| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच
वृत्रे हते त्रयो लोका विना शक्रेण भूरिद । सपाला ह्यभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः ॥ 1 ॥
वृत्रे हते त्रयः लोकाः विना शक्रेण भूरि-द । स पालाः हि अभवन् सद्यस् विज्वराः निर्वृत-इन्द्रियाः ॥ १ ॥
vṛtre hate trayaḥ lokāḥ vinā śakreṇa bhūri-da . sa pālāḥ hi abhavan sadyas vijvarāḥ nirvṛta-indriyāḥ .. 1 ..
देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम् । प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः ॥ 2 ॥
देव-ऋषि-पितृ-भूतानि दैत्याः देव-अनुगाः स्वयम् । प्रतिजग्मुः स्व-धिष्ण्यानि ब्रह्म-ईश-इन्द्र-आदयः ततस् ॥ २ ॥
deva-ṛṣi-pitṛ-bhūtāni daityāḥ deva-anugāḥ svayam . pratijagmuḥ sva-dhiṣṇyāni brahma-īśa-indra-ādayaḥ tatas .. 2 ..
श्रीराजोवाच
इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने । येनासन् सुखिनो देवा हरेर्दुःखं कुतोऽभवत् ॥ 3 ॥
इन्द्रस्य अनिर्वृतेः हेतुम् श्रोतुम् इच्छामि भो मुने । येन आसन् सुखिनः देवाः हरेः दुःखम् कुतस् अभवत् ॥ ३ ॥
indrasya anirvṛteḥ hetum śrotum icchāmi bho mune . yena āsan sukhinaḥ devāḥ hareḥ duḥkham kutas abhavat .. 3 ..
श्रीशुक उवाच
वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः । तद्वधायार्थयन्निन्द्रं नैच्छद्भीतो बृहद्वधात् ॥ 4 ॥
वृत्र-विक्रम-संविग्नाः सर्वे देवाः सह ऋषिभिः । तद्-वधाय अर्थयन् इन्द्रम् न ऐच्छत् भीतः बृहद्वधात् ॥ ४ ॥
vṛtra-vikrama-saṃvignāḥ sarve devāḥ saha ṛṣibhiḥ . tad-vadhāya arthayan indram na aicchat bhītaḥ bṛhadvadhāt .. 4 ..
इन्द्र उवाच
स्त्रीभूद्रुमजलैरेनो विश्वरूपवधोद्भवम् । विभक्तमनुगृह्णद्भिर्वृत्रहत्यां क्व मार्ज्म्यहम् ॥ 5 ॥
स्त्री-भू-द्रुम-जलैः एनः विश्वरूप-वध-उद्भवम् । विभक्तम् अनुगृह्णद्भिः वृत्र-हत्याम् क्व मार्ज्मि अहम् ॥ ५ ॥
strī-bhū-druma-jalaiḥ enaḥ viśvarūpa-vadha-udbhavam . vibhaktam anugṛhṇadbhiḥ vṛtra-hatyām kva mārjmi aham .. 5 ..
श्रीशुक उवाच
ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् । याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः ॥ 6 ॥
ऋषयः तत् उपाकर्ण्य महा-इन्द्रम् इदम् अब्रुवन् । याजयिष्याम भद्रम् ते हयमेधेन मा स्म भैः ॥ ६ ॥
ṛṣayaḥ tat upākarṇya mahā-indram idam abruvan . yājayiṣyāma bhadram te hayamedhena mā sma bhaiḥ .. 6 ..
हयमेधेन पुरुषं परमात्मानमीश्वरम् । इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात् ॥ 7 ॥
हयमेधेन पुरुषम् परमात्मानम् ईश्वरम् । इष्ट्वा नारायणम् देवम् मोक्ष्यसे अपि जगत्-वधात् ॥ ७ ॥
hayamedhena puruṣam paramātmānam īśvaram . iṣṭvā nārāyaṇam devam mokṣyase api jagat-vadhāt .. 7 ..
ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् । श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् ॥ 8 ॥
ब्रह्म-हा पितृ-हा गो-घ्नः मातृ-हा आचार्य-हा अघवान् । श्व-आदः पुल्कसकः वा अपि यस्य कीर्तनात् ॥ ८ ॥
brahma-hā pitṛ-hā go-ghnaḥ mātṛ-hā ācārya-hā aghavān . śva-ādaḥ pulkasakaḥ vā api yasya kīrtanāt .. 8 ..
