| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीनारद उवाच ।
अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम् । जगृहुर्निरवद्यत्वान्नैव गुर्वनुशिक्षितम् १ ।
अथ दैत्य-सुताः सर्वे श्रुत्वा तत् अनुवर्णितम् । जगृहुः निरवद्य-त्वात् न एव गुरु-अनुशिक्षितम् ।
atha daitya-sutāḥ sarve śrutvā tat anuvarṇitam . jagṛhuḥ niravadya-tvāt na eva guru-anuśikṣitam .
अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् । आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा २ ।
अथ आचार्य-सुतः तेषाम् बुद्धिम् एकान्त-संस्थिताम् । आलक्ष्य भीतः त्वरितः राज्ञः आवेदयत् यथा ।
atha ācārya-sutaḥ teṣām buddhim ekānta-saṃsthitām . ālakṣya bhītaḥ tvaritaḥ rājñaḥ āvedayat yathā .
श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम् । कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे ३ ।
श्रुत्वा तत् अप्रियम् दैत्यः दुःसहम् तनय-अनयम् । कोप-आवेश-चलत्-गात्रः पुत्रम् हन्तुम् मनः दधे ।
śrutvā tat apriyam daityaḥ duḥsaham tanaya-anayam . kopa-āveśa-calat-gātraḥ putram hantum manaḥ dadhe .
क्षिप्त्वा परुषया वाचा प्रह्रादमतदर्हणम् । आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा ४ ।
क्षिप्त्वा परुषया वाचा प्रह्रादम् अतदर्हणम् । आह ईक्षमाणः पापेन तिरश्चीनेन चक्षुषा ।
kṣiptvā paruṣayā vācā prahrādam atadarhaṇam . āha īkṣamāṇaḥ pāpena tiraścīnena cakṣuṣā .
प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम् । सर्पः पदाहत इव श्वसन्प्रकृतिदारुणः ५ ।
प्रश्रय-अवनतम् दान्तम् बद्धाञ्जलिम् अवस्थितम् । सर्पः पद-आहतः इव श्वसन् प्रकृति-दारुणः ।
praśraya-avanatam dāntam baddhāñjalim avasthitam . sarpaḥ pada-āhataḥ iva śvasan prakṛti-dāruṇaḥ .
श्रीहिरण्यकशिपुरुवाच ।
हे दुर्विनीत मन्दात्मन्कुलभेदकराधम । स्तब्धं मच्छासनोद्वृत्तं नेष्ये त्वाद्य यमक्षयम् ६ ।
हे दुर्विनीत मन्द-आत्मन् कुल-भेद-कर-अधम । स्तब्धम् मद्-शासन-उद्वृत्तम् नेष्ये त्वा अद्य यम-क्षयम् ।
he durvinīta manda-ātman kula-bheda-kara-adhama . stabdham mad-śāsana-udvṛttam neṣye tvā adya yama-kṣayam .
क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः । तस्य मेऽभीतवन्मूढ शासनं किं बलोऽत्यगाः ७ ।
क्रुद्धस्य यस्य कम्पन्ते त्रयः लोकाः सह ईश्वराः । तस्य मे अभीत-वत् मूढ शासनम् किम् बलः अत्यगाः ।
kruddhasya yasya kampante trayaḥ lokāḥ saha īśvarāḥ . tasya me abhīta-vat mūḍha śāsanam kim balaḥ atyagāḥ .
श्रीप्रह्राद उवाच ।
न केवलं मे भवतश्च राजन्स वै बलं बलिनां चापरेषाम् । परेऽवरेऽमी स्थिरजङ्गमा ये ब्रह्मादयो येन वशं प्रणीताः ८ ।
न केवलम् मे भवतः च राजन् स वै बलम् बलिनाम् च अपरेषाम् । परे अवरे अमी स्थिर-जङ्गमाः ये ब्रह्म-आदयः येन वशम् प्रणीताः ।
na kevalam me bhavataḥ ca rājan sa vai balam balinām ca apareṣām . pare avare amī sthira-jaṅgamāḥ ye brahma-ādayaḥ yena vaśam praṇītāḥ .
स ईश्वरः काल उरुक्रमोऽसावोजः सहः सत्त्वबलेन्द्रि यात्मा । स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुणत्रयेशः ९ ।
सः ईश्वरः कालः उरु-क्रमः असौ ओजः सहः सत्त्व-बल-इन्द्रि-आत्मा । सः एव विश्वम् परमः स्व-शक्तिभिः सृजति अवति अत्ति गुणत्रय-ईशः ।
saḥ īśvaraḥ kālaḥ uru-kramaḥ asau ojaḥ sahaḥ sattva-bala-indri-ātmā . saḥ eva viśvam paramaḥ sva-śaktibhiḥ sṛjati avati atti guṇatraya-īśaḥ .
