| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

उद्धव उवाच -
अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् । तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृशुः ॥ १ ॥
अथ ते तद्-अनुज्ञाताः भुक्त्वा पीत्वा च वारुणीम् । तया विभ्रंशित-ज्ञाना दुरुक्तैः मर्म पस्पृशुः ॥ १ ॥
atha te tad-anujñātāḥ bhuktvā pītvā ca vāruṇīm . tayā vibhraṃśita-jñānā duruktaiḥ marma paspṛśuḥ .. 1 ..
(अनुष्टुप्)
तेषां मैरेयदोषेण विषमीकृतचेतसाम् । निम्लोचति रवावासीत् वेणूनामिव मर्दनम् ॥ २ ॥
तेषाम् मैरेय-दोषेण विषमीकृत-चेतसाम् । निम्लोचति रवौ आसीत् वेणूनाम् इव मर्दनम् ॥ २ ॥
teṣām maireya-doṣeṇa viṣamīkṛta-cetasām . nimlocati ravau āsīt veṇūnām iva mardanam .. 2 ..
भगवान् स्वात्ममायाया गतिं तां अवलोक्य सः । सरस्वतीं उपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३ ॥
भगवान् स्व-आत्म-मायायाः गतिम् ताम् अवलोक्य सः । सरस्वतीम् उपस्पृश्य वृक्ष-मूलम् उपाविशत् ॥ ३ ॥
bhagavān sva-ātma-māyāyāḥ gatim tām avalokya saḥ . sarasvatīm upaspṛśya vṛkṣa-mūlam upāviśat .. 3 ..
अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह । बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ॥ ४ ॥
अहम् च उक्तः भगवता प्रपन्न-आर्ति-हरेण ह । बदरीम् त्वम् प्रयाहि इति स्व-कुलम् सञ्जिहीर्षुणा ॥ ४ ॥
aham ca uktaḥ bhagavatā prapanna-ārti-hareṇa ha . badarīm tvam prayāhi iti sva-kulam sañjihīrṣuṇā .. 4 ..
अथापि तदभिप्रेतं जानन् अहं अरिन्दम । पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ ५ ॥
अथ अपि तद्-अभिप्रेतम् जानन् अहम् अरिन्दम । पृष्ठतस् अन्वगमम् भर्तुः पाद-विश्लेषण-अक्षमः ॥ ५ ॥
atha api tad-abhipretam jānan aham arindama . pṛṣṭhatas anvagamam bhartuḥ pāda-viśleṣaṇa-akṣamaḥ .. 5 ..
अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम् । श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् ॥ ६ ॥
अद्राक्षम् एकम् आसीनम् विचिन्वन् दयितम् पतिम् । श्रीनिकेतम् सरस्वत्याम् कृत-केतम् अकेतनम् ॥ ६ ॥
adrākṣam ekam āsīnam vicinvan dayitam patim . śrīniketam sarasvatyām kṛta-ketam aketanam .. 6 ..
श्यामावदातं विरजं प्रशान्तारुणलोचनम् । दोर्भिश्चतुर्भिः विदितं पीतकौशाम्बरेण च ॥ ७ ॥
श्याम-अवदातम् विरजम् प्रशान्त-अरुण-लोचनम् । दोर्भिः चतुर्भिः विदितम् पीत-कौश-अम्बरेण च ॥ ७ ॥
śyāma-avadātam virajam praśānta-aruṇa-locanam . dorbhiḥ caturbhiḥ viditam pīta-kauśa-ambareṇa ca .. 7 ..
वाम ऊरौ अवधिश्रित्य दक्षिणाङ्घ्रिसरोरुहम् । अपाश्रितार्भकाश्वत्थं अकृशं त्यक्तपिप्पलम् ॥ ८ ॥
वाम-ऊरौ अवधिश्रित्य दक्षिण-अङ्घ्रि-सरोरुहम् । अपाश्रित-अर्भक-अश्वत्थम् अ कृशम् त्यक्त-पिप्पलम् ॥ ८ ॥
vāma-ūrau avadhiśritya dakṣiṇa-aṅghri-saroruham . apāśrita-arbhaka-aśvattham a kṛśam tyakta-pippalam .. 8 ..
तस्मिन् महाभागवतो द्वैपायनसुहृत्सखा । लोकान् अनुचरन् सिद्ध आससाद यदृच्छया ॥ ९ ॥
तस्मिन् महाभागवतः द्वैपायन-सुहृद्-सखा । लोकान् अनुचरन् सिद्धः आससाद यदृच्छया ॥ ९ ॥
tasmin mahābhāgavataḥ dvaipāyana-suhṛd-sakhā . lokān anucaran siddhaḥ āsasāda yadṛcchayā .. 9 ..
