| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

राजपुत्रदेहवियुक्तस्य जीवात्मन उक्तिः, चित्रकेतवे नारदकर्तृकं संकर्षण मंत्रप्रदानं तज्जपेन विद्याधरत्व प्राप्तिर्भगवतो अनन्तस्य दर्शनं च -
राज-पुत्र-देह-वियुक्तस्य जीवात्मनः उक्तिः, चित्रकेतवे नारद-कर्तृकम् संकर्षण-मंत्र-प्रदानम् तद्-जपेन विद्याधर-त्व-प्राप्तिः भगवतः अनन्तस्य दर्शनम् च
rāja-putra-deha-viyuktasya jīvātmanaḥ uktiḥ, citraketave nārada-kartṛkam saṃkarṣaṇa-maṃtra-pradānam tad-japena vidyādhara-tva-prāptiḥ bhagavataḥ anantasya darśanam ca
श्रीशुक उवाच -
अथ देवऋषी राजन् संपरेतं नृपात्मजम् । दर्शयित्वेति होवाच ज्ञातीनां अनुशोचताम् ॥ १ ॥
अथ देव-ऋषिः राजन् संपरेतम् नृप-आत्मजम् । दर्शयित्वा इति ह उवाच ज्ञातीनाम् अनुशोचताम् ॥ १ ॥
atha deva-ṛṣiḥ rājan saṃparetam nṛpa-ātmajam . darśayitvā iti ha uvāca jñātīnām anuśocatām .. 1 ..
श्रीनारद उवाच -
जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते । सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम् ॥ २ ॥
जीवात्मन् पश्य भद्रम् ते मातरम् पितरम् च ते । सुहृदः बान्धवाः तप्ताः शुचा त्वद्-कृतया भृशम् ॥ २ ॥
jīvātman paśya bhadram te mātaram pitaram ca te . suhṛdaḥ bāndhavāḥ taptāḥ śucā tvad-kṛtayā bhṛśam .. 2 ..
कलेवरं स्वमाविश्य शेषमायुः सुहृद्वृतः । भुङ्क्ष्व भोगान् पितृप्रत्तान् अधितिष्ठ नृपासनम् ॥ ३ ॥
कलेवरम् स्वम् आविश्य शेषम् आयुः सुहृद्-वृतः । भुङ्क्ष्व भोगान् पितृ-प्रत्तान् अधितिष्ठ नृपासनम् ॥ ३ ॥
kalevaram svam āviśya śeṣam āyuḥ suhṛd-vṛtaḥ . bhuṅkṣva bhogān pitṛ-prattān adhitiṣṭha nṛpāsanam .. 3 ..
जीव उवाच -
कस्मिन् जन्मन्यमी मह्यं पितरो मातरोऽभवन् । कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्नृयोनिषु ॥ ४ ॥
कस्मिन् जन्मनि अमी मह्यम् पितरः मातरः अभवन् । कर्मभिः भ्राम्यमाणस्य देव-तिर्यञ्च् नृ-योनिषु ॥ ४ ॥
kasmin janmani amī mahyam pitaraḥ mātaraḥ abhavan . karmabhiḥ bhrāmyamāṇasya deva-tiryañc nṛ-yoniṣu .. 4 ..
बन्धुज्ञात्यरिमध्यस्थ मित्रोदासीनविद्विषः । सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः ॥ ५ ॥
बन्धु-ज्ञाति-अरि-मध्यस्थ-मित्र-उदासीन-विद्विषः । सर्वे एव हि सर्वेषाम् भवन्ति क्रमशस् मिथस् ॥ ५ ॥
bandhu-jñāti-ari-madhyastha-mitra-udāsīna-vidviṣaḥ . sarve eva hi sarveṣām bhavanti kramaśas mithas .. 5 ..
यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः । पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ॥ ६ ॥
यथा वस्तूनि पण्यानि हेम-आदीनि ततस् ततस् । पर्यटन्ति नरेषु एवम् जीवः योनिषु कर्तृषु ॥ ६ ॥
yathā vastūni paṇyāni hema-ādīni tatas tatas . paryaṭanti nareṣu evam jīvaḥ yoniṣu kartṛṣu .. 6 ..
नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु । यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि ॥ ७ ॥
नित्यस्य अर्थस्य सम्बन्धः हि अनित्यः दृश्यते नृषु । यावत् यस्य हि सम्बन्धः ममत्वम् तावत् एव हि ॥ ७ ॥
nityasya arthasya sambandhaḥ hi anityaḥ dṛśyate nṛṣu . yāvat yasya hi sambandhaḥ mamatvam tāvat eva hi .. 7 ..
एवं योनिगतो जीवः स नित्यो निरहङ्कृतः । यावद् यत्रोपलभ्येत तावत् स्वत्वं हि तस्य तत् ॥ ८ ॥
एवम् योनि-गतः जीवः स नित्यः निरहङ्कृतः । यावत् यत्र उपलभ्येत तावत् स्व-त्वम् हि तस्य तत् ॥ ८ ॥
evam yoni-gataḥ jīvaḥ sa nityaḥ nirahaṅkṛtaḥ . yāvat yatra upalabhyeta tāvat sva-tvam hi tasya tat .. 8 ..
एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक् । आत्ममायागुणैर्विश्वं आत्मानं सृजते प्रभुः ॥ ९ ॥
एष नित्यः अव्ययः सूक्ष्मः एष सर्व-आश्रयः स्वदृश् । आत्म-माया-गुणैः विश्वम् आत्मानम् सृजते प्रभुः ॥ ९ ॥
eṣa nityaḥ avyayaḥ sūkṣmaḥ eṣa sarva-āśrayaḥ svadṛś . ātma-māyā-guṇaiḥ viśvam ātmānam sṛjate prabhuḥ .. 9 ..
न ह्यस्यास्ति प्रियः कश्चित् नाप्रियः स्वः परोऽपि वा । एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः ॥ १० ॥
न हि अस्य अस्ति प्रियः कश्चिद् न अप्रियः स्वः परः अपि वा । एकः सर्व-धियाम् द्रष्टा कर्तॄणाम् गुण-दोषयोः ॥ १० ॥
na hi asya asti priyaḥ kaścid na apriyaḥ svaḥ paraḥ api vā . ekaḥ sarva-dhiyām draṣṭā kartṝṇām guṇa-doṣayoḥ .. 10 ..
नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् । उदासीनवदासीनः परावरदृगीश्वरः ॥ ११ ॥
न आदत्ते आत्मा हि गुणम् न दोषम् न क्रिया-फलम् । उदासीन-वत् आसीनः परावर-दृश् ईश्वरः ॥ ११ ॥
na ādatte ātmā hi guṇam na doṣam na kriyā-phalam . udāsīna-vat āsīnaḥ parāvara-dṛś īśvaraḥ .. 11 ..
श्रीशुक उवाच -
इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा । विस्मिता मुमुचुः शोकं छित्त्वात्म स्नेहश्रृङ्खलाम् ॥ १२ ॥
इति उदीर्य गतः जीवः ज्ञातयः तस्य ते तदा । विस्मिताः मुमुचुः शोकम् छित्त्वा आत्म स्नेह-श्रृङ्खलाम् ॥ १२ ॥
iti udīrya gataḥ jīvaḥ jñātayaḥ tasya te tadā . vismitāḥ mumucuḥ śokam chittvā ātma sneha-śrṛṅkhalām .. 12 ..
निर्हृत्य ज्ञातयो ज्ञातेः देहं कृत्वोचिताः क्रियाः । तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् ॥ १३ ॥
निर्हृत्य ज्ञातयः ज्ञातेः देहम् कृत्वा उचिताः क्रियाः । तत्यजुः दुस्त्यजम् स्नेहम् शोक-मोह-भय-आर्ति-दम् ॥ १३ ॥
nirhṛtya jñātayaḥ jñāteḥ deham kṛtvā ucitāḥ kriyāḥ . tatyajuḥ dustyajam sneham śoka-moha-bhaya-ārti-dam .. 13 ..
बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः । बालहत्याव्रतं चेरुः ब्राह्मणैः यन्निरूपितम् । यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् ॥ १४ ॥
बाल-घ्न्यः व्रीडिताः तत्र बाल-हत्या-हत-प्रभाः । बाल-हत्या-व्रतम् चेरुः ब्राह्मणैः यत् निरूपितम् । यमुनायाम् महा-राज स्मरन्त्यः द्विज-भाषितम् ॥ १४ ॥
bāla-ghnyaḥ vrīḍitāḥ tatra bāla-hatyā-hata-prabhāḥ . bāla-hatyā-vratam ceruḥ brāhmaṇaiḥ yat nirūpitam . yamunāyām mahā-rāja smarantyaḥ dvija-bhāṣitam .. 14 ..
स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः । गृहान्धकूपान् निष्क्रान्तः सरःपङ्कादिव द्विपः ॥ १५ ॥
सः इत्थम् प्रतिबुद्ध-आत्मा चित्रकेतुः द्विज-उक्तिभिः । गृह-अन्धकूपात् निष्क्रान्तः सरः-पङ्कात् इव द्विपः ॥ १५ ॥
saḥ ittham pratibuddha-ātmā citraketuḥ dvija-uktibhiḥ . gṛha-andhakūpāt niṣkrāntaḥ saraḥ-paṅkāt iva dvipaḥ .. 15 ..
कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः । मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत ॥ १६ ॥
कालिन्द्याम् विधिवत् स्नात्वा कृत-पुण्य-जलक्रियः । मौनेन संयत-प्राणः ब्रह्म-पुत्रौ अवन्दत ॥ १६ ॥
kālindyām vidhivat snātvā kṛta-puṇya-jalakriyaḥ . maunena saṃyata-prāṇaḥ brahma-putrau avandata .. 16 ..
अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने । भगवान् नारदः प्रीतो विद्यामेतामुवाच ह ॥ १७ ॥
अथ तस्मै प्रपन्नाय भक्ताय प्रयत-आत्मने । भगवान् नारदः प्रीतः विद्याम् एताम् उवाच ह ॥ १७ ॥
atha tasmai prapannāya bhaktāya prayata-ātmane . bhagavān nāradaḥ prītaḥ vidyām etām uvāca ha .. 17 ..
ॐ नमस्तुभ्यं भगवते वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ १८ ॥
ओम् नमः तुभ्यम् भगवते वासुदेवाय धीमहि । प्रद्युम्नाय अनिरुद्धाय नमः सङ्कर्षणाय च ॥ १८ ॥
om namaḥ tubhyam bhagavate vāsudevāya dhīmahi . pradyumnāya aniruddhāya namaḥ saṅkarṣaṇāya ca .. 18 ..
नमो विज्ञानमात्राय परमानन्दमूर्तये । आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥ १९ ॥
नमः विज्ञान-मात्राय परम-आनन्द-मूर्तये । आत्म-आरामाय शान्ताय निवृत्त-द्वैत-दृष्टये ॥ १९ ॥
namaḥ vijñāna-mātrāya parama-ānanda-mūrtaye . ātma-ārāmāya śāntāya nivṛtta-dvaita-dṛṣṭaye .. 19 ..
आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः । हृषीकेशाय महते नमस्ते विश्वमूर्तये ॥ २० ॥
आत्म-आनन्द-अनुभूत्या एव न्यस्त-शक्ति-ऊर्मये नमः । हृषीकेशाय महते नमः ते विश्वमूर्तये ॥ २० ॥
ātma-ānanda-anubhūtyā eva nyasta-śakti-ūrmaye namaḥ . hṛṣīkeśāya mahate namaḥ te viśvamūrtaye .. 20 ..
वचस्युपरतेऽप्राप्य य एको मनसा सह । अनामरूपश्चिन्मात्रः सोऽव्यान्नः सदसत्परः ॥ २१ ॥
वचसि उपरते अ प्राप्य यः एकः मनसा सह । अनाम-रूपः चित्-मात्रः सः अव्य-अन्नः सत्-असत्-परः ॥ २१ ॥
vacasi uparate a prāpya yaḥ ekaḥ manasā saha . anāma-rūpaḥ cit-mātraḥ saḥ avya-annaḥ sat-asat-paraḥ .. 21 ..
यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते । मृण्मयेष्विव मृज्जातिः तस्मै ते ब्रह्मणे नमः ॥ २२ ॥
यस्मिन् इदम् यतस् च इदम् तिष्ठति अप्येति जायते । मृण्मयेषु इव मृद्-जातिः तस्मै ते ब्रह्मणे नमः ॥ २२ ॥
yasmin idam yatas ca idam tiṣṭhati apyeti jāyate . mṛṇmayeṣu iva mṛd-jātiḥ tasmai te brahmaṇe namaḥ .. 22 ..
यन्न स्पृशन्ति न विदुः मनोबुद्धीन्द्रियासवः । अन्तर्बहिश्च विततं व्योमवत् तन्नतोऽस्म्यहम् ॥ २३ ॥
यत् न स्पृशन्ति न विदुः मनः-बुद्धि-इन्द्रिय-असवः । अन्तर् बहिस् च विततम् व्योम-वत् तत् नतः अस्मि अहम् ॥ २३ ॥
yat na spṛśanti na viduḥ manaḥ-buddhi-indriya-asavaḥ . antar bahis ca vitatam vyoma-vat tat nataḥ asmi aham .. 23 ..
देहेन्द्रियप्राणमनोधियोऽमी यदंशविद्धाः प्रचरन्ति कर्मसु । नैवान्यदा लौहमिवाप्रतप्तं स्थानेषु तद्द्रष्ट्रपदेशमेति ॥ २४ ॥
देह-इन्द्रिय-प्राण-मनः-धियः अमी यद्-अंश-विद्धाः प्रचरन्ति कर्मसु । न एव अन्यदा लौहम् इव अप्रतप्तम् स्थानेषु तद्-द्रष्टृ-अपदेशम् एति ॥ २४ ॥
deha-indriya-prāṇa-manaḥ-dhiyaḥ amī yad-aṃśa-viddhāḥ pracaranti karmasu . na eva anyadā lauham iva aprataptam sthāneṣu tad-draṣṭṛ-apadeśam eti .. 24 ..
ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्वत परिवृढनिकर करकमल कुड्मलोपलालित चरणारविन्दयुगल परमपरमेष्ठिन् नमस्ते ॥ २५ ॥
ओम् नमः भगवन्ते महापुरुषाय महा-अनुभावाय महा-विभूति-पतये सकल-सात्वत परिवृढ-निकर कर-कमल कुड्मल-उपलालित चरण-अरविन्द-युगल परम-परमेष्ठिन् नमः ते ॥ २५ ॥
om namaḥ bhagavante mahāpuruṣāya mahā-anubhāvāya mahā-vibhūti-pataye sakala-sātvata parivṛḍha-nikara kara-kamala kuḍmala-upalālita caraṇa-aravinda-yugala parama-parameṣṭhin namaḥ te .. 25 ..
