| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम् । अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् १ ।
पृश्निः तु पत्नी सवितुः सावित्रीम् व्याहृतिम् त्रयीम् । अग्निहोत्रम् पशुम् सोमम् चातुर्मास्यम् महा-मखान् ।
pṛśniḥ tu patnī savituḥ sāvitrīm vyāhṛtim trayīm . agnihotram paśum somam cāturmāsyam mahā-makhān .
सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् । आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् २ ।
सिद्धिः भगस्य भार्या अङ्ग महिमानम् विभुम् प्रभुम् । आशिषम् च वरारोहाम् कन्याम् प्रासूत सुव्रताम् ।
siddhiḥ bhagasya bhāryā aṅga mahimānam vibhum prabhum . āśiṣam ca varārohām kanyām prāsūta suvratām .
धातुः कुहूः सिनीवाली राका चानुमतिस्तथा । सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् ३ ।
धातुः कुहूः सिनीवाली राका च अनुमतिः तथा । सायम् दर्शम् अथ प्रातर् पूर्णमासम् अनुक्रमात् ।
dhātuḥ kuhūḥ sinīvālī rākā ca anumatiḥ tathā . sāyam darśam atha prātar pūrṇamāsam anukramāt .
अग्नीन्पुरीष्यानाधत्त क्रियायां समनन्तरः । चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः ४ ।
अग्नीन् पुरीष्यान् आधत्त क्रियायाम् समनन्तरः । चर्षणी वरुणस्य आसीत् यस्याम् जातः भृगुः पुनर् ।
agnīn purīṣyān ādhatta kriyāyām samanantaraḥ . carṣaṇī varuṇasya āsīt yasyām jātaḥ bhṛguḥ punar .
वाल्मीकिश्च महायोगी वल्मीकादभवत्किल । अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोरृषी ५ ।
वाल्मीकिः च महा-योगी वल्मीकात् अभवत् किल । अगस्त्यः च वसिष्ठः च मित्रावरुणयोः ऋषी ।
vālmīkiḥ ca mahā-yogī valmīkāt abhavat kila . agastyaḥ ca vasiṣṭhaḥ ca mitrāvaruṇayoḥ ṛṣī .
रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् । रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् ६ ।
रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् । रेवत्याम् मित्रः उत्सर्गम् अरिष्टम् पिप्पलम् व्यधात् ।
retaḥ siṣicatuḥ kumbhe urvaśyāḥ sannidhau drutam . revatyām mitraḥ utsargam ariṣṭam pippalam vyadhāt .
पौलोम्यामिन्द्र आधत्त त्रीन्पुत्रानिति नः श्रुतम् । जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः ७ ।
पौलोम्याम् इन्द्रः आधत्त त्रीन् पुत्रान् इति नः श्रुतम् । जयन्तम् ऋषभम् तात तृतीयम् मीढुषम् प्रभुः ।
paulomyām indraḥ ādhatta trīn putrān iti naḥ śrutam . jayantam ṛṣabham tāta tṛtīyam mīḍhuṣam prabhuḥ .
उरुक्रमस्य देवस्य मायावामनरूपिणः । कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन्सौभगादयः ८ ।
उरुक्रमस्य देवस्य माया-वामन-रूपिणः । कीर्तौ पत्न्याम् बृहच्छ्लोकः तस्य आसन् सौभग-आदयः ।
urukramasya devasya māyā-vāmana-rūpiṇaḥ . kīrtau patnyām bṛhacchlokaḥ tasya āsan saubhaga-ādayaḥ .
तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः । पश्चाद्वक्ष्यामहेऽदित्यां यथैवावततार ह ९ ।
तद्-कर्म-गुण-वीर्याणि काश्यपस्य महात्मनः । पश्चात् वक्ष्यामहे अदित्याम् यथा एव अवततार ह ।
tad-karma-guṇa-vīryāṇi kāśyapasya mahātmanaḥ . paścāt vakṣyāmahe adityām yathā eva avatatāra ha .
अथ कश्यपदायादान्दैतेयान्कीर्तयामि ते । यत्र भागवतः श्रीमान्प्रह्रादो बलिरेव च १० ।
अथ कश्यप-दायादान् दैतेयान् कीर्तयामि ते । यत्र भागवतः श्रीमान् प्रह्रादः बलिः एव च ।
atha kaśyapa-dāyādān daiteyān kīrtayāmi te . yatra bhāgavataḥ śrīmān prahrādaḥ baliḥ eva ca .
दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ । हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ ११ ।
दितेः द्वौ एव दायादौ दैत्य-दानव-वन्दितौ । हिरण्यकशिपुः नाम हिरण्याक्षः च कीर्तितौ ।
diteḥ dvau eva dāyādau daitya-dānava-vanditau . hiraṇyakaśipuḥ nāma hiraṇyākṣaḥ ca kīrtitau .
हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी । जम्भस्य तनया सा तु सुषुवे चतुरः सुतान् १२ ।
हिरण्यकशिपोः भार्या कयाधुः नाम दानवी । जम्भस्य तनया सा तु सुषुवे चतुरः सुतान् ।
hiraṇyakaśipoḥ bhāryā kayādhuḥ nāma dānavī . jambhasya tanayā sā tu suṣuve caturaḥ sutān .
संह्रादं प्रागनुह्रादं ह्रादं प्रह्रादमेव च । तत्स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत् १३ ।
संह्रादम् प्राक्-अनुह्रादम् ह्रादम् प्रह्रादम् एव च । तद्-स्वसा सिंहिका नाम राहुम् विप्रचितः अग्रहीत् ।
saṃhrādam prāk-anuhrādam hrādam prahrādam eva ca . tad-svasā siṃhikā nāma rāhum vipracitaḥ agrahīt .
शिरोऽहरद्यस्य हरिश्चक्रेण पिबतोऽमृतम् । संह्रादस्य कृतिर्भार्या सूत पञ्चजनं ततः १४ ।
शिरः अहरत् यस्य हरिः चक्रेण पिबतः अमृतम् । संह्रादस्य कृतिः भार्या सूत पञ्चजनम् ततस् ।
śiraḥ aharat yasya hariḥ cakreṇa pibataḥ amṛtam . saṃhrādasya kṛtiḥ bhāryā sūta pañcajanam tatas .
ह्रादस्य धमनिर्भार्या सूत वातापिमिल्वलम् । योऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः १५ ।
ह्रादस्य धमनिः भार्या सूत । यः अगस्त्याय तु अतिथये पेचे वातापिमिल्वलः ।
hrādasya dhamaniḥ bhāryā sūta . yaḥ agastyāya tu atithaye pece vātāpimilvalaḥ .
अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा । विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद्बलिः १६ ।
अनुह्रादस्य सूर्यायाम् बाष्कलः महिषः तथा । विरोचनः तु प्राह्रादिः देव्याम् तस्य अभवत् बलिः ।
anuhrādasya sūryāyām bāṣkalaḥ mahiṣaḥ tathā . virocanaḥ tu prāhrādiḥ devyām tasya abhavat baliḥ .
बाणज्येष्ठं पुत्रशतमशनायां ततोऽभवत् । तस्यानुभावं सुश्लोक्यं पश्चादेवाभिधास्यते १७ ।
बाण-ज्येष्ठम् पुत्र-शतम् अशनायाम् ततस् अभवत् । तस्य अनुभावम् सुश्लोक्यम् पश्चात् एव अभिधास्यते ।
bāṇa-jyeṣṭham putra-śatam aśanāyām tatas abhavat . tasya anubhāvam suślokyam paścāt eva abhidhāsyate .
बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम् । यत्पार्श्वे भगवानास्ते ह्यद्यापि पुरपालकः १८ ।
बाणः आराध्य गिरिशम् लेभे तद्-गण-मुख्य-ताम् । यद्-पार्श्वे भगवान् आस्ते हि अद्य अपि पुर-पालकः ।
bāṇaḥ ārādhya giriśam lebhe tad-gaṇa-mukhya-tām . yad-pārśve bhagavān āste hi adya api pura-pālakaḥ .
मरुतश्च दितेः पुत्राश्चत्वारिंशन्नवाधिकाः । त आसन्नप्रजाः सर्वे नीता इन्द्रे ण सात्मताम् १९ ।
मरुतः च दितेः पुत्राः चत्वारिंशत्-नव-अधिकाः । ते आसन्न-प्रजाः सर्वे नीताः इन्द्रे न सात्मताम् ।
marutaḥ ca diteḥ putrāḥ catvāriṃśat-nava-adhikāḥ . te āsanna-prajāḥ sarve nītāḥ indre na sātmatām .
श्रीराजोवाच ।
कथं त आसुरं भावमपोह्यौत्पत्तिकं गुरो । इन्द्रे ण प्रापिताः सात्म्यं किं तत्साधु कृतं हि तैः २० ।
कथम् ते आसुरम् भावम् अपोह्य औत्पत्तिकम् गुरो । प्रापिताः सात्म्यम् किम् तत् साधु कृतम् हि तैः ।
katham te āsuram bhāvam apohya autpattikam guro . prāpitāḥ sātmyam kim tat sādhu kṛtam hi taiḥ .
इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह । परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि २१ ।
इमे श्रद्दधते ब्रह्मन् ऋषयः हि मया सह । परिज्ञानाय भगवन् तत् नः व्याख्यातुम् अर्हसि ।
ime śraddadhate brahman ṛṣayaḥ hi mayā saha . parijñānāya bhagavan tat naḥ vyākhyātum arhasi .
