| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच -
द्वारि द्युनद्या ऋषभः कुरूणां मैत्रेयमासीनमगाधबोधम् । क्षत्तोपसृत्याच्युतभावसिद्धः पप्रच्छ सौशील्यगुणाभितृप्तः ॥ १ ॥
द्वारि द्युनद्याः ऋषभः कुरूणाम् मैत्रेयम् आसीनम् अगाध-बोधम् । क्षत्ता उपसृत्य अच्युत-भाव-सिद्धः पप्रच्छ सौशील्य-गुण-अभितृप्तः ॥ १ ॥
dvāri dyunadyāḥ ṛṣabhaḥ kurūṇām maitreyam āsīnam agādha-bodham . kṣattā upasṛtya acyuta-bhāva-siddhaḥ papraccha sauśīlya-guṇa-abhitṛptaḥ .. 1 ..
विदुर उवाच -
सुखाय कर्माणि करोति लोको न तैः सुखं वान्यदुपारमं वा । विन्देत भूयस्तत एव दुःखं यदत्र युक्तं भगवान् वदेन्नः ॥ २ ॥
सुखाय कर्माणि करोति लोकः न तैः सुखम् वा अन्यत् उपारमम् वा । विन्देत भूयस् ततस् एव दुःखम् यत् अत्र युक्तम् भगवान् वदेत् नः ॥ २ ॥
sukhāya karmāṇi karoti lokaḥ na taiḥ sukham vā anyat upāramam vā . vindeta bhūyas tatas eva duḥkham yat atra yuktam bhagavān vadet naḥ .. 2 ..
जनस्य कृष्णाद् विमुखस्य दैवाद् अधर्मशीलस्य सुदुःखितस्य । अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य ॥ ३ ॥
जनस्य कृष्णात् विमुखस्य दैवात् अधर्म-शीलस्य सु दुःखितस्य । अनुग्रहाय इह चरन्ति नूनम् भूतानि भव्यानि जनार्दनस्य ॥ ३ ॥
janasya kṛṣṇāt vimukhasya daivāt adharma-śīlasya su duḥkhitasya . anugrahāya iha caranti nūnam bhūtāni bhavyāni janārdanasya .. 3 ..
तत्साधुवर्यादिश वर्त्म शं नः संराधितो भगवान् येन पुंसाम् । हृदि स्थितो यच्छति भक्तिपूते ज्ञानं सतत्त्वाधिगमं पुराणम् ॥ ४ ॥
तत् साधु-वर्य आदिश वर्त्म शम् नः संराधितः भगवान् येन पुंसाम् । हृदि स्थितः यच्छति भक्ति-पूते ज्ञानम् सतत्त्व-अधिगमम् पुराणम् ॥ ४ ॥
tat sādhu-varya ādiśa vartma śam naḥ saṃrādhitaḥ bhagavān yena puṃsām . hṛdi sthitaḥ yacchati bhakti-pūte jñānam satattva-adhigamam purāṇam .. 4 ..
करोति कर्माणि कृतावतारो यान्यात्मतंत्रो भगवान् त्र्यधीशः । यथा ससर्जाग्र इदं निरीहः संस्थाप्य वृत्तिं जगतो विधत्ते ॥ ५ ॥
करोति कर्माणि कृत-अवतारः यानि आत्मतंत्रः भगवान् त्र्यधीशः । यथा ससर्ज अग्रे इदम् निरीहः संस्थाप्य वृत्तिम् जगतः विधत्ते ॥ ५ ॥
karoti karmāṇi kṛta-avatāraḥ yāni ātmataṃtraḥ bhagavān tryadhīśaḥ . yathā sasarja agre idam nirīhaḥ saṃsthāpya vṛttim jagataḥ vidhatte .. 5 ..
