| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच ।
प्राजापत्यं तु तत्तेजः परतेजोहनं दितिः । दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् ॥ १ ॥
प्राजापत्यम् तु तत् तेजः पर-तेजः-हनम् दितिः । दधार वर्षाणि शतम् शङ्कमाना सुरार्दनात् ॥ १ ॥
prājāpatyam tu tat tejaḥ para-tejaḥ-hanam ditiḥ . dadhāra varṣāṇi śatam śaṅkamānā surārdanāt .. 1 ..
लोके तेनाहतालोके लोकपाला हतौजसः । न्यवेदयन्विश्वसृजे ध्वान्तव्यतिकरं दिशाम् ॥ २ ॥
लोके तेन आहत-अलोके लोकपालाः हत-ओजसः । न्यवेदयन् विश्वसृजे ध्वान्त-व्यतिकरम् दिशाम् ॥ २ ॥
loke tena āhata-aloke lokapālāḥ hata-ojasaḥ . nyavedayan viśvasṛje dhvānta-vyatikaram diśām .. 2 ..
देवा ऊचुः
तम एतद्विभो वेत्थ संविग्ना यद्वयं भृशम् । न ह्यव्यक्तं भगवतः कालेनास्पृष्टवर्त्मनः ॥ ३ ॥
तमः एतत् विभो वेत्थ संविग्नाः यत् वयम् भृशम् । न हि अव्यक्तम् भगवतः कालेन अ स्पृष्ट-वर्त्मनः ॥ ३ ॥
tamaḥ etat vibho vettha saṃvignāḥ yat vayam bhṛśam . na hi avyaktam bhagavataḥ kālena a spṛṣṭa-vartmanaḥ .. 3 ..
देवदेव जगद्धातः लोकनाथशिखामणे । परेषामपरेषां त्वं भूतानामसि भाववित् ॥ ४ ॥
देवदेव जगद्धातर् लोकनाथ-शिखामणे । परेषाम् अपरेषाम् त्वम् भूतानाम् असि भाव-विद् ॥ ४ ॥
devadeva jagaddhātar lokanātha-śikhāmaṇe . pareṣām apareṣām tvam bhūtānām asi bhāva-vid .. 4 ..
नमो विज्ञानवीर्याय माययेदमुपेयुषे । गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये ॥ ५ ॥
नमः विज्ञान-वीर्याय मायया इदम् उपेयुषे । गृहीत-गुण-भेदाय नमः ते अव्यक्त-योनये ॥ ५ ॥
namaḥ vijñāna-vīryāya māyayā idam upeyuṣe . gṛhīta-guṇa-bhedāya namaḥ te avyakta-yonaye .. 5 ..
ये त्वानन्येन भावेन भावयन्त्यात्मभावनम् । आत्मनि प्रोतभुवनं परं सदसदात्मकम् ॥ ६ ॥
ये त्वा अनन्येन भावेन भावयन्ति आत्म-भावनम् । आत्मनि प्रोत-भुवनम् परम् सदसत्-आत्मकम् ॥ ६ ॥
ye tvā ananyena bhāvena bhāvayanti ātma-bhāvanam . ātmani prota-bhuvanam param sadasat-ātmakam .. 6 ..
तेषां सुपक्वयोगानां जितश्वासेन्द्रियात्मनाम् । लब्धयुष्मत् प्रसादानां न कुतश्चित्पराभवः ॥ ७ ॥
तेषाम् सुपक्व-योगानाम् जित-श्वास-इन्द्रिय-आत्मनाम् । प्रसादानाम् न कुतश्चिद् पराभवः ॥ ७ ॥
teṣām supakva-yogānām jita-śvāsa-indriya-ātmanām . prasādānām na kutaścid parābhavaḥ .. 7 ..
यस्य वाचा प्रजाः सर्वा गावस्तन्त्येव यन्त्रिताः । हरन्ति बलिमायत्ताः तस्मै मुख्याय ते नमः ॥ ८ ॥
यस्य वाचा प्रजाः सर्वाः गावः तन्त्या इव यन्त्रिताः । हरन्ति बलिम् आयत्ताः तस्मै मुख्याय ते नमः ॥ ८ ॥
yasya vācā prajāḥ sarvāḥ gāvaḥ tantyā iva yantritāḥ . haranti balim āyattāḥ tasmai mukhyāya te namaḥ .. 8 ..
स त्वं विधत्स्व शं भूमन् तमसा लुप्तकर्मणाम् । अदभ्रदयया दृष्ट्या आपन्नानर्हसीक्षितुम् ॥ ९ ॥
स त्वम् विधत्स्व शम् भूमन् तमसा लुप्त-कर्मणाम् । अदभ्र-दयया दृष्ट्या आपन्ना अन् अर्हसि ईक्षितुम् ॥ ९ ॥
sa tvam vidhatsva śam bhūman tamasā lupta-karmaṇām . adabhra-dayayā dṛṣṭyā āpannā an arhasi īkṣitum .. 9 ..