जह्यासुरं भावमिमं त्वमात्मनः समं मनो धत्स्व न सन्ति विद्विषः । ऋतेऽजितादात्मन उत्पथे स्थितात्तद्धि ह्यनन्तस्य महत्समर्हणम् १० ।
जहि आसुरम् भावम् इमम् त्वम् आत्मनः समम् मनः धत्स्व न सन्ति विद्विषः । ऋते अजितात् आत्मनः उत्पथे स्थितात् तत् हि हि अनन्तस्य महत् समर्हणम् ।
jahi āsuram bhāvam imam tvam ātmanaḥ samam manaḥ dhatsva na santi vidviṣaḥ . ṛte ajitāt ātmanaḥ utpathe sthitāt tat hi hi anantasya mahat samarhaṇam .
दस्यून्पुरा षण्ण विजित्य लुम्पतो मन्यन्त एके स्वजिता दिशो दश । जितात्मनो ज्ञस्य समस्य देहिनां साधोः स्वमोहप्रभवाः कुतः परे ११ ।
दस्यून् पुरा विजित्य लुम्पतः मन्यन्ते एके स्व-जिताः दिशः दश । जित-आत्मनः ज्ञस्य समस्य देहिनाम् साधोः स्व-मोह-प्रभवाः कुतस् परे ।
dasyūn purā vijitya lumpataḥ manyante eke sva-jitāḥ diśaḥ daśa . jita-ātmanaḥ jñasya samasya dehinām sādhoḥ sva-moha-prabhavāḥ kutas pare .
श्रीहिरण्यकशिपुरुवाच ।
व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्थसे । मुमूर्षूणां हि मन्दात्मन्ननु स्युर्विक्लवा गिरः १२ ।
व्यक्तम् त्वम् मर्तु-कामः असि यः अतिमात्रम् विकत्थसे । मुमूर्षूणाम् हि मन्द-आत्मन् अनु स्युः विक्लवाः गिरः ।
vyaktam tvam martu-kāmaḥ asi yaḥ atimātram vikatthase . mumūrṣūṇām hi manda-ātman anu syuḥ viklavāḥ giraḥ .
यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः । क्वासौ यदि स सर्वत्र कस्मात्स्तम्भे न दृश्यते १३ ।
यः त्वया मन्दभाग्य-उक्तः मद्-अन्यः जगत्-ईश्वरः । क्व असौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते ।
yaḥ tvayā mandabhāgya-uktaḥ mad-anyaḥ jagat-īśvaraḥ . kva asau yadi sa sarvatra kasmāt stambhe na dṛśyate .
सोऽहं विकत्थमानस्य शिरः कायाद्धरामि ते । गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम् १४ ।
सः अहम् विकत्थमानस्य शिरः कायात् हरामि ते । गोपायेत हरिः त्वा अद्य यः ते शरणम् ईप्सितम् ।
saḥ aham vikatthamānasya śiraḥ kāyāt harāmi te . gopāyeta hariḥ tvā adya yaḥ te śaraṇam īpsitam .
एवं दुरुक्तैर्मुहुरर्दयन्रुषा सुतं महाभागवतं महासुरः । खड्गं प्रगृह्योत्पतितो वरासनात्स्तम्भं तताडातिबलः स्वमुष्टिना १५ ।
एवम् दुरुक्तैः मुहुर् अर्दयन् रुषा सुतम् महा-भागवतम् महा-असुरः । खड्गम् प्रगृह्य उत्पतितः वरासनात् स्तम्भम् तताड अतिबलः स्व-मुष्टिना ।
evam duruktaiḥ muhur ardayan ruṣā sutam mahā-bhāgavatam mahā-asuraḥ . khaḍgam pragṛhya utpatitaḥ varāsanāt stambham tatāḍa atibalaḥ sva-muṣṭinā .
तदैव तस्मिन्निनदोऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत् । यं वै स्वधिष्ण्योपगतं त्वजादयः श्रुत्वा स्वधामात्ययमङ्ग मेनिरे १६ ।
तदा एव तस्मिन् निनदः अति भीषणः बभूव येन अण्ड-कटाहम् अस्फुटत् । यम् वै स्व-धिष्ण्य-उपगतम् तु अज-आदयः श्रुत्वा स्वधा-अमात्ययम् अङ्ग मेनिरे ।
tadā eva tasmin ninadaḥ ati bhīṣaṇaḥ babhūva yena aṇḍa-kaṭāham asphuṭat . yam vai sva-dhiṣṇya-upagatam tu aja-ādayaḥ śrutvā svadhā-amātyayam aṅga menire .
