| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

एवं आविष्कृताशेष गुणकर्मोदयो मुनिम् । सव्रीड इव तं सम्राड् उपारतमुवाच ह ॥ १ ॥
एवम् गुण-कर्म-उदयः मुनिम् । स व्रीडः इव तम् सम्राज् उपारतम् उवाच ह ॥ १ ॥
evam guṇa-karma-udayaḥ munim . sa vrīḍaḥ iva tam samrāj upāratam uvāca ha .. 1 ..
मैत्रेय उवाच -
ब्रह्मासृजत्स्वमुखतो युष्मान् आत्मपरीप्सया । छन्दोमयस्तपोविद्या योगयुक्तानलम्पटान् ॥ २ ॥
ब्रह्म असृजत् स्व-मुखतः युष्मान् आत्म-परीप्सया । छन्दः-मयः तपः-विद्याः योग-युक्तान् अलम्पटान् ॥ २ ॥
brahma asṛjat sva-mukhataḥ yuṣmān ātma-parīpsayā . chandaḥ-mayaḥ tapaḥ-vidyāḥ yoga-yuktān alampaṭān .. 2 ..
मनुरुवाच -
तत्त्राणायासृजत् चास्मान् दोः सहस्रात्सहस्रपात् । हृदयं तस्य हि ब्रह्म क्षत्रमङ्गं प्रचक्षते ॥ ३ ॥
तद्-त्राणाय असृजत् च अस्मान् दोस् सहस्रात् सहस्रपाद् । हृदयम् तस्य हि ब्रह्म क्षत्रम् अङ्गम् प्रचक्षते ॥ ३ ॥
tad-trāṇāya asṛjat ca asmān dos sahasrāt sahasrapād . hṛdayam tasya hi brahma kṣatram aṅgam pracakṣate .. 3 ..
अतो ह्यन्योन्यमात्मानं ब्रह्म क्षत्रं च रक्षतः । रक्षति स्माव्ययो देवः स यः सदसदात्मकः ॥ ४ ॥
अतस् हि अन्योन्यम् आत्मानम् ब्रह्म क्षत्रम् च रक्षतः । रक्षति स्म अव्ययः देवः स यः सत्-असत्-आत्मकः ॥ ४ ॥
atas hi anyonyam ātmānam brahma kṣatram ca rakṣataḥ . rakṣati sma avyayaḥ devaḥ sa yaḥ sat-asat-ātmakaḥ .. 4 ..
तव सन्दर्शनादेव च्छिन्ना मे सर्वसंशयाः । यत्स्वयं भगवान् प्रीत्या धर्ममाह रिरक्षिषोः ॥ ५ ॥
तव सन्दर्शनात् एव छिन्नाः मे सर्व-संशयाः । यत् स्वयम् भगवान् प्रीत्या धर्मम् आह रिरक्षिषोः ॥ ५ ॥
tava sandarśanāt eva chinnāḥ me sarva-saṃśayāḥ . yat svayam bhagavān prītyā dharmam āha rirakṣiṣoḥ .. 5 ..
दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो योऽकृतात्मनाम् । दिष्ट्या पादरजः स्पृष्टं शीर्ष्णा मे भवतः शिवम् ॥ ६ ॥
दिष्ट्या मे भगवान् दृष्टः दुर्दर्शः यः अकृतात्मनाम् । दिष्ट्या पाद-रजः स्पृष्टम् शीर्ष्णा मे भवतः शिवम् ॥ ६ ॥
diṣṭyā me bhagavān dṛṣṭaḥ durdarśaḥ yaḥ akṛtātmanām . diṣṭyā pāda-rajaḥ spṛṣṭam śīrṣṇā me bhavataḥ śivam .. 6 ..
दिष्ट्या त्वयानुशिष्टोऽहं कृतश्चानुग्रहो महान् । अपावृतैः कर्णरन्ध्रैः जुष्टा दिष्ट्योशतीर्गिरः ॥ ७ ॥
दिष्ट्या त्वया अनुशिष्टः अहम् कृतः च अनुग्रहः महान् । अपावृतैः कर्ण-रन्ध्रैः जुष्टाः दिष्ट्या उशतीः गिरः ॥ ७ ॥
diṣṭyā tvayā anuśiṣṭaḥ aham kṛtaḥ ca anugrahaḥ mahān . apāvṛtaiḥ karṇa-randhraiḥ juṣṭāḥ diṣṭyā uśatīḥ giraḥ .. 7 ..
