| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

तत्र गोमिथुनं राजा हन्यमानमनाथवत् । दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम् ॥ ०१ ॥
तत्र गो-मिथुनम् राजा हन्यमानम् अनाथ-वत् । दण्ड-हस्तम् च वृषलम् ददृशे नृप-लाञ्छनम् ॥ ०१ ॥
tatra go-mithunam rājā hanyamānam anātha-vat . daṇḍa-hastam ca vṛṣalam dadṛśe nṛpa-lāñchanam .. 01 ..
वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ ०२ ॥
वृषम् मृणाल-धवलम् मेहन्तम् इव बिभ्यतम् । वेपमानम् पदा एकेन सीदन्तम् शूद्र-ताडितम् ॥ ०२ ॥
vṛṣam mṛṇāla-dhavalam mehantam iva bibhyatam . vepamānam padā ekena sīdantam śūdra-tāḍitam .. 02 ..
सूत उवाच
गां च घर्मदुघां दीनां भृशं शूद्रपदाहताम् । विवत्सामाश्रुवदनां क्षामां यवसमिच्छतीम् ॥ ०३ ॥
गाम् च घर्म-दुघाम् दीनाम् भृशम् शूद्र-पद-आहताम् । विवत्साम् अश्रु-वदनाम् क्षामाम् यवसम् इच्छतीम् ॥ ०३ ॥
gām ca gharma-dughām dīnām bhṛśam śūdra-pada-āhatām . vivatsām aśru-vadanām kṣāmām yavasam icchatīm .. 03 ..
पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम् । मेघगम्भीरया वाचा समारोपितकार्मुकः ॥ ०४ ॥
पप्रच्छ रथम् आरूढः कार्तस्वर-परिच्छदम् । मेघ-गम्भीरया वाचा समारोपित-कार्मुकः ॥ ०४ ॥
papraccha ratham ārūḍhaḥ kārtasvara-paricchadam . megha-gambhīrayā vācā samāropita-kārmukaḥ .. 04 ..
कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली । नरदेवोऽसि वेषेण नटवत्कर्मणाद्विजः ॥ ०५ ॥
कः त्वम् मद्-शरणे लोके बलात् हंसि अबलान् बली । नरदेवः असि वेषेण नट-वत् कर्मणा अ द्विजः ॥ ०५ ॥
kaḥ tvam mad-śaraṇe loke balāt haṃsi abalān balī . naradevaḥ asi veṣeṇa naṭa-vat karmaṇā a dvijaḥ .. 05 ..
यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना । शोच्योऽस्यशोच्यान् रहसि प्रहरन् वधमर्हसि ॥ ०६ ॥
यः त्वम् कृष्णे गते दूरम् सह गाण्डीवधन्वना । शोच्यः असि अशोच्यान् रहसि प्रहरन् वधम् अर्हसि ॥ ०६ ॥
yaḥ tvam kṛṣṇe gate dūram saha gāṇḍīvadhanvanā . śocyaḥ asi aśocyān rahasi praharan vadham arhasi .. 06 ..
त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन् । वृषरूपेण किं कश्चिद्देवो नः परिखेदयन् ॥ ०७ ॥
त्वम् वा मृणाल-धवलः पादैः न्यूनः पदा चरन् । वृष-रूपेण किम् कश्चिद् देवः नः परिखेदयन् ॥ ०७ ॥
tvam vā mṛṇāla-dhavalaḥ pādaiḥ nyūnaḥ padā caran . vṛṣa-rūpeṇa kim kaścid devaḥ naḥ parikhedayan .. 07 ..
न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते । भूतलेऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुचः ॥ ०८ ॥
न जातु कौरव-इन्द्राणाम् दोस्-दण्ड-परिरम्भिते । भू-तले अनुपतन्ति अस्मिन् विना ते प्राणिनाम् शुचः ॥ ०८ ॥
na jātu kaurava-indrāṇām dos-daṇḍa-parirambhite . bhū-tale anupatanti asmin vinā te prāṇinām śucaḥ .. 08 ..
