| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच।
जगृहे पौरुषं रूपं भगवान् महदादिभिः। संभूतं षोडशकलं आदौ लोकसिसृक्षया।१॥
जगृहे पौरुषम् रूपम् भगवान् महत्-आदिभिः। संभूतम् षोडश-कलम् आदौ लोक-सिसृक्षया।१॥
jagṛhe pauruṣam rūpam bhagavān mahat-ādibhiḥ. saṃbhūtam ṣoḍaśa-kalam ādau loka-sisṛkṣayā.1..
(अनुष्टुप्)
यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः। नाभिह्रदाम्बुजादासीद् ब्रह्मा विश्वसृजां पतिः॥२॥
यस्य अम्भसि शयानस्य योगनिद्राम् वितन्वतः। ब्रह्मा विश्वसृजाम् पतिः॥२॥
yasya ambhasi śayānasya yoganidrām vitanvataḥ. brahmā viśvasṛjām patiḥ..2..
यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः। तद् वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम्।३॥
यस्य अवयव-संस्थानैः कल्पितः लोक-विस्तरः। तत् वै भगवतः रूपम् विशुद्धम् सत्त्वम् ऊर्जितम्।३॥
yasya avayava-saṃsthānaiḥ kalpitaḥ loka-vistaraḥ. tat vai bhagavataḥ rūpam viśuddham sattvam ūrjitam.3..
(इंद्रवंशा)
पश्यन्त्यदोरूपमदभ्रचक्षुषा। सहस्रपादोरुभुजाननाद्भुतम् ।
पश्यन्ति अदः-रूपम् अदभ्र-चक्षुषा। ।
paśyanti adaḥ-rūpam adabhra-cakṣuṣā. .
(अनुष्टुप्)
एतन्नानावताराणां निधानं बीजमव्ययम् । यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥५॥
एतत् नाना अवताराणाम् निधानम् बीजम् अव्ययम् । यस्य अंश-अंशेन सृज्यन्ते ॥५॥
etat nānā avatārāṇām nidhānam bījam avyayam . yasya aṃśa-aṃśena sṛjyante ..5..
स एव प्रथमं देवः कौमारं सर्गमाश्रितः। चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥६॥
सः एव प्रथमम् देवः कौमारम् सर्गम् आश्रितः। चचार दुश्चरम् ब्रह्मा ब्रह्मचर्यम् अखण्डितम् ॥६॥
saḥ eva prathamam devaḥ kaumāram sargam āśritaḥ. cacāra duścaram brahmā brahmacaryam akhaṇḍitam ..6..
द्वितीयं तु भवायास्य रसातलगतां महीम्। उद्धरिष्यन् उपादत्त यज्ञेशः सौकरं वपुः ॥७॥
द्वितीयम् तु भवाय अस्य रसातल-गताम् महीम्। उद्धरिष्यन् उपादत्त यज्ञेशः सौकरम् वपुः ॥७॥
dvitīyam tu bhavāya asya rasātala-gatām mahīm. uddhariṣyan upādatta yajñeśaḥ saukaram vapuḥ ..7..
तृतीयं ऋषिसर्गं वै देवर्षित्वमुपेत्य सः । तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः॥८॥
तृतीयम् ऋषि-सर्गम् वै देवर्षि-त्वम् उपेत्य सः । तन्त्रम् सात्वतम् आचष्ट नैष्कर्म्यम् कर्मणाम् यतस्॥८॥
tṛtīyam ṛṣi-sargam vai devarṣi-tvam upetya saḥ . tantram sātvatam ācaṣṭa naiṣkarmyam karmaṇām yatas..8..
तुर्ये धर्मकलासर्गे नरनारायणौ ऋषी । भूत्वात्मोपशमोपेतं अकरोद् दुश्चरं तपः॥९॥
तुर्ये धर्म-कला-सर्गे नर-नारायणौ ऋषी । भूत्वा आत्म-उपशम-उपेतम् अकरोत् दुश्चरम् तपः॥९॥
turye dharma-kalā-sarge nara-nārāyaṇau ṛṣī . bhūtvā ātma-upaśama-upetam akarot duścaram tapaḥ..9..
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम्॥१०॥
पञ्चमः कपिलः नाम सिद्ध-ईशः काल-विप्लुतम् । प्रोवाच असुरये सांख्यम् तत्त्व-ग्राम-विनिर्णयम्॥१०॥
pañcamaḥ kapilaḥ nāma siddha-īśaḥ kāla-viplutam . provāca asuraye sāṃkhyam tattva-grāma-vinirṇayam..10..