स विक्रमन्पुत्रवधेप्सुरोजसा निशम्य निर्ह्रादमपूर्वमद्भुतम् । अन्तःसभायां न ददर्श तत्पदं वितत्रसुर्येन सुरारियूथपाः १७ ।
स विक्रमन् पुत्र-वध-ईप्सुः ओजसा निशम्य निर्ह्रादम् अपूर्वम् अद्भुतम् । अन्तर् सभायाम् न ददर्श तत् पदम् वितत्रसुः येन सुरारि-यूथपाः ।
sa vikraman putra-vadha-īpsuḥ ojasā niśamya nirhrādam apūrvam adbhutam . antar sabhāyām na dadarśa tat padam vitatrasuḥ yena surāri-yūthapāḥ .
सत्यं विधातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेषु चात्मनः । अदृश्यतात्यद्भुतरूपमुद्वहन्स्तम्भे सभायां न मृगं न मानुषम् १८ ।
सत्यम् विधातुम् निज-भृत्य-भाषितम् व्याप्तिम् च भूतेषु अखिलेषु च आत्मनः । अदृश्यत अति अद्भुत-रूपम् उद्वहन् स्तम्भे सभायाम् न मृगम् न मानुषम् ।
satyam vidhātum nija-bhṛtya-bhāṣitam vyāptim ca bhūteṣu akhileṣu ca ātmanaḥ . adṛśyata ati adbhuta-rūpam udvahan stambhe sabhāyām na mṛgam na mānuṣam .
स सत्त्वमेनं परितो विपश्यन्स्तम्भस्य मध्यादनुनिर्जिहानम् । नायं मृगो नापि नरो विचित्रमहो किमेतन्नृमृगेन्द्र रूपम् १९ ।
स सत्त्वम् एनम् परितस् विपश्यन् स्तम्भस्य मध्यात् अनुनिर्जिहानम् । न अयम् मृगः ना अपि नरः विचित्रम् अहो किम् एतत् नृ-मृग-इन्द्र रूपम् ।
sa sattvam enam paritas vipaśyan stambhasya madhyāt anunirjihānam . na ayam mṛgaḥ nā api naraḥ vicitram aho kim etat nṛ-mṛga-indra rūpam .
मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरूपस्तदलं भयानकम् । प्रतप्तचामीकरचण्डलोचनं स्फुरत्सटाकेशरजृम्भिताननम् २० ।
मीमांसमानस्य समुत्थितः अग्रतस् नृसिंह-रूपः तत् अलम् भयानकम् । प्रतप्त-चामीकर-चण्ड-लोचनम् स्फुरत्-सटा-केसर-जृम्भित-आननम् ।
mīmāṃsamānasya samutthitaḥ agratas nṛsiṃha-rūpaḥ tat alam bhayānakam . pratapta-cāmīkara-caṇḍa-locanam sphurat-saṭā-kesara-jṛmbhita-ānanam .
करालदंष्ट्रं करवालचञ्चल क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् । स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुत व्यात्तास्यनासं हनुभेदभीषणम् २१ ।
कराल-दंष्ट्रम् करवाल-चञ्चल क्षुर-अन्त-जिह्वम् भ्रुकुटी-मुख-उल्बणम् । स्तब्ध-ऊर्ध्व-कर्णम् गिरि-कन्दर-अद्भुत व्यात्त-आस्य-नासम् हनु-भेद-भीषणम् ।
karāla-daṃṣṭram karavāla-cañcala kṣura-anta-jihvam bhrukuṭī-mukha-ulbaṇam . stabdha-ūrdhva-karṇam giri-kandara-adbhuta vyātta-āsya-nāsam hanu-bheda-bhīṣaṇam .
दिविस्पृशत्कायमदीर्घपीवर ग्रीवोरुवक्षःस्थलमल्पमध्यमम् । चन्द्रांशुगौरैश्छुरितं तनूरुहैर्विष्वग्भुजानीकशतं नखायुधम् २२ ।
दिवि स्पृशत्-कायम् अदीर्घ-पीवर ग्रीवा-ऊरु-वक्षः-स्थलम् अल्प-मध्यमम् । चन्द्र-अंशु-गौरैः छुरितम् तनूरुहैः विष्वक्-भुज-अनीक-शतम् नख-आयुधम् ।
divi spṛśat-kāyam adīrgha-pīvara grīvā-ūru-vakṣaḥ-sthalam alpa-madhyamam . candra-aṃśu-gauraiḥ churitam tanūruhaiḥ viṣvak-bhuja-anīka-śatam nakha-āyudham .
दुरासदं सर्वनिजेतरायुध प्रवेकविद्रावितदैत्यदानवम् । प्रायेण मेऽयं हरिणोरुमायिना वधः स्मृतोऽनेन समुद्यतेन किम् २३ ।
दुरासदम् सर्व-निज-इतर-आयुध प्रवेक-विद्रावित-दैत्य-दानवम् । प्रायेण मे अयम् हरिणा ऊरु-मायिना वधः स्मृतः अनेन समुद्यतेन किम् ।
durāsadam sarva-nija-itara-āyudha praveka-vidrāvita-daitya-dānavam . prāyeṇa me ayam hariṇā ūru-māyinā vadhaḥ smṛtaḥ anena samudyatena kim .