मा सौरभेयात्र शुचो व्येतु ते वृषलाद्भयम् । मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥ ०९ ॥
मा सौरभेय अत्र शुचः व्येतु ते वृषलात् भयम् । मा रोदीः अम्ब भद्रम् ते खलानाम् मयि शास्तरि ॥ ०९ ॥
mā saurabheya atra śucaḥ vyetu te vṛṣalāt bhayam . mā rodīḥ amba bhadram te khalānām mayi śāstari .. 09 ..
यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः । तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः ॥ १० ॥
यस्य राष्ट्रे प्रजाः सर्वाः त्रस्यन्ते साध्वि असाधुभिः । तस्य मत्तस्य नश्यन्ति कीर्तिः आयुः भगः गतिः ॥ १० ॥
yasya rāṣṭre prajāḥ sarvāḥ trasyante sādhvi asādhubhiḥ . tasya mattasya naśyanti kīrtiḥ āyuḥ bhagaḥ gatiḥ .. 10 ..
एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः । अत एनं वधिष्यामि भूतद्रुहमसत्तमम् ॥ ११ ॥
एष राज्ञाम् परः धर्मः हि आर्तानाम् आर्ति-निग्रहः । अतस् एनम् वधिष्यामि भूत-द्रुहम् असत्तमम् ॥ ११ ॥
eṣa rājñām paraḥ dharmaḥ hi ārtānām ārti-nigrahaḥ . atas enam vadhiṣyāmi bhūta-druham asattamam .. 11 ..
कोऽवृश्चत्तव पादांस्त्रीन् सौरभेय चतुष्पद । मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥ १२ ॥
कः अवृश्चत् तव पादान् त्रीन् सौरभेय चतुष्पद । मा भूवन् त्वादृशाः राष्ट्रे राज्ञाम् कृष्ण-अनुवर्तिनाम् ॥ १२ ॥
kaḥ avṛścat tava pādān trīn saurabheya catuṣpada . mā bhūvan tvādṛśāḥ rāṣṭre rājñām kṛṣṇa-anuvartinām .. 12 ..
आख्याहि वृष भद्रं वः साधूनामकृतागसाम् । आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ॥ १३ ॥
आख्याहि वृष भद्रम् वः साधूनाम् अकृत-आगसाम् । आत्म-वैरूप्य-कर्तारम् पार्थानाम् कीर्ति-दूषणम् ॥ १३ ॥
ākhyāhi vṛṣa bhadram vaḥ sādhūnām akṛta-āgasām . ātma-vairūpya-kartāram pārthānām kīrti-dūṣaṇam .. 13 ..
जनेऽनागस्यघं युञ्जन् सर्वतोऽस्य च मद्भयम् । साधूनां भद्रमेव स्यादसाधुदमने कृते ॥ १४ ॥
जने अनागसि अघम् युञ्जन् सर्वतस् अस्य च मद्-भयम् । साधूनाम् भद्रम् एव स्यात् असाधु-दमने कृते ॥ १४ ॥
jane anāgasi agham yuñjan sarvatas asya ca mad-bhayam . sādhūnām bhadram eva syāt asādhu-damane kṛte .. 14 ..
अनागःस्विह भूतेषु य आगस्कृन्निरङ्कुशः । आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ॥ १५ ॥
अनागःसु इह भूतेषु यः आगस्कृत् निरङ्कुशः । आहर्तास्मि भुजम् साक्षात् अमर्त्यस्य अपि स अङ्गदम् ॥ १५ ॥
anāgaḥsu iha bhūteṣu yaḥ āgaskṛt niraṅkuśaḥ . āhartāsmi bhujam sākṣāt amartyasya api sa aṅgadam .. 15 ..
राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् । शासतोऽन्यान् यथाशास्त्रमनापद्युत्पथानिह ॥ १६ ॥
राज्ञः हि परमः धर्मः स्वधर्म-स्थ-अनुपालनम् । शासतः अन्यान् यथाशास्त्रम् अनापदि उत्पथान् इह ॥ १६ ॥
rājñaḥ hi paramaḥ dharmaḥ svadharma-stha-anupālanam . śāsataḥ anyān yathāśāstram anāpadi utpathān iha .. 16 ..