श्रीसूत उवाच ।
तद्विष्णुरातस्य स बादरायणिर्वचो निशम्यादृतमल्पमर्थवत् । सभाजयन्सन्निभृतेन चेतसा जगाद सत्रायण सर्वदर्शनः २२ ।
तत् विष्णुरातस्य स बादरायणिः वचः निशम्य आदृतम् अल्पम् अर्थवत् । सभाजयन् सत्-निभृतेन चेतसा जगाद सत्रायण सर्व-दर्शनः ।
tat viṣṇurātasya sa bādarāyaṇiḥ vacaḥ niśamya ādṛtam alpam arthavat . sabhājayan sat-nibhṛtena cetasā jagāda satrāyaṇa sarva-darśanaḥ .
श्रीशुक उवाच ।
हतपुत्रा दितिः शक्र पार्ष्णिग्राहेण विष्णुना । मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् २३ ।
हत-पुत्रा दितिः शक्र पार्ष्णिग्राहेण विष्णुना । मन्युना शोक-दीप्तेन ज्वलन्ती पर्यचिन्तयत् ।
hata-putrā ditiḥ śakra pārṣṇigrāheṇa viṣṇunā . manyunā śoka-dīptena jvalantī paryacintayat .
कदा नु भ्रातृहन्तारमिन्द्रि याराममुल्बणम् । अक्लिन्नहृदयं पापं घातयित्वा शये सुखम् २४ ।
कदा नु भ्रातृ-हन्तारम् इन्द्रि या आरामम् उल्बणम् । अक्लिन्न-हृदयम् पापम् घातयित्वा शये सुखम् ।
kadā nu bhrātṛ-hantāram indri yā ārāmam ulbaṇam . aklinna-hṛdayam pāpam ghātayitvā śaye sukham .
कृमिविड्भस्मसंज्ञासीद्यस्येशाभिहितस्य च । भूतध्रुक्तत्कृते स्वार्थं किं वेद निरयो यतः २५ ।
कृमि-विष्-भस्म-संज्ञा आसीत् यस्य ईश-अभिहितस्य च । स्व-अर्थम् किम् वेद निरयः यतस् ।
kṛmi-viṣ-bhasma-saṃjñā āsīt yasya īśa-abhihitasya ca . sva-artham kim veda nirayaḥ yatas .
आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः । मदशोषक इन्द्र स्य भूयाद्येन सुतो हि मे २६ ।
आशासानस्य तस्य इदम् ध्रुवम् उन्नद्ध-चेतसः । मद-शोषकः इन्द्र भूयात् येन सुतः हि मे ।
āśāsānasya tasya idam dhruvam unnaddha-cetasaḥ . mada-śoṣakaḥ indra bhūyāt yena sutaḥ hi me .
इति भावेन सा भर्तुराचचारासकृत्प्रियम् । शुश्रूषयानुरागेण प्रश्रयेण दमेन च २७ ।
इति भावेन सा भर्तुः आचचार असकृत् प्रियम् । शुश्रूषया अनुरागेण प्रश्रयेण दमेन च ।
iti bhāvena sā bhartuḥ ācacāra asakṛt priyam . śuśrūṣayā anurāgeṇa praśrayeṇa damena ca .
भक्त्या परमया राजन्मनोज्ञैर्वल्गुभाषितैः । मनो जग्राह भावज्ञा सस्मितापाङ्गवीक्षणैः २८ ।
भक्त्या परमया राजन् मनोज्ञैः वल्गु-भाषितैः । मनः जग्राह भाव-ज्ञा स स्मित-अपाङ्ग-वीक्षणैः ।
bhaktyā paramayā rājan manojñaiḥ valgu-bhāṣitaiḥ . manaḥ jagrāha bhāva-jñā sa smita-apāṅga-vīkṣaṇaiḥ .
एवं स्त्रिया जडीभूतो विद्वानपि मनोज्ञया । बाढमित्याह विवशो न तच्चित्रं हि योषिति २९ ।
एवम् स्त्रिया जडीभूतः विद्वान् अपि मनोज्ञया । बाढम् इति आह विवशः न तत् चित्रम् हि योषिति ।
evam striyā jaḍībhūtaḥ vidvān api manojñayā . bāḍham iti āha vivaśaḥ na tat citram hi yoṣiti .
विलोक्यैकान्तभूतानि भूतान्यादौ प्रजापतिः । स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता ३० ।
विलोक्य एकान्त-भूतानि भूतानि आदौ प्रजापतिः । स्त्रियम् चक्रे स्व-देह-अर्धम् यया पुंसाम् मतिः हृता ।
vilokya ekānta-bhūtāni bhūtāni ādau prajāpatiḥ . striyam cakre sva-deha-ardham yayā puṃsām matiḥ hṛtā .