श्रीशुक उवाच -
भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः । ययावङ्गिरसा साकं धाम स्वायम्भुवं प्रभो ॥ २६ ॥
भक्ताय एताम् प्रपन्नाय विद्याम् आदिश्य नारदः । ययौ अङ्गिरसा साकम् धाम स्वायम्भुवम् प्रभो ॥ २६ ॥
bhaktāya etām prapannāya vidyām ādiśya nāradaḥ . yayau aṅgirasā sākam dhāma svāyambhuvam prabho .. 26 ..
चित्रकेतुस्तु विद्यां तां यथा नारदभाषिताम् । धारयामास सप्ताहं अब्भक्षः सुसमाहितः ॥ २७ ॥
चित्रकेतुः तु विद्याम् ताम् यथा नारद-भाषिताम् । धारयामास सप्त-अहम् अप्-भक्षः सु समाहितः ॥ २७ ॥
citraketuḥ tu vidyām tām yathā nārada-bhāṣitām . dhārayāmāsa sapta-aham ap-bhakṣaḥ su samāhitaḥ .. 27 ..
ततः स सप्तरात्रान्ते विद्यया धार्यमाणया । विद्याधराधिपत्यं च लेभेऽप्रतिहतं नृप ॥ २८ ॥
ततस् स सप्त-रात्र-अन्ते विद्यया धार्यमाणया । विद्याधर-आधिपत्यम् च लेभे अप्रतिहतम् नृप ॥ २८ ॥
tatas sa sapta-rātra-ante vidyayā dhāryamāṇayā . vidyādhara-ādhipatyam ca lebhe apratihatam nṛpa .. 28 ..
ततः कतिपयाहोभिः विद्ययेद्धमनोगतिः । जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९ ॥
ततस् कतिपय-अहोभिः विद्यया इद्ध-मनोगतिः । जगाम देवदेवस्य शेषस्य चरण-अन्तिकम् ॥ २९ ॥
tatas katipaya-ahobhiḥ vidyayā iddha-manogatiḥ . jagāma devadevasya śeṣasya caraṇa-antikam .. 29 ..
मृणालगौरं शितिवाससं स्फुरत् किरीटकेयूरकटित्रकङ्कणम् । प्रसन्नवक्त्रारुणलोचनं वृतं ददर्श सिद्धेश्वरमण्डलैः प्रभुम् ॥ ३० ॥
मृणाल-गौरम् शिति-वाससम् स्फुरत् किरीट-केयूर-कटित्र-कङ्कणम् । प्रसन्न-वक्त्र-अरुण-लोचनम् वृतम् ददर्श सिद्ध-ईश्वर-मण्डलैः प्रभुम् ॥ ३० ॥
mṛṇāla-gauram śiti-vāsasam sphurat kirīṭa-keyūra-kaṭitra-kaṅkaṇam . prasanna-vaktra-aruṇa-locanam vṛtam dadarśa siddha-īśvara-maṇḍalaiḥ prabhum .. 30 ..
तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वस्थामलान्तःकरणोऽभ्ययान्मुनिः । प्रवृद्धभक्त्या प्रणयाश्रुलोचनः प्रहृष्टरोमानमदादिपुरुषम् ॥ ३१ ॥
तद्-दर्शन-ध्वस्त-समस्त-किल्बिषः स्वस्थ-अमल-अन्तःकरणः अभ्ययात् मुनिः । प्रवृद्ध-भक्त्या प्रणय-अश्रु-लोचनः ॥ ३१ ॥
tad-darśana-dhvasta-samasta-kilbiṣaḥ svastha-amala-antaḥkaraṇaḥ abhyayāt muniḥ . pravṛddha-bhaktyā praṇaya-aśru-locanaḥ .. 31 ..
स उत्तमश्लोकपदाब्जविष्टरं प्रेमाश्रुलेशैरुपमेहयन्मुहुः । प्रेमोपरुद्धाखिलवर्णनिर्गमो नैवाशकत्तं प्रसमीडितुं चिरम् ॥ ३२ ॥
सः उत्तमश्लोक-पद-अब्ज-विष्टरम् प्रेम-अश्रु-लेशैः उपमेहयन् मुहुर् । प्रेम-उपरुद्ध-अखिल-वर्ण-निर्गमः न एव अशकत् तम् प्रसमीडितुम् चिरम् ॥ ३२ ॥
saḥ uttamaśloka-pada-abja-viṣṭaram prema-aśru-leśaiḥ upamehayan muhur . prema-uparuddha-akhila-varṇa-nirgamaḥ na eva aśakat tam prasamīḍitum ciram .. 32 ..