एतद्वः पाण्डवेयानां युक्तमार्ताभयं वचः । येषां गुणगणैः कृष्णो दौत्यादौ भगवान् कृतः ॥ १७ ॥
एतत् वः पाण्डवेयानाम् युक्तम् आर्त-अभयम् वचः । येषाम् गुण-गणैः कृष्णः दौत्य-आदौ भगवान् कृतः ॥ १७ ॥
etat vaḥ pāṇḍaveyānām yuktam ārta-abhayam vacaḥ . yeṣām guṇa-gaṇaiḥ kṛṣṇaḥ dautya-ādau bhagavān kṛtaḥ .. 17 ..
धर्म उवाच
न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ । पुरुषं तं विजानीमो वाक्यभेदविमोहिताः ॥ १८ ॥
न वयम् क्लेश-बीजानि यतस् स्युः पुरुष-ऋषभ । पुरुषम् तम् विजानीमः वाक्य-भेद-विमोहिताः ॥ १८ ॥
na vayam kleśa-bījāni yatas syuḥ puruṣa-ṛṣabha . puruṣam tam vijānīmaḥ vākya-bheda-vimohitāḥ .. 18 ..
केचिद्विकल्पवसना आहुरात्मानमात्मनः । दैवमन्येऽपरे कर्म स्वभावमपरे प्रभुम् ॥ १९ ॥
केचिद् विकल्प-वसनाः आहुः आत्मानम् आत्मनः । दैवम् अन्ये अपरे कर्म स्वभावम् अपरे प्रभुम् ॥ १९ ॥
kecid vikalpa-vasanāḥ āhuḥ ātmānam ātmanaḥ . daivam anye apare karma svabhāvam apare prabhum .. 19 ..
अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः । अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ २० ॥
अप्रतर्क्यात् अनिर्देश्यात् इति केषु अपि निश्चयः । अत्र अनुरूपम् राजर्षे विमृश स्व-मनीषया ॥ २० ॥
apratarkyāt anirdeśyāt iti keṣu api niścayaḥ . atra anurūpam rājarṣe vimṛśa sva-manīṣayā .. 20 ..
एवं धर्मे प्रवदति स सम्राड्द्विजसत्तमाः । समाहितेन मनसा विखेदः पर्यचष्ट तम् ॥ २१ ॥
एवम् धर्मे प्रवदति स सम्राज् द्विजसत्तमाः । समाहितेन मनसा विखेदः पर्यचष्ट तम् ॥ २१ ॥
evam dharme pravadati sa samrāj dvijasattamāḥ . samāhitena manasā vikhedaḥ paryacaṣṭa tam .. 21 ..
सूत उवाच
धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् । यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ॥ २२ ॥
धर्मम् ब्रवीषि धर्म-ज्ञ धर्मः असि वृष-रूप-धृक् । यत् अधर्म-कृतः स्थानम् सूचकस्य अपि तत् भवेत् ॥ २२ ॥
dharmam bravīṣi dharma-jña dharmaḥ asi vṛṣa-rūpa-dhṛk . yat adharma-kṛtaḥ sthānam sūcakasya api tat bhavet .. 22 ..
राजोवाच
अथवा देवमायाया नूनं गतिरगोचरा । चेतसो वचसश्चापि भूतानामिति निश्चयः ॥ २३ ॥
अथवा देव-मायायाः नूनम् गतिः अगोचरा । चेतसः वचसः च अपि भूतानाम् इति निश्चयः ॥ २३ ॥
athavā deva-māyāyāḥ nūnam gatiḥ agocarā . cetasaḥ vacasaḥ ca api bhūtānām iti niścayaḥ .. 23 ..
तपः शौचं दया सत्यमिति पादाः कृते कृताः । अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव ॥ २४ ॥
तपः शौचम् दया सत्यम् इति पादाः कृते कृताः । अधर्म-अंशैः त्रयः भग्नाः स्मय-सङ्ग-मदैः तव ॥ २४ ॥
tapaḥ śaucam dayā satyam iti pādāḥ kṛte kṛtāḥ . adharma-aṃśaiḥ trayaḥ bhagnāḥ smaya-saṅga-madaiḥ tava .. 24 ..
इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः । तं जिघृक्षत्यधर्मोऽयमनृतेनैधितः कलिः ॥ २५ ॥
इदानीम् धर्म पादः ते सत्यम् निर्वर्तयेत् यतस् । तम् जिघृक्षति अधर्मः अयम् अनृतेन एधितः कलिः ॥ २५ ॥
idānīm dharma pādaḥ te satyam nirvartayet yatas . tam jighṛkṣati adharmaḥ ayam anṛtena edhitaḥ kaliḥ .. 25 ..
इयं च भूमिर्भगवता न्यासितोरुभरा सती । श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका ॥ २६ ॥
इयम् च भूमिः भगवता न्यासिता उरु-भरा सती । श्रीमद्भिः तद्-पदन्यासैः सर्वतस् कृत-कौतुका ॥ २६ ॥
iyam ca bhūmiḥ bhagavatā nyāsitā uru-bharā satī . śrīmadbhiḥ tad-padanyāsaiḥ sarvatas kṛta-kautukā .. 26 ..
शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती । अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति मामिति ॥ २७ ॥
शोचति अश्रु-कला साध्वी दुर्भगा इव उज्झिता सती । अब्रह्मण्याः नृप-व्याजाः शूद्राः भोक्ष्यन्ति माम् इति ॥ २७ ॥
śocati aśru-kalā sādhvī durbhagā iva ujjhitā satī . abrahmaṇyāḥ nṛpa-vyājāḥ śūdrāḥ bhokṣyanti mām iti .. 27 ..
इति धर्मं महीं चैव सान्त्वयित्वा महारथः । निशातमाददे खड्गं कलयेऽधर्महेतवे ॥ २८ ॥
इति धर्मम् महीम् च एव सान्त्वयित्वा महा-रथः । निशातम् आददे खड्गम् कलये अधर्म-हेतवे ॥ २८ ॥
iti dharmam mahīm ca eva sāntvayitvā mahā-rathaḥ . niśātam ādade khaḍgam kalaye adharma-hetave .. 28 ..
तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम् । तत्पादमूलं शिरसा समगाद्भयविह्वलः ॥ २९ ॥
तम् जिघांसुम् अभिप्रेत्य विहाय नृप-लाञ्छनम् । तद्-पाद-मूलम् शिरसा समगात् भय-विह्वलः ॥ २९ ॥
tam jighāṃsum abhipretya vihāya nṛpa-lāñchanam . tad-pāda-mūlam śirasā samagāt bhaya-vihvalaḥ .. 29 ..
पतितं पादयोर्वीरः कृपया दीनवत्सलः । शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव ॥ ३० ॥
पतितम् पादयोः वीरः कृपया दीन-वत्सलः । शरण्यः न अवधीत् श्लोक्यः आह च इदम् हसन् इव ॥ ३० ॥
patitam pādayoḥ vīraḥ kṛpayā dīna-vatsalaḥ . śaraṇyaḥ na avadhīt ślokyaḥ āha ca idam hasan iva .. 30 ..
न ते गुडाकेशयशोधराणां बद्धाञ्जलेर्वै भयमस्ति किञ्चित् । न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वमधर्मबन्धुः ॥ ३१ ॥
न ते गुडाकेश-यशोधराणाम् बद्धाञ्जलेः वै भयम् अस्ति किञ्चिद् । न वर्तितव्यम् भवता कथञ्चन क्षेत्रे मदीये त्वम् अधर्म-बन्धुः ॥ ३१ ॥
na te guḍākeśa-yaśodharāṇām baddhāñjaleḥ vai bhayam asti kiñcid . na vartitavyam bhavatā kathañcana kṣetre madīye tvam adharma-bandhuḥ .. 31 ..
