| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः । अनुग्रहाद् भगवतः कृष्णस्याद्भुतकर्मणः ॥ १ ॥
यः वै द्रौणि-अस्त्र-विप्लुष्टः न मातुः उदरे मृतः । अनुग्रहात् भगवतः कृष्णस्य अद्भुत-कर्मणः ॥ १ ॥
yaḥ vai drauṇi-astra-vipluṣṭaḥ na mātuḥ udare mṛtaḥ . anugrahāt bhagavataḥ kṛṣṇasya adbhuta-karmaṇaḥ .. 1 ..
सूत उवाच ।
ब्रह्मकोपोत्थिताद् यस्तु तक्षकात् प्राणविप्लवात् । न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः ॥ २ ॥
ब्रह्म-कोप-उत्थितात् यः तु तक्षकात् प्राण-विप्लवात् । न सम्मुमोह उरु-भयात् भगवति अर्पित-आशयः ॥ २ ॥
brahma-kopa-utthitāt yaḥ tu takṣakāt prāṇa-viplavāt . na sammumoha uru-bhayāt bhagavati arpita-āśayaḥ .. 2 ..
उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३ ॥
उत्सृज्य सर्वतस् सङ्गम् विज्ञात-अजित-संस्थितिः । वैयासकेः जहौ शिष्यः गङ्गायाम् स्वम् कलेवरम् ॥ ३ ॥
utsṛjya sarvatas saṅgam vijñāta-ajita-saṃsthitiḥ . vaiyāsakeḥ jahau śiṣyaḥ gaṅgāyām svam kalevaram .. 3 ..
नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४ ॥
न उत्तमश्लोक-वार्तानाम् जुषताम् तत् कथा-अमृतम् । स्यात् सम्भ्रमः अन्तकाले अपि स्मरताम् तद्-पद-अम्बुजम् ॥ ४ ॥
na uttamaśloka-vārtānām juṣatām tat kathā-amṛtam . syāt sambhramaḥ antakāle api smaratām tad-pada-ambujam .. 4 ..
तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वतः । यावदीशो महानुर्व्यां आभिमन्यव एकराट् ॥ ५ ॥
तावत् कलिः न प्रभवेत् प्रविष्टः अपि इह सर्वतस् । यावत् ईशः महान् उर्व्याम् आभिमन्यवः एकराज् ॥ ५ ॥
tāvat kaliḥ na prabhavet praviṣṭaḥ api iha sarvatas . yāvat īśaḥ mahān urvyām ābhimanyavaḥ ekarāj .. 5 ..
यस्मिन्नहनि यर्ह्येव भगवान् उत्ससर्ज गाम् । तदैवेहानुवृत्तोऽसौ अधर्मप्रभवः कलिः ॥ ६ ॥
यस्मिन् अहनि यर्हि एव भगवान् उत्ससर्ज गाम् । तदा एव इह अनुवृत्तः असौ अधर्म-प्रभवः कलिः ॥ ६ ॥
yasmin ahani yarhi eva bhagavān utsasarja gām . tadā eva iha anuvṛttaḥ asau adharma-prabhavaḥ kaliḥ .. 6 ..
नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७ ॥
न अनुद्वेष्टि कलिम् सम्राज् सारङ्गः इव सार-भुज् । कुशलानि आशु सिद्ध्यन्ति न इतराणि कृतानि यत् ॥ ७ ॥
na anudveṣṭi kalim samrāj sāraṅgaḥ iva sāra-bhuj . kuśalāni āśu siddhyanti na itarāṇi kṛtāni yat .. 7 ..
किं नु बालेषु शूरेण कलिना धीरभीरुणा । अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८ ॥
किम् नु बालेषु शूरेण कलिना धीर-भीरुणा । अप्रमत्तः प्रमत्तेषु यः वृकः नृषु वर्तते ॥ ८ ॥
kim nu bāleṣu śūreṇa kalinā dhīra-bhīruṇā . apramattaḥ pramatteṣu yaḥ vṛkaḥ nṛṣu vartate .. 8 ..