ततः समाधाय मनो मनीषया बभाष एतत्प्रतिलब्धवागसौ । नियम्य सर्वेन्द्रियबाह्यवर्तनं जगद्गुरुं सात्वतशास्त्रविग्रहम् ॥ ३३ ॥
ततस् समाधाय मनः मनीषया बभाष एतद्-प्रतिलब्ध-वाच् असौ । नियम्य सर्व-इन्द्रिय-बाह्य-वर्तनम् जगद्गुरुम् सात्वत-शास्त्र-विग्रहम् ॥ ३३ ॥
tatas samādhāya manaḥ manīṣayā babhāṣa etad-pratilabdha-vāc asau . niyamya sarva-indriya-bāhya-vartanam jagadgurum sātvata-śāstra-vigraham .. 33 ..
चित्रकेतुरुवाच -
अजित जितः सममतिभिः साधुभिर्भवान् जितात्मभिर्भवता । विजितास्तेऽपि च भजतां अकामात्मनां य आत्मदोऽतिकरुणः ॥ ३४ ॥
अजित जितः सममतिभिः साधुभिः भवान् जित-आत्मभिः भवता । विजिताः ते अपि च भजताम् अकाम-आत्मनाम् यः आत्म-दः अति करुणः ॥ ३४ ॥
ajita jitaḥ samamatibhiḥ sādhubhiḥ bhavān jita-ātmabhiḥ bhavatā . vijitāḥ te api ca bhajatām akāma-ātmanām yaḥ ātma-daḥ ati karuṇaḥ .. 34 ..
तव विभवः खलु भगवन् जगदुदयस्थितिलयादीनि । विश्वसृजस्तेंऽशांशास्तत्र मृषा स्पर्धन्ति पृथगभिमत्या ॥ ३५ ॥
तव विभवः खलु भगवन् जगत्-उदय-स्थिति-लय-आदीनि । विश्वसृजः ते अशांशाः तत्र मृषा स्पर्धन्ति पृथक् अभिमत्या ॥ ३५ ॥
tava vibhavaḥ khalu bhagavan jagat-udaya-sthiti-laya-ādīni . viśvasṛjaḥ te aśāṃśāḥ tatra mṛṣā spardhanti pṛthak abhimatyā .. 35 ..
परमाणुपरममहतोः त्वमाद्यन्तान्तरवर्ती त्रयविधुरः । आदावन्तेऽपि च सत्त्वानां यद्ध्रुवं तदेवान्तरालेऽपि ॥ ३६ ॥
। आदौ अन्ते अपि च सत्त्वानाम् यत् ध्रुवम् तत् एव अन्तराले अपि ॥ ३६ ॥
. ādau ante api ca sattvānām yat dhruvam tat eva antarāle api .. 36 ..
क्षित्यादिभिरेष किलावृतः सप्तभिर्दशगुणोत्तरैरण्डकोशः । यत्र पतत्यणुकल्पः सहाण्डकोटिकोटिभिस्तदनन्तः ॥ ३७ ॥
क्षिति-आदिभिः एष किल आवृतः सप्तभिः दशगुण-उत्तर-एरण्ड-कोशः । यत्र पतति अणु-कल्पः सह अण्ड-कोटि-कोटिभिः तत् अनन्तः ॥ ३७ ॥
kṣiti-ādibhiḥ eṣa kila āvṛtaḥ saptabhiḥ daśaguṇa-uttara-eraṇḍa-kośaḥ . yatra patati aṇu-kalpaḥ saha aṇḍa-koṭi-koṭibhiḥ tat anantaḥ .. 37 ..
विषयतृषो नरपशवो य उपासते विभूतीर्न परं त्वाम् । तेषामाशिष ईश तदनु विनश्यन्ति यथा राजकुलम् ॥ ३८ ॥
विषय-तृषः नर-पशवः ये उपासते विभूतीः न परम् त्वाम् । तेषाम् आशिषः ईश तदनु विनश्यन्ति यथा राज-कुलम् ॥ ३८ ॥
viṣaya-tṛṣaḥ nara-paśavaḥ ye upāsate vibhūtīḥ na param tvām . teṣām āśiṣaḥ īśa tadanu vinaśyanti yathā rāja-kulam .. 38 ..
कामधियस्त्वयि रचिता न परम रोहन्ति यथा करम्भबीजानि । ज्ञानात्मन्यगुणमये गुणगणतोऽस्य द्वन्द्वजालानि ॥ ३९ ॥
काम-धियः त्वयि रचिताः न परम रोहन्ति यथा करम्भ-बीजानि । ज्ञान-आत्मनि अगुण-मये गुण-गणतः अस्य द्वन्द्व-जालानि ॥ ३९ ॥
kāma-dhiyaḥ tvayi racitāḥ na parama rohanti yathā karambha-bījāni . jñāna-ātmani aguṇa-maye guṇa-gaṇataḥ asya dvandva-jālāni .. 39 ..
जितमजित तदा भवता यदाह भागवतं धर्ममनवद्यम् । निष्किञ्चना ये मुनय आत्मारामा यमुपासतेऽपवर्गाय ॥ ४० ॥
जितम् अजित तदा भवता यत् आह भागवतम् धर्मम् अनवद्यम् । निष्किञ्चनाः ये मुनयः आत्म-आरामाः यम् उपासते अपवर्गाय ॥ ४० ॥
jitam ajita tadā bhavatā yat āha bhāgavatam dharmam anavadyam . niṣkiñcanāḥ ye munayaḥ ātma-ārāmāḥ yam upāsate apavargāya .. 40 ..