यथा पुनः स्वे ख इदं निवेश्य शेते गुहायां स निवृत्तवृत्तिः । योगेश्वराधीश्वर एक एतद् अनुप्रविष्टो बहुधा यथाऽऽसीत् ॥ ६ ॥
यथा पुनर् स्वे खे इदम् निवेश्य शेते गुहायाम् स निवृत्त-वृत्तिः । योगेश्वर-अधीश्वरः एकः एतत् अनुप्रविष्टः बहुधा यथा आसीत् ॥ ६ ॥
yathā punar sve khe idam niveśya śete guhāyām sa nivṛtta-vṛttiḥ . yogeśvara-adhīśvaraḥ ekaḥ etat anupraviṣṭaḥ bahudhā yathā āsīt .. 6 ..
क्रीडन् विधत्ते द्विजगोसुराणां क्षेमाय कर्माण्यवतारभेदैः । मनो न तृप्यत्यपि शृण्वतां नः सुश्लोकमौलेश्चरितामृतानि ॥ ७ ॥
क्रीडन् विधत्ते क्षेमाय कर्माणि अवतार-भेदैः । मनः न तृप्यति अपि शृण्वताम् नः सुश्लोक-मौलेः चरित-अमृतानि ॥ ७ ॥
krīḍan vidhatte kṣemāya karmāṇi avatāra-bhedaiḥ . manaḥ na tṛpyati api śṛṇvatām naḥ suśloka-mauleḥ carita-amṛtāni .. 7 ..
यैस्तत्त्वभेदैः अधिलोकनाथो लोकानलोकान् सह लोकपालान् । अचीकॢपद्यत्र हि सर्वसत्त्व निकायभेदोऽधिकृतः प्रतीतः ॥ ८ ॥
यैः तत्त्व-भेदैः अधिलोकनाथः लोकान् अलोकान् सह लोकपालान् । अचीकॢपत् यत्र हि सर्व-सत्त्व निकाय-भेदः अधिकृतः प्रतीतः ॥ ८ ॥
yaiḥ tattva-bhedaiḥ adhilokanāthaḥ lokān alokān saha lokapālān . acīkḷpat yatra hi sarva-sattva nikāya-bhedaḥ adhikṛtaḥ pratītaḥ .. 8 ..
येन प्रजानामुत आत्मकर्म रूपाभिधानां च भिदां व्यधत्त । नारायणो विश्वसृगात्मयोनिः एतच्च नो वर्णय विप्रवर्य ॥ ९ ॥
येन प्रजानाम् उत आत्म-कर्म रूप-अभिधानाम् च भिदाम् व्यधत्त । नारायणः विश्वसृज् आत्मयोनिः एतत् च नः वर्णय विप्र-वर्य ॥ ९ ॥
yena prajānām uta ātma-karma rūpa-abhidhānām ca bhidām vyadhatta . nārāyaṇaḥ viśvasṛj ātmayoniḥ etat ca naḥ varṇaya vipra-varya .. 9 ..
परावरेषां भगवन् व्रतानि श्रुतानि मे व्यासमुखादभीक्ष्णम् । अतृप्नुम क्षुल्लसुखावहानां तेषामृते कृष्णकथामृतौघात् ॥ १० ॥
पर-अवरेषाम् भगवन् व्रतानि श्रुतानि मे व्यास-मुखात् अभीक्ष्णम् । अतृप्नुम क्षुल्ल-सुख-आवहानाम् तेषाम् ऋते कृष्ण-कथा-अमृत-ओघात् ॥ १० ॥
para-avareṣām bhagavan vratāni śrutāni me vyāsa-mukhāt abhīkṣṇam . atṛpnuma kṣulla-sukha-āvahānām teṣām ṛte kṛṣṇa-kathā-amṛta-oghāt .. 10 ..