एवं शुश्रूषितस्तात भगवान्कश्यपः स्त्रिया । प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ३१ ।
एवम् शुश्रूषितः तात भगवान् कश्यपः स्त्रिया । प्रहस्य परम-प्रीतः दितिम् आह अभिनन्द्य च ।
evam śuśrūṣitaḥ tāta bhagavān kaśyapaḥ striyā . prahasya parama-prītaḥ ditim āha abhinandya ca .
श्रीकश्यप उवाच ।
वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते । स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः ३२ ।
वरम् वरय वाम-ऊरु प्रीतः ते अहम् अनिन्दिते । स्त्रियाः भर्तरि सु प्रीते कः कामः इह च आगमः ।
varam varaya vāma-ūru prītaḥ te aham anindite . striyāḥ bhartari su prīte kaḥ kāmaḥ iha ca āgamaḥ .
पतिरेव हि नारीणां दैवतं परमं स्मृतम् । मानसः सर्वभूतानां वासुदेवः श्रियः पतिः ३३ ।
पतिः एव हि नारीणाम् दैवतम् परमम् स्मृतम् । मानसः सर्व-भूतानाम् वासुदेवः श्रियः पतिः ।
patiḥ eva hi nārīṇām daivatam paramam smṛtam . mānasaḥ sarva-bhūtānām vāsudevaḥ śriyaḥ patiḥ .
स एव देवतालिङ्गैर्नामरूपविकल्पितैः । इज्यते भगवान्पुम्भिः स्त्रीभिश्च पतिरूपधृक् ३४ ।
सः एव देवता-लिङ्गैः नाम-रूप-विकल्पितैः । इज्यते भगवान् पुम्भिः स्त्रीभिः च पति-रूपधृक् ।
saḥ eva devatā-liṅgaiḥ nāma-rūpa-vikalpitaiḥ . ijyate bhagavān pumbhiḥ strībhiḥ ca pati-rūpadhṛk .
तस्मात्पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे । यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम् ३५ ।
तस्मात् पतिव्रताः नार्यः श्रेयस्कामाः सुमध्यमे । यजन्ते अनन्य-भावेन पतिम् आत्मानम् ईश्वरम् ।
tasmāt pativratāḥ nāryaḥ śreyaskāmāḥ sumadhyame . yajante ananya-bhāvena patim ātmānam īśvaram .
सोऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तितः । तं ते सम्पादये काममसतीनां सुदुर्लभम् ३६ ।
सः अहम् त्वया अर्चितः भद्रे ईदृश्-भावेन भक्तितः । तम् ते सम्पादये कामम् असतीनाम् सु दुर्लभम् ।
saḥ aham tvayā arcitaḥ bhadre īdṛś-bhāvena bhaktitaḥ . tam te sampādaye kāmam asatīnām su durlabham .
दितिरुवाच ।
वरदो यदि मे ब्रह्मन्पुत्रमिन्द्र हणं वृणे । अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ ३७ ।
वर-दः यदि मे ब्रह्मन् पुत्रम् इन्द्र हणम् वृणे । अमृत्युम् मृत-पुत्रा अहम् येन मे घातितौ सुतौ ।
vara-daḥ yadi me brahman putram indra haṇam vṛṇe . amṛtyum mṛta-putrā aham yena me ghātitau sutau .
निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत । अहो अधर्मः सुमहानद्य मे समुपस्थितः ३८ ।
निशम्य तत् वचः विप्रः विमनाः पर्यतप्यत । अहो अधर्मः सु महान् अद्य मे समुपस्थितः ।
niśamya tat vacaḥ vipraḥ vimanāḥ paryatapyata . aho adharmaḥ su mahān adya me samupasthitaḥ .
अहो अर्थेन्द्रि यारामो योषिन्मय्येह मायया । गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम् ३९ ।
अहो अर्थ-इन्द्रि या आरामः योषित्-मय्या इह मायया । गृहीत-चेताः कृपणः पतिष्ये नरके ध्रुवम् ।
aho artha-indri yā ārāmaḥ yoṣit-mayyā iha māyayā . gṛhīta-cetāḥ kṛpaṇaḥ patiṣye narake dhruvam .
कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावमिह योषितः । धिङ्मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रि यः ४० ।
कः अतिक्रमः अनुवर्तन्त्याः स्वभावम् इह योषितः । धिक् माम् बत अबुधम् स्व-अर्थे यत् अहम् तु अजित-इन्द्रि यः ।
kaḥ atikramaḥ anuvartantyāḥ svabhāvam iha yoṣitaḥ . dhik mām bata abudham sva-arthe yat aham tu ajita-indri yaḥ .
शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् । हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ४१ ।
शरद्-पद्म-उत्सवम् वक्त्रम् वचः च श्रवण-अमृतम् । हृदयम् क्षुर-धारा-आभम् स्त्रीणाम् कः वेद चेष्टितम् ।
śarad-padma-utsavam vaktram vacaḥ ca śravaṇa-amṛtam . hṛdayam kṣura-dhārā-ābham strīṇām kaḥ veda ceṣṭitam .
न हि कश्चित्प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् । पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च ४२ ।
न हि कश्चिद् प्रियः स्त्रीणाम् अञ्जसा स्व-आशिषा आत्मनाम् । पतिम् पुत्रम् भ्रातरम् वा घ्नन्ति अर्थे घातयन्ति च ।
na hi kaścid priyaḥ strīṇām añjasā sva-āśiṣā ātmanām . patim putram bhrātaram vā ghnanti arthe ghātayanti ca .
प्रतिश्रुतं ददामीति वचस्तन्न मृषा भवेत् । वधं नार्हति चेन्द्रो ऽपि तत्रेदमुपकल्पते ४३ ।
प्रतिश्रुतम् ददामि इति वचः तत् न मृषा भवेत् । वधम् ना अर्हति च इन्द्रः अपि तत्र इदम् उपकल्पते ।
pratiśrutam dadāmi iti vacaḥ tat na mṛṣā bhavet . vadham nā arhati ca indraḥ api tatra idam upakalpate .
इति सञ्चिन्त्य भगवान्मारीचः कुरुनन्दन । उवाच किञ्चित्कुपित आत्मानं च विगर्हयन् ४४ ।
इति सञ्चिन्त्य भगवान् मारीचः कुरु-नन्दन । उवाच किञ्चिद् कुपितः आत्मानम् च विगर्हयन् ।
iti sañcintya bhagavān mārīcaḥ kuru-nandana . uvāca kiñcid kupitaḥ ātmānam ca vigarhayan .
श्रीकश्यप उवाच ।
पुत्रस्ते भविता भद्रे इन्द्र हादेवबान्धवः । संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ४५ ।
पुत्रः ते भविता भद्रे इन्द्र हादेव-बान्धवः । संवत्सरम् व्रतम् इदम् यदि अञ्जः धारयिष्यसि ।
putraḥ te bhavitā bhadre indra hādeva-bāndhavaḥ . saṃvatsaram vratam idam yadi añjaḥ dhārayiṣyasi .
दितिरुवाच ।
धारयिष्ये व्रतं ब्रह्मन्ब्रूहि कार्याणि यानि मे । यानि चेह निषिद्धानि न व्रतं घ्नन्ति यान्युत ४६ ।
धारयिष्ये व्रतम् ब्रह्मन् ब्रूहि कार्याणि यानि मे । यानि च इह निषिद्धानि न व्रतम् घ्नन्ति यानि उत ।
dhārayiṣye vratam brahman brūhi kāryāṇi yāni me . yāni ca iha niṣiddhāni na vratam ghnanti yāni uta .
श्रीकश्यप उवाच ।
न हिंस्याद्भूतजातानि न शपेन्नानृतं वदेत् । न छिन्द्यान्नखरोमाणि न स्पृशेद्यदमङ्गलम् ४७ ।
न हिंस्यात् भूत-जातानि न शपेत् न अनृतम् वदेत् । न छिन्द्यात् नख-रोमाणि न स्पृशेत् यत् अमङ्गलम् ।
na hiṃsyāt bhūta-jātāni na śapet na anṛtam vadet . na chindyāt nakha-romāṇi na spṛśet yat amaṅgalam .
नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनैः । न वसीताधौतवासः स्रजं च विधृतां क्वचित् ४८ ।
न अप्सु स्नायात् न कुप्येत न सम्भाषेत दुर्जनैः । न वसीत अधौत-वासः स्रजम् च विधृताम् क्वचिद् ।
na apsu snāyāt na kupyeta na sambhāṣeta durjanaiḥ . na vasīta adhauta-vāsaḥ srajam ca vidhṛtām kvacid .
नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् । भुञ्जीतोदक्यया दृष्टं पिबेन्नाञ्जलिना त्वपः ४९ ।
न उच्छिष्टम् चण्डिका-अन्नम् च स आमिषम् वृषल-आहृतम् । भुञ्जीत उदक्यया दृष्टम् पिबेत् न अञ्जलिना तु अपः ।
na ucchiṣṭam caṇḍikā-annam ca sa āmiṣam vṛṣala-āhṛtam . bhuñjīta udakyayā dṛṣṭam pibet na añjalinā tu apaḥ .
नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा । अनर्चितासंयतवाक्नासंवीता बहिश्चरेत् ५० ।
न उच्छिष्ट-अ स्पृष्ट-सलिला सन्ध्यायाम् मुक्त-मूर्धजा । अन् अर्चित-अ संयत-वाच् न अ संवीता बहिस् चरेत् ।
na ucchiṣṭa-a spṛṣṭa-salilā sandhyāyām mukta-mūrdhajā . an arcita-a saṃyata-vāc na a saṃvītā bahis caret .
नाधौतपादाप्रयता नार्द्र पादा उदक्शिराः । शयीत नापराङ्नान्यैर्न नग्ना न च सन्ध्ययोः ५१ ।
न अ धौत-पाद-अ प्रयताः न आर्द्र-पादाः उदक्-शिराः । शयीत न अपराक् न अन्यैः न नग्ना न च सन्ध्ययोः ।
na a dhauta-pāda-a prayatāḥ na ārdra-pādāḥ udak-śirāḥ . śayīta na aparāk na anyaiḥ na nagnā na ca sandhyayoḥ .
धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता । पूजयेत्प्रातराशात्प्राग्गोविप्राञ्श्रियमच्युतम् ५२ ।
धौत-वासा शुचिः नित्यम् सर्व-मङ्गल-संयुता । पूजयेत् प्रातराशात् प्राक् गो-विप्रान् श्रियम् अच्युतम् ।
dhauta-vāsā śuciḥ nityam sarva-maṅgala-saṃyutā . pūjayet prātarāśāt prāk go-viprān śriyam acyutam .
स्त्रियो वीरवतीश्चार्चेत्स्रग्गन्धबलिमण्डनैः । पतिं चार्च्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम् ५३ ।
स्त्रियः वीरवतीः च अर्चेत् स्रज्-गन्ध-बलि-मण्डनैः । पतिम् च अर्च्य उपतिष्ठेत ध्यायेत् कोष्ठ-गतम् च तम् ।
striyaḥ vīravatīḥ ca arcet sraj-gandha-bali-maṇḍanaiḥ . patim ca arcya upatiṣṭheta dhyāyet koṣṭha-gatam ca tam .
सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम् । धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः ५४ ।
सांवत्सरम् पुंसवनम् व्रतम् एतत् अविप्लुतम् । धारयिष्यसि चेद् तुभ्यम् शक्र-हा भविता सुतः ।
sāṃvatsaram puṃsavanam vratam etat aviplutam . dhārayiṣyasi ced tubhyam śakra-hā bhavitā sutaḥ .
बाढमित्यभ्युपेत्याथ दिती राजन्महामनाः । कश्यपाद्गर्भमाधत्त व्रतं चाञ्जो दधार सा ५५ ।
बाढम् इति अभ्युपेत्य अथ दितिः राजन् महा-मनाः । कश्यपात् गर्भम् आधत्त व्रतम् च अञ्जस् दधार सा ।
bāḍham iti abhyupetya atha ditiḥ rājan mahā-manāḥ . kaśyapāt garbham ādhatta vratam ca añjas dadhāra sā .
मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद । शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत्कविः ५६ ।
मातृष्वसुः अभिप्रायम् इन्द्रः आज्ञाय मानद । शुश्रूषणेन आश्रम-स्थाम् दितिम् पर्यचरत् कविः ।
mātṛṣvasuḥ abhiprāyam indraḥ ājñāya mānada . śuśrūṣaṇena āśrama-sthām ditim paryacarat kaviḥ .
नित्यं वनात्सुमनसः फलमूलसमित्कुशान् । पत्राङ्कुरमृदोऽपश्च काले काल उपाहरत् ५७ ।
नित्यम् वनात् सुमनसः फल-मूल-समिध्-कुशान् । पत्र-अङ्कुर-मृदः अपः च काले काले उपाहरत् ।
nityam vanāt sumanasaḥ phala-mūla-samidh-kuśān . patra-aṅkura-mṛdaḥ apaḥ ca kāle kāle upāharat .
एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप । प्रेप्सुः पर्यचरज्जिह्मो मृगहेव मृगाकृतिः ५८ ।
एवम् तस्याः व्रत-स्थायाः व्रत-छिद्रम् हरिः नृप । प्रेप्सुः पर्यचरत् जिह्मः मृग-हा इव मृग-आकृतिः ।
evam tasyāḥ vrata-sthāyāḥ vrata-chidram hariḥ nṛpa . prepsuḥ paryacarat jihmaḥ mṛga-hā iva mṛga-ākṛtiḥ .
नाध्यगच्छद्व्रतच्छिद्रं तत्परोऽथ महीपते । चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह ५९ ।
न अध्यगच्छत् व्रत-छिद्रम् तद्-परः अथ महीपते । चिन्ताम् तीव्राम् गतः शक्रः केन मे स्यात् शिवम् तु इह ।
na adhyagacchat vrata-chidram tad-paraḥ atha mahīpate . cintām tīvrām gataḥ śakraḥ kena me syāt śivam tu iha .
एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता । अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता ६० ।
एकदा सा तु सन्ध्यायाम् उच्छिष्टा व्रत-कर्शिता । अ स्पृष्ट-वार्य-धौत-अङ्घ्रिः सुष्वाप विधि-मोहिता ।
ekadā sā tu sandhyāyām ucchiṣṭā vrata-karśitā . a spṛṣṭa-vārya-dhauta-aṅghriḥ suṣvāpa vidhi-mohitā .
लब्ध्वा तदन्तरं शक्रो निद्रा पहृतचेतसः । दितेः प्रविष्ट उदरं योगेशो योगमायया ६१ ।
लब्ध्वा तद्-अन्तरम् शक्रः निद्रा अपहृत-चेतसः । दितेः प्रविष्टः उदरम् योगेशः योग-मायया ।
labdhvā tad-antaram śakraḥ nidrā apahṛta-cetasaḥ . diteḥ praviṣṭaḥ udaram yogeśaḥ yoga-māyayā .
चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम् । रुदन्तं सप्तधैकैकं मा रोदीरिति तान्पुनः ६२ ।
चकर्त सप्तधा गर्भम् वज्रेण कनक-प्रभम् । रुदन्तम् सप्तधा एकैकम् मा रोदीः इति तान् पुनर् ।
cakarta saptadhā garbham vajreṇa kanaka-prabham . rudantam saptadhā ekaikam mā rodīḥ iti tān punar .
तमूचुः पाट्यमानास्ते सर्वे प्राञ्जलयो नृप । किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव ६३ ।
तम् ऊचुः पाट्यमानाः ते सर्वे प्राञ्जलयः नृप । किम् नः इन्द्र जिघांससि भ्रातरः मरुतः तव ।
tam ūcuḥ pāṭyamānāḥ te sarve prāñjalayaḥ nṛpa . kim naḥ indra jighāṃsasi bhrātaraḥ marutaḥ tava .
मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः । अनन्यभावान्पार्षदानात्मनो मरुतां गणान् ६४ ।
मा भैष्ट भ्रातरः मह्यम् यूयम् इति आह कौशिकः । अनन्य-भावान् पार्षदान् आत्मनः मरुताम् गणान् ।
mā bhaiṣṭa bhrātaraḥ mahyam yūyam iti āha kauśikaḥ . ananya-bhāvān pārṣadān ātmanaḥ marutām gaṇān .
न ममार दितेर्गर्भः श्रीनिवासानुकम्पया । बहुधा कुलिशक्षुण्णो द्रौ ण्यस्त्रेण यथा भवान् ६५ ।
न ममार दितेः गर्भः श्रीनिवास-अनुकम्पया । बहुधा कुलिश-क्षुण्णः द्रौ णि अस्त्रेण यथा भवान् ।
na mamāra diteḥ garbhaḥ śrīnivāsa-anukampayā . bahudhā kuliśa-kṣuṇṇaḥ drau ṇi astreṇa yathā bhavān .
सकृदिष्ट्वादिपुरुषं पुरुषो याति साम्यताम् । संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः ६६ ।
सकृत् इष्ट्वा आदिपुरुषम् पुरुषः याति साम्य-ताम् । संवत्सरम् किञ्चिद् ऊनम् दित्या यत् हरिः अर्चितः ।
sakṛt iṣṭvā ādipuruṣam puruṣaḥ yāti sāmya-tām . saṃvatsaram kiñcid ūnam dityā yat hariḥ arcitaḥ .
सजूरिन्द्रे ण पञ्चाशद्देवास्ते मरुतोऽभवन् । व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः ६७ ।
सजूस् इन्द्रे पञ्चाशत् देवाः ते मरुतः अभवन् । व्यपोह्य मातृ-दोषम् ते हरिणा सोमपाः कृताः ।
sajūs indre pañcāśat devāḥ te marutaḥ abhavan . vyapohya mātṛ-doṣam te hariṇā somapāḥ kṛtāḥ .
दितिरुत्थाय ददृशे कुमाराननलप्रभान् । इन्द्रे ण सहितान्देवी पर्यतुष्यदनिन्दिता ६८ ।
दितिः उत्थाय ददृशे कुमारान् अनल-प्रभान् । इन्द्रे ण सहितान् देवी पर्यतुष्यत् अनिन्दिता ।
ditiḥ utthāya dadṛśe kumārān anala-prabhān . indre ṇa sahitān devī paryatuṣyat aninditā .
अथेन्द्र माह ताताहमादित्यानां भयावहम् । अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम् ६९ ।
अथ इन्द्र मा आह तात अहम् आदित्यानाम् भय-आवहम् । अपत्यम् इच्छन्ती अचरम् व्रतम् एतत् सु दुष्करम् ।
atha indra mā āha tāta aham ādityānām bhaya-āvaham . apatyam icchantī acaram vratam etat su duṣkaram .
एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन्कथम् । यदि ते विदितं पुत्र सत्यं कथय मा मृषा ७० ।
एकः सङ्कल्पितः पुत्रः सप्त सप्त अभवन् कथम् । यदि ते विदितम् पुत्र सत्यम् कथय मा मृषा ।
ekaḥ saṅkalpitaḥ putraḥ sapta sapta abhavan katham . yadi te viditam putra satyam kathaya mā mṛṣā .
इन्द्र उवाच ।
अम्ब तेऽहं व्यवसितमुपधार्यागतोऽन्तिकम् । लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धिर्न धर्मदृक् ७१ ।
अम्ब ते अहम् व्यवसितम् उपधार्य आगतः अन्तिकम् । लब्ध-अन्तरः अच्छिदम् गर्भम् अर्थबुद्धिः न धर्म-दृश् ।
amba te aham vyavasitam upadhārya āgataḥ antikam . labdha-antaraḥ acchidam garbham arthabuddhiḥ na dharma-dṛś .
कृत्तो मे सप्तधा गर्भ आसन्सप्त कुमारकाः । तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ७२ ।
कृत्तः मे सप्तधा गर्भः आसन् सप्त कुमारकाः । ते अपि च एकैकशस् वृक्णाः सप्तधा न अपि मम्रिरे ।
kṛttaḥ me saptadhā garbhaḥ āsan sapta kumārakāḥ . te api ca ekaikaśas vṛkṇāḥ saptadhā na api mamrire .
ततस्तत्परमाश्चर्यं वीक्ष्य व्यवसितं मया । महापुरुषपूजायाः सिद्धिः काप्यानुषङ्गिणी ७३ ।
ततस् तत् परम-आश्चर्यम् वीक्ष्य व्यवसितम् मया । महापुरुष-पूजायाः सिद्धिः का अपि आनुषङ्गिणी ।
tatas tat parama-āścaryam vīkṣya vyavasitam mayā . mahāpuruṣa-pūjāyāḥ siddhiḥ kā api ānuṣaṅgiṇī .
आराधनं भगवत ईहमाना निराशिषः । ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः ७४ ।
आराधनम् भगवतः ईहमानाः । ये तु न इच्छन्ति अपि परम् ते स्व-अर्थ-कुशलाः स्मृताः ।
ārādhanam bhagavataḥ īhamānāḥ . ye tu na icchanti api param te sva-artha-kuśalāḥ smṛtāḥ .
आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम् । को वृणीत गुणस्पर्शं बुधः स्यान्नरकेऽपि यत् ७५ ।
आराध्य आत्म-प्रदम् देवम् स्वात्मानम् जगत्-ईश्वरम् । कः वृणीत गुण-स्पर्शम् बुधः स्यात् नरके अपि यत् ।
ārādhya ātma-pradam devam svātmānam jagat-īśvaram . kaḥ vṛṇīta guṇa-sparśam budhaḥ syāt narake api yat .
तदिदं मम दौर्जन्यं बालिशस्य महीयसि । क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः ७६ ।
तत् इदम् मम दौर्जन्यम् बालिशस्य महीयसि । क्षन्तुम् अर्हसि मातर् त्वम् दिष्ट्या गर्भः मृत-उत्थितः ।
tat idam mama daurjanyam bāliśasya mahīyasi . kṣantum arhasi mātar tvam diṣṭyā garbhaḥ mṛta-utthitaḥ .
श्रीशुक उवाच ।
इन्द्र स्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया । मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ७७ ।
इन्द्रः स्तया अभ्यनुज्ञातः शुद्ध-भावेन तुष्टया । मरुद्भिः सह ताम् नत्वा जगाम त्रिदिवम् प्रभुः ।
indraḥ stayā abhyanujñātaḥ śuddha-bhāvena tuṣṭayā . marudbhiḥ saha tām natvā jagāma tridivam prabhuḥ .
एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । मङ्गलं मरुतां जन्म किं भूयः कथयामि ते ७८ ।
एवम् ते सर्वम् आख्यातम् यत् माम् त्वम् परिपृच्छसि । मङ्गलम् मरुताम् जन्म किम् भूयस् कथयामि ते ।
evam te sarvam ākhyātam yat mām tvam paripṛcchasi . maṅgalam marutām janma kim bhūyas kathayāmi te .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे मरुदुत्पत्तिकथनं नामाष्टादशोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठ-स्कन्धे मरुदुत्पत्तिकथनम् नाम अष्टादशः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ṣaṣṭha-skandhe marudutpattikathanam nāma aṣṭādaśaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In