राजोवाच
त्वां वर्तमानं नरदेवदेहेष्वनुप्रवृत्तोऽयमधर्मपूगः । लोभोऽनृतं चौर्यमनार्यमंहो ज्येष्ठा च माया कलहश्च दम्भः ॥ ३२ ॥
त्वाम् वर्तमानम् नरदेव-देहेषु अनुप्रवृत्तः अयम् अधर्म-पूगः । लोभः अनृतम् चौर्यम् अनार्यम् अंहः ज्येष्ठा च माया कलहः च दम्भः ॥ ३२ ॥
tvām vartamānam naradeva-deheṣu anupravṛttaḥ ayam adharma-pūgaḥ . lobhaḥ anṛtam cauryam anāryam aṃhaḥ jyeṣṭhā ca māyā kalahaḥ ca dambhaḥ .. 32 ..
न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये । ब्रह्मावर्ते यत्र यजन्ति यज्ञैर्यज्ञेश्वरं यज्ञवितानविज्ञाः ॥ ३३ ॥
न वर्तितव्यम् तत् अधर्म-बन्धो धर्मेण सत्येन च वर्तितव्ये । ब्रह्मावर्ते यत्र यजन्ति यज्ञैः यज्ञेश्वरम् यज्ञ-वितान-विज्ञाः ॥ ३३ ॥
na vartitavyam tat adharma-bandho dharmeṇa satyena ca vartitavye . brahmāvarte yatra yajanti yajñaiḥ yajñeśvaram yajña-vitāna-vijñāḥ .. 33 ..
यस्मिन् हरिर्भगवानिज्यमान इज्यात्ममूर्तिर्यजतां शं तनोति । कामानमोघान् स्थिरजङ्गमानामन्तर्बहिर्वायुरिवैष आत्मा ॥ ३४ ॥
यस्मिन् हरिः भगवान् इज्यमानः इज्या-आत्म-मूर्तिः यजताम् शम् तनोति । कामान् अमोघान् स्थिर-जङ्गमानाम् अन्तर् बहिस् वायुः इव एष आत्मा ॥ ३४ ॥
yasmin hariḥ bhagavān ijyamānaḥ ijyā-ātma-mūrtiḥ yajatām śam tanoti . kāmān amoghān sthira-jaṅgamānām antar bahis vāyuḥ iva eṣa ātmā .. 34 ..
परीक्षितैवमादिष्टः स कलिर्जातवेपथुः । तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् ॥ ३५ ॥
परीक्षिता एवम् आदिष्टः स कलिः जात-वेपथुः । तम् उद्यत-असिम् आह इदम् दण्ड-पाणिम् इव उद्यतम् ॥ ३५ ॥
parīkṣitā evam ādiṣṭaḥ sa kaliḥ jāta-vepathuḥ . tam udyata-asim āha idam daṇḍa-pāṇim iva udyatam .. 35 ..
सूत उवाच
यत्र क्व वाथ वत्स्यामि सार्वभौम तवाज्ञया । लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् ॥ ३६ ॥
यत्र क्व वा अथ वत्स्यामि सार्वभौम तव आज्ञया । लक्षये तत्र तत्र अपि त्वाम् आत्त-इषु-शरासनम् ॥ ३६ ॥
yatra kva vā atha vatsyāmi sārvabhauma tava ājñayā . lakṣaye tatra tatra api tvām ātta-iṣu-śarāsanam .. 36 ..
कलिरुवाच
तन्मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुमर्हसि । यत्रैव नियतो वत्स्य आतिष्ठंस्तेऽनुशासनम् ॥ ३७ ॥
तत् मे धर्म-भृताम् श्रेष्ठ स्थानम् निर्देष्टुम् अर्हसि । यत्र एव नियतः वत्स्ये आतिष्ठन् ते अनुशासनम् ॥ ३७ ॥
tat me dharma-bhṛtām śreṣṭha sthānam nirdeṣṭum arhasi . yatra eva niyataḥ vatsye ātiṣṭhan te anuśāsanam .. 37 ..
अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ । द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः ॥ ३८ ॥
अभ्यर्थितः तदा तस्मै स्थानानि कलये ददौ । द्यूतम् पानम् स्त्रियः सूनाः यत्र अधर्मः चतुर्विधः ॥ ३८ ॥
abhyarthitaḥ tadā tasmai sthānāni kalaye dadau . dyūtam pānam striyaḥ sūnāḥ yatra adharmaḥ caturvidhaḥ .. 38 ..