कस्तृप्नुयात्तीर्थपदोऽभिधानात् सत्रेषु वः सूरिभिरीड्यमानात् । यः कर्णनाडीं पुरुषस्य यातो भवप्रदां गेहरतिं छिनत्ति ॥ ११ ॥
कः तृप्नुयात् तीर्थ-पदः अभिधानात् सत्रेषु वः सूरिभिः ईड्यमानात् । यः कर्ण-नाडीम् पुरुषस्य या अतस् भव-प्रदाम् गेह-रतिम् छिनत्ति ॥ ११ ॥
kaḥ tṛpnuyāt tīrtha-padaḥ abhidhānāt satreṣu vaḥ sūribhiḥ īḍyamānāt . yaḥ karṇa-nāḍīm puruṣasya yā atas bhava-pradām geha-ratim chinatti .. 11 ..
मुनिर्विवक्षुर्भगवद्गुणानां सखापि ते भारतमाह कृष्णः । यस्मिन् नृणां ग्राम्यसुखानुवादैः मतिर्गृहीता नु हरेः कथायाम् ॥ १२ ॥
मुनिः विवक्षुः भगवत्-गुणानाम् सखा अपि ते भारतम् आह कृष्णः । यस्मिन् नृणाम् ग्राम्य-सुख-अनुवादैः मतिः गृहीता नु हरेः कथायाम् ॥ १२ ॥
muniḥ vivakṣuḥ bhagavat-guṇānām sakhā api te bhāratam āha kṛṣṇaḥ . yasmin nṛṇām grāmya-sukha-anuvādaiḥ matiḥ gṛhītā nu hareḥ kathāyām .. 12 ..
सा श्रद्दधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः । हरेः पदानुस्मृतिनिर्वृतस्य समस्तदुःखाप्ययमाशु धत्ते ॥ १३ ॥
सा श्रद्दधानस्य विवर्धमाना विरक्तिम् अन्यत्र करोति पुंसः । हरेः पद-अनुस्मृति-निर्वृतस्य समस्त-दुःख-अप्ययम् आशु धत्ते ॥ १३ ॥
sā śraddadhānasya vivardhamānā viraktim anyatra karoti puṃsaḥ . hareḥ pada-anusmṛti-nirvṛtasya samasta-duḥkha-apyayam āśu dhatte .. 13 ..
तान् शोच्यशोच्यान् अविदोऽनुशोचे हरेः कथायां विमुखानघेन । क्षिणोति देवोऽनिमिषस्तु येषां आयुर्वृथावादगतिस्मृतीनाम् ॥ १४ ॥
तान् शोच्य-शोच्यान् अविदः अनुशोचे हरेः कथायाम् विमुख-अनघेन । क्षिणोति देवः अनिमिषः तु येषाम् आयुः-वृथावाद-गति-स्मृतीनाम् ॥ १४ ॥
tān śocya-śocyān avidaḥ anuśoce hareḥ kathāyām vimukha-anaghena . kṣiṇoti devaḥ animiṣaḥ tu yeṣām āyuḥ-vṛthāvāda-gati-smṛtīnām .. 14 ..
तदस्य कौषारव शर्मदातुः हरेः कथामेव कथासु सारम् । उद्धृत्य पुष्पेभ्य इवार्तबन्धो शिवाय नः कीर्तय तीर्थकीर्तेः ॥ १५ ॥
तत् अस्य कौषारव शर्म-दातुः हरेः कथाम् एव कथासु सारम् । उद्धृत्य पुष्पेभ्यः इव आर्त-बन्धो शिवाय नः कीर्तय तीर्थ-कीर्तेः ॥ १५ ॥
tat asya kauṣārava śarma-dātuḥ hareḥ kathām eva kathāsu sāram . uddhṛtya puṣpebhyaḥ iva ārta-bandho śivāya naḥ kīrtaya tīrtha-kīrteḥ .. 15 ..
स विश्वजन्मस्थितिसंयमार्थे कृतावतारः प्रगृहीतशक्तिः । चकार कर्माण्यतिपूरुषाणि यानीश्वरः कीर्तय तानि मह्यम् ॥ १६ ॥
स विश्व-जन्म-स्थिति-संयम-अर्थे कृत-अवतारः प्रगृहीत-शक्तिः । चकार कर्माणि अतिपूरुषाणि यानि ईश्वरः कीर्तय तानि मह्यम् ॥ १६ ॥
sa viśva-janma-sthiti-saṃyama-arthe kṛta-avatāraḥ pragṛhīta-śaktiḥ . cakāra karmāṇi atipūruṣāṇi yāni īśvaraḥ kīrtaya tāni mahyam .. 16 ..