एवं ब्रुवंस्त्वभ्यपतद्गदायुधो नदन्नृसिंहं प्रति दैत्यकुञ्जरः । अलक्षितोऽग्नौ पतितः पतङ्गमो यथा नृसिंहौजसि सोऽसुरस्तदा २४ ।
एवम् ब्रुवन् तु अभ्यपतत् गदा-आयुधः नदन् नृसिंहम् प्रति दैत्य-कुञ्जरः । अलक्षितः अग्नौ पतितः पतङ्गमः यथा नृसिंह-ओजसि सः असुरः तदा ।
evam bruvan tu abhyapatat gadā-āyudhaḥ nadan nṛsiṃham prati daitya-kuñjaraḥ . alakṣitaḥ agnau patitaḥ pataṅgamaḥ yathā nṛsiṃha-ojasi saḥ asuraḥ tadā .
न तद्विचित्रं खलु सत्त्वधामनि स्वतेजसा यो नु पुरापिबत्तमः । ततोऽभिपद्याभ्यहनन्महासुरो रुषा नृसिंहं गदयोरुवेगया २५ ।
न तत् विचित्रम् खलु सत्त्व-धामनि स्व-तेजसा यः नु पुरा अपिबत् तमः । ततस् अभिपद्य अभ्यहनत् महा-असुरः रुषा नृसिंहम् गदया उरु-वेगया ।
na tat vicitram khalu sattva-dhāmani sva-tejasā yaḥ nu purā apibat tamaḥ . tatas abhipadya abhyahanat mahā-asuraḥ ruṣā nṛsiṃham gadayā uru-vegayā .
तं विक्रमन्तं सगदं गदाधरो महोरगं तार्क्ष्यसुतो यथाग्रहीत् । स तस्य हस्तोत्कलितस्तदासुरो विक्रीडतो यद्वदहिर्गरुत्मतः २६ ।
तम् विक्रमन्तम् स गदम् गदा-धरः महा-उरगम् तार्क्ष्य-सुतः यथा अग्रहीत् । स तस्य हस्त-उत्कलितः तदा असुरः विक्रीडतः यद्वत् अहिः गरुत्मतः ।
tam vikramantam sa gadam gadā-dharaḥ mahā-uragam tārkṣya-sutaḥ yathā agrahīt . sa tasya hasta-utkalitaḥ tadā asuraḥ vikrīḍataḥ yadvat ahiḥ garutmataḥ .
असाध्वमन्यन्त हृतौकसोऽमरा घनच्छदा भारत सर्वधिष्ण्यपाः । तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुरः । पुनस्तमासज्जत खड्गचर्मणी प्रगृह्य वेगेन गतश्रमो मृधे २७ ।
असाधु अमन्यन्त हृतौकसः अमराः घनच्छदाः भारत सर्व-धिष्ण्यपाः । तम् मन्यमानः निज-वीर्य-शङ्कितम् यत् हस्त-मुक्तः नृहरिम् महा-असुरः । पुनर् तम् आसज्जत खड्ग-चर्मणी प्रगृह्य वेगेन गत-श्रमः मृधे ।
asādhu amanyanta hṛtaukasaḥ amarāḥ ghanacchadāḥ bhārata sarva-dhiṣṇyapāḥ . tam manyamānaḥ nija-vīrya-śaṅkitam yat hasta-muktaḥ nṛharim mahā-asuraḥ . punar tam āsajjata khaḍga-carmaṇī pragṛhya vegena gata-śramaḥ mṛdhe .
तं श्येनवेगं शतचन्द्र वर्त्मभिश्चरन्तमच्छिद्र मुपर्यधो हरिः । कृत्वाट्टहासं खरमुत्स्वनोल्बणं निमीलिताक्षं जगृहे महाजवः २८ ।
taṃ śyenavegaṃ śatacandra vartmabhiścarantamacchidra muparyadho hariḥ | kṛtvāṭṭahāsaṃ kharamutsvanolbaṇaṃ nimīlitākṣaṃ jagṛhe mahājavaḥ 28 |
taṃ śyenavegaṃ śatacandra vartmabhiścarantamacchidra muparyadho hariḥ | kṛtvāṭṭahāsaṃ kharamutsvanolbaṇaṃ nimīlitākṣaṃ jagṛhe mahājavaḥ 28 |
विष्वक्स्फुरन्तं ग्रहणातुरं हरिर्व्यालो यथाखुं कुलिशाक्षतत्वचम् । द्वार्यूरुमापत्य ददार लीलया नखैर्यथाहिं गरुडो महाविषम् २९ ।
विष्वक् स्फुरन्तम् ग्रहण-आतुरम् हरिः व्यालः यथा आखुम् कुलिश-अक्षत-त्वचम् । द्वारि ऊरुम् आपत्य ददार लीलया नखैः यथा अहिम् गरुडः महा-विषम् ।
viṣvak sphurantam grahaṇa-āturam hariḥ vyālaḥ yathā ākhum kuliśa-akṣata-tvacam . dvāri ūrum āpatya dadāra līlayā nakhaiḥ yathā ahim garuḍaḥ mahā-viṣam .