षष्ठे अत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया। आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान्॥११।
षष्ठे अत्रेः अपत्य-त्वम् वृतः प्राप्तः अनसूयया। आन्वीक्षिकीम् अलर्काय प्रह्लाद-आदिभ्यः ऊचिवान्॥११।
ṣaṣṭhe atreḥ apatya-tvam vṛtaḥ prāptaḥ anasūyayā. ānvīkṣikīm alarkāya prahlāda-ādibhyaḥ ūcivān..11.
ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत । स यामाद्यैः सुरगणैः अपात् स्वायंभुवान्तरम्।१२॥
ततस् सप्तमे आकूत्याम् रुचेः यज्ञः अभ्यजायत । स याम-आद्यैः सुर-गणैः अपात् स्वायंभुव-अन्तरम्।१२॥
tatas saptame ākūtyām ruceḥ yajñaḥ abhyajāyata . sa yāma-ādyaiḥ sura-gaṇaiḥ apāt svāyaṃbhuva-antaram.12..
अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः । दर्शयन्वर्त्म धीराणां सर्वाश्रम नमस्कृतम् ॥१३॥
अष्टमे मेरुदेव्याम् तु नाभेः जातः उरु-क्रमः । दर्शयन् वर्त्म धीराणाम् सर्व-आश्रम नमस्कृतम् ॥१३॥
aṣṭame merudevyām tu nābheḥ jātaḥ uru-kramaḥ . darśayan vartma dhīrāṇām sarva-āśrama namaskṛtam ..13..
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः । दुग्धेमामोषधीर्विप्राः तेनायं स उशत्तमः॥१४॥
ऋषिभिः याचितः भेजे नवमम् पार्थिवम् वपुः । दुग्ध इमाम् ओषधीः विप्राः तेन अयम् सः उशत्तमः॥१४॥
ṛṣibhiḥ yācitaḥ bheje navamam pārthivam vapuḥ . dugdha imām oṣadhīḥ viprāḥ tena ayam saḥ uśattamaḥ..14..
रूपं स जगृहे मात्स्यं चाक्षुषोदधिसंप्लवे। नाव्यारोप्य महीमय्यां अपाद् वैवस्वतं मनुम्॥१५॥
रूपम् स जगृहे मात्स्यम् चाक्षुष-उदधि-संप्लवे। नऔ आरोप्य महीमय्याम् अपात् वैवस्वतम् मनुम्॥१५॥
rūpam sa jagṛhe mātsyam cākṣuṣa-udadhi-saṃplave. naau āropya mahīmayyām apāt vaivasvatam manum..15..
सुरासुराणां उदधिं मथ्नतां मन्दराचलम् । दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥१६॥
सुर-असुराणाम् उदधिम् मथ्नताम् मन्दर-अचलम् । दध्रे कमठ-रूपेण पृष्ठे एकादशे विभुः ॥१६॥
sura-asurāṇām udadhim mathnatām mandara-acalam . dadhre kamaṭha-rūpeṇa pṛṣṭhe ekādaśe vibhuḥ ..16..
धान्वन्तरं द्वादशमं त्रयोदशममेव च। अपाययत्सुरान्अन्यान् मोहिन्या मोहयन्स्त्रिया॥१७॥
धान्वन्तरम् द्वादशमम् त्रयोदशमम् एव च। अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया॥१७॥
dhānvantaram dvādaśamam trayodaśamam eva ca. apāyayat surān anyān mohinyā mohayan striyā..17..
चतुर्दशं नारसिंहं बिभ्रद् दैत्येन्द्रमूर्जितम् । [1]ददार करजैरूरौ एरकां कटकृत् यथा॥१८॥
चतुर्दशम् नारसिंहम् बिभ्रत् दैत्य-इन्द्रम् ऊर्जितम् । [१]ददार करजैः ऊरौ एरकाम् कटकृत् यथा॥१८॥
caturdaśam nārasiṃham bibhrat daitya-indram ūrjitam . [1]dadāra karajaiḥ ūrau erakām kaṭakṛt yathā..18..
पञ्चदशं वामनकं कृत्वागादध्वरं बलेः। पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम्॥१९॥
पञ्चदशम् वामनकम् कृत्वा अगात् अध्वरम् बलेः। पद-त्रयम् याचमानः प्रत्यादित्सुः त्रिविष्टपम्॥१९॥
pañcadaśam vāmanakam kṛtvā agāt adhvaram baleḥ. pada-trayam yācamānaḥ pratyāditsuḥ triviṣṭapam..19..
अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् । त्रिःसप्तकृत्वः कुपितो निःक्षत्रां अकरोन्महीम्॥२०॥
अवतारे षोडशमे पश्यन् ब्रह्म-द्रुहः नृपान् । त्रिस् सप्त-कृत्वस् कुपितः निःक्षत्राम् अकरोत् महीम्॥२०॥
avatāre ṣoḍaśame paśyan brahma-druhaḥ nṛpān . tris sapta-kṛtvas kupitaḥ niḥkṣatrām akarot mahīm..20..
ततः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः॥२१॥
ततस् सप्तदशे जातः सत्यवत्याम् पराशरात् । चक्रे वेद-तरोः शाखाः दृष्ट्वा पुंसः अल्पमेधसः॥२१॥
tatas saptadaśe jātaḥ satyavatyām parāśarāt . cakre veda-taroḥ śākhāḥ dṛṣṭvā puṃsaḥ alpamedhasaḥ..21..
नरदेवत्वमापन्नः सुरकार्यचिकीर्षया । समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम्॥२२॥
नरदेव-त्वम् आपन्नः सुर-कार्य-चिकीर्षया । समुद्र-निग्रह-आदीनि चक्रे वीर्याणि अतस् परम्॥२२॥
naradeva-tvam āpannaḥ sura-kārya-cikīrṣayā . samudra-nigraha-ādīni cakre vīryāṇi atas param..22..
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवान् अहरद्भरम्॥२३॥
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । राम-कृष्णौ इति भुवः भगवान् अहरत् भरम्॥२३॥
ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī . rāma-kṛṣṇau iti bhuvaḥ bhagavān aharat bharam..23..
ततः कलौ संप्रवृत्ते सम्मोहाय सुरद्विषाम्। बुद्धो नाम्नां जनसुतः कीकटेषु भविष्यति॥२४॥
ततस् कलौ संप्रवृत्ते सम्मोहाय सुरद्विषाम्। बुद्धः नाम्नाम् जन-सुतः कीकटेषु भविष्यति॥२४॥
tatas kalau saṃpravṛtte sammohāya suradviṣām. buddhaḥ nāmnām jana-sutaḥ kīkaṭeṣu bhaviṣyati..24..
अथासौ युगसंध्यायां दस्युप्रायेषु राजसु । जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः॥२५॥
अथ असौ युग-संध्यायाम् दस्यु-प्रायेषु राजसु । जनिता विष्णुयशसः नाम्ना कल्किः जगत्पतिः॥२५॥
atha asau yuga-saṃdhyāyām dasyu-prāyeṣu rājasu . janitā viṣṇuyaśasaḥ nāmnā kalkiḥ jagatpatiḥ..25..
अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः । यथाविदासिनःकुल्याः सरसः स्युः सहस्रशः॥२६॥
अवताराः हि असङ्ख्येयाः हरेः सत्त्व-निधेः द्विजाः । यथाविदा असिनःकुल्याः सरसः स्युः सहस्रशस्॥२६॥
avatārāḥ hi asaṅkhyeyāḥ hareḥ sattva-nidheḥ dvijāḥ . yathāvidā asinaḥkulyāḥ sarasaḥ syuḥ sahasraśas..26..
ऋषयो मनवो देवा मनुपुत्रा महौजसः। कलाः सर्वे हरेरेव सप्रजापतयः तथा ॥२७॥
ऋषयः मनवः देवाः मनु-पुत्राः महा-ओजसः। कलाः सर्वे हरेः एव स प्रजापतयः तथा ॥२७॥
ṛṣayaḥ manavaḥ devāḥ manu-putrāḥ mahā-ojasaḥ. kalāḥ sarve hareḥ eva sa prajāpatayaḥ tathā ..27..
एते चांशकलाःपुंसःकृष्णस्तु भगवान्स्वयम् । इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे॥२८॥
एते च अंश-कलाः पुंसः कृष्णः तु भगवान् स्वयम् । इन्द्र-अरि-व्याकुलम् लोकम् मृडयन्ति युगे युगे॥२८॥
ete ca aṃśa-kalāḥ puṃsaḥ kṛṣṇaḥ tu bhagavān svayam . indra-ari-vyākulam lokam mṛḍayanti yuge yuge..28..