स भवान् दुहितृस्नेह परिक्लिष्टात्मनो मम । श्रोतुमर्हसि दीनस्य श्रावितं कृपया मुने ॥ ८ ॥
स भवान् दुहितृ-स्नेह परिक्लिष्ट-आत्मनः मम । श्रोतुम् अर्हसि दीनस्य श्रावितम् कृपया मुने ॥ ८ ॥
sa bhavān duhitṛ-sneha parikliṣṭa-ātmanaḥ mama . śrotum arhasi dīnasya śrāvitam kṛpayā mune .. 8 ..
प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम । अन्विच्छति पतिं युक्तं वयःशीलगुणादिभिः ॥ ९ ॥
प्रियव्रत-उत्तानपदोः स्वसा इयम् दुहिता मम । अन्विच्छति पतिम् युक्तम् वयः-शील-गुण-आदिभिः ॥ ९ ॥
priyavrata-uttānapadoḥ svasā iyam duhitā mama . anvicchati patim yuktam vayaḥ-śīla-guṇa-ādibhiḥ .. 9 ..
यदा तु भवतः शील श्रुतरूपवयोगुणान् । अशृणोत् नारदाद् एषा त्वय्यासीत् कृतनिश्चया ॥ १० ॥
यदा तु भवतः शील श्रुत-रूप-वयः-गुणान् । अशृणोत् नारदात् एषा त्वयि आसीत् कृत-निश्चया ॥ १० ॥
yadā tu bhavataḥ śīla śruta-rūpa-vayaḥ-guṇān . aśṛṇot nāradāt eṣā tvayi āsīt kṛta-niścayā .. 10 ..
तत्प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया । सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु ॥ ११ ॥
तत् प्रतीच्छ द्विजाग्र्य इमाम् श्रद्धया उपहृताम् मया । सर्व-आत्मना अनुरूपाम् ते गृहमेधिषु कर्मसु ॥ ११ ॥
tat pratīccha dvijāgrya imām śraddhayā upahṛtām mayā . sarva-ātmanā anurūpām te gṛhamedhiṣu karmasu .. 11 ..
उद्यतस्य हि कामस्य प्रतिवादो न शस्यते । अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुनः ॥ १२ ॥
उद्यतस्य हि कामस्य प्रतिवादः न शस्यते । अपि निर्मुक्त-सङ्गस्य काम-रक्तस्य किम् पुनर् ॥ १२ ॥
udyatasya hi kāmasya prativādaḥ na śasyate . api nirmukta-saṅgasya kāma-raktasya kim punar .. 12 ..
य उद्यतमनादृत्य कीनाशं अभियाचते । क्षीयते तद्यशः स्फीतं मानश्चावज्ञया हतः ॥ १३ ॥
यः उद्यतम् अन् आदृत्य कीनाशम् अभियाचते । क्षीयते तत् यशः स्फीतम् मानः च अवज्ञया हतः ॥ १३ ॥
yaḥ udyatam an ādṛtya kīnāśam abhiyācate . kṣīyate tat yaśaḥ sphītam mānaḥ ca avajñayā hataḥ .. 13 ..
अहं त्वाश्रृणवं विद्वन् विवाहार्थं समुद्यतम् । अतस्त्वं उपकुर्वाणः प्रत्तां प्रतिगृहाण मे ॥ १४ ॥
अहम् त्वा अश्रृणवम् विद्वन् विवाह-अर्थम् समुद्यतम् । अतस् त्वम् उपकुर्वाणः प्रत्ताम् प्रतिगृहाण मे ॥ १४ ॥
aham tvā aśrṛṇavam vidvan vivāha-artham samudyatam . atas tvam upakurvāṇaḥ prattām pratigṛhāṇa me .. 14 ..