उपवर्णितमेतद् वः पुण्यं पारीक्षितं मया । वासुदेव कथोपेतं आख्यानं यदपृच्छत ॥ ९ ॥
उपवर्णितम् एतत् वः पुण्यम् पारीक्षितम् मया । वासुदेव कथा-उपेतम् आख्यानम् यत् अपृच्छत ॥ ९ ॥
upavarṇitam etat vaḥ puṇyam pārīkṣitam mayā . vāsudeva kathā-upetam ākhyānam yat apṛcchata .. 9 ..
या याः कथा भगवतः कथनीयोरुकर्मणः । गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः ॥ १० ॥
याः याः कथाः भगवतः कथनीया उरु-कर्मणः । गुण-कर्म-आश्रयाः पुम्भिः संसेव्याः ताः बुभूषुभिः ॥ १० ॥
yāḥ yāḥ kathāḥ bhagavataḥ kathanīyā uru-karmaṇaḥ . guṇa-karma-āśrayāḥ pumbhiḥ saṃsevyāḥ tāḥ bubhūṣubhiḥ .. 10 ..
सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः । यस्त्वं शंससि कृष्णस्य मर्त्यानां अमृतं हि नः ॥ ११ ॥
सूत जीव समाः सौम्य शाश्वतीः विशदम् यशः । यः त्वम् शंससि कृष्णस्य मर्त्यानाम् अमृतम् हि नः ॥ ११ ॥
sūta jīva samāḥ saumya śāśvatīḥ viśadam yaśaḥ . yaḥ tvam śaṃsasi kṛṣṇasya martyānām amṛtam hi naḥ .. 11 ..
ऋषय ऊचुः
कर्मण्यस्मिन् अनाश्वासे धूमधूम्रात्मनां भवान् । आपाययति गोविन्द पादपद्मासवं मधु ॥ १२ ॥
कर्मणि अस्मिन् अनाश्वासे धूम-धूम्र-आत्मनाम् भवान् । आपाययति गोविन्द पाद-पद्म-आसवम् मधु ॥ १२ ॥
karmaṇi asmin anāśvāse dhūma-dhūmra-ātmanām bhavān . āpāyayati govinda pāda-padma-āsavam madhu .. 12 ..
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत् सङ्गिसंगस्य मर्त्यानां किमुताशिषः ॥ १३ ॥
तुलयाम लवेन अपि न स्वर्गम् ना अपुनर्भवम् । भगवत् सङ्गि-संगस्य मर्त्यानाम् किम् उत आशिषः ॥ १३ ॥
tulayāma lavena api na svargam nā apunarbhavam . bhagavat saṅgi-saṃgasya martyānām kim uta āśiṣaḥ .. 13 ..
को नाम तृप्येद् रसवित्कथायां महत्तमैकान्त परायणस्य । नान्तं गुणानां अगुणस्य जग्मुः योगेश्वरा ये भवपाद्ममुख्याः ॥ १४ ॥
कः नाम तृप्येत् रस-विद् कथायाम् महत्तम-एकान्त-परायणस्य । न अन्तम् गुणानाम् अगुणस्य जग्मुः योग-ईश्वराः ये भव-पाद्म-मुख्याः ॥ १४ ॥
kaḥ nāma tṛpyet rasa-vid kathāyām mahattama-ekānta-parāyaṇasya . na antam guṇānām aguṇasya jagmuḥ yoga-īśvarāḥ ye bhava-pādma-mukhyāḥ .. 14 ..
तन्नो भवान् वै भगवत्प्रधानो महत्तमैकान्त परायणस्य । हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥ १५ ॥
तत् नः भवान् वै भगवत्-प्रधानः महत्तम-एकान्त परायणस्य । हरेः उदारम् चरितम् विशुद्धम् शुश्रूषताम् नः वितनोतु विद्वन् ॥ १५ ॥
tat naḥ bhavān vai bhagavat-pradhānaḥ mahattama-ekānta parāyaṇasya . hareḥ udāram caritam viśuddham śuśrūṣatām naḥ vitanotu vidvan .. 15 ..
