| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

एवं कृष्णसखः कृष्णो भ्रात्र राज्ञाऽऽविकल्पितः । नानाशंकास्पदं रूपं कृष्णविश्लेषकर्षितः ॥१॥
एवम् कृष्ण-सखः कृष्णः भ्रात्र राज्ञा । नाना शंका-आस्पदम् रूपम् कृष्ण-विश्लेष-कर्षितः ॥१॥
evam kṛṣṇa-sakhaḥ kṛṣṇaḥ bhrātra rājñā . nānā śaṃkā-āspadam rūpam kṛṣṇa-viśleṣa-karṣitaḥ ..1..
सूत उवाच ।
शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभः । विभुं तमेवानुध्यायन्नाशक्रोत्प्रतिभाषितूम ॥२॥
शोकेन शुष्यत्-वदन-हृद्-सरोजः हत-प्रभः । विभुम् तम् एव अनुध्यायन् न अशक्रोत् प्रतिभाषितूम ॥२॥
śokena śuṣyat-vadana-hṛd-sarojaḥ hata-prabhaḥ . vibhum tam eva anudhyāyan na aśakrot pratibhāṣitūma ..2..
कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः । परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः ॥३॥
कृच्छ्रेण संस्तभ्य शुचः पाणिना आमृज्य नेत्रयोः । परोक्षेण समुन्नद्ध-प्रणय-औत्कण्ठ्य-कातरः ॥३॥
kṛcchreṇa saṃstabhya śucaḥ pāṇinā āmṛjya netrayoḥ . parokṣeṇa samunnaddha-praṇaya-autkaṇṭhya-kātaraḥ ..3..
सख्य मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन । नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥४॥
मैत्रीम् सौहृदम् च सारथि-आदिषु संस्मरन । नृपम् अग्रजम् इति आह बाष्प-गद्गदया गिरा ॥४॥
maitrīm sauhṛdam ca sārathi-ādiṣu saṃsmarana . nṛpam agrajam iti āha bāṣpa-gadgadayā girā ..4..
वञ्चितोऽहं महाराज हरिणा बन्धुरुपिणा । येन मेऽपहृतं तेजो देवविस्मापनं महत ॥५॥
वञ्चितः अहम् महा-राज हरिणा बन्धु-रुपिणा । येन मे अपहृतम् तेजः देव-विस्मापनम् ॥५॥
vañcitaḥ aham mahā-rāja hariṇā bandhu-rupiṇā . yena me apahṛtam tejaḥ deva-vismāpanam ..5..
अर्जुन उवाच ।
यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः । उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ॥६॥
यस्य क्षण-वियोगेन लोकः हि अप्रिय-दर्शनः । उक्थेन रहितः हि एष मृतकः प्रोच्यते यथा ॥६॥
yasya kṣaṇa-viyogena lokaḥ hi apriya-darśanaḥ . ukthena rahitaḥ hi eṣa mṛtakaḥ procyate yathā ..6..
यत्संश्रयाद् द्रुपदगेहमुपागतानां राज्ञा स्वयंवरमुखे स्मरदुर्मदानाम् । तेजो हृतं खलु मयाभिहतश्च मत्स्यः सज्जीकृतेन धनुष्याधिगता च कृष्णा ॥७॥
यद्-संश्रयात् द्रुपद-गेहम् उपागतानाम् राज्ञा स्वयंवर-मुखे स्मर-दुर्मदानाम् । तेजः हृतम् खलु मया अभिहतः च मत्स्यः सज्जीकृतेन धनुष्या अधिगता च कृष्णा ॥७॥
yad-saṃśrayāt drupada-geham upāgatānām rājñā svayaṃvara-mukhe smara-durmadānām . tejaḥ hṛtam khalu mayā abhihataḥ ca matsyaḥ sajjīkṛtena dhanuṣyā adhigatā ca kṛṣṇā ..7..