तस्यानुरक्तस्य मुनेर्मुकुन्दः प्रमोदभावानतकन्धरस्य । आश्रृण्वतो मां अनुरागहास समीक्षया विश्रमयन् उवाच ॥ १० ॥
तस्य अनुरक्तस्य मुनेः मुकुन्दः प्रमोद-भाव-आनत-कन्धरस्य । आश्रृण्वतः माम् अनुराग-हास समीक्षया विश्रमयन् उवाच ॥ १० ॥
tasya anuraktasya muneḥ mukundaḥ pramoda-bhāva-ānata-kandharasya . āśrṛṇvataḥ mām anurāga-hāsa samīkṣayā viśramayan uvāca .. 10 ..
श्रीभगवानुवाच -
वेदाहमन्तर्मनसीप्सितं ते ददामि यत्तद् दुरवापमन्यैः । सत्रे पुरा विश्वसृजां वसूनां मत्सिद्धिकामेन वसो त्वयेष्टः ॥ ११ ॥
वेद अहम् अन्तर् मनसि ईप्सितम् ते ददामि यत् तत् दुरवापम् अन्यैः । सत्रे पुरा विश्वसृजाम् वसूनाम् मद्-सिद्धि-कामेन वसो त्वया इष्टः ॥ ११ ॥
veda aham antar manasi īpsitam te dadāmi yat tat duravāpam anyaiḥ . satre purā viśvasṛjām vasūnām mad-siddhi-kāmena vaso tvayā iṣṭaḥ .. 11 ..
स एष साधो चरमो भवानां आसादितस्ते मदनुग्रहो यत् । यन्मां नृलोकान् रह उत्सृजन्तं दिष्ट्या ददृश्वान् विशदानुवृत्त्या ॥ १२ ॥
सः एष साधो चरमः भवानाम् आसादितः ते मद्-अनुग्रहः यत् । यत् माम् नृ-लोकान् रहः उत्सृजन्तम् दिष्ट्या ददृश्वान् विशद-अनुवृत्त्या ॥ १२ ॥
saḥ eṣa sādho caramaḥ bhavānām āsāditaḥ te mad-anugrahaḥ yat . yat mām nṛ-lokān rahaḥ utsṛjantam diṣṭyā dadṛśvān viśada-anuvṛttyā .. 12 ..
पुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे । ज्ञानं परं मन्महिमावभासं यत्सूरयो भागवतं वदन्ति ॥ १३ ॥
पुरा मया प्रोक्तम् अजाय नाभ्ये पद्मे निषण्णाय मम आदिसर्गे । ज्ञानम् परम् मद्-महिम-अवभासम् यत् सूरयः भागवतम् वदन्ति ॥ १३ ॥
purā mayā proktam ajāya nābhye padme niṣaṇṇāya mama ādisarge . jñānam param mad-mahima-avabhāsam yat sūrayaḥ bhāgavatam vadanti .. 13 ..
इत्यादृतोक्तः परमस्य पुंसः प्रतिक्षणानुग्रहभाजनोऽहम् । स्नेहोत्थरोमा स्खलिताक्षरस्तं मुञ्चञ्छुचः प्राञ्जलिराबभाषे ॥ १४ ॥
इति आदृत-उक्तः परमस्य पुंसः प्रति क्षण-अनुग्रह-भाजनः अहम् । स्नेह-उत्थ-रोमा स्खलित-अक्षरः तम् मुञ्चन् शुचः प्राञ्जलिः आबभाषे ॥ १४ ॥
iti ādṛta-uktaḥ paramasya puṃsaḥ prati kṣaṇa-anugraha-bhājanaḥ aham . sneha-uttha-romā skhalita-akṣaraḥ tam muñcan śucaḥ prāñjaliḥ ābabhāṣe .. 14 ..
को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह । तथापि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोज निषेवणोत्सुकः ॥ १५ ॥
कः नु ईश ते पाद-सरोज-भाजाम् सु दुर्लभः अर्थेषु चतुर्षु अपि इह । तथा अपि ना अहम् प्रवृणोमि भूमन् भवत्-पद-अम्भोज निषेवण-उत्सुकः ॥ १५ ॥
kaḥ nu īśa te pāda-saroja-bhājām su durlabhaḥ artheṣu caturṣu api iha . tathā api nā aham pravṛṇomi bhūman bhavat-pada-ambhoja niṣevaṇa-utsukaḥ .. 15 ..