तमश्वमेधेन महामखेन श्रद्धान्वितोऽस्माभिरनुष्ठितेन । हत्वापि सब्रह्मचराचरं त्वं न लिप्यसे किं खलनिग्रहेण ॥ 9 ॥
तम् अश्वमेधेन महा-मखेन श्रद्धा-अन्वितः अस्माभिः अनुष्ठितेन । हत्वा अपि स ब्रह्मचराचरम् त्वम् न लिप्यसे किम् खल-निग्रहेण ॥ ९ ॥
tam aśvamedhena mahā-makhena śraddhā-anvitaḥ asmābhiḥ anuṣṭhitena . hatvā api sa brahmacarācaram tvam na lipyase kim khala-nigraheṇa .. 9 ..
श्रीशुक उवाच
एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम् । ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥ 10 ॥
एवम् सञ्चोदितः विप्रैः मरुत्वान् अहनत् रिपुम् । ब्रह्महत्या हते तस्मिन् आससाद वृषाकपिम् ॥ १० ॥
evam sañcoditaḥ vipraiḥ marutvān ahanat ripum . brahmahatyā hate tasmin āsasāda vṛṣākapim .. 10 ..
तयेन्द्रः स्मासहत्तापं निर्वृतिर्नामुमाविशत् । ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणाः ॥ 11 ॥
तया इन्द्रः स्म असहत् तापम् निर्वृतिः ना अमुम् आविशत् । ह्रीमन्तम् वाच्य-ताम् प्राप्तम् सुखयन्ति अपि नः गुणाः ॥ ११ ॥
tayā indraḥ sma asahat tāpam nirvṛtiḥ nā amum āviśat . hrīmantam vācya-tām prāptam sukhayanti api naḥ guṇāḥ .. 11 ..
तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम् । जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम् ॥ 12 ॥
ताम् ददर्श अनुधावन्तीम् चाण्डालीम् इव रूपिणीम् । जरया वेपमान-अङ्गीम् यक्ष्म-ग्रस्ताम् असृज्-पटाम् ॥ १२ ॥
tām dadarśa anudhāvantīm cāṇḍālīm iva rūpiṇīm . jarayā vepamāna-aṅgīm yakṣma-grastām asṛj-paṭām .. 12 ..
विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति भाषिणीम् । मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् ॥ 13 ॥
विकीर्य पलितान् केशान् तिष्ठ तिष्ठ इति भाषिणीम् । मीन-गन्ध्य-सुगन्धेन कुर्वतीम् मार्ग-दूषणम् ॥ १३ ॥
vikīrya palitān keśān tiṣṭha tiṣṭha iti bhāṣiṇīm . mīna-gandhya-sugandhena kurvatīm mārga-dūṣaṇam .. 13 ..
नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते । प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् ॥ 14 ॥
नभः गतः दिशः सर्वाः सहस्राक्षः विशाम् पते । प्राच्-उदीचीम् दिशम् तूर्णम् प्रविष्टः नृप मानसम् ॥ १४ ॥
nabhaḥ gataḥ diśaḥ sarvāḥ sahasrākṣaḥ viśām pate . prāc-udīcīm diśam tūrṇam praviṣṭaḥ nṛpa mānasam .. 14 ..
स आवसत्पुष्करनालतन्तूनलब्धभोगो यदिहाग्निदूतः । वर्षाणि साहस्रमलक्षितोऽन्तः सञ्चिन्तयन् ब्रह्मवधाद्विमोक्षम् ॥ 15 ॥
सः आवसत् पुष्कर-नाल-तन्तून अ लब्ध-भोगः यत् इह अग्नि-दूतः । वर्षाणि साहस्रम् अलक्षितः अन्तर् सञ्चिन्तयन् ब्रह्म-वधात् विमोक्षम् ॥ १५ ॥
saḥ āvasat puṣkara-nāla-tantūna a labdha-bhogaḥ yat iha agni-dūtaḥ . varṣāṇi sāhasram alakṣitaḥ antar sañcintayan brahma-vadhāt vimokṣam .. 15 ..
तावत्त्रिणाकं नहुषः शशास विद्यातपोयोगबलानुभावः । स सम्पदैश्वर्यमदान्धबुद्धिर्नीतस्तिरश्चां गतिमिन्द्रपत्न्या ॥ 16 ॥
तावत् त्रिणाकम् नहुषः शशास विद्या-तपः-योग-बल-अनुभावः । स सम्पदा ऐश्वर्य-मद-अन्ध-बुद्धिः नीतः तिरश्चाम् गतिम् इन्द्र-पत्न्या ॥ १६ ॥
tāvat triṇākam nahuṣaḥ śaśāsa vidyā-tapaḥ-yoga-bala-anubhāvaḥ . sa sampadā aiśvarya-mada-andha-buddhiḥ nītaḥ tiraścām gatim indra-patnyā .. 16 ..