बाढमुद्वोढुकामोऽहं अप्रत्ता च तवात्मजा । आवयोः अनुरूपोऽसौ आद्यो वैवाहिको विधिः ॥ १५ ॥
बाढम् उद्वोढु-कामः अहम् अप्रत्ता च तव आत्मजा । आवयोः अनुरूपः असौ आद्यः वैवाहिकः विधिः ॥ १५ ॥
bāḍham udvoḍhu-kāmaḥ aham aprattā ca tava ātmajā . āvayoḥ anurūpaḥ asau ādyaḥ vaivāhikaḥ vidhiḥ .. 15 ..
ऋषिरुवाच ।
कामः स भूयान् नरदेव तेऽस्याः पुत्र्याः समाम्नायविधौ प्रतीतः । क एव ते तनयां नाद्रियेत स्वयैव कान्त्या क्षिपतीमिव श्रियम् ॥ १६ ॥
कामः स भूयात् नरदेव ते अस्याः पुत्र्याः समाम्नाय-विधौ प्रतीतः । कः एव ते तनयाम् न आद्रियेत स्वया एव कान्त्या क्षिपतीम् इव श्रियम् ॥ १६ ॥
kāmaḥ sa bhūyāt naradeva te asyāḥ putryāḥ samāmnāya-vidhau pratītaḥ . kaḥ eva te tanayām na ādriyeta svayā eva kāntyā kṣipatīm iva śriyam .. 16 ..
यां हर्म्यपृष्ठे क्वणदङ्घ्रिशोभां विक्रीडतीं कन्दुकविह्वलाक्षीम् । विश्वावसुर्न्यपतत् स्वात् विमानात् विलोक्य सम्मोहविमूढचेताः ॥ १७ ॥
याम् हर्म्य-पृष्ठे क्वणत्-अङ्घ्रि-शोभाम् विक्रीडतीम् कन्दुक-विह्वल-अक्षीम् । विश्वावसुः न्यपतत् स्वात् विमानात् विलोक्य सम्मोह-विमूढ-चेताः ॥ १७ ॥
yām harmya-pṛṣṭhe kvaṇat-aṅghri-śobhām vikrīḍatīm kanduka-vihvala-akṣīm . viśvāvasuḥ nyapatat svāt vimānāt vilokya sammoha-vimūḍha-cetāḥ .. 17 ..
तां प्रार्थयन्तीं ललनाललामं असेवितश्रीचरणैरदृष्टाम् । वत्सां मनोरुच्चपदः स्वसारं को नानुमन्येत बुधोऽभियाताम् ॥ १८ ॥
ताम् प्रार्थयन्तीम् ललना-ललामम् अ सेवित-श्री-चरणैः अदृष्टाम् । वत्साम् मनोः उच्च-पदः स्वसारम् कः ना अनुमन्येत बुधः अभियाताम् ॥ १८ ॥
tām prārthayantīm lalanā-lalāmam a sevita-śrī-caraṇaiḥ adṛṣṭām . vatsām manoḥ ucca-padaḥ svasāram kaḥ nā anumanyeta budhaḥ abhiyātām .. 18 ..
अतो भजिष्ये समयेन साध्वीं यावत्तेजो बिभृयाद् आत्मनो मे । अतो धर्मान् पारमहंस्यमुख्यान् शुक्लप्रोक्तान् बहु मन्येऽविहिंस्रान् ॥ १९ ॥
अतस् भजिष्ये समयेन साध्वीम् यावत् तेजः बिभृयात् आत्मनः मे । अतस् धर्मान् पारमहंस्य-मुख्यान् शुक्ल-प्रोक्तान् बहु मन्ये अ विहिंस्रान् ॥ १९ ॥
atas bhajiṣye samayena sādhvīm yāvat tejaḥ bibhṛyāt ātmanaḥ me . atas dharmān pāramahaṃsya-mukhyān śukla-proktān bahu manye a vihiṃsrān .. 19 ..