सूत उवाच
पुनश्च याचमानाय जातरूपमदात्प्रभुः । ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम् ॥ ३९ ॥
पुनर् च याचमानाय जातरूपम् अदात् प्रभुः । ततस् अनृतम् मदम् कामम् रजः वैरम् च पञ्चमम् ॥ ३९ ॥
punar ca yācamānāya jātarūpam adāt prabhuḥ . tatas anṛtam madam kāmam rajaḥ vairam ca pañcamam .. 39 ..
अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः । औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत् ॥ ४० ॥
अमूनि पञ्च स्थानानि हि अधर्म-प्रभवः कलिः । औत्तरेयेण दत्तानि न्यवसत् तद्-निदेश-कृत् ॥ ४० ॥
amūni pañca sthānāni hi adharma-prabhavaḥ kaliḥ . auttareyeṇa dattāni nyavasat tad-nideśa-kṛt .. 40 ..
अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् । विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥ ४१ ॥
अथ एतानि न सेवेत बुभूषुः पुरुषः क्वचिद् । विशेषतः धर्म-शीलः राजा लोकपतिः गुरुः ॥ ४१ ॥
atha etāni na seveta bubhūṣuḥ puruṣaḥ kvacid . viśeṣataḥ dharma-śīlaḥ rājā lokapatiḥ guruḥ .. 41 ..
वृषस्य नष्टांस्त्रीन् पादान् तपः शौचं दयामिति । प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥ ४२ ॥
वृषस्य नष्टान् त्रीन् पादान् तपः शौचम् दयाम् इति । प्रतिसन्दधे आश्वास्य महीम् च समवर्धयत् ॥ ४२ ॥
vṛṣasya naṣṭān trīn pādān tapaḥ śaucam dayām iti . pratisandadhe āśvāsya mahīm ca samavardhayat .. 42 ..
स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् । पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता ॥ ४३ ॥
सः एषः एतर्हि अध्यास्ते आसनम् पार्थिव-उचितम् । पितामहेन उपन्यस्तम् राज्ञा अरण्यम् विविक्षता ॥ ४३ ॥
saḥ eṣaḥ etarhi adhyāste āsanam pārthiva-ucitam . pitāmahena upanyastam rājñā araṇyam vivikṣatā .. 43 ..
आस्तेऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन् । गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः ॥ ४४ ॥
आस्ते अधुना स राजर्षिः कौरव-इन्द्र-श्रिया उल्लसन् । गजाह्वये महाभागः चक्रवर्ती बृहच्छ्रवाः ॥ ४४ ॥
āste adhunā sa rājarṣiḥ kaurava-indra-śriyā ullasan . gajāhvaye mahābhāgaḥ cakravartī bṛhacchravāḥ .. 44 ..
इत्थम्भूतानुभावोऽयमभिमन्युसुतो नृपः । यस्य पालयतः क्षौणीं यूयं सत्राय दीक्षिताः ॥ ४५ ॥
इत्थम् भूत-अनुभावः अयम् अभिमन्यु-सुतः नृपः । यस्य पालयतः क्षौणीम् यूयम् सत्राय दीक्षिताः ॥ ४५ ॥
ittham bhūta-anubhāvaḥ ayam abhimanyu-sutaḥ nṛpaḥ . yasya pālayataḥ kṣauṇīm yūyam satrāya dīkṣitāḥ .. 45 ..
इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां प्रथमस्कन्धे कलिनिग्रहो नाम सप्तदशोऽध्यायः ॥१७॥
इति श्रीमत्-भागवते महापुराणे पारमंहंस्या संहितायाम् प्रथम-स्कन्धे कलिनिग्रहः नाम सप्तदशः अध्यायः ॥१७॥
iti śrīmat-bhāgavate mahāpurāṇe pāramaṃhaṃsyā saṃhitāyām prathama-skandhe kalinigrahaḥ nāma saptadaśaḥ adhyāyaḥ ..17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In