स वै महाभागवतः परीक्षिद् येनापवर्गाख्यमदभ्रबुद्धिः । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥ १६ ॥
स वै महा-भागवतः परीक्षित् येन अपवर्ग-आख्यम् अदभ्र-बुद्धिः । ज्ञानेन वैयासकि-शब्दितेन भेजे खग-इन्द्र-ध्वज-पाद-मूलम् ॥ १६ ॥
sa vai mahā-bhāgavataḥ parīkṣit yena apavarga-ākhyam adabhra-buddhiḥ . jñānena vaiyāsaki-śabditena bheje khaga-indra-dhvaja-pāda-mūlam .. 16 ..
तन्नः परं पुण्यमसंवृतार्थं आख्यानमत्यद्भुत योगनिष्ठम् । आख्याह्यनन्ता चरितोपपन्नं पारीक्षितं भागवताभिरामम् ॥ १७ ॥
तत् नः परम् पुण्यम् असंवृत-अर्थम् आख्यानम् अति अद्भुत योग-निष्ठम् । आख्याहि अनन्ता चरित-उपपन्नम् पारीक्षितम् भागवत-अभिरामम् ॥ १७ ॥
tat naḥ param puṇyam asaṃvṛta-artham ākhyānam ati adbhuta yoga-niṣṭham . ākhyāhi anantā carita-upapannam pārīkṣitam bhāgavata-abhirāmam .. 17 ..
अहो वयं जन्मभृतोऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाताः । दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोगः ॥ १८ ॥
अहो वयम् जन्म-भृतः अद्य ह आस्म वृद्ध-अनुवृत्त्या अपि विलोम-जाताः । दौष्कुल्यम् आधिम् विधुनोति शीघ्रम् महत्तमानाम् अभिधान-योगः ॥ १८ ॥
aho vayam janma-bhṛtaḥ adya ha āsma vṛddha-anuvṛttyā api viloma-jātāḥ . dauṣkulyam ādhim vidhunoti śīghram mahattamānām abhidhāna-yogaḥ .. 18 ..
सूत उवाच ।
कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्त परायणस्य । योऽनन्तशक्तिः भगवाननन्तो महद्गुणत्वाद् यमनन्तमाहुः ॥ १९ ॥
कुतस् पुनर् गृणतः नाम तस्य महत्तम-एकान्त-परायणस्य । यः अनन्त-शक्तिः भगवान् अनन्तः महा-गुण-त्वात् यम् अनन्तम् आहुः ॥ १९ ॥
kutas punar gṛṇataḥ nāma tasya mahattama-ekānta-parāyaṇasya . yaḥ ananta-śaktiḥ bhagavān anantaḥ mahā-guṇa-tvāt yam anantam āhuḥ .. 19 ..
एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य । हित्वेतरान् प्रार्थयतो विभूतिः यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः ॥ २० ॥
एतावता अलम् ननु सूचितेन गुणैः असाम्य-अनतिशायनस्य । हित्वा इतरान् प्रार्थयतः विभूतिः यस्य अङ्घ्रि-रेणुम् जुषते अनभीप्सोः ॥ २० ॥
etāvatā alam nanu sūcitena guṇaiḥ asāmya-anatiśāyanasya . hitvā itarān prārthayataḥ vibhūtiḥ yasya aṅghri-reṇum juṣate anabhīpsoḥ .. 20 ..
अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः । सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः ॥ २१ ॥
अथा अपि यत् पाद-नख-अवसृष्टम् जगत् विरिञ्च-उपहृत-अर्हण-अम्भः । पुनाति अन्यतमः मुकुन्दात् कः नाम लोके भगवत्-पदार्थः ॥ २१ ॥
athā api yat pāda-nakha-avasṛṣṭam jagat viriñca-upahṛta-arhaṇa-ambhaḥ . punāti anyatamaḥ mukundāt kaḥ nāma loke bhagavat-padārthaḥ .. 21 ..
यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् । व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशमः स्वधर्मः ॥ २२ ॥
यत्र अनुरक्ताः सहसा एव धीराः व्यपोह्य देह-आदिषु सङ्ग-मूढम् । व्रजन्ति तत् पारमहंस्यम् अन्त्यम् यस्मिन् अहिंसा-उपशमः स्वधर्मः ॥ २२ ॥
yatra anuraktāḥ sahasā eva dhīrāḥ vyapohya deha-ādiṣu saṅga-mūḍham . vrajanti tat pāramahaṃsyam antyam yasmin ahiṃsā-upaśamaḥ svadharmaḥ .. 22 ..
अहं हि पृष्टोऽर्यमणो भवद्भिः आचक्ष आत्मावगमोऽत्र यावान् । नभः पतन्त्यात्मसमं पतत्त्रिणः तथा समं विष्णुगतिं विपश्चितः ॥ २३ ॥
अहम् हि पृष्टः अर्यमणः भवद्भिः आचक्षे आत्म-अवगमः अत्र यावान् । नभः पतन्ति आत्म-समम् पतत्त्रिणः तथा समम् विष्णु-गतिम् विपश्चितः ॥ २३ ॥
aham hi pṛṣṭaḥ aryamaṇaḥ bhavadbhiḥ ācakṣe ātma-avagamaḥ atra yāvān . nabhaḥ patanti ātma-samam patattriṇaḥ tathā samam viṣṇu-gatim vipaścitaḥ .. 23 ..
एकदा धनुरुद्यम्य विचरन्मृगयां वने । मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ॥ २४ ॥
एकदा धनुः उद्यम्य विचरन् मृगयाम् वने । मृगान् अनुगतः श्रान्तः क्षुधितः तृषितः भृशम् ॥ २४ ॥
ekadā dhanuḥ udyamya vicaran mṛgayām vane . mṛgān anugataḥ śrāntaḥ kṣudhitaḥ tṛṣitaḥ bhṛśam .. 24 ..
जलाशयमचक्षाणः प्रविवेश तमाश्रमम् । ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५ ॥
जलाशयम् अचक्षाणः प्रविवेश तम् आश्रमम् । ददर्श मुनिम् आसीनम् शान्तम् मीलित-लोचनम् ॥ २५ ॥
jalāśayam acakṣāṇaḥ praviveśa tam āśramam . dadarśa munim āsīnam śāntam mīlita-locanam .. 25 ..
प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिमुपारतम् । स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥
प्रतिरुद्ध-इन्द्रिय-प्राण मनः-बुद्धिम् उपारतम् । स्थान-त्रयात् परम् प्राप्तम् ब्रह्म-भूतम् अविक्रियम् ॥ २६ ॥
pratiruddha-indriya-prāṇa manaḥ-buddhim upāratam . sthāna-trayāt param prāptam brahma-bhūtam avikriyam .. 26 ..
विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च । विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७ ॥
विप्रकीर्ण-जटा-आच्छन्नम् रौरवेण अजिनेन च । विशुष्यत्-तालुः उदकम् तथाभूतम् अयाचत ॥ २७ ॥
viprakīrṇa-jaṭā-ācchannam rauraveṇa ajinena ca . viśuṣyat-tāluḥ udakam tathābhūtam ayācata .. 27 ..
अलब्धतृणभूम्यादिः असम्प्राप्तार्घ्यसूनृतः । अवज्ञातं इवात्मानं मन्यमानश्चुकोप ह ॥ २८ ॥
अ लब्ध-तृण-भूमि-आदिः अ सम्प्राप्त-अर्घ्य-सूनृतः । अवज्ञातम् इव आत्मानम् मन्यमानः चुकोप ह ॥ २८ ॥
a labdha-tṛṇa-bhūmi-ādiḥ a samprāpta-arghya-sūnṛtaḥ . avajñātam iva ātmānam manyamānaḥ cukopa ha .. 28 ..
अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः । ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥
अभूत-पूर्वः सहसा क्षुध्-तृड्भ्याम् अर्दित-आत्मनः । ब्राह्मणम् प्रत्यभूत् ब्रह्मन् मत्सरः मन्युः एव च ॥ २९ ॥
abhūta-pūrvaḥ sahasā kṣudh-tṛḍbhyām ardita-ātmanaḥ . brāhmaṇam pratyabhūt brahman matsaraḥ manyuḥ eva ca .. 29 ..