जन्म गुह्यं भगवतो य एतत्प्रयतो नरः। सायंप्रातर्गृणन्भक्त्या दुःखग्रामाद् विमुच्यते॥ २९॥
जन्म गुह्यम् भगवतः यः एतत् प्रयतः नरः। सायम् प्रातर् गृणन् भक्त्या दुःख-ग्रामात् विमुच्यते॥ २९॥
janma guhyam bhagavataḥ yaḥ etat prayataḥ naraḥ. sāyam prātar gṛṇan bhaktyā duḥkha-grāmāt vimucyate.. 29..
एतद् रूपं भगवतो ह्यरूपस्य चिदात्मनः । मायागुणैर्विरचितं महदादिभिरात्मनि ॥३०॥
एतत् रूपम् भगवतः हि अरूपस्य चित्-आत्मनः । माया-गुणैः विरचितम् महत्-आदिभिः आत्मनि ॥३०॥
etat rūpam bhagavataḥ hi arūpasya cit-ātmanaḥ . māyā-guṇaiḥ viracitam mahat-ādibhiḥ ātmani ..30..
यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले । एवं द्रष्टरि दृश्यत्वं आरोपितं अबुद्धिभिः॥३१॥
यथा नभसि मेघ-ओघः रेणुः वा पार्थिवः अनिले । एवम् द्रष्टरि दृश्य-त्वम् आरोपितम् अबुद्धिभिः॥३१॥
yathā nabhasi megha-oghaḥ reṇuḥ vā pārthivaḥ anile . evam draṣṭari dṛśya-tvam āropitam abuddhibhiḥ..31..
अतः परं यदव्यक्तं अव्यूढगुणबृंहितम्। अदृष्टाश्रुतवस्तुत्वात् स जीवो यत् पुनर्भवः॥३२।
अतस् परम् यत् अव्यक्तम् अ व्यूढ-गुण-बृंहितम्। अदृष्ट-अश्रुत-वस्तु-त्वात् स जीवः यत् पुनर्भवः॥३२।
atas param yat avyaktam a vyūḍha-guṇa-bṛṃhitam. adṛṣṭa-aśruta-vastu-tvāt sa jīvaḥ yat punarbhavaḥ..32.
यत्रेमे सदसद् रूपे प्रतिषिद्धे स्वसंविदा । अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम् ॥३३॥
यत्र इमे सत्-असत् रूपे प्रतिषिद्धे स्व-संविदा । अविद्यया आत्मनि कृते इति तत् ब्रह्म-दर्शनम् ॥३३॥
yatra ime sat-asat rūpe pratiṣiddhe sva-saṃvidā . avidyayā ātmani kṛte iti tat brahma-darśanam ..33..
यद्येषोपरता देवी माया वैशारदी मतिः । संपन्न एवेति विदुः महिम्नि स्वे महीयते ॥३४ ॥
यदि एषा उपरता देवी माया वैशारदी मतिः । संपन्नः एव इति विदुः महिम्नि स्वे महीयते ॥३४ ॥
yadi eṣā uparatā devī māyā vaiśāradī matiḥ . saṃpannaḥ eva iti viduḥ mahimni sve mahīyate ..34 ..
एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च । वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः॥३५ ॥
एवम् जन्मानि कर्माणि हि अकर्तुः अजनस्य च । वर्णयन्ति स्म कवयः वेद-गुह्यानि हृत्पतेः॥३५ ॥
evam janmāni karmāṇi hi akartuḥ ajanasya ca . varṇayanti sma kavayaḥ veda-guhyāni hṛtpateḥ..35 ..
(उपेंद्रवज्रा)
स वा इदं विश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन्। भूतेषु चान्तर्हित आत्मतंत्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः॥३६॥
स वै इदम् विश्वम् अमोघ-लीलः सृजति अवति अत्ति न सज्जते अस्मिन्। भूतेषु च अन्तर्हितः आत्मतंत्रः षाड्वर्गिकम् जिघ्रति षड्गुण-ईशः॥३६॥
sa vai idam viśvam amogha-līlaḥ sṛjati avati atti na sajjate asmin. bhūteṣu ca antarhitaḥ ātmataṃtraḥ ṣāḍvargikam jighrati ṣaḍguṇa-īśaḥ..36..
अवैति जन्तुः कुमनीष ऊतीः। नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्यामिवाज्ञः॥३७॥
अवैति जन्तुः कुमनीषः ऊतीः। नामानि रूपाणि मनः-वचोभिः सन्तन्वतः नट-चर्याम् इव अज्ञः॥३७॥
avaiti jantuḥ kumanīṣaḥ ūtīḥ. nāmāni rūpāṇi manaḥ-vacobhiḥ santanvataḥ naṭa-caryām iva ajñaḥ..37..