कर्माण्यनीहस्य भवोऽभवस्य ते दुर्गाश्रयोऽथारिभयात्पलायनम् । कालात्मनो यत्प्रमदायुताश्रयः स्वात्मन् रतेः खिद्यति धीर्विदामिह ॥ १६ ॥
कर्माणि अनीहस्य भवः अभवस्य ते दुर्ग-आश्रयः अथ अरि-भयात् पलायनम् । काल-आत्मनः यत् प्रमदा-अयुत-आश्रयः स्वात्मन् रतेः खिद्यति धीर्विदाम् इह ॥ १६ ॥
karmāṇi anīhasya bhavaḥ abhavasya te durga-āśrayaḥ atha ari-bhayāt palāyanam . kāla-ātmanaḥ yat pramadā-ayuta-āśrayaḥ svātman rateḥ khidyati dhīrvidām iha .. 16 ..
मन्त्रेषु मां वा उपहूय यत्त्वं अकुण्ठिताखण्डसदात्मबोधः । पृच्छेः प्रभो मुग्ध इवाप्रमत्तः तन्नो मनो मोहयतीव देव ॥ १७ ॥
मन्त्रेषु माम् वा उपहूय यत् त्वम् अकुण्ठित-अखण्ड-सत्-आत्मबोधः । पृच्छेः प्रभो मुग्धः इव अप्रमत्तः तत् नः मनः मोहयति इव देव ॥ १७ ॥
mantreṣu mām vā upahūya yat tvam akuṇṭhita-akhaṇḍa-sat-ātmabodhaḥ . pṛccheḥ prabho mugdhaḥ iva apramattaḥ tat naḥ manaḥ mohayati iva deva .. 17 ..
ज्ञानं परं स्वात्मरहःप्रकाशं प्रोवाच कस्मै भगवान् समग्रम् । अपि क्षमं नो ग्रहणाय भर्तः वदाञ्जसा यद् वृजिनं तरेम ॥ १८ ॥
ज्ञानम् परम् स्व-आत्म-रहः-प्रकाशम् प्रोवाच कस्मै भगवान् समग्रम् । अपि क्षमम् नः ग्रहणाय भर्तर् वद अञ्जसा यत् वृजिनम् तरेम ॥ १८ ॥
jñānam param sva-ātma-rahaḥ-prakāśam provāca kasmai bhagavān samagram . api kṣamam naḥ grahaṇāya bhartar vada añjasā yat vṛjinam tarema .. 18 ..
इत्यावेदितहार्दाय मह्यं स भगवान् परः । आदिदेश अरविन्दाक्ष आत्मनः परमां स्थितिम् ॥ १९ ॥
इति आवेदित-हार्दाय मह्यम् स भगवान् परः । आदिदेश अरविन्द-अक्षः आत्मनः परमाम् स्थितिम् ॥ १९ ॥
iti āvedita-hārdāya mahyam sa bhagavān paraḥ . ādideśa aravinda-akṣaḥ ātmanaḥ paramām sthitim .. 19 ..
(अनुष्टुप्)
स एवं आराधितपादतीर्थाद् अधीततत्त्वात्मविबोधमार्गः । प्रणम्य पादौ परिवृत्य देवं इहागतोऽहं विरहातुरात्मा ॥ २० ॥
सः एवम् आराधित-पाद-तीर्थात् अधीत-तत्त्व-आत्म-विबोध-मार्गः । प्रणम्य पादौ परिवृत्य देवम् इह आगतः अहम् विरह-आतुर-आत्मा ॥ २० ॥
saḥ evam ārādhita-pāda-tīrthāt adhīta-tattva-ātma-vibodha-mārgaḥ . praṇamya pādau parivṛtya devam iha āgataḥ aham viraha-ātura-ātmā .. 20 ..
(अनुष्टुप्)
सोऽहं तद्दर्शनाह्लाद वियोगार्तियुतः प्रभो । गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् ॥ २१ ॥
सः अहम् तद्-दर्शन-आह्लाद वियोग-आर्ति-युतः प्रभो । गमिष्ये दयितम् तस्य बदरी-आश्रम-मण्डलम् ॥ २१ ॥
saḥ aham tad-darśana-āhlāda viyoga-ārti-yutaḥ prabho . gamiṣye dayitam tasya badarī-āśrama-maṇḍalam .. 21 ..
यत्र नारायणो देवो नरश्च भगवान् ऋषिः । मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥ २२ ॥
यत्र नारायणः देवः नरः च भगवान् ऋषिः । मृदु तीव्रम् तपः दीर्घम् तेपाते लोक-भावनौ ॥ २२ ॥
yatra nārāyaṇaḥ devaḥ naraḥ ca bhagavān ṛṣiḥ . mṛdu tīvram tapaḥ dīrgham tepāte loka-bhāvanau .. 22 ..