विषममतिर्न यत्र नृणां त्वमहमिति मम तवेति च यदन्यत्र । विषमधिया रचितो यः स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः ॥ ४१ ॥
विषम-मतिः न यत्र नृणाम् त्वम् अहम् इति मम तव इति च यत् अन्यत्र । विषम-धिया रचितः यः स हि अविशुद्धः क्षयिष्णुः अधर्म-बहुलः ॥ ४१ ॥
viṣama-matiḥ na yatra nṛṇām tvam aham iti mama tava iti ca yat anyatra . viṣama-dhiyā racitaḥ yaḥ sa hi aviśuddhaḥ kṣayiṣṇuḥ adharma-bahulaḥ .. 41 ..
कः क्षेमो निजपरयोः कियान्वार्थः स्वपरद्रुहा धर्मेण । स्वद्रोहात्तव कोपः परसम्पीडया च तथाधर्मः ॥ ४२ ॥
कः क्षेमः निज-परयोः कियान् वा अर्थः स्व-पर-द्रुहा धर्मेण । स्व-द्रोहात् तव कोपः पर-सम्पीडया च तथा अधर्मः ॥ ४२ ॥
kaḥ kṣemaḥ nija-parayoḥ kiyān vā arthaḥ sva-para-druhā dharmeṇa . sva-drohāt tava kopaḥ para-sampīḍayā ca tathā adharmaḥ .. 42 ..
न व्यभिचरति तवेक्षा यया ह्यभिहितो भागवतो धर्मः । स्थिरचरसत्त्वकदम्बेष्व पृथग्धियो यमुपासते त्वार्याः ॥ ४३ ॥
न व्यभिचरति तव ईक्षा यया हि अभिहितः भागवतः धर्मः । स्थिर-चर-सत्त्व-कदम्बेषु पृथक् धियः यम् उपासते त्वा आर्याः ॥ ४३ ॥
na vyabhicarati tava īkṣā yayā hi abhihitaḥ bhāgavataḥ dharmaḥ . sthira-cara-sattva-kadambeṣu pṛthak dhiyaḥ yam upāsate tvā āryāḥ .. 43 ..
न हि भगवन्नघटितमिदं त्वद्दर्शनान् नृणामखिलपापक्षयः । यन्नाम सकृच्छ्रवणात् पुल्कसकोऽपि विमुच्यते संसारात् ॥ ४४ ॥
न हि भगवन् अ घटितम् इदम् त्वद्-दर्शनात् नृणाम् अखिल-पाप-क्षयः । यद्-नाम सकृत् श्रवणात् पुल्कसकः अपि विमुच्यते संसारात् ॥ ४४ ॥
na hi bhagavan a ghaṭitam idam tvad-darśanāt nṛṇām akhila-pāpa-kṣayaḥ . yad-nāma sakṛt śravaṇāt pulkasakaḥ api vimucyate saṃsārāt .. 44 ..
अथ भगवन् वयमधुना त्वदवलोकपरिमृष्टाशयमलाः । सुरऋषिणा यदुदितं तावकेन कथमन्यथा भवति ॥ ४५ ॥
अथ भगवन् वयम् अधुना त्वद्-अवलोक-परिमृष्ट-आशय-मलाः । सुर-ऋषिणा यत् उदितम् तावकेन कथम् अन्यथा भवति ॥ ४५ ॥
atha bhagavan vayam adhunā tvad-avaloka-parimṛṣṭa-āśaya-malāḥ . sura-ṛṣiṇā yat uditam tāvakena katham anyathā bhavati .. 45 ..
विदितमनन्त समस्तं तव जगदात्मनो जनैरिहाचरितम् । विज्ञाप्यं परमगुरोः कियदिव सवितुरिव खद्योतैः ॥ ४६ ॥
विदितम् अनन्त समस्तम् तव जगत्-आत्मनः जनैः इह आचरितम् । विज्ञाप्यम् परम-गुरोः कियत् इव सवितुः इव खद्योतैः ॥ ४६ ॥
viditam ananta samastam tava jagat-ātmanaḥ janaiḥ iha ācaritam . vijñāpyam parama-guroḥ kiyat iva savituḥ iva khadyotaiḥ .. 46 ..
नमस्तुभ्यं भगवते सकलजगत्स्थितिलयोदयेशाय । दुरवसितात्मगतये कुयोगिनां भिदा परमहंसाय ॥ ४७ ॥
नमः तुभ्यम् भगवते सकल-जगत्-स्थिति-लय-उदय-ईशाय । दुरवसित-आत्म-गतये कु योगिनाम् भिदा परमहंसाय ॥ ४७ ॥
namaḥ tubhyam bhagavate sakala-jagat-sthiti-laya-udaya-īśāya . duravasita-ātma-gataye ku yoginām bhidā paramahaṃsāya .. 47 ..
यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति यं चेकितानमनु चित्तय उच्चकन्ति । भूमण्डलं सर्षपायति यस्य मूर्ध्नि तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ॥ ४८ ॥
यम् वै श्वसन्तम् अनु विश्वसृजः श्वसन्ति यम् चेकितानम् अनु चित्तयः उच्चकन्ति । भू-मण्डलम् सर्षपायति यस्य मूर्ध्नि तस्मै नमः भगवते अस्तु सहस्र-मूर्ध्ने ॥ ४८ ॥
yam vai śvasantam anu viśvasṛjaḥ śvasanti yam cekitānam anu cittayaḥ uccakanti . bhū-maṇḍalam sarṣapāyati yasya mūrdhni tasmai namaḥ bhagavate astu sahasra-mūrdhne .. 48 ..
श्रीशुक उवाच -
संस्तुतो भगवान् एवं अनन्तस्तमभाषत । विद्याधरपतिं प्रीतः चित्रकेतुं कुरूद्वह ॥ ४९ ॥
संस्तुतः भगवान् एवम् अनन्तः तम् अभाषत । विद्याधर-पतिम् प्रीतः चित्रकेतुम् कुरु-उद्वह ॥ ४९ ॥
saṃstutaḥ bhagavān evam anantaḥ tam abhāṣata . vidyādhara-patim prītaḥ citraketum kuru-udvaha .. 49 ..
श्रीभगवान् उवाच -
यन्नारदाङ्गिरोभ्यां ते व्याहृतं मेऽनुशासनम् । संसिद्धोऽसि तया राजन् विद्यया दर्शनाच्च मे ॥ ५० ॥
यत् नारद-अङ्गिरोभ्याम् ते व्याहृतम् मे अनुशासनम् । संसिद्धः असि तया राजन् विद्यया दर्शनात् च मे ॥ ५० ॥
yat nārada-aṅgirobhyām te vyāhṛtam me anuśāsanam . saṃsiddhaḥ asi tayā rājan vidyayā darśanāt ca me .. 50 ..
अहं वै सर्वभूतानि भूतात्मा भूतभावनः । शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ ५१ ॥
अहम् वै सर्व-भूतानि भूत-आत्मा भूत-भावनः । शब्दब्रह्म परम् ब्रह्म मम उभे शाश्वती तनू ॥ ५१ ॥
aham vai sarva-bhūtāni bhūta-ātmā bhūta-bhāvanaḥ . śabdabrahma param brahma mama ubhe śāśvatī tanū .. 51 ..
लोके विततमात्मानं लोकं चात्मनि सन्ततम् । उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ ५२ ॥
लोके विततम् आत्मानम् लोकम् च आत्मनि सन्ततम् । उभयम् च मया व्याप्तम् मयि च एव उभयम् कृतम् ॥ ५२ ॥
loke vitatam ātmānam lokam ca ātmani santatam . ubhayam ca mayā vyāptam mayi ca eva ubhayam kṛtam .. 52 ..
यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि । आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥ ५३ ॥
यथा सुषुप्तः पुरुषः विश्वम् पश्यति च आत्मनि । आत्मानम् एक-देश-स्थम् मन्यते स्वप्नः उत्थितः ॥ ५३ ॥
yathā suṣuptaḥ puruṣaḥ viśvam paśyati ca ātmani . ātmānam eka-deśa-stham manyate svapnaḥ utthitaḥ .. 53 ..
एवं जागरणादीनि जीवस्थानानि चात्मनः । मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ ५४ ॥
एवम् जागरण-आदीनि जीव-स्थानानि च आत्मनः । माया-मात्राणि विज्ञाय तद्-द्रष्टारम् परम् स्मरेत् ॥ ५४ ॥
evam jāgaraṇa-ādīni jīva-sthānāni ca ātmanaḥ . māyā-mātrāṇi vijñāya tad-draṣṭāram param smaret .. 54 ..
येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा । सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् ॥ ५५ ॥
येन प्रसुप्तः पुरुषः स्वापम् वेद आत्मनः तदा । सुखम् च निर्गुणम् ब्रह्म तम् आत्मानम् अवेहि माम् ॥ ५५ ॥
yena prasuptaḥ puruṣaḥ svāpam veda ātmanaḥ tadā . sukham ca nirguṇam brahma tam ātmānam avehi mām .. 55 ..
उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः । अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत्परम् ॥ ५६ ॥
उभयम् स्मरतः पुंसः प्रस्वाप-प्रतिबोधयोः । अन्वेति व्यतिरिच्येत तत् ज्ञानम् ब्रह्म तत् परम् ॥ ५६ ॥
ubhayam smarataḥ puṃsaḥ prasvāpa-pratibodhayoḥ . anveti vyatiricyeta tat jñānam brahma tat param .. 56 ..