स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः। योऽमायय ासन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम्॥३८॥
स वेद धातुः पदवीम् परस्य दुरन्त-वीर्यस्य रथाङ्ग-पाणेः। यः अमायये आसन्त-तया अनुवृत्त्या भजेत तद्-पाद-सरोज-गन्धम्॥३८॥
sa veda dhātuḥ padavīm parasya duranta-vīryasya rathāṅga-pāṇeḥ. yaḥ amāyaye āsanta-tayā anuvṛttyā bhajeta tad-pāda-saroja-gandham..38..
अथेह धन्या भगवन्त इत्थं यद्वासुदेवेऽखिललोकनाथे। कुर्वन्ति सर्वात्मकमात्मभावं न यत्र भूयः परिवर्तउग्रः॥३९॥
अथा इह धन्याः भगवन्तः इत्थम् यत् वासुदेवे अखिल-लोक-नाथे। कुर्वन्ति सर्व-आत्मकम् आत्म-भावम् न यत्र भूयस् परिवर्त-ओग्रः॥३९॥
athā iha dhanyāḥ bhagavantaḥ ittham yat vāsudeve akhila-loka-nāthe. kurvanti sarva-ātmakam ātma-bhāvam na yatra bhūyas parivarta-ograḥ..39..
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । उत्तमश्लोकचरितं चकार भगवान् ऋषिः॥४०॥
इदम् भागवतम् नाम पुराणम् ब्रह्म-सम्मितम् । उत्तमश्लोक-चरितम् चकार भगवान् ऋषिः॥४०॥
idam bhāgavatam nāma purāṇam brahma-sammitam . uttamaśloka-caritam cakāra bhagavān ṛṣiḥ..40..
निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् । तदिदं ग्राहयामास सुतं आत्मवतां वरम् ॥४१॥
निःश्रेयसाय लोकस्य धन्यम् स्वस्त्ययनम् महत् । तत् इदम् ग्राहयामास सुतम् आत्मवताम् वरम् ॥४१॥
niḥśreyasāya lokasya dhanyam svastyayanam mahat . tat idam grāhayāmāsa sutam ātmavatām varam ..41..
सर्ववेदेतिहासानां सारं सारं समुद्धृतम्। स तु संश्रावयामास महाराजं परीक्षितम्॥४२ ॥
सर्व-वेद-इतिहासानाम् सारम् सारम् समुद्धृतम्। स तु संश्रावयामास महा-राजम् परीक्षितम्॥४२ ॥
sarva-veda-itihāsānām sāram sāram samuddhṛtam. sa tu saṃśrāvayāmāsa mahā-rājam parīkṣitam..42 ..
प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः । कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ॥४३॥
प्राय-उपविष्टम् गङ्गायाम् परीतम् परम-ऋषिभिः । कृष्णे स्व-धाम-उपगते धर्म-ज्ञान-आदिभिः सह ॥४३॥
prāya-upaviṣṭam gaṅgāyām parītam parama-ṛṣibhiḥ . kṛṣṇe sva-dhāma-upagate dharma-jñāna-ādibhiḥ saha ..43..
कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः। तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः॥४४॥
कलौ नष्ट-दृशाम् एष पुराण-अर्कः अधुना उदितः। तत्र कीर्तयतः विप्राः विप्रर्षेः भूरि-तेजसः॥४४॥
kalau naṣṭa-dṛśām eṣa purāṇa-arkaḥ adhunā uditaḥ. tatra kīrtayataḥ viprāḥ viprarṣeḥ bhūri-tejasaḥ..44..
अहं चाध्यगमं तत्र निविष्टस्तद् अनुग्रहात्। सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति॥४५॥
अहम् च अध्यगमम् तत्र निविष्टः तत् अनुग्रहात्। सः अहम् वः श्रावयिष्यामि यथा अधीतम् यथामति॥४५॥
aham ca adhyagamam tatra niviṣṭaḥ tat anugrahāt. saḥ aham vaḥ śrāvayiṣyāmi yathā adhītam yathāmati..45..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने तृतीयोऽध्यायः ॥३॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथम-स्कन्धे नैमिषीय-उपाख्याने तृतीयः अध्यायः ॥३॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām prathama-skandhe naimiṣīya-upākhyāne tṛtīyaḥ adhyāyaḥ ..3..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In