संरम्भदुष्प्रेक्ष्यकराललोचनो व्यात्ताननान्तं विलिहन्स्वजिह्वया । असृग्लवाक्तारुणकेशराननो यथान्त्रमाली द्विपहत्यया हरिः ३० ।
संरम्भ-दुष्प्रेक्ष्य-कराल-लोचनः व्यात्त-आनन-अन्तम् विलिहन् स्व-जिह्वया । असृज्-लव-अक्त-अरुण-केसर-आननः यथा अन्त्र-माली द्विप-हत्यया हरिः ।
saṃrambha-duṣprekṣya-karāla-locanaḥ vyātta-ānana-antam vilihan sva-jihvayā . asṛj-lava-akta-aruṇa-kesara-ānanaḥ yathā antra-mālī dvipa-hatyayā hariḥ .
नखाङ्कुरोत्पाटितहृत्सरोरुहं विसृज्य तस्यानुचरानुदायुधान् । अहन्समस्तान्नखशस्त्रपाणिभिर्दोर्दण्डयूथोऽनुपथान्सहस्रशः ३१ ।
नख-अङ्कुर-उत्पाटित-हृद्-सरोरुहम् विसृज्य तस्य अनुचरान् उदायुधान् । अहन् समस्तान् नख-शस्त्र-पाणिभिः दोस्-दण्ड-यूथः अनुपथान् सहस्रशस् ।
nakha-aṅkura-utpāṭita-hṛd-saroruham visṛjya tasya anucarān udāyudhān . ahan samastān nakha-śastra-pāṇibhiḥ dos-daṇḍa-yūthaḥ anupathān sahasraśas .
सटावधूता जलदाः परापतन्ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः । अम्भोधयः श्वासहता विचुक्षुभुर्निर्ह्रादभीता दिगिभा विचुक्रुशुः ३२ ।
सटा-अवधूताः जलदाः परापतन् ग्रहाः च तद्-दृष्टि-विमुष्ट-रोचिषः । अम्भोधयः श्वास-हताः विचुक्षुभुः निर्ह्राद-भीताः दिश्-इभाः विचुक्रुशुः ।
saṭā-avadhūtāḥ jaladāḥ parāpatan grahāḥ ca tad-dṛṣṭi-vimuṣṭa-rociṣaḥ . ambhodhayaḥ śvāsa-hatāḥ vicukṣubhuḥ nirhrāda-bhītāḥ diś-ibhāḥ vicukruśuḥ .
द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदाभिपीडिता । शैलाः समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे ३३ ।
द्यौः तद्-सटा-उत्क्षिप्त-विमान-सङ्कुला प्रोत्सर्पत क्ष्मा च पद-अभिपीडिता । शैलाः समुत्पेतुः अमुष्य रंहसा तद्-तेजसा खम् ककुभः न रेजिरे ।
dyauḥ tad-saṭā-utkṣipta-vimāna-saṅkulā protsarpata kṣmā ca pada-abhipīḍitā . śailāḥ samutpetuḥ amuṣya raṃhasā tad-tejasā kham kakubhaḥ na rejire .
ततः सभायामुपविष्टमुत्तमे नृपासने सम्भृततेजसं विभुम् । अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन ३४ ।
ततस् सभायाम् उपविष्टम् उत्तमे नृप-आसने सम्भृत-तेजसम् विभुम् । अलक्षित-द्वैरथम् अति अमर्षणम् प्रचण्ड-वक्त्रम् न बभाज कश्चन ।
tatas sabhāyām upaviṣṭam uttame nṛpa-āsane sambhṛta-tejasam vibhum . alakṣita-dvairatham ati amarṣaṇam pracaṇḍa-vaktram na babhāja kaścana .
निशाम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे । प्रहर्षवेगोत्कलितानना मुहुः प्रसूनवर्षैर्ववृषुः सुरस्त्रियः ३५ ।
निशाम्य लोकत्रय-मस्तक-ज्वरम् तम् आदिदैत्यम् हरिणा हतम् मृधे । प्रहर्ष-वेग-उत्कलित-आननाः मुहुर् प्रसून-वर्षैः ववृषुः सुर-स्त्रियः ।
niśāmya lokatraya-mastaka-jvaram tam ādidaityam hariṇā hatam mṛdhe . praharṣa-vega-utkalita-ānanāḥ muhur prasūna-varṣaiḥ vavṛṣuḥ sura-striyaḥ .