यतोऽभवद्विश्वमिदं विचित्रं संस्थास्यते यत्र च वावतिष्ठते । प्रजापतीनां पतिरेष मह्यं परं प्रमाणं भगवान् अनन्तः ॥ २० ॥
यतस् अभवत् विश्वम् इदम् विचित्रम् संस्थास्यते यत्र च वा अवतिष्ठते । प्रजापतीनाम् पतिः एष मह्यम् परम् प्रमाणम् भगवान् अनन्तः ॥ २० ॥
yatas abhavat viśvam idam vicitram saṃsthāsyate yatra ca vā avatiṣṭhate . prajāpatīnām patiḥ eṣa mahyam param pramāṇam bhagavān anantaḥ .. 20 ..
स उग्रधन्वन् इयदेवाबभाषे आसीच्च तूष्णीं अरविन्दनाभम् । धियोपगृह्णन् स्मितशोभितेन मुखेन चेतो लुलुभे देवहूत्याः ॥ २१ ॥
सः उग्र-धन्वन् इयत् एव आबभाषे आसीत् च तूष्णीम् अरविन्द-नाभम् । धिया उपगृह्णन् स्मित-शोभितेन मुखेन चेतः लुलुभे देवहूत्याः ॥ २१ ॥
saḥ ugra-dhanvan iyat eva ābabhāṣe āsīt ca tūṣṇīm aravinda-nābham . dhiyā upagṛhṇan smita-śobhitena mukhena cetaḥ lulubhe devahūtyāḥ .. 21 ..
मैत्रेय उवाच - (अनुष्टुप्)
सोऽनु ज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम् । तस्मै गुणगणाढ्याय ददौ तुल्यां प्रहर्षितः ॥ २२ ॥
सः अनु ज्ञात्वा व्यवसितम् महिष्याः दुहितुः स्फुटम् । तस्मै गुण-गण-आढ्याय ददौ तुल्याम् प्रहर्षितः ॥ २२ ॥
saḥ anu jñātvā vyavasitam mahiṣyāḥ duhituḥ sphuṭam . tasmai guṇa-gaṇa-āḍhyāya dadau tulyām praharṣitaḥ .. 22 ..
शतरूपा महाराज्ञी पारिबर्हान् महाधनान् । दम्पत्योः पर्यदात् प्रीत्या भूषावासः परिच्छदान् ॥ २३ ॥
शतरूपा महा-राज्ञी पारिबर्हान् महाधनान् । दम्पत्योः पर्यदात् प्रीत्या भूषा-वासः परिच्छदान् ॥ २३ ॥
śatarūpā mahā-rājñī pāribarhān mahādhanān . dampatyoḥ paryadāt prītyā bhūṣā-vāsaḥ paricchadān .. 23 ..
प्रत्तां दुहितरं सम्राट् सदृक्षाय गतव्यथः । उपगुह्य च बाहुभ्यां औत्कण्ठ्योन्मथिताशयः ॥ २४ ॥
प्रत्ताम् दुहितरम् सम्राज् सदृक्षाय गत-व्यथः । उपगुह्य च बाहुभ्याम् औत्कण्ठ्य-उन्मथित-आशयः ॥ २४ ॥
prattām duhitaram samrāj sadṛkṣāya gata-vyathaḥ . upaguhya ca bāhubhyām autkaṇṭhya-unmathita-āśayaḥ .. 24 ..
अशक्नुवन् तद्विरहं मुञ्चन् बाष्पकलां मुहुः । आसिञ्चद् अम्ब वत्सेति नेत्रोदैर्दुहितुः शिखाः ॥ २५ ॥
अशक्नुवन् तद्-विरहम् मुञ्चन् बाष्प-कलाम् मुहुर् । आसिञ्चत् अम्ब वत्स इति नेत्र-उदैः दुहितुः शिखाः ॥ २५ ॥
aśaknuvan tad-viraham muñcan bāṣpa-kalām muhur . āsiñcat amba vatsa iti netra-udaiḥ duhituḥ śikhāḥ .. 25 ..
आमन्त्र्य तं मुनिवरं अनुज्ञातः सहानुगः । प्रतस्थे रथमारुह्य सभार्यः स्वपुरं नृपः ॥ २६ ॥
आमन्त्र्य तम् मुनि-वरम् अनुज्ञातः सह अनुगः । प्रतस्थे रथम् आरुह्य स भार्यः स्व-पुरम् नृपः ॥ २६ ॥
āmantrya tam muni-varam anujñātaḥ saha anugaḥ . pratasthe ratham āruhya sa bhāryaḥ sva-puram nṛpaḥ .. 26 ..