यत्संनिधावहमु खाण्डवमग्नयेऽदामिन्द्रं च सामरगणं तरसा विजित्य । लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते ॥८॥
यद्-संनिधौ अहम् उ खाण्डवम् अग्नये अदाम् इन्द्रम् च स अमर-गणम् तरसा विजित्य । लब्धा सभा मय-कृत-अद्भुत-शिल्प-माया दिग्भ्यः अहरन् नृपतयः बलिम् अध्वरे ते ॥८॥
yad-saṃnidhau aham u khāṇḍavam agnaye adām indram ca sa amara-gaṇam tarasā vijitya . labdhā sabhā maya-kṛta-adbhuta-śilpa-māyā digbhyaḥ aharan nṛpatayaḥ balim adhvare te ..8..
यत्तेजसा नृपशिरोऽङ्घ्रिमहन्मखार्थे आर्योऽनुजस्तव गजायुतसत्ववीर्यः । तेनाहृताः प्रमथनाथमखाय भूपा यन्मोचितास्तदनयन् बलिमध्वरे ते ॥९॥
यद्-तेजसा नृप-शिरः-अङ्घ्रि-महत्-मख-अर्थे आर्यः अनुजः तव गज-अयुत-सत्व-वीर्यः । तेन आहृताः प्रमथ-नाथ-मखाय भूपाः यद्-मोचिताः तत् अनयन् बलिम् अध्वरे ते ॥९॥
yad-tejasā nṛpa-śiraḥ-aṅghri-mahat-makha-arthe āryaḥ anujaḥ tava gaja-ayuta-satva-vīryaḥ . tena āhṛtāḥ pramatha-nātha-makhāya bhūpāḥ yad-mocitāḥ tat anayan balim adhvare te ..9..
पत्न्यास्तवधिमखक्लृप्तमहाभिषेकश्लाघिष्ठन्चारुकाबरं कितवैः सभायाम । स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या यस्तत्स्त्रियोऽकृत हतेशविमुक्तकेशाः ॥१०॥
पत्न्याः तद्-अधि मख-क्लृप्त-महा-अभिषेक-श्लाघिष्ठन् चारु-काबरम् कितवैः सभायाम । स्पृष्टम् विकीर्य पदयोः पतित-अश्रु-मुख्याः यः तद्-स्त्रियः अकृत हत-ईश-विमुक्त-केशाः ॥१०॥
patnyāḥ tad-adhi makha-klṛpta-mahā-abhiṣeka-ślāghiṣṭhan cāru-kābaram kitavaiḥ sabhāyāma . spṛṣṭam vikīrya padayoḥ patita-aśru-mukhyāḥ yaḥ tad-striyaḥ akṛta hata-īśa-vimukta-keśāḥ ..10..
यो नो जुगोप वनमेत्य दुरन्तकृच्छ्राद दुर्वाससोऽरिविहतादयुताग्रभुग यः । शाकान्नशिशःटमुपयुज्य यतास्त्रिलोकीं तृप्ताममंस्त सलिले विनिमंग्नसंघः ॥११॥
यः नः जुगोप वनम् एत्य दुरन्त-कृच्छ्रात् दुर्वाससः अरि-विहतात् अयुत-अग्र-भुज यः । शाक-अन्न-शिशःटम् उपयुज्य यताः त्रिलोकीम् तृप्ताम् अमंस्त सलिले विनिमंग्न-संघः ॥११॥
yaḥ naḥ jugopa vanam etya duranta-kṛcchrāt durvāsasaḥ ari-vihatāt ayuta-agra-bhuja yaḥ . śāka-anna-śiśaḥṭam upayujya yatāḥ trilokīm tṛptām amaṃsta salile vinimaṃgna-saṃghaḥ ..11..
यत्तेजसाथ भगवान युधि शुलपाणि र्विस्मापितः सगिरिजोऽस्त्रमदान्निजं मे । अन्येऽपि चाहममुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम ॥१२॥
यद्-तेजसा अथ भगवान युधि शुलपाणिः र्विस्मापितः स गिरिजः अस्त्रम् अदात् निजम् मे । अन्ये अपि च अहम् अमुना एव कलेवरेण प्राप्तः महा-इन्द्र-भवने महत्-आसन-अर्धम् ॥१२॥
yad-tejasā atha bhagavāna yudhi śulapāṇiḥ rvismāpitaḥ sa girijaḥ astram adāt nijam me . anye api ca aham amunā eva kalevareṇa prāptaḥ mahā-indra-bhavane mahat-āsana-ardham ..12..
तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणमरातिवधाय देवाः । सेन्द्रा श्रिता यदनुभावितमाजमीढ तेनाहमद्य मुषितः पुरुषेण भूम्र ॥१३॥
तत्र एव मे विहरतः भुज-दण्ड-युग्मम् गाण्डीव-लक्षणम् अराति-वधाय देवाः । स इन्द्रा श्रिता यद्-अनुभावितम् आजमीढ तेन अहम् अद्य मुषितः पुरुषेण भूम्र ॥१३॥
tatra eva me viharataḥ bhuja-daṇḍa-yugmam gāṇḍīva-lakṣaṇam arāti-vadhāya devāḥ . sa indrā śritā yad-anubhāvitam ājamīḍha tena aham adya muṣitaḥ puruṣeṇa bhūmra ..13..
यद्वान्धवः कुरुबलाब्धिमनन्तपार मेको रथेन ततरेऽहमतार्यसत्त्वम । प्रत्याहृतं बहु धनं च मयो परेषां तेजास्पदं मणीमयं च हृतं शिरोभ्यः ॥१४॥
यत् वान्धवः कुरु-बल-अब्धिम् अनन्त-पार एकः रथेन ततरे अहम् अतार्य-सत्त्वम् । प्रत्याहृतम् बहु धनम् च परेषाम् तेज-आस्पदम् मणीमयम् च हृतम् शिरोभ्यः ॥१४॥
yat vāndhavaḥ kuru-bala-abdhim ananta-pāra ekaḥ rathena tatare aham atārya-sattvam . pratyāhṛtam bahu dhanam ca pareṣām teja-āspadam maṇīmayam ca hṛtam śirobhyaḥ ..14..
यो भीष्मकर्णगुरुशल्यमूष्वदभ्र रजन्यवर्यरथमण्डलमन्डितासु । अग्रेचरो मम विभो रथयूथपाना मायुर्मनांसि च दृशा सह ओज आर्च्छत ॥१५॥
यः भीष्म-कर्ण-गुरु-शल्य-मूषु अदभ्र रजन्य-वर्य-रथ-मण्डल-मन्डितासु । अग्रे चरः मम विभोः रथ-यूथपानाम् मायुः-मनांसि च दृशा सह ओजः आर्च्छत ॥१५॥
yaḥ bhīṣma-karṇa-guru-śalya-mūṣu adabhra rajanya-varya-ratha-maṇḍala-manḍitāsu . agre caraḥ mama vibhoḥ ratha-yūthapānām māyuḥ-manāṃsi ca dṛśā saha ojaḥ ārcchata ..15..
यद्दोष्षु मा प्राणीहितं गुरुभिष्मकर्ण नप्तृत्रिगर्तशलसैन्धवबाह्निकाद्येः । अस्त्राण्यमोघमाहिमानि निरुपिताने नो पस्पृशुर्नृहरिदासमिवासुराणि ॥१६॥
यत् दोष्षु मा गुरु-भिष्म-कर्ण नप्तृ-त्रिगर्त-शल-सैन्धव-बाह्निक-आद्येः । अस्त्राणि अमोघम् आहिमानि नो पस्पृशुः नृहरि-दासम् इव असुराणि ॥१६॥
yat doṣṣu mā guru-bhiṣma-karṇa naptṛ-trigarta-śala-saindhava-bāhnika-ādyeḥ . astrāṇi amogham āhimāni no paspṛśuḥ nṛhari-dāsam iva asurāṇi ..16..
सौत्ये वृतः कुमतिनाऽऽत्मदं ईश्वरो मे यत्पादपद्ममभवाय भजन्ति भव्याः । मां श्रान्तवाहमरयो रथिनो भुविष्ठं न प्राहरन यदनुभावनिरस्तचिस्ताः । \१७॥
सौत्ये वृतः कुमतिना आत्म-दम् ईश्वरः मे यद्-पाद-पद्मम् अभवाय भजन्ति भव्याः । माम् श्रान्त-वाहम् अरयः रथिनः भुविष्ठम् न प्राहरन यद्-अनुभाव-निरस्त-चिस्ताः । \१७॥
sautye vṛtaḥ kumatinā ātma-dam īśvaraḥ me yad-pāda-padmam abhavāya bhajanti bhavyāḥ . mām śrānta-vāham arayaḥ rathinaḥ bhuviṣṭham na prāharana yad-anubhāva-nirasta-cistāḥ . \17..
नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति । संजल्पितानि नरदेव हृदिस्पृशानि स्मर्तूर्लुठन्ति हृदयं मम माधवस्य ॥१८॥
नर्माणि उदार-रुचिर-स्मित-शोभितानि हे पार्थ हे अर्जुन सखे कुरु-नन्दन इति । संजल्पितानि नरदेव हृदिस्पृशानि स्मर्तुः लुठन्ति हृदयम् मम माधवस्य ॥१८॥
narmāṇi udāra-rucira-smita-śobhitāni he pārtha he arjuna sakhe kuru-nandana iti . saṃjalpitāni naradeva hṛdispṛśāni smartuḥ luṭhanti hṛdayam mama mādhavasya ..18..
शय्यासनाटनविकथनभोजनादि ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्धः । सख्युः सखेव पितृवत्तनयस्य सर्वं सेहे महान्महितया कुमतेरघं मे ॥१९॥
शय्या-आसन-अटन-विकथन-भोजन-आदि सु ऐक्यात् वयस्यः ऋतवान् इति विप्रलब्धः । सख्युः सखा इव पितृ-वत् तनयस्य सर्वम् सेहे महान् महितया कुमतेः अघम् मे ॥१९॥
śayyā-āsana-aṭana-vikathana-bhojana-ādi su aikyāt vayasyaḥ ṛtavān iti vipralabdhaḥ . sakhyuḥ sakhā iva pitṛ-vat tanayasya sarvam sehe mahān mahitayā kumateḥ agham me ..19..
सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयने शुन्य । अध्वन्युरुक्रमपरिग्रहमंग रक्षन गोपैरसाद्भिबलेव विनिर्जितोऽस्मि ॥२०॥
सः अहम् नृप-इन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयने शुन्य । अध्वनि उरुक्रम-परिग्रहम् अंग गोपैः विनिर्जितः अस्मि ॥२०॥
saḥ aham nṛpa-indra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayane śunya . adhvani urukrama-parigraham aṃga gopaiḥ vinirjitaḥ asmi ..20..
तद्वै धनुस्त इषवः स रथो हयास्ते सोऽहं रथी नॄपतयो यत आनमन्ति । सर्व क्षणेन तदभुदसदीशरिक्तं भस्मन हुतं कुहकाराद्भमोवोत्पमुष्याम ॥२१॥
तत् वै धनुः ते इषवः स रथः हयाः ते सः अहम् रथी नॄपतयः यतस् आनमन्ति । सर्व क्षणेन भस्मन हुतम् ॥२१॥
tat vai dhanuḥ te iṣavaḥ sa rathaḥ hayāḥ te saḥ aham rathī nṝpatayaḥ yatas ānamanti . sarva kṣaṇena bhasmana hutam ..21..
राजंस्त्वयाभिषुष्टांना सुहृदां न सुहृत्पुरेः । विप्रशपविमुढांना निघ्नतां मुष्टिभिर्मिथः ॥२२॥
राजन् त्वया अभिषुष्टा आंना सुहृदाम् न सुहृद्-पुरेः । निघ्नताम् मुष्टिभिः मिथस् ॥२२॥
rājan tvayā abhiṣuṣṭā āṃnā suhṛdām na suhṛd-pureḥ . nighnatām muṣṭibhiḥ mithas ..22..
वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम । अजानतामिव्यान्योन्य चतूः पंचावशेषिताः ॥२३॥
वारुणीम् मदिराम् पीत्वा मद-उन्मथित-चेतसाम । पंच-अवशेषिताः ॥२३॥
vāruṇīm madirām pītvā mada-unmathita-cetasāma . paṃca-avaśeṣitāḥ ..23..