एष देव दितेर्गर्भ ओजः काश्यपमर्पितम् । दिशस्तिमिरयन् सर्वा वर्धतेऽग्निरिवैधसि ॥ १० ॥
एष देव दितेः गर्भः ओजः काश्यपम् अर्पितम् । दिशः तिमिरयन् सर्वाः वर्धते अग्निः इव एधसि ॥ १० ॥
eṣa deva diteḥ garbhaḥ ojaḥ kāśyapam arpitam . diśaḥ timirayan sarvāḥ vardhate agniḥ iva edhasi .. 10 ..
मैत्रेय उवाच ।
स प्रहस्य महाबाहो भगवान् शब्दगोचरः । प्रत्याचष्टात्मभूर्देवान् प्रीणन् रुचिरया गिरा ॥ ११ ॥
स प्रहस्य महा-बाहो भगवान् शब्द-गोचरः । प्रत्याचष्ट आत्मभूः देवान् प्रीणन् रुचिरया गिरा ॥ ११ ॥
sa prahasya mahā-bāho bhagavān śabda-gocaraḥ . pratyācaṣṭa ātmabhūḥ devān prīṇan rucirayā girā .. 11 ..
ब्रह्मोवाच ।
मानसा मे सुता युष्मत् पूर्वजाः सनकादयः । चेरुर्विहायसा लोकान् लोकेषु विगतस्पृहाः ॥ १२ ॥
मानसाः मे सुताः युष्मत् पूर्वजाः सनक-आदयः । चेरुः विहायसा लोकान् लोकेषु विगत-स्पृहाः ॥ १२ ॥
mānasāḥ me sutāḥ yuṣmat pūrvajāḥ sanaka-ādayaḥ . ceruḥ vihāyasā lokān lokeṣu vigata-spṛhāḥ .. 12 ..
त एकदा भगवतो वैकुण्ठस्यामलात्मनः । ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम् ॥ १३ ॥
ते एकदा भगवतः वैकुण्ठस्य अमल-आत्मनः । ययुः वैकुण्ठ-निलयम् सर्व-लोक-नमस्कृतम् ॥ १३ ॥
te ekadā bhagavataḥ vaikuṇṭhasya amala-ātmanaḥ . yayuḥ vaikuṇṭha-nilayam sarva-loka-namaskṛtam .. 13 ..
वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः । येऽनिमित्तनिमित्तेन धर्मेणाराधयन् हरिम् ॥ १४ ॥
वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः । ये अनिमित्त-निमित्तेन धर्मेण आराधयन् हरिम् ॥ १४ ॥
vasanti yatra puruṣāḥ sarve vaikuṇṭha-mūrtayaḥ . ye animitta-nimittena dharmeṇa ārādhayan harim .. 14 ..
यत्र चाद्यः पुमानास्ते भगवान् शब्दगोचरः । सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृषः ॥ १५ ॥
यत्र च आद्यः पुमान् आस्ते भगवान् शब्द-गोचरः । सत्त्वम् विष्टभ्य विरजम् स्वानाम् नः मृडयन् वृषः ॥ १५ ॥
yatra ca ādyaḥ pumān āste bhagavān śabda-gocaraḥ . sattvam viṣṭabhya virajam svānām naḥ mṛḍayan vṛṣaḥ .. 15 ..
यत्र नैःश्रेयसं नाम वनं कामदुघैर्द्रुमैः । सर्वर्तुश्रीभिर्विभ्राजत् कैवल्यमिव मूर्तिमत् ॥ १६ ॥
यत्र नैःश्रेयसम् नाम वनम् काम-दुघैः द्रुमैः । सर्व-ऋतु-श्रीभिः विभ्राजत् कैवल्यम् इव मूर्तिमत् ॥ १६ ॥
yatra naiḥśreyasam nāma vanam kāma-dughaiḥ drumaiḥ . sarva-ṛtu-śrībhiḥ vibhrājat kaivalyam iva mūrtimat .. 16 ..
वैमानिकाः सललनाश्चरितानि यत्र । गायन्ति लोकशमलक्षपणानि भर्तुः । अन्तर्जलेऽनुविकसन् मधुमाधवीनां । गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्तः ॥ १७ ॥
वैमानिकाः यत्र । गायन्ति लोक-शमल-क्षपणानि भर्तुः । अन्तर् जले अनुविकसन् मधु-माधवीनाम् । गन्धेन खण्डित-धियः अपि अनिलम् क्षिपन्तः ॥ १७ ॥
vaimānikāḥ yatra . gāyanti loka-śamala-kṣapaṇāni bhartuḥ . antar jale anuvikasan madhu-mādhavīnām . gandhena khaṇḍita-dhiyaḥ api anilam kṣipantaḥ .. 17 ..
पारावतान्यभृतसारसचक्रवाक । दात्यूहहंसशुकतित्तिरिबर्हिणां यः । कोलाहलो विरमतेऽचिरमात्रमुच्चैः । भृङ्गाधिपे हरिकथामिव गायमाने ॥ १८ ॥
पारावत-अन्यभृत-सारस-चक्रवाक । दात्यूह-हंस-शुक-तित्तिरि-बर्हिणाम् यः । कोलाहलः विरमते अचिर-मात्रम् उच्चैस् । भृङ्ग-अधिपे हरि-कथाम् इव गायमाने ॥ १८ ॥
pārāvata-anyabhṛta-sārasa-cakravāka . dātyūha-haṃsa-śuka-tittiri-barhiṇām yaḥ . kolāhalaḥ viramate acira-mātram uccais . bhṛṅga-adhipe hari-kathām iva gāyamāne .. 18 ..
