सत्यं विधातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेषु चात्मनः । अदृश्यतात्यद्भुतरूपमुद्वहन्स्तम्भे सभायां न मृगं न मानुषम् १८ ।
PADACHEDA
सत्यम् विधातुम् निज-भृत्य-भाषितम् व्याप्तिम् च भूतेषु अखिलेषु च आत्मनः । अदृश्यत अति अद्भुत-रूपम् उद्वहन् स्तम्भे सभायाम् न मृगम् न मानुषम् ।
TRANSLITERATION
satyam vidhātum nija-bhṛtya-bhāṣitam vyāptim ca bhūteṣu akhileṣu ca ātmanaḥ . adṛśyata ati adbhuta-rūpam udvahan stambhe sabhāyām na mṛgam na mānuṣam .
तं विक्रमन्तं सगदं गदाधरो महोरगं तार्क्ष्यसुतो यथाग्रहीत् । स तस्य हस्तोत्कलितस्तदासुरो विक्रीडतो यद्वदहिर्गरुत्मतः २६ ।
PADACHEDA
तम् विक्रमन्तम् स गदम् गदा-धरः महा-उरगम् तार्क्ष्य-सुतः यथा अग्रहीत् । स तस्य हस्त-उत्कलितः तदा असुरः विक्रीडतः यद्वत् अहिः गरुत्मतः ।
TRANSLITERATION
tam vikramantam sa gadam gadā-dharaḥ mahā-uragam tārkṣya-sutaḥ yathā agrahīt . sa tasya hasta-utkalitaḥ tadā asuraḥ vikrīḍataḥ yadvat ahiḥ garutmataḥ .
वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस् । त इह दितिसुतेन प्रापिता वाहकत्वम् । स तु जनपरितापं तत्कृतं जानता ते । नरहर उपनीतः पञ्चतां पञ्चविंश ५२ ।
PADACHEDA
वयम् अनुचर-मुख्याः कर्मभिः ते मनोज्ञैः । ते इह दितिसुतेन प्रापिताः वाहक-त्वम् । स तु जन-परितापम् तद्-कृतम् जानता ते । नरहरः उपनीतः पञ्चताम् पञ्चविंश ।
TRANSLITERATION
vayam anucara-mukhyāḥ karmabhiḥ te manojñaiḥ . te iha ditisutena prāpitāḥ vāhaka-tvam . sa tu jana-paritāpam tad-kṛtam jānatā te . naraharaḥ upanītaḥ pañcatām pañcaviṃśa .
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Gurukula and begin your first Learning Path.