प्रायेणैतद भगवत ईश्वरस्य विचेष्टितम । मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः ॥२४॥
भगवतः ईश्वरस्य विचेष्टितम । मिथस् निघ्नन्ति भूतानि भावयन्ति च यत् मिथस् ॥२४॥
bhagavataḥ īśvarasya viceṣṭitama . mithas nighnanti bhūtāni bhāvayanti ca yat mithas ..24..
जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः । दुर्बलान्बालिनो राजन्महान्तो बलिनो मिथः ॥२५॥
जलौकसाम् जले यद्वत् महान्तः अदन्ति अणीयसः । दुर्बलान् बालिनः राजन् महान्तः बलिनः मिथस् ॥२५॥
jalaukasām jale yadvat mahāntaḥ adanti aṇīyasaḥ . durbalān bālinaḥ rājan mahāntaḥ balinaḥ mithas ..25..
एवं बलिष्ठैर्यदुभिर्महद्भिरितरान विभुः । यदुन यदुभिरन्योन्यं भुभारान संजहार ह ॥२६॥
एवम् बलिष्ठैः यदुभिः महद्भिः इतरान् विभुः । यदुभिः अन्योन्यम् संजहार ह ॥२६॥
evam baliṣṭhaiḥ yadubhiḥ mahadbhiḥ itarān vibhuḥ . yadubhiḥ anyonyam saṃjahāra ha ..26..
देशकालार्थयुक्तानि हृत्तापोपशमानि च । हरन्ति स्मरताश्चित्तं गोविन्दाभिहितानि मे ॥२७॥
देश-काल-अर्थ-युक्तानि हृद्-ताप-उपशमानि च । हरन्ति स्मरताः चित्तम् गोविन्द-अभिहितानि मे ॥२७॥
deśa-kāla-artha-yuktāni hṛd-tāpa-upaśamāni ca . haranti smaratāḥ cittam govinda-abhihitāni me ..27..
एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम । सौहार्देनातिगाढेन शान्ताऽऽसीद्विमला मतिः ॥२८॥
एवम् चिन्तयतः जिष्णोः कृष्ण-पाद-सरोरुहम् । सौहार्देन अति गाढेन शान्ता आसीत् विमला मतिः ॥२८॥
evam cintayataḥ jiṣṇoḥ kṛṣṇa-pāda-saroruham . sauhārdena ati gāḍhena śāntā āsīt vimalā matiḥ ..28..
सूत उवाच ।
वासुदेवांगघ्यनुध्यानपरिबृंहितरंहसा । भक्त्या निर्मथिताशेषकषायाधिषणोऽर्जुनः ॥२९॥
वासुदेव-अंग-घि-अनुध्यान-परिबृंहित-रंहसा । भक्त्या निर्मथित-अशेष-कषाय-अधिषणः अर्जुनः ॥२९॥
vāsudeva-aṃga-ghi-anudhyāna-paribṛṃhita-raṃhasā . bhaktyā nirmathita-aśeṣa-kaṣāya-adhiṣaṇaḥ arjunaḥ ..29..
गीतं भगवता ज्ञान यत तत संग्राममुर्धनि । कालकर्मतमोरुद्धं पुनरध्यगमद विभुः ॥३०॥
गीतम् भगवता ज्ञान यत तत संग्राम-मुर्धनि । काल-कर्म-तमः-रुद्धम् पुनर् अध्यगमद विभुः ॥३०॥
gītam bhagavatā jñāna yata tata saṃgrāma-murdhani . kāla-karma-tamaḥ-ruddham punar adhyagamada vibhuḥ ..30..
विशोको ब्रह्मासम्पत्या संछिन्नद्वैतसंशयः । लीनप्रकृतिनैर्गुण्यादलिंगत्वादसम्भवः ॥३१॥
विशोकः ब्रह्म-असम्पत्या संछिन्न-द्वैत-संशयः । लीन-प्रकृति-नैर्गुण्यात् अलिंग-त्वात् असम्भवः ॥३१॥
viśokaḥ brahma-asampatyā saṃchinna-dvaita-saṃśayaḥ . līna-prakṛti-nairguṇyāt aliṃga-tvāt asambhavaḥ ..31..