मन्दारकुन्दकुरबोत्पलचम्पकार्ण । पुन्नागनागबकुलाम्बुजपारिजाताः । गन्धेऽर्चिते तुलसिकाभरणेन तस्या । यस्मिंस्तपः सुमनसो बहु मानयन्ति ॥ १९ ॥
मन्दार-कुन्द-कुरब-उत्पल-चम्पक-अर्ण । पुन्नाग-नाग-बकुल-अम्बुज-पारिजाताः । गन्धे अर्चिते तुलसिका-आभरणेन तस्या । यस्मिन् तपः सुमनसः बहु मानयन्ति ॥ १९ ॥
mandāra-kunda-kuraba-utpala-campaka-arṇa . punnāga-nāga-bakula-ambuja-pārijātāḥ . gandhe arcite tulasikā-ābharaṇena tasyā . yasmin tapaḥ sumanasaḥ bahu mānayanti .. 19 ..
यत्सङ्कुलं हरिपदानतिमात्रदृष्टैः । वैदूर्यमारकतहेममयैर्विमानैः । येषां बृहत्कटितटाः स्मितशोभिमुख्यः । कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः ॥ २० ॥
यत् सङ्कुलम् हरि-पद-आनति-मात्र-दृष्टैः । वैदूर्य-मारकत-हेम-मयैः विमानैः । येषाम् बृहत्-कटि-तटाः स्मित-शोभि-मुख्यः । कृष्ण-आत्मनाम् न रजः आदधुः उत्स्मय-आद्यैः ॥ २० ॥
yat saṅkulam hari-pada-ānati-mātra-dṛṣṭaiḥ . vaidūrya-mārakata-hema-mayaiḥ vimānaiḥ . yeṣām bṛhat-kaṭi-taṭāḥ smita-śobhi-mukhyaḥ . kṛṣṇa-ātmanām na rajaḥ ādadhuḥ utsmaya-ādyaiḥ .. 20 ..
श्री रूपिणी क्वणयती चरणारविन्दं । लीलाम्बुजेन हरिसद्मनि मुक्तदोषा । संलक्ष्यते स्फटिककुड्य उपेतहेम्नि । सम्मार्जतीव यदनुग्रहणेऽन्ययत्नः ॥ २१ ॥
श्री रूपिणी क्वणयती चरण-अरविन्दम् । लीला-अम्बुजेन हरि-सद्मनि मुक्त-दोषा । संलक्ष्यते स्फटिक-कुड्ये उपेत-हेम्नि । सम्मार्जति इव यत् अनुग्रहणे अन्य-यत्नः ॥ २१ ॥
śrī rūpiṇī kvaṇayatī caraṇa-aravindam . līlā-ambujena hari-sadmani mukta-doṣā . saṃlakṣyate sphaṭika-kuḍye upeta-hemni . sammārjati iva yat anugrahaṇe anya-yatnaḥ .. 21 ..
वापीषु विद्रुमतटास्वमलामृताप्सु । प्रेष्यान्विता निजवने तुलसीभिरीशम् । अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्रम् । उच्छेषितं भगवतेत्यमताङ्ग यच्छ्रीः ॥ २२ ॥
वापीषु विद्रुम-तटासु अमल-अमृत-अप्सु । प्रेष्य-अन्विताः निज-वने तुलसीभिः ईशम् । अभ्यर्चती सु अलकम् उन्नसम् ईक्ष्य वक्त्रम् । उच्छेषितम् भगवता इति अमत अङ्ग यत् श्रीः ॥ २२ ॥
vāpīṣu vidruma-taṭāsu amala-amṛta-apsu . preṣya-anvitāḥ nija-vane tulasībhiḥ īśam . abhyarcatī su alakam unnasam īkṣya vaktram . uccheṣitam bhagavatā iti amata aṅga yat śrīḥ .. 22 ..
यन्न व्रजन्त्यघभिदो रचनानुवादात् । श्रृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः । यास्तु श्रुता हतभगैर्नृभिरात्तसारान् । तांस्तान् क्षिपन्त्यशरणेषु तमःसु हन्त ॥ २३ ॥
यत् न व्रजन्ति अघ-भिदः रचना-अनुवादात् । श्रृण्वन्ति ये अन्य-विषयाः कुकथाः मति-घ्नीः । याः तु श्रुता हत-भगैः नृभिः आत्त-सारान् । तान् तान् क्षिपन्ति अशरणेषु तमःसु हन्त ॥ २३ ॥
yat na vrajanti agha-bhidaḥ racanā-anuvādāt . śrṛṇvanti ye anya-viṣayāḥ kukathāḥ mati-ghnīḥ . yāḥ tu śrutā hata-bhagaiḥ nṛbhiḥ ātta-sārān . tān tān kṣipanti aśaraṇeṣu tamaḥsu hanta .. 23 ..
येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना । ज्ञानं च तत्त्वविषयं सहधर्मं यत्र । नाराधनं भगवतो वितरन्त्यमुष्य । सम्मोहिता विततया बत मायया ते ॥ २४ ॥
ये अभ्यर्थिताम् अपि च नः नृ-गतिम् प्रपन्ना । ज्ञानम् च तत्त्व-विषयम् सह धर्मम् यत्र । न आराधनम् भगवतः वितरन्ति अमुष्य । सम्मोहिताः विततया बत मायया ते ॥ २४ ॥
ye abhyarthitām api ca naḥ nṛ-gatim prapannā . jñānam ca tattva-viṣayam saha dharmam yatra . na ārādhanam bhagavataḥ vitaranti amuṣya . sammohitāḥ vitatayā bata māyayā te .. 24 ..
यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या । दूरे यमा ह्युपरि नः स्पृहणीयशीलाः । भर्तुर्मिथः सुयशसः कथनानुराग । वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः ॥ २५ ॥
यत् च व्रजन्ती अनिमिषाम् ऋषभ-अनुवृत्त्या । दूरे यमाः हि उपरि नः स्पृहणीय-शीलाः । भर्तुः मिथस् सु यशसः कथन-अनुराग । वैक्लव्य-बाष्प-कलया पुलकीकृत-अङ्गाः ॥ २५ ॥
yat ca vrajantī animiṣām ṛṣabha-anuvṛttyā . dūre yamāḥ hi upari naḥ spṛhaṇīya-śīlāḥ . bhartuḥ mithas su yaśasaḥ kathana-anurāga . vaiklavya-bāṣpa-kalayā pulakīkṛta-aṅgāḥ .. 25 ..
तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं । दिव्यं विचित्रविबुधाग्र्यविमानशोचिः । आपुः परां मुदमपूर्वमुपेत्य योग । मायाबलेन मुनयस्तदथो विकुण्ठम् ॥ २६ ॥
तत् विश्व-गुरु-अधिकृतम् भुवन-एक-वन्द्यम् । दिव्यम् विचित्र-विबुध-अग्र्य-विमान-शोचिः । आपुः पराम् मुदम् अपूर्वम् उपेत्य योग । माया-बलेन मुनयः तत् अथो विकुण्ठम् ॥ २६ ॥
tat viśva-guru-adhikṛtam bhuvana-eka-vandyam . divyam vicitra-vibudha-agrya-vimāna-śociḥ . āpuḥ parām mudam apūrvam upetya yoga . māyā-balena munayaḥ tat atho vikuṇṭham .. 26 ..
तस्मिन्नतीत्य मुनयः षडसज्जमानाः । कक्षाः समानवयसावथ सप्तमायाम् । देवावचक्षत गृहीतगदौ परार्ध्य । केयूरकुण्डलकिरीटविटङ्कवेषौ ॥ २७ ॥
तस्मिन् अतीत्य मुनयः षट् असज्जमानाः । कक्षाः समान-वयसौ अथ सप्त-मायाम् । देव अवचक्षत गृहीत-गदौ परार्ध्य । केयूर-कुण्डल-किरीट-विटङ्क-वेषौ ॥ २७ ॥
tasmin atītya munayaḥ ṣaṭ asajjamānāḥ . kakṣāḥ samāna-vayasau atha sapta-māyām . deva avacakṣata gṛhīta-gadau parārdhya . keyūra-kuṇḍala-kirīṭa-viṭaṅka-veṣau .. 27 ..
मत्तद्विरेफवनमालिकया निवीतौ । विन्यस्तयासितचतुष्टयबाहुमध्ये । वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां । रक्तेक्षणेन च मनाग्रभसं दधानौ ॥ २८ ॥
मत्त-द्विरेफ-वनमालिकया निवीतौ । विन्यस्त-यासित-चतुष्टय-बाहु-मध्ये । वक्त्रम् भ्रुवा कुटिलया स्फुट-निर्गमाभ्याम् । रक्त-ईक्षणेन च मनाक् रभसम् दधानौ ॥ २८ ॥
matta-dvirepha-vanamālikayā nivītau . vinyasta-yāsita-catuṣṭaya-bāhu-madhye . vaktram bhruvā kuṭilayā sphuṭa-nirgamābhyām . rakta-īkṣaṇena ca manāk rabhasam dadhānau .. 28 ..
द्वार्येतयोर्निविविशुर्मिषतोरपृष्ट्वा । पूर्वा यथा पुरटवज्रकपाटिका याः । सर्वत्र तेऽविषमया मुनयः स्वदृष्ट्या । ये सञ्चरन्त्यविहता विगताभिशङ्काः ॥ २९ ॥
द्वारि एतयोः निविविशुः मिषतोः अ पृष्ट्वा । पूर्वाः यथा पुरट-वज्र-कपाटिकाः याः । सर्वत्र ते अविषमया मुनयः स्व-दृष्ट्या । ये सञ्चरन्ति अविहताः विगत-अभिशङ्काः ॥ २९ ॥
dvāri etayoḥ niviviśuḥ miṣatoḥ a pṛṣṭvā . pūrvāḥ yathā puraṭa-vajra-kapāṭikāḥ yāḥ . sarvatra te aviṣamayā munayaḥ sva-dṛṣṭyā . ye sañcaranti avihatāḥ vigata-abhiśaṅkāḥ .. 29 ..