स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा । विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागत् ॥ ३० ॥
स तु ब्रह्म-ऋषेः अंसे गतासुम् उरगम् रुषा । विनिर्गच्छन् धनुष्कोट्या निधाय पुरम् आगत् ॥ ३० ॥
sa tu brahma-ṛṣeḥ aṃse gatāsum uragam ruṣā . vinirgacchan dhanuṣkoṭyā nidhāya puram āgat .. 30 ..
एष किं निभृताशेष करणो मीलितेक्षणः । मृषा समाधिराहोस्वित् किं नु स्यात् क्षत्रबन्धुभिः ॥ ३१ ॥
एष किम् निभृत-अशेष करणः मीलित-ईक्षणः । मृषा समाधिः आहोस्वित् किम् नु स्यात् क्षत्रबन्धुभिः ॥ ३१ ॥
eṣa kim nibhṛta-aśeṣa karaṇaḥ mīlita-īkṣaṇaḥ . mṛṣā samādhiḥ āhosvit kim nu syāt kṣatrabandhubhiḥ .. 31 ..
तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः । राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥
तस्य पुत्रः अति तेजस्वी विहरन् बालकः अर्भकैः । राज्ञा अघम् प्रापितम् तातम् श्रुत्वा तत्र इदम् अब्रवीत् ॥ ३२ ॥
tasya putraḥ ati tejasvī viharan bālakaḥ arbhakaiḥ . rājñā agham prāpitam tātam śrutvā tatra idam abravīt .. 32 ..
अहो अधर्मः पालानां पीव्नां बलिभुजामिव । स्वामिन्यघं यद् दासानां द्वारपानां शुनामिव ॥ ३३ ॥
अहो अधर्मः पालानाम् पीव्नाम् बलिभुजाम् इव । स्वामिनि अघम् यत् दासानाम् द्वारपानाम् शुनाम् इव ॥ ३३ ॥
aho adharmaḥ pālānām pīvnām balibhujām iva . svāmini agham yat dāsānām dvārapānām śunām iva .. 33 ..
ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः । स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति ॥ ३४ ॥
ब्राह्मणैः क्षत्रबन्धुः हि गृहपालः निरूपितः । स कथम् तद्-गृहे द्वाःस्थः स भाण्डम् भोक्तुम् अर्हति ॥ ३४ ॥
brāhmaṇaiḥ kṣatrabandhuḥ hi gṛhapālaḥ nirūpitaḥ . sa katham tad-gṛhe dvāḥsthaḥ sa bhāṇḍam bhoktum arhati .. 34 ..
कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् । तद् भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥
कृष्णे गते भगवति शास्तरि उत्पथ-गामिनाम् । तत् भिन्न-सेतून् अद्य अहम् शास्मि पश्यत मे बलम् ॥ ३५ ॥
kṛṣṇe gate bhagavati śāstari utpatha-gāminām . tat bhinna-setūn adya aham śāsmi paśyata me balam .. 35 ..
इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः । कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥
इति उक्त्वा रोष-ताम्र-अक्षः वयस्यान् ऋषि-बालकः । कौशिक्या अपः उपस्पृश्य वाच्-वज्रम् विससर्ज ह ॥ ३६ ॥
iti uktvā roṣa-tāmra-akṣaḥ vayasyān ṛṣi-bālakaḥ . kauśikyā apaḥ upaspṛśya vāc-vajram visasarja ha .. 36 ..
इति लङ्घितमर्यादं तक्षकः सप्तमेऽहनि । दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ ३७ ॥
इति लङ्घित-मर्यादम् तक्षकः सप्तमे अहनि । दङ्क्ष्यति स्म कुल-अङ्गारम् चोदितः मे तत-द्रुहम् ॥ ३७ ॥
iti laṅghita-maryādam takṣakaḥ saptame ahani . daṅkṣyati sma kula-aṅgāram coditaḥ me tata-druham .. 37 ..
ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् । पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥
ततस् अभ्येति आश्रमम् बालः गले सर्प-कलेवरम् । पितरम् वीक्ष्य दुःख-आर्तः मुक्त-कण्ठः रुरोद ह ॥ ३८ ॥
tatas abhyeti āśramam bālaḥ gale sarpa-kalevaram . pitaram vīkṣya duḥkha-ārtaḥ mukta-kaṇṭhaḥ ruroda ha .. 38 ..
स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥
स वै आङ्गिरसः ब्रह्मन् श्रुत्वा सुत-विलापनम् । उन्मील्य शनकैस् नेत्रे दृष्ट्वा च अंसे मृत-उरगम् ॥ ३९ ॥
sa vai āṅgirasaḥ brahman śrutvā suta-vilāpanam . unmīlya śanakais netre dṛṣṭvā ca aṃse mṛta-uragam .. 39 ..
विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा तेऽपकृतं इत्युक्तः स न्यवेदयत् ॥ ४० ॥
विसृज्य तम् च पप्रच्छ वत्स कस्मात् हि रोदिषि । केन वा ते अपकृतम् इति उक्तः स न्यवेदयत् ॥ ४० ॥
visṛjya tam ca papraccha vatsa kasmāt hi rodiṣi . kena vā te apakṛtam iti uktaḥ sa nyavedayat .. 40 ..
निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् । अहो बतांहो महदद्य ते कृतं अल्पीयसि द्रोह उरुर्दमो धृतः ॥ ४१ ॥
निशम्य शप्तम् अ तद्-अर्हम् नरेन्द्रम् स ब्राह्मणः न आत्मजम् अभ्यनन्दत् । अहो बत अंहः महत् अद्य ते कृतम् अल्पीयसि द्रोहे उरुः दमः धृतः ॥ ४१ ॥
niśamya śaptam a tad-arham narendram sa brāhmaṇaḥ na ātmajam abhyanandat . aho bata aṃhaḥ mahat adya te kṛtam alpīyasi drohe uruḥ damaḥ dhṛtaḥ .. 41 ..
न वै नृभिर्नरदेवं पराख्यं सम्मातुमर्हस्यविपक्वबुद्धे । यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः ॥ ४२ ॥
न वै नृभिः नरदेवम् पर-आख्यम् सम्मातुम् अर्हसि अविपक्व-बुद्धे । यद्-तेजसा दुर्विषहेण गुप्ताः विन्दन्ति भद्राणि अकुतोभयाः प्रजाः ॥ ४२ ॥
na vai nṛbhiḥ naradevam para-ākhyam sammātum arhasi avipakva-buddhe . yad-tejasā durviṣaheṇa guptāḥ vindanti bhadrāṇi akutobhayāḥ prajāḥ .. 42 ..
अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोकः । तदा हि चौरप्रचुरो विनङ्क्ष्यति अरक्ष्यमाणोऽविव रूथवत् क्षणात् ॥ ४३ ॥
अ लक्ष्यमाणे नरदेव-नाम्नि रथाङ्ग-पाणौ अयम् अङ्ग लोकः । तदा हि चौर-प्रचुरः विनङ्क्ष्यति रूथ-वत् क्षणात् ॥ ४३ ॥
a lakṣyamāṇe naradeva-nāmni rathāṅga-pāṇau ayam aṅga lokaḥ . tadā hi caura-pracuraḥ vinaṅkṣyati rūtha-vat kṣaṇāt .. 43 ..