निशम्य भगवन्मार्ग संस्थां यदुकुलस्य च । स्वःपथाय मतिं चक्रे निभॄतात्मा युधिष्ठिरः ॥३२॥
निशम्य भगवत्-मार्ग संस्थाम् यदु-कुलस्य च । स्वःपथाय मतिम् चक्रे निभॄत-आत्मा युधिष्ठिरः ॥३२॥
niśamya bhagavat-mārga saṃsthām yadu-kulasya ca . svaḥpathāya matim cakre nibhṝta-ātmā yudhiṣṭhiraḥ ..32..
पृथाप्यनुश्रुत्य धनत्र्ज्ययोदितं नाश यदुनां भगवद्गतिं च ताम । एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपराम संसृतेः ॥३३॥
पृथा अपि अनुश्रुत्य नाश यदुनाम् भगवत्-गतिम् च ताम । एकान्त-भक्त्या भगवति अधोक्षजे निवेशित-आत्म-उपराम संसृतेः ॥३३॥
pṛthā api anuśrutya nāśa yadunām bhagavat-gatim ca tāma . ekānta-bhaktyā bhagavati adhokṣaje niveśita-ātma-uparāma saṃsṛteḥ ..33..
ययाहरदृ भुवो भारं तां तनुं विजहावजः । कण्टकं कण्टकेनेव द्वयं चापीशितूः समम ॥३४॥
यया अहरत् ऋ भुवः भारम् ताम् तनुम् विजहौ अजः । कण्टकम् कण्टकेन इव द्वयम् च अपि ईशितुः समम ॥३४॥
yayā aharat ṛ bhuvaḥ bhāram tām tanum vijahau ajaḥ . kaṇṭakam kaṇṭakena iva dvayam ca api īśituḥ samama ..34..
यथा मत्स्यादिरुपाणि धत्ते जाह्याद यथा नटः । भूभरः क्षपितो येन जहौ तच्च कलेवरम ॥३५॥
यथा मत्स्य-आदि-रुपाणि धत्ते यथा नटः । भू-भरः क्षपितः येन जहौ तत् च कलेवरम् ॥३५॥
yathā matsya-ādi-rupāṇi dhatte yathā naṭaḥ . bhū-bharaḥ kṣapitaḥ yena jahau tat ca kalevaram ..35..
यदा मुकुन्दो भगवानिमां महीं जहौ स्ततन्वा श्रवणीयसत्कथः । तदाहरेवाप्रतिबुद्धचेतसा मधर्महेतूः कलिरन्ववर्तत ॥३६॥
यदा मुकुन्दः भगवान् इमाम् महीम् जहौ स्त-तन्वा श्रवणीय-सत्-कथः । तदा अहर् एव अप्रतिबुद्ध-चेतसा मधर्म-हेतूः कलिः अन्ववर्तत ॥३६॥
yadā mukundaḥ bhagavān imām mahīm jahau sta-tanvā śravaṇīya-sat-kathaḥ . tadā ahar eva apratibuddha-cetasā madharma-hetūḥ kaliḥ anvavartata ..36..
युधिष्ठिरस्तत्पर्सर्पणं बुधः पुरे च राष्ट्रे च गृहे तथाऽऽत्मनि । विभग्य लोभानृतजिह्नाहिंसना द्यधर्मचक्रं गमनाय पर्यधात ॥३७॥
युधिष्ठिरः तत् पर्सर्पणम् बुधः पुरे च राष्ट्रे च गृहे तथा आत्मनि । विभग्य लोभ-अनृत-जिह्ना-हिंसना आदि-अधर्म-चक्रम् गमनाय पर्यधात ॥३७॥
yudhiṣṭhiraḥ tat parsarpaṇam budhaḥ pure ca rāṣṭre ca gṛhe tathā ātmani . vibhagya lobha-anṛta-jihnā-hiṃsanā ādi-adharma-cakram gamanāya paryadhāta ..37..
स्वराट पौत्रं विनयिनमात्मनः सुसमं गुणैः । तोयनीव्याः पतिं भूमेरभ्यषिचंद गजाहृये ॥३८॥
स्वराट पौत्रम् विनयिनम् आत्मनः सु समम् गुणैः । तोय-नीव्याः पतिम् भूमेः अभ्यषिचंद गजाहृये ॥३८॥
svarāṭa pautram vinayinam ātmanaḥ su samam guṇaiḥ . toya-nīvyāḥ patim bhūmeḥ abhyaṣicaṃda gajāhṛye ..38..