तान्वीक्ष्य वातरशनांश्चतुरः कुमारान् । वृद्धान्दशार्धवयसो विदितात्मतत्त्वान् । वेत्रेण चास्खलयतामतदर्हणांस्तौ । तेजो विहस्य भगवत् प्रतिकूलशीलौ ॥ ३० ॥
तान् वीक्ष्य वात-रशनान् चतुरः कुमारान् । वृद्धान् दशार्ध-वयसः विदित-आत्म-तत्त्वान् । वेत्रेण च अस्खलयताम् अतदर्हणान् तौ । तेजः विहस्य भगवत् प्रतिकूल-शीलौ ॥ ३० ॥
tān vīkṣya vāta-raśanān caturaḥ kumārān . vṛddhān daśārdha-vayasaḥ vidita-ātma-tattvān . vetreṇa ca askhalayatām atadarhaṇān tau . tejaḥ vihasya bhagavat pratikūla-śīlau .. 30 ..
ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाः । स्वर्हत्तमा ह्यपि हरेः प्रतिहारपाभ्याम् । ऊचुः सुहृत्तमदिदृक्षितभङ्ग ईषत् । कामानुजेन सहसा त उपप्लुताक्षाः ॥ ३१ ॥
ताभ्याम् मिषत्सु अनिमिषेषु निषिध्यमानाः । स्वर्हत्तमाः हि अपि हरेः प्रतिहार-पाभ्याम् । ऊचुः सुहृत्तम-दिदृक्षित-भङ्गे ईषत् । काम-अनुजेन सहसा ते उपप्लुत-अक्षाः ॥ ३१ ॥
tābhyām miṣatsu animiṣeṣu niṣidhyamānāḥ . svarhattamāḥ hi api hareḥ pratihāra-pābhyām . ūcuḥ suhṛttama-didṛkṣita-bhaṅge īṣat . kāma-anujena sahasā te upapluta-akṣāḥ .. 31 ..
मुनय ऊचुः ।
को वामिहैत्य भगवत् परिचर्ययोच्चैः । तद्धर्मिणां निवसतां विषमः स्वभावः । तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां । को वात्मवत् कुहकयोः परिशङ्कनीयः ॥ ३२ ॥
कः वाम् इह एत्य भगवत् परिचर्यया उच्चैस् । तद्-धर्मिणाम् निवसताम् विषमः स्वभावः । तस्मिन् प्रशान्त-पुरुषे गत-विग्रहे वाम् । कः वा आत्म-वत् कुहकयोः परिशङ्कनीयः ॥ ३२ ॥
kaḥ vām iha etya bhagavat paricaryayā uccais . tad-dharmiṇām nivasatām viṣamaḥ svabhāvaḥ . tasmin praśānta-puruṣe gata-vigrahe vām . kaḥ vā ātma-vat kuhakayoḥ pariśaṅkanīyaḥ .. 32 ..
न ह्यन्तरं भगवतीह समस्तकुक्षौ । आत्मानमात्मनि नभो नभसीव धीराः । पश्यन्ति यत्र युवयोः सुरलिङ्गिनोः किं । व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥ ३३ ॥
न हि अन्तरम् भगवति इह समस्त-कुक्षौ । आत्मानम् आत्मनि नभः नभसि इव धीराः । पश्यन्ति यत्र युवयोः सुर-लिङ्गिनोः किम् । व्युत्पादितम् हि उदर-भेदि भयम् यतस् अस्य ॥ ३३ ॥
na hi antaram bhagavati iha samasta-kukṣau . ātmānam ātmani nabhaḥ nabhasi iva dhīrāḥ . paśyanti yatra yuvayoḥ sura-liṅginoḥ kim . vyutpāditam hi udara-bhedi bhayam yatas asya .. 33 ..
तद्वाममुष्य परमस्य विकुण्ठभर्तुः । कर्तुं प्रकृष्टमिह धीमहि मन्दधीभ्याम् । लोकानितो व्रजतमन्तरभावदृष्ट्या । पापीयसस्त्रय इमे रिपवोऽस्य यत्र ॥ ३४ ॥
तत् वाम् अमुष्य परमस्य विकुण्ठ-भर्तुः । कर्तुम् प्रकृष्टम् इह धीमहि मन्द-धीभ्याम् । लोकान् इतस् व्रजतम् अन्तर-भाव-दृष्ट्या । पापीयसः त्रयः इमे रिपवः अस्य यत्र ॥ ३४ ॥
tat vām amuṣya paramasya vikuṇṭha-bhartuḥ . kartum prakṛṣṭam iha dhīmahi manda-dhībhyām . lokān itas vrajatam antara-bhāva-dṛṣṭyā . pāpīyasaḥ trayaḥ ime ripavaḥ asya yatra .. 34 ..