यदेतद् विस्मृतं पुंसो मद्भावं भिन्नमात्मनः । ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः ॥ ५७ ॥
यत् एतत् विस्मृतम् पुंसः मद्-भावम् भिन्नम् आत्मनः । ततस् संसारः एतस्य देहात् देहः मृतेः मृतिः ॥ ५७ ॥
yat etat vismṛtam puṃsaḥ mad-bhāvam bhinnam ātmanaḥ . tatas saṃsāraḥ etasya dehāt dehaḥ mṛteḥ mṛtiḥ .. 57 ..
लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् । आत्मानं यो न बुद्ध्येत न क्वचिन् शममाप्नुयात् ॥ ५८ ॥
लब्ध्वा इह मानुषीम् योनिम् ज्ञान-विज्ञान-सम्भवाम् । आत्मानम् यः न बुद्ध्येत न क्वचिद् शमम् आप्नुयात् ॥ ५८ ॥
labdhvā iha mānuṣīm yonim jñāna-vijñāna-sambhavām . ātmānam yaḥ na buddhyeta na kvacid śamam āpnuyāt .. 58 ..
स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् । अभयं चाप्यनीहायां सङ्कल्पाद् विरमेत्कविः ॥ ५९ ॥
स्मृत्वा इहायाम् परिक्लेशम् ततस् फल-विपर्ययम् । अभयम् च अपि अनीहायाम् सङ्कल्पात् विरमेत् कविः ॥ ५९ ॥
smṛtvā ihāyām parikleśam tatas phala-viparyayam . abhayam ca api anīhāyām saṅkalpāt viramet kaviḥ .. 59 ..
सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः । ततोऽनिवृत्तिः अप्राप्तिः दुखस्य च सुखस्य च ॥ ६० ॥
सुखाय दुःख-मोक्षाय कुर्वाते दम्पती क्रियाः । ततस् अनिवृत्तिः अप्राप्तिः दुखस्य च सुखस्य च ॥ ६० ॥
sukhāya duḥkha-mokṣāya kurvāte dampatī kriyāḥ . tatas anivṛttiḥ aprāptiḥ dukhasya ca sukhasya ca .. 60 ..
एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् । आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥ ६१ ॥
एवम् विपर्ययम् बुद्ध्वा नृणाम् विज्ञ-अभिमानिनाम् । आत्मनः च गतिम् सूक्ष्माम् स्थान-त्रय-विलक्षणाम् ॥ ६१ ॥
evam viparyayam buddhvā nṛṇām vijña-abhimāninām . ātmanaḥ ca gatim sūkṣmām sthāna-traya-vilakṣaṇām .. 61 ..
दृष्टश्रुताभिर्मात्राभिः निर्मुक्तः स्वेन तेजसा । ज्ञानविज्ञानसन्तृप्तो मद्भक्तः पुरुषो भवेत् ॥ ६२ ॥
दृष्ट-श्रुताभिः मात्राभिः निर्मुक्तः स्वेन तेजसा । ज्ञान-विज्ञान-सन्तृप्तः मद्-भक्तः पुरुषः भवेत् ॥ ६२ ॥
dṛṣṭa-śrutābhiḥ mātrābhiḥ nirmuktaḥ svena tejasā . jñāna-vijñāna-santṛptaḥ mad-bhaktaḥ puruṣaḥ bhavet .. 62 ..
एतावानेव मनुजैः योगनैपुण्यबुद्धिभिः । स्वार्थः सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् ॥ ६३ ॥
एतावान् एव मनुजैः योग-नैपुण्य-बुद्धिभिः । स्वार्थः सर्व-आत्मना ज्ञेयः यत् परात्म-एक-दर्शनम् ॥ ६३ ॥
etāvān eva manujaiḥ yoga-naipuṇya-buddhibhiḥ . svārthaḥ sarva-ātmanā jñeyaḥ yat parātma-eka-darśanam .. 63 ..
त्वमेतच्छ्रद्धया राजन् अप्रमत्तो वचो मम । ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि ॥ ६४ ॥
त्वम् एतत् श्रद्धया राजन् अप्रमत्तः वचः मम । ज्ञान-विज्ञान-सम्पन्नः धारयन् आशु सिध्यसि ॥ ६४ ॥
tvam etat śraddhayā rājan apramattaḥ vacaḥ mama . jñāna-vijñāna-sampannaḥ dhārayan āśu sidhyasi .. 64 ..
श्रीशुक उवाच -
आश्वास्य भगवानित्थं चित्रकेतुं जगद्गुरुः । पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः ॥ ६५ ॥
आश्वास्य भगवान् इत्थम् चित्रकेतुम् जगद्गुरुः । पश्यतः तस्य विश्वात्मा ततस् च अन्तर्दधे हरिः ॥ ६५ ॥
āśvāsya bhagavān ittham citraketum jagadguruḥ . paśyataḥ tasya viśvātmā tatas ca antardadhe hariḥ .. 65 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतोः परमात्मदर्शनं नाम षोडशोऽध्यायः ॥ १६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे चित्रकेतोः परमात्मदर्शनम् नाम षोडशः अध्यायः ॥ १६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe citraketoḥ paramātmadarśanam nāma ṣoḍaśaḥ adhyāyaḥ .. 16 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In