मथूरायां तथा वज्रं शुरसेनपतिं ततः । प्राजापत्यां निरुप्योष्टिमग्नीनपिबदीश्वरः ॥३९॥
मथूरायाम् तथा वज्रम् शुरसेन-पतिम् ततस् । प्राजापत्याम् निरुप्य उष्टिम् अग्नीन् अपिबत् ईश्वरः ॥३९॥
mathūrāyām tathā vajram śurasena-patim tatas . prājāpatyām nirupya uṣṭim agnīn apibat īśvaraḥ ..39..
विसृज्य तत्र तत सर्व दुकुनलवलयादिकम । निर्ममो निरहंकारः संछिन्नाशेषबन्धनः ॥४०॥
विसृज्य तत्र तत सर्व दुकुनल-वलय-आदिकम् । निर्ममः निरहंकारः संछिन्न-अशेष-बन्धनः ॥४०॥
visṛjya tatra tata sarva dukunala-valaya-ādikam . nirmamaḥ nirahaṃkāraḥ saṃchinna-aśeṣa-bandhanaḥ ..40..
वाचं जुहाव मनसि तत्प्राण इतरे च तम । मृत्यावपानं सोत्सर्गं तं पंचत्वे ह्याजोहवीत ॥४१॥
वाचम् जुहाव मनसि तद्-प्राणे इतरे च । मृत्यौ अपानम् स उत्सर्गम् तम् पंचत्वे हि आजोहवीत ॥४१॥
vācam juhāva manasi tad-prāṇe itare ca . mṛtyau apānam sa utsargam tam paṃcatve hi ājohavīta ..41..
त्रेत्वे हुत्वाथ पंचत्वं तच्चेकत्वेऽजुहोन्मुनिः । सर्वमात्मन्यजुहवीद ब्रह्मण्यात्मानमव्यये ॥४२॥
त्रेत्वे हुत्वा अथ पंचत्वम् तत् च एकत्वे अजुहोत् मुनिः । सर्वम् आत्मनि अजुहवीत ब्रह्मणि आत्मानम् अव्यये ॥४२॥
tretve hutvā atha paṃcatvam tat ca ekatve ajuhot muniḥ . sarvam ātmani ajuhavīta brahmaṇi ātmānam avyaye ..42..
चीरवासा निराहारो बद्धवड मुक्तमूर्धजः । दर्शयन्नात्मनो रुपं जडोन्मत्तपिशाचवत ॥४३॥
चीर-वासाः निराहारः मुक्त-मूर्धजः । दर्शयन् आत्मनः रुपम् जड-उन्मत्त-पिशाच-वत ॥४३॥
cīra-vāsāḥ nirāhāraḥ mukta-mūrdhajaḥ . darśayan ātmanaḥ rupam jaḍa-unmatta-piśāca-vata ..43..
अनपेक्षमाणो निरगादश्रृण्वन्बधिरो यथा । उदीचीं प्रविवेशांशं गतपुर्वा महात्मभिः । हृदि ब्रह्मा परं ध्यायान्नवर्तेत यतो गतः ॥४४॥
अन् अपेक्षमाणः निरगात् अश्रृण्वन् बधिरः यथा । उदीचीम् प्रविवेश अंशम् गत-पुः वा महात्मभिः । हृदि ब्रह्मा परम् ध्यायात् न वर्तेत यतस् गतः ॥४४॥
an apekṣamāṇaḥ niragāt aśrṛṇvan badhiraḥ yathā . udīcīm praviveśa aṃśam gata-puḥ vā mahātmabhiḥ . hṛdi brahmā param dhyāyāt na varteta yatas gataḥ ..44..
सर्व तमनु निर्जग्मुर्भ्रातरः कृतनिश्चयाः । कलिनाधर्ममित्रेण दृष्टा स्पृष्टाः प्रजा भुवि ॥४५॥
सर्व तम् अनु निर्जग्मुः भ्रातरः कृत-निश्चयाः । कलिना अधर्म-मित्रेण दृष्टाः स्पृष्टाः प्रजाः भुवि ॥४५॥
sarva tam anu nirjagmuḥ bhrātaraḥ kṛta-niścayāḥ . kalinā adharma-mitreṇa dṛṣṭāḥ spṛṣṭāḥ prajāḥ bhuvi ..45..