श्रीशुक उवाच - (अनुष्टुप्)
स एवं भगवान् पृष्टः क्षत्त्रा कौषारविर्मुनिः । पुंसां निःश्रेयसार्थेन तमाह बहु मानयन् ॥ १७ ॥
सः एवम् भगवान् पृष्टः क्षत्त्रा कौषारविः मुनिः । पुंसाम् निःश्रेयस-अर्थेन तम् आह बहु मानयन् ॥ १७ ॥
saḥ evam bhagavān pṛṣṭaḥ kṣattrā kauṣāraviḥ muniḥ . puṃsām niḥśreyasa-arthena tam āha bahu mānayan .. 17 ..
मैत्रेय उवाच -
साधु पृष्टं त्वया साधो लोकान् साधु अनुगृह्णता । कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः ॥ १८ ॥
साधु पृष्टम् त्वया साधो लोकान् साधु अनुगृह्णता । कीर्तिम् वितन्वता लोके आत्मनः अधोक्षज-आत्मनः ॥ १८ ॥
sādhu pṛṣṭam tvayā sādho lokān sādhu anugṛhṇatā . kīrtim vitanvatā loke ātmanaḥ adhokṣaja-ātmanaḥ .. 18 ..
नैतच्चित्रं त्वयि क्षत्तः बादरायणवीर्यजे । गृहीतोऽनन्यभावेन यत्त्वया हरिरीश्वरः ॥ १९ ॥
न एतत् चित्रम् त्वयि क्षत्तर् बादरायण-वीर्य-जे । गृहीतः अनन्य-भावेन यत् त्वया हरिः ईश्वरः ॥ १९ ॥
na etat citram tvayi kṣattar bādarāyaṇa-vīrya-je . gṛhītaḥ ananya-bhāvena yat tvayā hariḥ īśvaraḥ .. 19 ..
माण्डव्यशापाद् भगवान् प्रजासंयमनो यमः । भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवतीसुतात् ॥ २० ॥
माण्डव्य-शापात् भगवान् प्रजा-संयमनः यमः । भ्रातुः क्षेत्रे भुजिष्यायाम् जातः सत्यवती-सुतात् ॥ २० ॥
māṇḍavya-śāpāt bhagavān prajā-saṃyamanaḥ yamaḥ . bhrātuḥ kṣetre bhujiṣyāyām jātaḥ satyavatī-sutāt .. 20 ..
भवान् भगवतो नित्यं सम्मतः सानुगस्य ह । यस्य ज्ञानोपदेशाय माऽऽदिशद्भगवान् व्रजन् ॥ २१ ॥
भवान् भगवतः नित्यम् सम्मतः स अनुगस्य ह । यस्य ज्ञान-उपदेशाय मा आदिशत् भगवान् व्रजन् ॥ २१ ॥
bhavān bhagavataḥ nityam sammataḥ sa anugasya ha . yasya jñāna-upadeśāya mā ādiśat bhagavān vrajan .. 21 ..
अथ ते भगवल्लीला योगमायोरुबृंहिताः । विश्वस्थिति उद्भवान्तार्था वर्णयामि अनुपूर्वशः ॥ २२ ॥
अथ ते भगवत्-लीलाः योगमाया-उरु-बृंहिताः । विश्व-स्थिति उद्भव-अन्त-अर्था वर्णयामि अनुपूर्वशस् ॥ २२ ॥
atha te bhagavat-līlāḥ yogamāyā-uru-bṛṃhitāḥ . viśva-sthiti udbhava-anta-arthā varṇayāmi anupūrvaśas .. 22 ..