तदद्य नः पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थाम् पुरुदस्यवो जनाः ॥ ४४ ॥ तदाऽऽर्यधर्मः प्रविलीयते नृणां
तत् अद्य नः पापम् उपैति अनन्वयम् यत् नष्ट-नाथस्य वसोः विलुम्पकात् । परस्परम् घ्नन्ति शपन्ति वृञ्जते पशून् पुरु-दस्यवः जनाः ॥ ४४ ॥ तदा आर्य-धर्मः प्रविलीयते नृणाम्
tat adya naḥ pāpam upaiti ananvayam yat naṣṭa-nāthasya vasoḥ vilumpakāt . parasparam ghnanti śapanti vṛñjate paśūn puru-dasyavaḥ janāḥ .. 44 .. tadā ārya-dharmaḥ pravilīyate nṛṇām
तदाऽऽर्यधर्मः प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः । ततोऽर्थकामाभिनिवेशितात्मनां शुनां कपीनामिव वर्णसङ्करः ॥ ४५ ॥
तदा आर्य-धर्मः प्रविलीयते नृणाम् वर्ण-आश्रम-आचार-युतः त्रयी-मयः । ततस् अर्थ-काम-अभिनिवेशित-आत्मनाम् शुनाम् कपीनाम् इव वर्ण-सङ्करः ॥ ४५ ॥
tadā ārya-dharmaḥ pravilīyate nṛṇām varṇa-āśrama-ācāra-yutaḥ trayī-mayaḥ . tatas artha-kāma-abhiniveśita-ātmanām śunām kapīnām iva varṇa-saṅkaraḥ .. 45 ..
धर्मपालो नरपतिः स तु सम्राड् बृहच्छ्रवाः । साक्षान् महाभागवतो राजर्षिर्हयमेधयाट् ॥ ४६ ॥
धर्मपालः नरपतिः स तु सम्राज् बृहच्छ्रवाः । साक्षात् महा-भागवतः राजर्षिः हयमेध-याज् ॥ ४६ ॥
dharmapālaḥ narapatiḥ sa tu samrāj bṛhacchravāḥ . sākṣāt mahā-bhāgavataḥ rājarṣiḥ hayamedha-yāj .. 46 ..
क्षुत्तृट्श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६.५ ।
क्षुध्-तृष्-श्रम-युतः दीनः न एव अस्मद्-शापम् अर्हति ॥ ४६।५ ।
kṣudh-tṛṣ-śrama-yutaḥ dīnaḥ na eva asmad-śāpam arhati .. 46.5 .
अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥
अपापेषु स्व-भृत्येषु बालेन अपक्व-बुद्धिना । पापम् कृतम् तत् भगवान् सर्व-आत्मा क्षन्तुम् अर्हति ॥ ४७ ॥
apāpeṣu sva-bhṛtyeṣu bālena apakva-buddhinā . pāpam kṛtam tat bhagavān sarva-ātmā kṣantum arhati .. 47 ..
तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि । नास्य तत्प्रतिकुर्वन्ति तद्भक्ताः प्रभवोऽपि हि ॥ ४८ ॥
तिरस्कृताः विप्रलब्धाः शप्ताः क्षिप्ताः हताः अपि । न अस्य तत् प्रतिकुर्वन्ति तद्-भक्ताः प्रभवः अपि हि ॥ ४८ ॥
tiraskṛtāḥ vipralabdhāḥ śaptāḥ kṣiptāḥ hatāḥ api . na asya tat pratikurvanti tad-bhaktāḥ prabhavaḥ api hi .. 48 ..
इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः । स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९ ॥
इति पुत्र-कृत-अघेन सः अनुतप्तः महा-मुनिः । स्वयम् विप्रकृतः राज्ञा न एव अघम् तत् अचिन्तयत् ॥ ४९ ॥
iti putra-kṛta-aghena saḥ anutaptaḥ mahā-muniḥ . svayam viprakṛtaḥ rājñā na eva agham tat acintayat .. 49 ..
प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः । न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥ ५० ॥
प्रायशस् साधवः लोके परैः द्वन्द्वेषु योजिताः । न व्यथन्ति न हृष्यन्ति यतस् आत्मा अ गुण-आश्रयः ॥ ५० ॥
prāyaśas sādhavaḥ loke paraiḥ dvandveṣu yojitāḥ . na vyathanti na hṛṣyanti yatas ātmā a guṇa-āśrayaḥ .. 50 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे विप्रशापोपलम्भनं नाम्ना अष्टादशोऽध्यायः ॥ १८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथम-स्कन्धे विप्रशापोपलम्भनम् नाम्ना अष्टादशः अध्यायः ॥ १८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām prathama-skandhe vipraśāpopalambhanam nāmnā aṣṭādaśaḥ adhyāyaḥ .. 18 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In