तेषामितीरितमुभाववधार्य घोरं । तं ब्रह्मदण्डमनिवारणमस्त्रपूगैः । सद्यो हरेरनुचरावुरु बिभ्यतस्तत् । पादग्रहावपततामतिकातरेण ॥ ३५ ॥
तेषाम् इति ईरितम् उभौ अवधार्य घोरम् । तम् ब्रह्मदण्डम् अनिवारणम् अस्त्र-पूगैः । सद्यस् हरेः अनुचरौ उरु बिभ्यतः तत् । पाद-ग्रहौ अपतताम् अति कातरेण ॥ ३५ ॥
teṣām iti īritam ubhau avadhārya ghoram . tam brahmadaṇḍam anivāraṇam astra-pūgaiḥ . sadyas hareḥ anucarau uru bibhyataḥ tat . pāda-grahau apatatām ati kātareṇa .. 35 ..
भूयादघोनि भगवद्भिरकारि दण्डो । यो नौ हरेत सुरहेलनमप्यशेषम् । मा वोऽनुतापकलया भगवत्स्मृतिघ्नो । मोहो भवेदिह तु नौ व्रजतोरधोऽधः ॥ ३६ ॥
भूयात् अघोनि भगवद्भिः अकारि दण्डः । यः नौ हरेत सुर-हेलनम् अपि अशेषम् । मा वः अनुताप-कलया भगवत्-स्मृति-घ्नो । मोहः भवेत् इह तु नौ व्रजतोः अधस् अधस् ॥ ३६ ॥
bhūyāt aghoni bhagavadbhiḥ akāri daṇḍaḥ . yaḥ nau hareta sura-helanam api aśeṣam . mā vaḥ anutāpa-kalayā bhagavat-smṛti-ghno . mohaḥ bhavet iha tu nau vrajatoḥ adhas adhas .. 36 ..
एवं तदैव भगवान् अरविन्दनाभः । स्वानां विबुध्य सदतिक्रममार्यहृद्यः । तस्मिन् ययौ परमहंसमहामुनीनाम् । अन्वेषणीयचरणौ चलयन् सहश्रीः ॥ ३७ ॥
एवम् तदा एव भगवान् अरविन्दनाभः । स्वानाम् विबुध्य सत्-अतिक्रमम् आर्य-हृद्यः । तस्मिन् ययौ परमहंस-महा-मुनीनाम् । अन्वेषणीय-चरणौ चलयन् सह श्रीः ॥ ३७ ॥
evam tadā eva bhagavān aravindanābhaḥ . svānām vibudhya sat-atikramam ārya-hṛdyaḥ . tasmin yayau paramahaṃsa-mahā-munīnām . anveṣaṇīya-caraṇau calayan saha śrīḥ .. 37 ..
तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भिः । तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम् । हंसश्रियोर्व्यजनयोः शिववायुलोलः । शुभ्रातपत्रशशिकेसरशीकराम्बुम् ॥ ३८ ॥
तम् तु आगतम् प्रतिहृत-औपयिकम् स्व-पुम्भिः । ते अचक्षत अक्ष-विषयम् स्व-समाधि-भाग्यम् । हंस-श्रियोः व्यजनयोः शिव-वायु-लोलः । शुभ्र-आतपत्र-शशि-केसर-शीकर-अम्बुम् ॥ ३८ ॥
tam tu āgatam pratihṛta-aupayikam sva-pumbhiḥ . te acakṣata akṣa-viṣayam sva-samādhi-bhāgyam . haṃsa-śriyoḥ vyajanayoḥ śiva-vāyu-lolaḥ . śubhra-ātapatra-śaśi-kesara-śīkara-ambum .. 38 ..
कृत्स्नप्रसादसुमुखं स्पृहणीयधाम । स्नेहावलोककलया हृदि संस्पृशन्तम् । श्यामे पृथावुरसि शोभितया श्रिया स्वः । चूडामणिं सुभगयन्तमिवात्मधिष्ण्यम् ॥ ३९ ॥
कृत्स्न-प्रसाद-सुमुखम् स्पृहणीय-धाम । स्नेह-अवलोक-कलया हृदि संस्पृशन्तम् । श्यामे पृथौ उरसि शोभितया श्रिया स्वर् । चूडामणिम् सुभगयन्तम् इव आत्म-धिष्ण्यम् ॥ ३९ ॥
kṛtsna-prasāda-sumukham spṛhaṇīya-dhāma . sneha-avaloka-kalayā hṛdi saṃspṛśantam . śyāme pṛthau urasi śobhitayā śriyā svar . cūḍāmaṇim subhagayantam iva ātma-dhiṣṇyam .. 39 ..