तदा विमानावलिभिर्नभस्तलं दिदृक्षतां सङ्कुलमास नाकिनाम् । सुरानका दुन्दुभयोऽथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः ३६ ।
तदा विमान-आवलिभिः नभस्तलम् दिदृक्षताम् सङ्कुलम् आस नाकिनाम् । सुर-आनकाः दुन्दुभयः अथ जघ्निरे गन्धर्व-मुख्याः ननृतुः जगुः स्त्रियः ।
tadā vimāna-āvalibhiḥ nabhastalam didṛkṣatām saṅkulam āsa nākinām . sura-ānakāḥ dundubhayaḥ atha jaghnire gandharva-mukhyāḥ nanṛtuḥ jaguḥ striyaḥ .
तत्रोपव्रज्य विबुधा ब्रह्मेन्द्र गिरिशादयः । ऋषयः पितरः सिद्धा विद्याधरमहोरगाः ३७ ।
तत्र उपव्रज्य विबुधाः ब्रह्म-इन्द्र गिरिश-आदयः । ऋषयः पितरः सिद्धाः विद्याधर-महा-उरगाः ।
tatra upavrajya vibudhāḥ brahma-indra giriśa-ādayaḥ . ṛṣayaḥ pitaraḥ siddhāḥ vidyādhara-mahā-uragāḥ .
मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः । यक्षाः किम्पुरुषास्तात वेतालाः सहकिन्नराः ३८ ।
मनवः प्रजानाम् पतयः गन्धर्व-अप्सर-चारणाः । यक्षाः किम्पुरुषाः तात वेतालाः सह किन्नराः ।
manavaḥ prajānām patayaḥ gandharva-apsara-cāraṇāḥ . yakṣāḥ kimpuruṣāḥ tāta vetālāḥ saha kinnarāḥ .
ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः । मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् । ईडिरे नरशार्दूलं नातिदूरचराः पृथक् ३९ ।
ते विष्णु-पार्षदाः सर्वे सुनन्द-कुमुद-आदयः । मूर्ध्नि बद्धाञ्जलि-पुटाः आसीनम् तीव्र-तेजसम् । ईडिरे नर-शार्दूलम् न अति दूर-चराः पृथक् ।
te viṣṇu-pārṣadāḥ sarve sunanda-kumuda-ādayaḥ . mūrdhni baddhāñjali-puṭāḥ āsīnam tīvra-tejasam . īḍire nara-śārdūlam na ati dūra-carāḥ pṛthak .
श्रीब्रह्मोवाच ।
नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे । विश्वस्य सर्गस्थितिसंयमान्गुणैः स्वलीलया सन्दधतेऽव्ययात्मने ४० ।
नतः अस्मि अनन्ताय दुरन्त-शक्तये विचित्र-वीर्याय पवित्र-कर्मणे । विश्वस्य सर्ग-स्थिति-संयमान् गुणैः स्व-लीलया सन्दधते अव्यय-आत्मने ।
nataḥ asmi anantāya duranta-śaktaye vicitra-vīryāya pavitra-karmaṇe . viśvasya sarga-sthiti-saṃyamān guṇaiḥ sva-līlayā sandadhate avyaya-ātmane .
श्रीरुद्र उवाच ।
कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः । तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ४१ ।
कोप-कालः युग-अन्तः ते हतः अयम् असुरः अल्पकः । तद्-सुतम् पाहि उपसृतम् भक्तम् ते भक्त-वत्सल ।
kopa-kālaḥ yuga-antaḥ te hataḥ ayam asuraḥ alpakaḥ . tad-sutam pāhi upasṛtam bhaktam te bhakta-vatsala .
श्रीइन्द्र उवाच ।
प्रत्यानीताः परम भवता त्रायता नः स्वभागा । दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि । कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते । मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम ४२ ।
प्रत्यानीताः परम भवता त्रायता नः स्वभागा । दैत्य-आक्रान्तम् हृदय-कमलम् तत् गृहम् प्रत्यबोधि । काल-ग्रस्तम् कियत् इदम् अहो नाथ शुश्रूषताम् ते । मुक्तिः तेषाम् न हि बहु-मता नारसिंह-अपरैः ।
pratyānītāḥ parama bhavatā trāyatā naḥ svabhāgā . daitya-ākrāntam hṛdaya-kamalam tat gṛham pratyabodhi . kāla-grastam kiyat idam aho nātha śuśrūṣatām te . muktiḥ teṣām na hi bahu-matā nārasiṃha-aparaiḥ .