श्रीशुक उवाच -
इति उद्धवाद् उपाकर्ण्य सुहृदां दुःसहं वधम् । ज्ञानेनाशमयत् क्षत्ता शोकं उत्पतितं बुधः ॥ २३ ॥
इति उद्धवात् उपाकर्ण्य सुहृदाम् दुःसहम् वधम् । ज्ञानेन अशमयत् क्षत्ता शोकम् उत्पतितम् बुधः ॥ २३ ॥
iti uddhavāt upākarṇya suhṛdām duḥsaham vadham . jñānena aśamayat kṣattā śokam utpatitam budhaḥ .. 23 ..
स तं महाभागवतं व्रजन्तं कौरवर्षभः । विश्रम्भाद् अभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥ २४ ॥
स तम् महा-भागवतम् व्रजन्तम् कौरव-ऋषभः । विश्रम्भात् अभ्यधत्त इदम् मुख्यम् कृष्ण-परिग्रहे ॥ २४ ॥
sa tam mahā-bhāgavatam vrajantam kaurava-ṛṣabhaḥ . viśrambhāt abhyadhatta idam mukhyam kṛṣṇa-parigrahe .. 24 ..
विदुर उवाच -
ज्ञानं परं स्वात्मरहःप्रकाशं यदाह योगेश्वर ईश्वरस्ते । वक्तुं भवान्नोऽर्हति यद्धि विष्णोः भृत्याः स्वभृत्यार्थकृतश्चरन्ति ॥ २५ ॥
ज्ञानम् परम् स्व-आत्म-रहः-प्रकाशम् यत् आह योगेश्वरः ईश्वरः ते । वक्तुम् भवान् नः अर्हति यत् हि विष्णोः भृत्याः स्व-भृत्य-अर्थ-कृतः चरन्ति ॥ २५ ॥
jñānam param sva-ātma-rahaḥ-prakāśam yat āha yogeśvaraḥ īśvaraḥ te . vaktum bhavān naḥ arhati yat hi viṣṇoḥ bhṛtyāḥ sva-bhṛtya-artha-kṛtaḥ caranti .. 25 ..
उद्धव उवाच । - (अनुष्टुप्)
ननु ते तत्त्वसंराध्य ऋषिः कौषारवोऽन्ति मे । साक्षाद् भगवतादिष्टो मर्त्यलोकं जिहासता ॥ २६ ॥
ननु ते तत्त्व-संराध्यः ऋषिः कौषारवः अन्ति मे । साक्षात् भगवता आदिष्टः मर्त्य-लोकम् जिहासता ॥ २६ ॥
nanu te tattva-saṃrādhyaḥ ṛṣiḥ kauṣāravaḥ anti me . sākṣāt bhagavatā ādiṣṭaḥ martya-lokam jihāsatā .. 26 ..
श्रीशुक उवाच -
इति सह विदुरेण विश्वमूर्तेः गुणकथया सुधया प्लावितोरुतापः । क्षणमिव पुलिने यमस्वसुस्तां समुषित औपगविर्निशां ततोऽगात् ॥ २७ ॥
इति सह विदुरेण विश्वमूर्तेः गुण-कथया सुधया प्लावित-उरु-तापः । क्षणम् इव पुलिने यमस्वसुः ताम् समुषित औपगविः निशाम् ततस् अगात् ॥ २७ ॥
iti saha vidureṇa viśvamūrteḥ guṇa-kathayā sudhayā plāvita-uru-tāpaḥ . kṣaṇam iva puline yamasvasuḥ tām samuṣita aupagaviḥ niśām tatas agāt .. 27 ..
राजोवाच -
निधनमुपगतेषु वृष्णिभोजेषु अधिरथयूथपयूथपेषु मुख्यः । स तु कथमवशिष्ट उद्धवो यद्धरिरपि तत्यज आकृतिं त्र्यधीशः ॥ २८ ॥
निधनम् उपगतेषु वृष्णि-भोजेषु अधिरथ-यूथप-यूथपेषु मुख्यः । स तु कथम् अवशिष्टः उद्धवः यत् हरिः अपि तत्यजः आकृतिम् त्र्यधीशः ॥ २८ ॥
nidhanam upagateṣu vṛṣṇi-bhojeṣu adhiratha-yūthapa-yūthapeṣu mukhyaḥ . sa tu katham avaśiṣṭaḥ uddhavaḥ yat hariḥ api tatyajaḥ ākṛtim tryadhīśaḥ .. 28 ..