पीतांशुके पृथुनितम्बिनि विस्फुरन्त्या । काञ्च्यालिभिर्विरुतया वनमालया च । वल्गुप्रकोष्ठवलयं विनतासुतांसे । विन्यस्तहस्तमितरेण धुनानमब्जम् ॥ ४० ॥
पीत-अंशुके पृथु-नितम्बिनि विस्फुरन्त्या । काञ्च्यालिभिः विरुतया वनमालया च । वल्गु-प्रकोष्ठ-वलयम् विनतासुत-अंसे । विन्यस्त-हस्तम् इतरेण धुनानम् अब्जम् ॥ ४० ॥
pīta-aṃśuke pṛthu-nitambini visphurantyā . kāñcyālibhiḥ virutayā vanamālayā ca . valgu-prakoṣṭha-valayam vinatāsuta-aṃse . vinyasta-hastam itareṇa dhunānam abjam .. 40 ..
विद्युत्क्षिपन् मकरकुण्डलमण्डनार्ह । गण्डस्थलोन्नसमुखं मणिमत्किरीटम् । दोर्दण्डषण्डविवरे हरता परार्ध्य । हारेण कन्धरगतेन च कौस्तुभेन ॥ ४१ ॥
विद्युत्-क्षिपन् मकर-कुण्डल-मण्डन-अर्ह । गण्ड-स्थल-उन्नस-मुखम् मणिमत्-किरीटम् । दोर्दण्ड-षण्ड-विवरे हरता परार्ध्य । हारेण कन्धर-गतेन च कौस्तुभेन ॥ ४१ ॥
vidyut-kṣipan makara-kuṇḍala-maṇḍana-arha . gaṇḍa-sthala-unnasa-mukham maṇimat-kirīṭam . dordaṇḍa-ṣaṇḍa-vivare haratā parārdhya . hāreṇa kandhara-gatena ca kaustubhena .. 41 ..
अत्रोपसृष्टमिति चोत्स्मितमिन्दिरायाः । स्वानां धिया विरचितं बहुसौष्ठवाढ्यम् । मह्यं भवस्य भवतां च भजन्तमङ्गं । नेमुर्निरीक्ष्य न वितृप्तदृशो मुदा कैः ॥ ४२ ॥
अत्रा उपसृष्टम् इति च उत्स्मितम् इन्दिरायाः । स्वानाम् धिया विरचितम् बहु-सौष्ठव-आढ्यम् । मह्यम् भवस्य भवताम् च भजन्तम् अङ्गम् । नेमुः निरीक्ष्य न वितृप्त-दृशः मुदा कैः ॥ ४२ ॥
atrā upasṛṣṭam iti ca utsmitam indirāyāḥ . svānām dhiyā viracitam bahu-sauṣṭhava-āḍhyam . mahyam bhavasya bhavatām ca bhajantam aṅgam . nemuḥ nirīkṣya na vitṛpta-dṛśaḥ mudā kaiḥ .. 42 ..
तस्यारविन्दनयनस्य पदारविन्द । किञ्जल्कमिश्रतुलसीमकरन्दवायुः । अन्तर्गतः स्वविवरेण चकार तेषां । सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः ॥ ४३ ॥
तस्य अरविन्द-नयनस्य पद-अरविन्द । । अन्तर्गतः स्व-विवरेण चकार तेषाम् । सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः ॥ ४३ ॥
tasya aravinda-nayanasya pada-aravinda . . antargataḥ sva-vivareṇa cakāra teṣām . saṅkṣobham akṣara-juṣām api citta-tanvoḥ .. 43 ..
ते वा अमुष्य वदनासितपद्मकोशम् । उद्वीक्ष्य सुन्दरतराधरकुन्दहासम् । लब्धाशिषः पुनरवेक्ष्य तदीयमङ्घ्रि । द्वन्द्वं नखारुणमणिश्रयणं निदध्युः ॥ ४४ ॥
ते वै अमुष्य वदन-असित-पद्म-कोशम् । उद्वीक्ष्य सुन्दरतर-अधर-कुन्द-हासम् । लब्ध-आशिषः पुनर् अवेक्ष्य तदीयम् अङ्घ्रि । द्वन्द्वम् नख-अरुण-मणि-श्रयणम् निदध्युः ॥ ४४ ॥
te vai amuṣya vadana-asita-padma-kośam . udvīkṣya sundaratara-adhara-kunda-hāsam . labdha-āśiṣaḥ punar avekṣya tadīyam aṅghri . dvandvam nakha-aruṇa-maṇi-śrayaṇam nidadhyuḥ .. 44 ..
पुंसां गतिं मृगयतामिह योगमार्गैः । ध्यानास्पदं बहुमतं नयनाभिरामम् । पौंस्नं वपुर्दर्शयानमनन्यसिद्धैः । औत्पत्तिकैः समगृणन्युतमष्टभोगैः ॥ ४५ ॥
पुंसाम् गतिम् मृगयताम् इह योग-मार्गैः । ध्यान-आस्पदम् बहु-मतम् नयन-अभिरामम् । पौंस्नम् वपुः दर्श-यानम् अनन्य-सिद्धैः । औत्पत्तिकैः समगृणन् युतम् अष्ट-भोगैः ॥ ४५ ॥
puṃsām gatim mṛgayatām iha yoga-mārgaiḥ . dhyāna-āspadam bahu-matam nayana-abhirāmam . pauṃsnam vapuḥ darśa-yānam ananya-siddhaiḥ . autpattikaiḥ samagṛṇan yutam aṣṭa-bhogaiḥ .. 45 ..