श्रीऋषय ऊचुः ।
त्वं नस्तपः परममात्थ यदात्मतेजो । येनेदमादिपुरुषात्मगतं ससर्क्थ । तद्विप्रलुप्तममुनाद्य शरण्यपाल । रक्षागृहीतवपुषा पुनरन्वमंस्थाः ४३ ।
त्वम् नः तपः परमम् आत्थ यत् आत्म-तेजः । येन इदम् आदि-पुरुष-आत्म-गतम् ससर्क्थ । तत् विप्रलुप्तम् अमुना अद्य शरण्य-पाल । रक्षा-गृहीत-वपुषा पुनर् अन्वमंस्थाः ।
tvam naḥ tapaḥ paramam āttha yat ātma-tejaḥ . yena idam ādi-puruṣa-ātma-gatam sasarktha . tat vipraluptam amunā adya śaraṇya-pāla . rakṣā-gṛhīta-vapuṣā punar anvamaṃsthāḥ .
श्रीपितर ऊचुः ।
श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर् । दत्तानि तीर्थसमयेऽप्यपिबत्तिलाम्बु । तस्योदरान्नखविदीर्णवपाद्य आर्च्छत् । तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे ४४ ।
श्राद्धानि नः अधिबुभुजे प्रसभम् तनूजैः । दत्तानि तीर्थ-समये अपि अपिबत् तिल-अम्बु । तस्य उदरात् नख-विदीर्ण-वपाद्यः आर्च्छत् । तस्मै नमः नृहरये अखिल-धर्म-गोप्त्रे ।
śrāddhāni naḥ adhibubhuje prasabham tanūjaiḥ . dattāni tīrtha-samaye api apibat tila-ambu . tasya udarāt nakha-vidīrṇa-vapādyaḥ ārcchat . tasmai namaḥ nṛharaye akhila-dharma-goptre .
श्रीसिद्धा ऊचुः ।
यो नो गतिं योगसिद्धामसाधुरहार्षीद्योगतपोबलेन । नाना दर्पं तं नखैर्विददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ४५ ।
यः नः गतिम् योग-सिद्धाम् असाधुः अहार्षीत् योग-तपः-बलेन । नाना दर्पम् तम् नखैः विददार तस्मै तुभ्यम् प्रणताः स्मः नृसिंह ।
yaḥ naḥ gatim yoga-siddhām asādhuḥ ahārṣīt yoga-tapaḥ-balena . nānā darpam tam nakhaiḥ vidadāra tasmai tubhyam praṇatāḥ smaḥ nṛsiṃha .
श्रीविद्याधरा ऊचुः ।
विद्यां पृथग्धारणयानुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः । स येन सङ्ख्ये पशुवद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् ४६ ।
विद्याम् पृथक् धारणया अनुराद्धाम् न्यषेधत् अज्ञः बल-वीर्य-दृप्तः । स येन सङ्ख्ये पशु-वत् हतः तम् माया-नृसिंहम् प्रणताः स्म नित्यम् ।
vidyām pṛthak dhāraṇayā anurāddhām nyaṣedhat ajñaḥ bala-vīrya-dṛptaḥ . sa yena saṅkhye paśu-vat hataḥ tam māyā-nṛsiṃham praṇatāḥ sma nityam .
श्रीनागा ऊचुः ।
येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः । तद्वक्षःपाटनेनासां दत्तानन्द नमोऽस्तु ते ४७ ।
येन पापेन रत्नानि स्त्री-रत्नानि हृतानि नः । तद्-वक्षः-पाटनेन आसाम् दत्त-आनन्द नमः अस्तु ते ।
yena pāpena ratnāni strī-ratnāni hṛtāni naḥ . tad-vakṣaḥ-pāṭanena āsām datta-ānanda namaḥ astu te .
श्रीमनव ऊचुः ।
मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः । भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् ४८ ।
मनवः वयम् तव निदेश-कारिणः दितिजेन देव परिभूत-सेतवः । भवता खलः सः उपसंहृतः प्रभो करवाम ते किम् अनुशाधि किङ्करान् ।
manavaḥ vayam tava nideśa-kāriṇaḥ ditijena deva paribhūta-setavaḥ . bhavatā khalaḥ saḥ upasaṃhṛtaḥ prabho karavāma te kim anuśādhi kiṅkarān .
श्रीप्रजापतय ऊचुः ।
प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः । स एष त्वया भिन्नवक्षा नु शेते जगन्मङ्गलं सत्त्वमूर्तेऽवतारः ४९ ।
प्रजा-ईशाः वयम् ते परेश अभिसृष्टाः न येन प्रजाः वै सृजामः निषिद्धाः । सः एष त्वया भिन्न-वक्षाः नु शेते जगत्-मङ्गलम् सत्त्व-मूर्ते अवतारः ।
prajā-īśāḥ vayam te pareśa abhisṛṣṭāḥ na yena prajāḥ vai sṛjāmaḥ niṣiddhāḥ . saḥ eṣa tvayā bhinna-vakṣāḥ nu śete jagat-maṅgalam sattva-mūrte avatāraḥ .