श्रीशुक उवाच - (अनुष्टुप्)
ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः । संहृत्य स्वकुलं स्फीतं त्यक्ष्यन् देहमचिन्तयत् ॥ २९ ॥
ब्रह्म-शाप-अपदेशेन कालेन अमोघवाञ्छितः । संहृत्य स्व-कुलम् स्फीतम् त्यक्ष्यन् देहम् अचिन्तयत् ॥ २९ ॥
brahma-śāpa-apadeśena kālena amoghavāñchitaḥ . saṃhṛtya sva-kulam sphītam tyakṣyan deham acintayat .. 29 ..
अस्मात् लोकादुपरते मयि ज्ञानं मदाश्रयम् । अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः ॥ ३० ॥
अस्मात् लोकात् उपरते मयि ज्ञानम् मद्-आश्रयम् । अर्हति उद्धवः एव अद्धा सम्प्रति आत्मवताम् वरः ॥ ३० ॥
asmāt lokāt uparate mayi jñānam mad-āśrayam . arhati uddhavaḥ eva addhā samprati ātmavatām varaḥ .. 30 ..
नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्नार्दितः प्रभुः । अतो मद्वयुनं लोकं ग्राहयन् इह तिष्ठतु ॥ ३१ ॥
न उद्धवः अणु अपि मद्-न्यूनः यद्-गुणैः न अर्दितः प्रभुः । अतस् मद्-वयुनम् लोकम् ग्राहयन् इह तिष्ठतु ॥ ३१ ॥
na uddhavaḥ aṇu api mad-nyūnaḥ yad-guṇaiḥ na arditaḥ prabhuḥ . atas mad-vayunam lokam grāhayan iha tiṣṭhatu .. 31 ..
एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना । बदर्याश्रममासाद्य हरिमीजे समाधिना ॥ ३२ ॥
एवम् त्रिलोक-गुरुणा सन्दिष्टः शब्दयोनिना । बदर्याश्रमम् आसाद्य हरिम् ईजे समाधिना ॥ ३२ ॥
evam triloka-guruṇā sandiṣṭaḥ śabdayoninā . badaryāśramam āsādya harim īje samādhinā .. 32 ..
विदुरोऽप्युद्धवात् श्रुत्वा कृष्णस्य परमात्मनः । क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ॥ ३३ ॥
विदुरः अपि उद्धवात् श्रुत्वा कृष्णस्य परमात्मनः । क्रीडया उपात्त-देहस्य कर्माणि श्लाघितानि च ॥ ३३ ॥
viduraḥ api uddhavāt śrutvā kṛṣṇasya paramātmanaḥ . krīḍayā upātta-dehasya karmāṇi ślāghitāni ca .. 33 ..
देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् । अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ ३४ ॥
देह-न्यासम् च तस्य एवम् धीराणाम् धैर्य-वर्धनम् । अन्येषाम् दुष्करतरम् पशूनाम् विक्लव-आत्मनाम् ॥ ३४ ॥
deha-nyāsam ca tasya evam dhīrāṇām dhairya-vardhanam . anyeṣām duṣkarataram paśūnām viklava-ātmanām .. 34 ..
आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम् । ध्यायन् गते भागवते रुरोद प्रेमविह्वलः ॥ ३५ ॥
आत्मानम् च कुरुश्रेष्ठ कृष्णेन मनसा ईक्षितम् । ध्यायन् गते भागवते रुरोद प्रेम-विह्वलः ॥ ३५ ॥
ātmānam ca kuruśreṣṭha kṛṣṇena manasā īkṣitam . dhyāyan gate bhāgavate ruroda prema-vihvalaḥ .. 35 ..
कालिन्द्याः कतिभिः सिद्ध अहोभिर्भरतर्षभ । प्रापद्यत स्वःसरितं यत्र मित्रासुतो मुनिः ॥ ३६ ॥
कालिन्द्याः कतिभिः सिद्ध-अहोभिः भरत-ऋषभ । प्रापद्यत स्वःसरितम् यत्र मित्रा-सुतः मुनिः ॥ ३६ ॥
kālindyāḥ katibhiḥ siddha-ahobhiḥ bharata-ṛṣabha . prāpadyata svaḥsaritam yatra mitrā-sutaḥ muniḥ .. 36 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे चतुर्थोऽध्यायः ॥ ४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे विदुर-उद्धव-संवादे चतुर्थः अध्यायः ॥ ४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe vidura-uddhava-saṃvāde caturthaḥ adhyāyaḥ .. 4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In