कुमारा ऊचुः -
योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं । सोऽद्यैव नो नयनमूलमनन्त राद्धः । यर्ह्येव कर्णविवरेण गुहां गतो नः । पित्रानुवर्णितरहा भवदुद्भवेन ॥ ४६ ॥
यः अन्तर्हितः हृदि गतः अपि दुरात्मनाम् त्वम् । सः अद्या एव नः नयन-मूलम् अनन्त राद्धः । यर्हि एव कर्ण-विवरेण गुहाम् गतः नः । पित्रा अनुवर्णित-रहाः भवत्-उद्भवेन ॥ ४६ ॥
yaḥ antarhitaḥ hṛdi gataḥ api durātmanām tvam . saḥ adyā eva naḥ nayana-mūlam ananta rāddhaḥ . yarhi eva karṇa-vivareṇa guhām gataḥ naḥ . pitrā anuvarṇita-rahāḥ bhavat-udbhavena .. 46 ..
तं त्वां विदाम भगवन्परमात्मतत्त्वं । सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम् । यत्तेऽनुतापविदितैर्दृढभक्तियोगैः । उद्ग्रन्थयो हृदि विदुर्मुनयो विरागाः ॥ ४७ ॥
तम् त्वाम् विदाम भगवन् परमात्म-तत्त्वम् । सत्त्वेन सम्प्रति रतिम् रचयन्तम् एषाम् । यत् ते अनुताप-विदितैः दृढ-भक्ति-योगैः । उद्ग्रन्थयः हृदि विदुः मुनयः विरागाः ॥ ४७ ॥
tam tvām vidāma bhagavan paramātma-tattvam . sattvena samprati ratim racayantam eṣām . yat te anutāpa-viditaiḥ dṛḍha-bhakti-yogaiḥ . udgranthayaḥ hṛdi viduḥ munayaḥ virāgāḥ .. 47 ..
नात्यन्तिकं विगणयन्त्यपि ते प्रसादं । किन्त्वन्यदर्पितभयं भ्रुव उन्नयैस्ते । येऽङ्ग त्वदङ्घ्रिशरणा भवतः कथायाः । कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥ ४८ ॥
न आत्यन्तिकम् विगणयन्ति अपि ते प्रसादम् । किन्तु अन्य-दर्पित-भयम् भ्रुवः उन्नयैः ते । ये अङ्ग त्वद्-अङ्घ्रि-शरणाः भवतः कथायाः । कीर्तन्य-तीर्थ-यशसः कुशलाः रसज्ञाः ॥ ४८ ॥
na ātyantikam vigaṇayanti api te prasādam . kintu anya-darpita-bhayam bhruvaḥ unnayaiḥ te . ye aṅga tvad-aṅghri-śaraṇāḥ bhavataḥ kathāyāḥ . kīrtanya-tīrtha-yaśasaḥ kuśalāḥ rasajñāḥ .. 48 ..
कामं भवः स्ववृजिनैर्निरयेषु नः स्तात् । चेतोऽलिवद्यदि नु ते पदयो रमेत । वाचश्च नस्तुलसिवद्यदि तेऽङ्घ्रिशोभाः । पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः ॥ ४९ ॥
कामम् भवः स्व-वृजिनैः निरयेषु नः स्तात् । चेतः अलि-वत् यदि नु ते पदयोः रमेत । वाचः च नः तुलसी-वत् यदि ते अङ्घ्रि-शोभाः । पूर्येत ते गुण-गणैः यदि कर्ण-रन्ध्रः ॥ ४९ ॥
kāmam bhavaḥ sva-vṛjinaiḥ nirayeṣu naḥ stāt . cetaḥ ali-vat yadi nu te padayoḥ rameta . vācaḥ ca naḥ tulasī-vat yadi te aṅghri-śobhāḥ . pūryeta te guṇa-gaṇaiḥ yadi karṇa-randhraḥ .. 49 ..
प्रादुश्चकर्थ यदिदं पुरुहूत रूपं । तेनेश निर्वृतिमवापुरलं दृशो नः । तस्मा इदं भगवते नम इद्विधेम । योऽनात्मनां दुरुदयो भगवान् प्रतीतः ॥ ५० ॥
प्रादुश्चकर्थ यत् इदम् पुरुहूत रूपम् । तेन ईश निर्वृतिम् अवापुः अलम् दृशः नः । तस्मै इदम् भगवते नमः । यः अनात्मनाम् दुरुदयः भगवान् प्रतीतः ॥ ५० ॥
prāduścakartha yat idam puruhūta rūpam . tena īśa nirvṛtim avāpuḥ alam dṛśaḥ naḥ . tasmai idam bhagavate namaḥ . yaḥ anātmanām durudayaḥ bhagavān pratītaḥ .. 50 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे जयविजयोः सनकादिशापो नाम पञ्चदशोऽध्यायः ॥ १५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे जयविजयोः सनकादिशापः नाम पञ्चदशः अध्यायः ॥ १५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe jayavijayoḥ sanakādiśāpaḥ nāma pañcadaśaḥ adhyāyaḥ .. 15 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In