान्शंसतोऽदूराद् भयं नो बुद्धिमोहनम् ॥ १० ॥
पश्य उत्पातान् नर-व्याघ्र दिव्यान् भौमान् स दैहिकान् । दारुणान् शंसतः अदूरात् भयम् नः बुद्धि-मोहनम् ॥ १० ॥
paśya utpātān nara-vyāghra divyān bhaumān sa daihikān . dāruṇān śaṃsataḥ adūrāt bhayam naḥ buddhi-mohanam .. 10 ..
ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः । वेपथुश्चापि हृदये आरात् दास्यन्ति विप्रियम् ॥ ११ ॥
ऊरु-अक्षि-बाहवः मह्यम् स्फुरन्ति अङ्ग पुनर् पुनर् । वेपथुः च अपि हृदये आरात् दास्यन्ति विप्रियम् ॥ ११ ॥
ūru-akṣi-bāhavaḥ mahyam sphuranti aṅga punar punar . vepathuḥ ca api hṛdaye ārāt dāsyanti vipriyam .. 11 ..
शिवैषोद्यन्तं आदित्यं अभिरौति अनलानना । मामङ्ग सारमेयोऽयं अभिरेभत्यभीरुवत् ॥ १२ ॥
शिवा एषा उद्यन्तम् आदित्यम् अभिरौति अनल-आनना । माम् अङ्ग सारमेयः अयम् अभिरेभति अभीरु-वत् ॥ १२ ॥
śivā eṣā udyantam ādityam abhirauti anala-ānanā . mām aṅga sārameyaḥ ayam abhirebhati abhīru-vat .. 12 ..
शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे । वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥ १३ ॥
शस्ताः कुर्वन्ति माम् सव्यम् दक्षिणम् पशवः अपरे । वाहान् च पुरुष-व्याघ्र लक्षये रुदतः मम ॥ १३ ॥
śastāḥ kurvanti mām savyam dakṣiṇam paśavaḥ apare . vāhān ca puruṣa-vyāghra lakṣaye rudataḥ mama .. 13 ..
मृत्युदूतः कपोतोऽयं उलूकः कम्पयन् मनः । प्रत्युलूकश्च कुह्वानैः अनिद्रौ शून्यमिच्छतः ॥ १४ ॥
मृत्यु-दूतः कपोतः अयम् उलूकः कम्पयन् मनः । प्रत्युलूकः च कुह्वानैः अनिद्रौ शून्यम् इच्छतः ॥ १४ ॥
mṛtyu-dūtaḥ kapotaḥ ayam ulūkaḥ kampayan manaḥ . pratyulūkaḥ ca kuhvānaiḥ anidrau śūnyam icchataḥ .. 14 ..
धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः । निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः ॥ १५ ॥
धूम्राः दिशः परिधयः कम्पते भूः सह अद्रिभिः । निर्घातः च महान् तात साकम् च स्तनयित्नुभिः ॥ १५ ॥
dhūmrāḥ diśaḥ paridhayaḥ kampate bhūḥ saha adribhiḥ . nirghātaḥ ca mahān tāta sākam ca stanayitnubhiḥ .. 15 ..
वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः । असृग् वर्षन्ति जलदा बीभत्सं इव सर्वतः ॥ १६ ॥
वायुः वाति खर-स्पर्शः रजसा विसृजन् तमः । असृज् वर्षन्ति जलदाः बीभत्सम् इव सर्वतस् ॥ १६ ॥
vāyuḥ vāti khara-sparśaḥ rajasā visṛjan tamaḥ . asṛj varṣanti jaladāḥ bībhatsam iva sarvatas .. 16 ..
सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि । ससङ्कुलैर्भूतगणैः ज्वलिते इव रोदसी ॥ १७ ॥
सूर्यम् हत-प्रभम् पश्य ग्रह-मर्दम् मिथस् दिवि । स सङ्कुलैः भूत-गणैः ज्वलिते इव रोदसी ॥ १७ ॥
sūryam hata-prabham paśya graha-mardam mithas divi . sa saṅkulaiḥ bhūta-gaṇaiḥ jvalite iva rodasī .. 17 ..
नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च । न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति ॥ १८ ॥
नद्यः नदाः च क्षुभिताः सरांसि च मनांसि च । न ज्वलति अग्निः आज्येन कालः अयम् किम् विधास्यति ॥ १८ ॥
nadyaḥ nadāḥ ca kṣubhitāḥ sarāṃsi ca manāṃsi ca . na jvalati agniḥ ājyena kālaḥ ayam kim vidhāsyati .. 18 ..
न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः । रुदन्त्यश्रुमुखा गावो न हृष्यन्ति ऋषभा व्रजे ॥ १९ ॥
न पिबन्ति स्तनम् वत्साः न दुह्यन्ति च मातरः । रुदन्ति अश्रु-मुखाः गावः न हृष्यन्ति ऋषभाः व्रजे ॥ १९ ॥
na pibanti stanam vatsāḥ na duhyanti ca mātaraḥ . rudanti aśru-mukhāḥ gāvaḥ na hṛṣyanti ṛṣabhāḥ vraje .. 19 ..
दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च । इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः । भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः ॥ २० ॥
दैवतानि रुदन्ति इव स्विद्यन्ति हि उच्चलन्ति च । इमे जनपदाः ग्रामाः पुर-उद्यान-आकर-आश्रमाः । भ्रष्ट-श्रियः निरानन्दाः किम् अघम् दर्शयन्ति नः ॥ २० ॥
daivatāni rudanti iva svidyanti hi uccalanti ca . ime janapadāḥ grāmāḥ pura-udyāna-ākara-āśramāḥ . bhraṣṭa-śriyaḥ nirānandāḥ kim agham darśayanti naḥ .. 20 ..
मन्य एतैर्महोत्पातैः नूनं भगवतः पदैः । अनन्यपुरुषश्रीभिः हीना भूर्हतसौभगा ॥ २१ ॥
मन्ये एतैः महा-उत्पातैः नूनम् भगवतः पदैः । अनन्य-पुरुष-श्रीभिः हीना भूः हत-सौभगा ॥ २१ ॥
manye etaiḥ mahā-utpātaiḥ nūnam bhagavataḥ padaiḥ . ananya-puruṣa-śrībhiḥ hīnā bhūḥ hata-saubhagā .. 21 ..
इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा । राज्ञः प्रत्यागमद् ब्रह्मन् यदुपुर्याः कपिध्वजः ॥ २२ ॥
इति चिन्तयतः तस्य दृष्ट-अरिष्टेन चेतसा । राज्ञः प्रत्यागमत् ब्रह्मन् यदु-पुर्याः कपिध्वजः ॥ २२ ॥
iti cintayataḥ tasya dṛṣṭa-ariṣṭena cetasā . rājñaḥ pratyāgamat brahman yadu-puryāḥ kapidhvajaḥ .. 22 ..
तं पादयोः निपतितं अयथापूर्वमातुरम् । अधोवदनं अब्बिन्दून् सृजन्तं नयनाब्जयोः ॥ २३ ॥
तम् पादयोः निपतितम् अयथापूर्वम् आतुरम् । अधस् वदनम् अप्-बिन्दून् सृजन्तम् नयन-अब्जयोः ॥ २३ ॥
tam pādayoḥ nipatitam ayathāpūrvam āturam . adhas vadanam ap-bindūn sṛjantam nayana-abjayoḥ .. 23 ..
विलोक्य उद्विग्नहृदयो विच्छायं अनुजं नृपः । पृच्छति स्म सुहृत् मध्ये संस्मरन् नारदेरितम् ॥ २४ ॥
विलोक्य उद्विग्न-हृदयः विच्छायम् अनुजम् नृपः । पृच्छति स्म सुहृद् मध्ये संस्मरन् नारद-ईरितम् ॥ २४ ॥
vilokya udvigna-hṛdayaḥ vicchāyam anujam nṛpaḥ . pṛcchati sma suhṛd madhye saṃsmaran nārada-īritam .. 24 ..
कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते । मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः ॥ २५ ॥
कच्चित् आनर्त-पुर्याम् नः स्व-जनाः सुखम् आसते । मधु-भोज-दशार्ह-अर्ह सात्वत-अन्धक-वृष्णयः ॥ २५ ॥
kaccit ānarta-puryām naḥ sva-janāḥ sukham āsate . madhu-bhoja-daśārha-arha sātvata-andhaka-vṛṣṇayaḥ .. 25 ..
युधिष्ठिर उवाच ।
शूरो मातामहः कच्चित् स्वस्त्यास्ते वाथ मारिषः । मातुलः सानुजः कच्चित् कुशल्यानकदुन्दुभिः ॥ २६ ॥
शूरः मातामहः कच्चित् स्वस्ति आस्ते वा अथ मारिषः । मातुलः स अनुजः कच्चित् कुशली आनकदुन्दुभिः ॥ २६ ॥
śūraḥ mātāmahaḥ kaccit svasti āste vā atha māriṣaḥ . mātulaḥ sa anujaḥ kaccit kuśalī ānakadundubhiḥ .. 26 ..
सप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः । आसते सस्नुषाः क्षेमं देवकीप्रमुखाः स्वयम् ॥ २७ ॥
सप्त स्वसारः तद्-पत्न्यः मातुलान्यः सह आत्मजाः । आसते स स्नुषाः क्षेमम् देवकी-प्रमुखाः स्वयम् ॥ २७ ॥
sapta svasāraḥ tad-patnyaḥ mātulānyaḥ saha ātmajāḥ . āsate sa snuṣāḥ kṣemam devakī-pramukhāḥ svayam .. 27 ..
कच्चित् राजाऽऽहुको जीवति असत्पुत्रोऽस्य चानुजः । हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः ॥ २८ ॥
कच्चित् राजा आहुकः जीवति असत्-पुत्रः अस्य च अनुजः । हृदीकः स सुतः अक्रूरः जयन्त-गद-सारणाः ॥ २८ ॥
kaccit rājā āhukaḥ jīvati asat-putraḥ asya ca anujaḥ . hṛdīkaḥ sa sutaḥ akrūraḥ jayanta-gada-sāraṇāḥ .. 28 ..
आसते कुशलं कच्चित् ये च शत्रुजिदादयः । कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः ॥ २९ ॥
आसते कुशलम् कच्चित् ये च शत्रुजित्-आदयः । कच्चित् आस्ते सुखम् रामः भगवान् सात्वताम् प्रभुः ॥ २९ ॥
āsate kuśalam kaccit ye ca śatrujit-ādayaḥ . kaccit āste sukham rāmaḥ bhagavān sātvatām prabhuḥ .. 29 ..
प्रद्युम्नः सर्ववृष्णीनां सुखमास्ते महारथः । गम्भीररयोऽनिरुद्धो वर्धते भगवानुत ॥ ३० ॥
प्रद्युम्नः सर्व-वृष्णीनाम् सुखम् आस्ते महा-रथः । गम्भीर-रयः अनिरुद्धः वर्धते भगवान् उत ॥ ३० ॥
pradyumnaḥ sarva-vṛṣṇīnām sukham āste mahā-rathaḥ . gambhīra-rayaḥ aniruddhaḥ vardhate bhagavān uta .. 30 ..
सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः । अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः ॥ ३१ ॥
सुषेणः चारुदेष्णः च साम्बः जाम्बवती-सुतः । अन्ये च कार्ष्णि-प्रवराः स पुत्राः ऋषभ-आदयः ॥ ३१ ॥
suṣeṇaḥ cārudeṣṇaḥ ca sāmbaḥ jāmbavatī-sutaḥ . anye ca kārṣṇi-pravarāḥ sa putrāḥ ṛṣabha-ādayaḥ .. 31 ..
तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः । सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः ॥ ३२ ॥
तथा एव अनुचराः शौरेः श्रुतदेव-उद्धव-आदयः । सुनन्द-नन्द-शीर्षण्याः ये च अन्ये सात्वत-ऋषभाः ॥ ३२ ॥
tathā eva anucarāḥ śaureḥ śrutadeva-uddhava-ādayaḥ . sunanda-nanda-śīrṣaṇyāḥ ye ca anye sātvata-ṛṣabhāḥ .. 32 ..
अपि स्वस्त्यासते सर्वे रामकृष्ण भुजाश्रयाः । अपि स्मरन्ति कुशलं अस्माकं बद्धसौहृदाः ॥ ३३ ॥
अपि स्वस्ति आसते सर्वे रामकृष्ण भुजाश्रयाः । अपि स्मरन्ति कुशलम् अस्माकम् बद्ध-सौहृदाः ॥ ३३ ॥
api svasti āsate sarve rāmakṛṣṇa bhujāśrayāḥ . api smaranti kuśalam asmākam baddha-sauhṛdāḥ .. 33 ..
भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः । कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः ॥ ३४ ॥
भगवान् अपि गोविन्दः ब्रह्मण्यः भक्त-वत्सलः । कच्चित् पुरे सुधर्मायाम् सुखम् आस्ते सुहृद्-वृतः ॥ ३४ ॥
bhagavān api govindaḥ brahmaṇyaḥ bhakta-vatsalaḥ . kaccit pure sudharmāyām sukham āste suhṛd-vṛtaḥ .. 34 ..
मङ्गलाय च लोकानां क्षेमाय च भवाय च । आस्ते यदुकुलाम्भोधौ आद्योऽनन्तसखः पुमान् ॥ ३५ ॥
मङ्गलाय च लोकानाम् क्षेमाय च भवाय च । आस्ते यदु-कुल-अम्भोधौ आद्यः अनन्त-सखः पुमान् ॥ ३५ ॥
maṅgalāya ca lokānām kṣemāya ca bhavāya ca . āste yadu-kula-ambhodhau ādyaḥ ananta-sakhaḥ pumān .. 35 ..
यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिताः । क्रीडन्ति परमानन्दं महापौरुषिका इव ॥ ३६ ॥
यद्-बाहु-दण्ड-गुप्तायाम् स्व-पुर्याम् यदवः अर्चिताः । क्रीडन्ति परम-आनन्दम् महा-पौरुषिकाः इव ॥ ३६ ॥
yad-bāhu-daṇḍa-guptāyām sva-puryām yadavaḥ arcitāḥ . krīḍanti parama-ānandam mahā-pauruṣikāḥ iva .. 36 ..
यत् पादशुश्रूषणमुख्य कर्मणा सत्यादयो द्व्यष्टसहस्रयोषितः । निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिताः ॥ ३७ ॥
यत् कर्मणा सत्य-आदयः द्वि-अष्ट-सहस्र-योषितः । निर्जित्य सङ्ख्ये त्रिदशान् तद्-आशिषः हरन्ति वज्रायुध-वल्लभ-उचिताः ॥ ३७ ॥
yat karmaṇā satya-ādayaḥ dvi-aṣṭa-sahasra-yoṣitaḥ . nirjitya saṅkhye tridaśān tad-āśiṣaḥ haranti vajrāyudha-vallabha-ucitāḥ .. 37 ..
यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहुः । अधिक्रमन्त्यङ्घ्रिभिराहृतां बलात् सभां सुधर्मां सुरसत्तमोचिताम् ॥ ३८ ॥
यद्-बाहु-दण्ड-अभ्युदय-अनुजीविनः यदु-प्रवीराः हि अकुतोभयाः मुहुर् । अधिक्रमन्ति अङ्घ्रिभिः आहृताम् बलात् सभाम् सुधर्माम् सुर-सत्तम-उचिताम् ॥ ३८ ॥
yad-bāhu-daṇḍa-abhyudaya-anujīvinaḥ yadu-pravīrāḥ hi akutobhayāḥ muhur . adhikramanti aṅghribhiḥ āhṛtām balāt sabhām sudharmām sura-sattama-ucitām .. 38 ..
कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे । अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः ॥ ३९ ॥
कच्चित् ते अनामयम् तात भ्रष्ट-तेजाः विभासि मे । अलब्ध-मानः अवज्ञातः किम् वा तात चिर-उषितः ॥ ३९ ॥
kaccit te anāmayam tāta bhraṣṭa-tejāḥ vibhāsi me . alabdha-mānaḥ avajñātaḥ kim vā tāta cira-uṣitaḥ .. 39 ..
कच्चित् नाभिहतोऽभावैः शब्दादिभिरमङ्गलैः । न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम् ॥ ४० ॥
कच्चित् न अभिहतः अभावैः शब्द-आदिभिः अमङ्गलैः । न दत्तम् उक्तम् अर्थिभ्यः आशया यत् प्रतिश्रुतम् ॥ ४० ॥
kaccit na abhihataḥ abhāvaiḥ śabda-ādibhiḥ amaṅgalaiḥ . na dattam uktam arthibhyaḥ āśayā yat pratiśrutam .. 40 ..
कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् । शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः ॥ ४१ ॥
कच्चित् त्वम् ब्राह्मणम् बालम् गाम् वृद्धम् रोगिणम् स्त्रियम् । शरण-उपसृतम् सत्त्वम् न अत्याक्षीः शरण-प्रदः ॥ ४१ ॥
kaccit tvam brāhmaṇam bālam gām vṛddham rogiṇam striyam . śaraṇa-upasṛtam sattvam na atyākṣīḥ śaraṇa-pradaḥ .. 41 ..
कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम् । पराजितो वाथ भवान् नोत्तमैर्नासमैः पथि ॥ ४२ ॥
कच्चित् त्वम् न अगमः अगम्याम् गम्याम् वा असत्कृताम् स्त्रियम् । पराजितः वा अथ भवान् न उत्तमैः न असमैः पथि ॥ ४२ ॥
kaccit tvam na agamaḥ agamyām gamyām vā asatkṛtām striyam . parājitaḥ vā atha bhavān na uttamaiḥ na asamaiḥ pathi .. 42 ..
अपि स्वित्पर्यभुङ्क्थास्त्वं सम्भोज्यान् वृद्धबालकान् । जुगुप्सितं कर्म किञ्चित् कृतवान्न यदक्षमम् ॥ ४३ ॥
अपि स्विद् पर्यभुङ्क्थाः त्वम् सम्भोज्यान् वृद्ध-बालकान् । जुगुप्सितम् कर्म किञ्चिद् कृतवान् न यत् अक्षमम् ॥ ४३ ॥
api svid paryabhuṅkthāḥ tvam sambhojyān vṛddha-bālakān . jugupsitam karma kiñcid kṛtavān na yat akṣamam .. 43 ..
कच्चित्प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना । शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् ॥ ४४ ॥
कच्चित् प्रेष्ठतमेन अथ हृदयेन आत्म-बन्धुना । शून्यः अस्मि रहितः नित्यम् मन्यसे ते अन्यथा न रुज् ॥ ४४ ॥
kaccit preṣṭhatamena atha hṛdayena ātma-bandhunā . śūnyaḥ asmi rahitaḥ nityam manyase te anyathā na ruj .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे युधिष्टिरवितर्को नाम चतुर्दशोऽध्यायः ॥ १४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथम-स्कन्धे युधिष्टिरवितर्कः नाम चतुर्दशः अध्यायः ॥ १४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām prathama-skandhe yudhiṣṭiravitarkaḥ nāma caturdaśaḥ adhyāyaḥ .. 14 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In