उभयोः ऋषिकुल्यायाः सरस्वत्याः सुरोधसोः । ऋषीणां उपशान्तानां पश्यन् आश्रमसम्पदः ॥ २७ ॥
उभयोः ऋषिकुल्यायाः सरस्वत्याः सुरोधसोः । ऋषीणाम् उपशान्तानाम् पश्यन् आश्रम-सम्पदः ॥ २७ ॥
ubhayoḥ ṛṣikulyāyāḥ sarasvatyāḥ surodhasoḥ . ṛṣīṇām upaśāntānām paśyan āśrama-sampadaḥ .. 27 ..
तं आयान्तं अभिप्रेत्य ब्रह्मावर्तात्प्रजाः पतिम् । गीतसंस्तुतिवादित्रैः प्रत्युदीयुः प्रहर्षिताः ॥ २८ ॥
तम् आयान्तम् अभिप्रेत्य ब्रह्मावर्तात् प्रजाः पतिम् । गीत-संस्तुति-वादित्रैः प्रत्युदीयुः प्रहर्षिताः ॥ २८ ॥
tam āyāntam abhipretya brahmāvartāt prajāḥ patim . gīta-saṃstuti-vāditraiḥ pratyudīyuḥ praharṣitāḥ .. 28 ..
बर्हिष्मती नाम पुरी सर्वसंपत् समन्विता । न्यपतन्यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥ २९ ॥
बर्हिष्मती नाम पुरी सर्व-संपद् समन्विता । न्यपतन् यत्र रोमाणि यज्ञस्य अङ्गम् विधुन्वतः ॥ २९ ॥
barhiṣmatī nāma purī sarva-saṃpad samanvitā . nyapatan yatra romāṇi yajñasya aṅgam vidhunvataḥ .. 29 ..
कुशाः काशास्त एवासन् शश्वद्धरितवर्चसः । ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे ॥ ३० ॥
कुशाः काशाः ते एव आसन् शश्वत् हरित-वर्चसः । ऋषयः यैः पराभाव्य यज्ञ-घ्नान् यज्ञम् ईजिरे ॥ ३० ॥
kuśāḥ kāśāḥ te eva āsan śaśvat harita-varcasaḥ . ṛṣayaḥ yaiḥ parābhāvya yajña-ghnān yajñam ījire .. 30 ..
कुशकाशमयं बर्हिः आस्तीर्य भगवान् मनुः । अयजद् यज्ञपुरुषं लब्धा स्थानं यतो भुवम् ॥ ३१ ॥
कुश-काश-मयम् बर्हिः आस्तीर्य भगवान् मनुः । अयजत् यज्ञपुरुषम् लब्धा स्थानम् यतस् भुवम् ॥ ३१ ॥
kuśa-kāśa-mayam barhiḥ āstīrya bhagavān manuḥ . ayajat yajñapuruṣam labdhā sthānam yatas bhuvam .. 31 ..
बर्हिष्मतीं नाम विभुः यां निर्विश्य समावसत् । तस्यां प्रविष्टो भवनं तापत्रयविनाशनम् ॥ ३२ ॥
बर्हिष्मतीम् नाम विभुः याम् निर्विश्य समावसत् । तस्याम् प्रविष्टः भवनम् ताप-त्रय-विनाशनम् ॥ ३२ ॥
barhiṣmatīm nāma vibhuḥ yām nirviśya samāvasat . tasyām praviṣṭaḥ bhavanam tāpa-traya-vināśanam .. 32 ..