ते साधुकृतसर्वार्था ज्ञात्वऽऽत्यन्तिकमातमनः । मनसा धारयामासुर्वैकुठचरणाम्बुजम ॥४६॥
ते साधु-कृत-सर्व-अर्थाः । मनसा धारयामासुः वैकुठ-चरण-अम्बुजम् ॥४६॥
te sādhu-kṛta-sarva-arthāḥ . manasā dhārayāmāsuḥ vaikuṭha-caraṇa-ambujam ..46..
तद्धनोद्रिक्यया भक्त्या विशुद्धधिषणाः परे । तस्मिन नारायणपदे एकान्तमतयो गतिम ॥४७॥
तद्-धन-उद्रिक्यया भक्त्या विशुद्ध-धिषणाः परे । तस्मिन् नारायण-पदे एकान्त-मतयः ॥४७॥
tad-dhana-udrikyayā bhaktyā viśuddha-dhiṣaṇāḥ pare . tasmin nārāyaṇa-pade ekānta-matayaḥ ..47..
अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः । विहुतकल्मषास्थाने विरजेनात्मनैव हि ॥४८॥
अवापुः दुरवापाम् ते असद्भिः विषय-आत्मभिः । विहुत-कल्मषा-स्थाने विरजेन आत्मना एव हि ॥४८॥
avāpuḥ duravāpām te asadbhiḥ viṣaya-ātmabhiḥ . vihuta-kalmaṣā-sthāne virajena ātmanā eva hi ..48..
विदुरोऽपि परित्यज्य प्रभासे देहमात्मवान । कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ ॥४९॥
विदुरः अपि परित्यज्य प्रभासे देहम् आत्मवान । कृष्ण-आवेशेन तद्-चित्तः पितृभिः स्व-क्षयम् ययौ ॥४९॥
viduraḥ api parityajya prabhāse deham ātmavāna . kṛṣṇa-āveśena tad-cittaḥ pitṛbhiḥ sva-kṣayam yayau ..49..
द्रौपदी च तदाऽऽज्ञाय पतीनामनपेक्षताम । वासुदेवे भगवति ह्योकान्तमतिराप तम ॥५०॥
द्रौपदी च तदा आज्ञाय पतीनाम् अन् अपेक्षताम । वासुदेवे भगवति हि ओक-अन्त-मतिः आप ॥५०॥
draupadī ca tadā ājñāya patīnām an apekṣatāma . vāsudeve bhagavati hi oka-anta-matiḥ āpa ..50..
यः श्रद्धयैतद भगवत्प्रियाणां पाण्डोः सुतानामिती सम्प्रयाणम । श्रुणोत्यलं स्वत्ययनं पवित्रं लब्ध्या हरौ भक्तिमुपैति सिद्धिम ॥५१॥
यः भगवत्-प्रियाणाम् पाण्डोः सुतानाम् इति सम्प्रयाणम् । श्रुणोति अलम् पवित्रम् लब्ध्या हरौ भक्तिम् उपैति सिद्धिम् ॥५१॥
yaḥ bhagavat-priyāṇām pāṇḍoḥ sutānām iti samprayāṇam . śruṇoti alam pavitram labdhyā harau bhaktim upaiti siddhim ..51..
इति श्रीमद्भगवते महापुराणे पारमहंस्या संहितायं प्रथमस्कन्धे पाण्डवस्वर्गाहणं नाम पंचदशोऽध्यायः ॥१५॥
इति श्रीमत्-भगवते महापुराणे पारमहंस्या संहिता अयम् प्रथम-स्कन्धे पाण्डवस्वर्गाहणम् नाम पंचदशः अध्यायः ॥१५॥
iti śrīmat-bhagavate mahāpurāṇe pāramahaṃsyā saṃhitā ayam prathama-skandhe pāṇḍavasvargāhaṇam nāma paṃcadaśaḥ adhyāyaḥ ..15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In