श्रीगन्धर्वा ऊचुः ।
वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः । स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ५० ।
वयम् विभो ते नट-नाट्य-गायकाः येन आत्मसात् वीर्य-बल-ओजसा कृताः । सः एष नीतः भवता दशाम् इमाम् किम् उत्पथ-स्थः कुशलाय कल्पते ।
vayam vibho te naṭa-nāṭya-gāyakāḥ yena ātmasāt vīrya-bala-ojasā kṛtāḥ . saḥ eṣa nītaḥ bhavatā daśām imām kim utpatha-sthaḥ kuśalāya kalpate .
श्रीचारणा ऊचुः ।
हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः । यदेष साधुहृच्छयस्त्वयासुरः समापितः ५१ ।
हरे तव अङ्घ्रि-पङ्कजम् भव-अपवर्गम् आश्रिताः । यत् एष साधु-हृद्-शयः त्वया असुरः समापितः ।
hare tava aṅghri-paṅkajam bhava-apavargam āśritāḥ . yat eṣa sādhu-hṛd-śayaḥ tvayā asuraḥ samāpitaḥ .
श्रीयक्षा ऊचुः ।
वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस् । त इह दितिसुतेन प्रापिता वाहकत्वम् । स तु जनपरितापं तत्कृतं जानता ते । नरहर उपनीतः पञ्चतां पञ्चविंश ५२ ।
वयम् अनुचर-मुख्याः कर्मभिः ते मनोज्ञैः । ते इह दितिसुतेन प्रापिताः वाहक-त्वम् । स तु जन-परितापम् तद्-कृतम् जानता ते । नरहरः उपनीतः पञ्चताम् पञ्चविंश ।
vayam anucara-mukhyāḥ karmabhiḥ te manojñaiḥ . te iha ditisutena prāpitāḥ vāhaka-tvam . sa tu jana-paritāpam tad-kṛtam jānatā te . naraharaḥ upanītaḥ pañcatām pañcaviṃśa .
श्रीकिम्पुरुषा ऊचुः ।
वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः । अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ५३ ।
वयम् किम्पुरुषाः त्वम् तु महापुरुषः ईश्वरः । अयम् कुपुरुषः नष्टः धिक्कृतः साधुभिः यदा ।
vayam kimpuruṣāḥ tvam tu mahāpuruṣaḥ īśvaraḥ . ayam kupuruṣaḥ naṣṭaḥ dhikkṛtaḥ sādhubhiḥ yadā .
श्रीवैतालिका ऊचुः ।
सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे । यस्तामनैषीद्वशमेष दुर्जनो द्विष्ट्या हतस्ते भगवन्यथाऽऽमयः ५४ ।
सभासु सत्रेषु तव अमलम् यशः गीत्वा सपर्याम् महतीम् लभामहे । यः ताम् अनैषीत् वशम् एष दुर्जनः द्विष्ट्या हतः ते भगवन् यथा आमयः ।
sabhāsu satreṣu tava amalam yaśaḥ gītvā saparyām mahatīm labhāmahe . yaḥ tām anaiṣīt vaśam eṣa durjanaḥ dviṣṭyā hataḥ te bhagavan yathā āmayaḥ .
श्रीकिन्नरा ऊचुः ।
वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनानुकारिताः । भवता हरे स वृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भव ५५ ।
वयम् ईश किन्नर-गणाः तव अनुगाः दितिजेन विष्टिम् अमुना अनुकारिताः । भवता हरे स वृजिनः अवसादितः नरसिंह नाथ विभवाय नः भव ।
vayam īśa kinnara-gaṇāḥ tava anugāḥ ditijena viṣṭim amunā anukāritāḥ . bhavatā hare sa vṛjinaḥ avasāditaḥ narasiṃha nātha vibhavāya naḥ bhava .
श्रीविष्णुपार्षदा ऊचुः ।
अद्यैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म । सोऽयं ते विधिकर ईश विप्रशप्तस्तस्येदं निधनमनुग्रहाय विद्मः ५६ ।
अद्या एतत् हरि-नर-रूपम् अद्भुतम् ते दृष्टम् नः शरण-द सर्व-लोक-शर्म । सः अयम् ते विधिकरः ईश विप्रशप्तः तस्य इदम् निधनम् अनुग्रहाय विद्मः ।
adyā etat hari-nara-rūpam adbhutam te dṛṣṭam naḥ śaraṇa-da sarva-loka-śarma . saḥ ayam te vidhikaraḥ īśa vipraśaptaḥ tasya idam nidhanam anugrahāya vidmaḥ .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यराजवधे नृसिंहस्तवो नामाष्टमोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तम-स्कन्धे प्रह्लाद-अनुचरिते दैत्यराजवधे नृसिंहस्तवः नाम अष्टमः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām saptama-skandhe prahlāda-anucarite daityarājavadhe nṛsiṃhastavaḥ nāma aṣṭamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In