सभार्यः सप्रजः कामान् बुभुजेऽन्याविरोधतः । सङ्गीयमानसत्कीर्तिः सस्त्रीभिः सुरगायकैः । प्रत्यूषेष्वनुबद्धेन हृदा श्रृण्वन् हरेः कथाः ॥ ३३ ॥
स भार्यः स प्रजः कामान् बुभुजे अन्य-अविरोधतः । सङ्गीय-मान-सत्-कीर्तिः स स्त्रीभिः सुर-गायकैः । प्रत्यूषेषु अनुबद्धेन हृदा श्रृण्वन् हरेः कथाः ॥ ३३ ॥
sa bhāryaḥ sa prajaḥ kāmān bubhuje anya-avirodhataḥ . saṅgīya-māna-sat-kīrtiḥ sa strībhiḥ sura-gāyakaiḥ . pratyūṣeṣu anubaddhena hṛdā śrṛṇvan hareḥ kathāḥ .. 33 ..
निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् । यदाभ्रंशयितुं भोगा न शेकुर्भगवत्परम् ॥ ३४ ॥
निष्णातम् योग-मायासु मुनिम् स्वायम्भुवम् मनुम् । यदा आभ्रंशयितुम् भोगाः न शेकुः भगवत्-परम् ॥ ३४ ॥
niṣṇātam yoga-māyāsu munim svāyambhuvam manum . yadā ābhraṃśayitum bhogāḥ na śekuḥ bhagavat-param .. 34 ..
अयातयामाः तस्यासन् यामाः स्वान्तरयापनाः । श्रृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः ॥ ३५ ॥
अयातयामाः तस्य आसन् यामाः स्व-अन्तर-यापनाः । श्रृण्वतः ध्यायतः विष्णोः कुर्वतः ब्रुवतः कथाः ॥ ३५ ॥
ayātayāmāḥ tasya āsan yāmāḥ sva-antara-yāpanāḥ . śrṛṇvataḥ dhyāyataḥ viṣṇoḥ kurvataḥ bruvataḥ kathāḥ .. 35 ..
स एवं स्वान्तरं निन्ये युगानां एकसप्ततिम् । वासुदेवप्रसङ्गेन परिभूतगतित्रयः ॥ ३६ ॥
सः एवम् स्व-अन्तरम् निन्ये युगानाम् एकसप्ततिम् । वासुदेव-प्रसङ्गेन परिभूत-गति-त्रयः ॥ ३६ ॥
saḥ evam sva-antaram ninye yugānām ekasaptatim . vāsudeva-prasaṅgena paribhūta-gati-trayaḥ .. 36 ..
शारीरा मानसा दिव्या वैयासे ये च मानुषाः । भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ ३७ ॥
शारीराः मानसाः दिव्याः वैयासे ये च मानुषाः । भौतिकाः च कथम् क्लेशाः बाधन्ते हरि-संश्रयम् ॥ ३७ ॥
śārīrāḥ mānasāḥ divyāḥ vaiyāse ye ca mānuṣāḥ . bhautikāḥ ca katham kleśāḥ bādhante hari-saṃśrayam .. 37 ..
यः पृष्टो मुनिभिः प्राह धर्मान् नानाविधान् शुभान् । नृणां वर्णाश्रमाणां च सर्वभूतहितः सदा ॥ ३८ ॥
यः पृष्टः मुनिभिः प्राह धर्मान् नानाविधान् शुभान् । नृणाम् वर्ण-आश्रमाणाम् च सर्व-भूत-हितः सदा ॥ ३८ ॥
yaḥ pṛṣṭaḥ munibhiḥ prāha dharmān nānāvidhān śubhān . nṛṇām varṇa-āśramāṇām ca sarva-bhūta-hitaḥ sadā .. 38 ..
एतत्ते आदिराजस्य मनोश्चरितमद्भुतम् । वर्णितं वर्णनीयस्य तदपत्योदयं श्रृणु ॥ ३९ ॥
एतत् ते आदिराजस्य मनोः चरितम् अद्भुतम् । वर्णितम् वर्णनीयस्य तद्-अपत्य-उदयम् श्रृणु ॥ ३९ ॥
etat te ādirājasya manoḥ caritam adbhutam . varṇitam varṇanīyasya tad-apatya-udayam śrṛṇu .. 39 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे द्वाविंशोऽध्यायः ॥ २२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे द्वाविंशः अध्यायः ॥ २२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe dvāviṃśaḥ adhyāyaḥ .. 22 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In