ततो गतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवारिताघः । पापस्तु दिग्देवतया हतौजास्तं नाभ्यभूदवितं विष्णुपत्न्या ॥ 17 ॥
ततस् गतः ब्रह्म-गिरा उपहूतः ऋतम्भर-ध्यान-निवारित-अघः । पापः तु दिग्देवतया हत-ओजाः तम् न अभ्यभूत् अवितम् विष्णु-पत्न्या ॥ १७ ॥
tatas gataḥ brahma-girā upahūtaḥ ṛtambhara-dhyāna-nivārita-aghaḥ . pāpaḥ tu digdevatayā hata-ojāḥ tam na abhyabhūt avitam viṣṇu-patnyā .. 17 ..
तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत । यथावद्दीक्षयां चक्रुः पुरुषाराधनेन ह ॥ 18 ॥
तम् च ब्रह्मर्षयः अभ्येत्य हयमेधेन भारत । यथावत् दीक्षयाम् चक्रुः पुरुष-आराधनेन ह ॥ १८ ॥
tam ca brahmarṣayaḥ abhyetya hayamedhena bhārata . yathāvat dīkṣayām cakruḥ puruṣa-ārādhanena ha .. 18 ..
अथेज्यमाने पुरुषे सर्वदेवमयात्मनि । अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः ॥ 19 ॥
अथ इज्यमाने पुरुषे सर्व-देव-मय-आत्मनि । अश्वमेधे महा-इन्द्रेण वितते ब्रह्म-वादिभिः ॥ १९ ॥
atha ijyamāne puruṣe sarva-deva-maya-ātmani . aśvamedhe mahā-indreṇa vitate brahma-vādibhiḥ .. 19 ..
स वै त्वाष्ट्रवधो भूयानपि पापचयो नृप । नीतस्तेनैव शून्याय नीहार इव भानुना ॥ 20 ॥
स वै त्वाष्ट्र-वधः भूयान् अपि पाप-चयः नृप । नीतः तेन एव शून्याय नीहारः इव भानुना ॥ २० ॥
sa vai tvāṣṭra-vadhaḥ bhūyān api pāpa-cayaḥ nṛpa . nītaḥ tena eva śūnyāya nīhāraḥ iva bhānunā .. 20 ..
स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः । इष्ट्वाधियज्ञं पुरुषं पुराणमिन्द्रो महानास विधूतपापः ॥ 21 ॥
स वाजिमेधेन यथा उदितेन वितायमानेन मरीचि-मिश्रैः । इष्ट्वा अधियज्ञम् पुरुषम् पुराणम् इन्द्रः महान् आस विधूत-पापः ॥ २१ ॥
sa vājimedhena yathā uditena vitāyamānena marīci-miśraiḥ . iṣṭvā adhiyajñam puruṣam purāṇam indraḥ mahān āsa vidhūta-pāpaḥ .. 21 ..
इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम् । भक्त्युच्छ्रयं भक्तजनानुवर्णनं महेन्द्रमोक्षं विजयं मरुत्वतः ॥ 22 ॥
इदम् महा-आख्यानम् अशेष-पाप्मनाम् प्रक्षालनम् तीर्थ-पद-अनुकीर्तनम् । भक्ति-उच्छ्रयम् भक्त-जन-अनुवर्णनम् महा-इन्द्र-मोक्षम् विजयम् मरुत्वतः ॥ २२ ॥
idam mahā-ākhyānam aśeṣa-pāpmanām prakṣālanam tīrtha-pada-anukīrtanam . bhakti-ucchrayam bhakta-jana-anuvarṇanam mahā-indra-mokṣam vijayam marutvataḥ .. 22 ..
पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम् । धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम् ॥ 23 ॥
पठेयुः आख्यानम् इदम् सदा बुधाः शृण्वन्ति अथो पर्वणि पर्वणि इन्द्रियम् । धन्यम् यशस्यम् निखिल-अघ-मोचनम् रिपुञ्जयम् स्वस्त्ययनम् तथा आयुषम् ॥ २३ ॥
paṭheyuḥ ākhyānam idam sadā budhāḥ śṛṇvanti atho parvaṇi parvaṇi indriyam . dhanyam yaśasyam nikhila-agha-mocanam ripuñjayam svastyayanam tathā āyuṣam .. 23 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे त्रयदशोऽध्यायः ॥ १३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे त्रयदशः अध्यायः ॥ १३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe trayadaśaḥ adhyāyaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In