भगवान् एक आसेदं अग्र आत्माऽऽत्मनां विभुः । आत्मेच्छानुगतावात्मा नानामत्युपलक्षणः ॥ २३ ॥
भगवान् एकः आस इदम् अग्रे आत्मा आत्मनाम् विभुः । आत्म-इच्छा-अनुगतौ आत्मा नाना मति-उपलक्षणः ॥ २३ ॥
bhagavān ekaḥ āsa idam agre ātmā ātmanām vibhuḥ . ātma-icchā-anugatau ātmā nānā mati-upalakṣaṇaḥ .. 23 ..
स वा एष तदा द्रष्टा नापश्यद् दृश्यमेकराट् । मेनेऽसन्तमिवात्मानं सुप्तशक्तिः असुप्तदृक् ॥ २४ ॥
स वै एष तदा द्रष्टा न अपश्यत् दृश्यम् एकराज् । मेने असन्तम् इव आत्मानम् सुप्त-शक्तिः अ सुप्त-दृश् ॥ २४ ॥
sa vai eṣa tadā draṣṭā na apaśyat dṛśyam ekarāj . mene asantam iva ātmānam supta-śaktiḥ a supta-dṛś .. 24 ..
सा वा एतस्य संद्रष्टुः शक्तिः सद् असदात्मिका । माया नाम महाभाग ययेदं निर्ममे विभुः ॥ २५ ॥
सा वै एतस्य संद्रष्टुः शक्तिः सत् असत्-आत्मिका । माया नाम महाभाग यया इदम् निर्ममे विभुः ॥ २५ ॥
sā vai etasya saṃdraṣṭuḥ śaktiḥ sat asat-ātmikā . māyā nāma mahābhāga yayā idam nirmame vibhuḥ .. 25 ..
कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः । पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् ॥ २६ ॥
काल-वृत्त्या तु मायायाम् गुण-मय्याम् अधोक्षजः । पुरुषेण आत्म-भूतेन वीर्यम् आधत्त वीर्यवान् ॥ २६ ॥
kāla-vṛttyā tu māyāyām guṇa-mayyām adhokṣajaḥ . puruṣeṇa ātma-bhūtena vīryam ādhatta vīryavān .. 26 ..
ततोऽभवन् महत्तत्त्वं अव्यक्तात् कालचोदितात् । विज्ञानात्माऽऽत्मदेहस्थं विश्वं व्यञ्जन् तमोनुदः ॥ २७ ॥
ततस् अभवत् महत्-तत्त्वम् अव्यक्तात् काल-चोदितात् । विज्ञान-आत्मा आत्म-देह-स्थम् विश्वम् व्यञ्जन् तमोनुदः ॥ २७ ॥
tatas abhavat mahat-tattvam avyaktāt kāla-coditāt . vijñāna-ātmā ātma-deha-stham viśvam vyañjan tamonudaḥ .. 27 ..
सोऽप्यंशगुणकालात्मा भगवद् दृष्टिगोचरः । आत्मानं व्यकरोद् आत्मा विश्वस्यास्य सिसृक्षया ॥ २८ ॥
सः अपि अंश-गुण-काल-आत्मा भगवत् दृष्टि-गोचरः । आत्मानम् व्यकरोत् आत्मा विश्वस्य अस्य सिसृक्षया ॥ २८ ॥
saḥ api aṃśa-guṇa-kāla-ātmā bhagavat dṛṣṭi-gocaraḥ . ātmānam vyakarot ātmā viśvasya asya sisṛkṣayā .. 28 ..
महत्तत्त्वाद् विकुर्वाणाद् अहंतत्त्वं व्यजायत । कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोमयः ॥ २९ ॥
महत्-तत्त्वात् विकुर्वाणात् अहम् तत्त्वम् व्यजायत । कार्य-कारण-कर्तृ-आत्मा भूत-इन्द्रिय-मनः-मयः ॥ २९ ॥
mahat-tattvāt vikurvāṇāt aham tattvam vyajāyata . kārya-kāraṇa-kartṛ-ātmā bhūta-indriya-manaḥ-mayaḥ .. 29 ..
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा । अहंतत्त्वाद् विकुर्वाणात् मनो वैकारिकात् अभूत् । वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः ॥ ३० ॥
वैकारिकः तैजसः च तामसः च इति अहम् त्रिधा । अहम् तत्त्वात् विकुर्वाणात् मनः वैकारिकात् अभूत् । वैकारिकाः च ये देवाः अर्थ-अभिव्यञ्जनम् यतस् ॥ ३० ॥
vaikārikaḥ taijasaḥ ca tāmasaḥ ca iti aham tridhā . aham tattvāt vikurvāṇāt manaḥ vaikārikāt abhūt . vaikārikāḥ ca ye devāḥ artha-abhivyañjanam yatas .. 30 ..
तैजसानि इन्द्रियाण्येव ज्ञानकर्ममयानि च । तामसो भूतसूक्ष्मादिः यतः खं लिङ्गमात्मनः ॥ ३१ ॥
तैजसानि इन्द्रियाणि एव ज्ञान-कर्म-मयानि च । तामसः भूत-सूक्ष्म-आदिः यतस् खम् लिङ्गम् आत्मनः ॥ ३१ ॥
taijasāni indriyāṇi eva jñāna-karma-mayāni ca . tāmasaḥ bhūta-sūkṣma-ādiḥ yatas kham liṅgam ātmanaḥ .. 31 ..
कालमायांशयोगेन भगवद् वीक्षितं नभः । नभसोऽनुसृतं स्पर्शं विकुर्वन् निर्ममेऽनिलम् ॥ ३२ ॥
काल-माया-अंश-योगेन भगवत् वीक्षितम् नभः । नभसः अनुसृतम् स्पर्शम् विकुर्वन् निर्ममे अनिलम् ॥ ३२ ॥
kāla-māyā-aṃśa-yogena bhagavat vīkṣitam nabhaḥ . nabhasaḥ anusṛtam sparśam vikurvan nirmame anilam .. 32 ..
अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः । ससर्ज रूपतन्मात्रं ज्योतिर्लोकस्य लोचनम् ॥ ३३ ॥
अनिलः अपि विकुर्वाणः नभसा उरु-बल-अन्वितः । ससर्ज रूप-तन्मात्रम् ज्योतिः-लोकस्य लोचनम् ॥ ३३ ॥
anilaḥ api vikurvāṇaḥ nabhasā uru-bala-anvitaḥ . sasarja rūpa-tanmātram jyotiḥ-lokasya locanam .. 33 ..
अनिलेन अन्वितं ज्योतिः विकुर्वत् परवीक्षितम् । आधत्ताम्भो रसमयं कालमायांशयोगतः ॥ ३४ ॥
अनिलेन अन्वितम् ज्योतिः विकुर्वत् पर-वीक्षितम् । आधत्त अम्भः रस-मयम् काल-माया-अंश-योगतः ॥ ३४ ॥
anilena anvitam jyotiḥ vikurvat para-vīkṣitam . ādhatta ambhaḥ rasa-mayam kāla-māyā-aṃśa-yogataḥ .. 34 ..
ज्योतिषाम्भोऽनुसंसृष्टं विकुर्वद् ब्रह्मवीक्षितम् । महीं गन्धगुणां आधात् कालमायांशयोगतः ॥ ३५ ॥
ज्योतिषा अम्भः-अनुसंसृष्टम् विकुर्वत् ब्रह्म-वीक्षितम् । महीम् गन्ध-गुणाम् आधात् काल-माया-अंश-योगतः ॥ ३५ ॥
jyotiṣā ambhaḥ-anusaṃsṛṣṭam vikurvat brahma-vīkṣitam . mahīm gandha-guṇām ādhāt kāla-māyā-aṃśa-yogataḥ .. 35 ..
भूतानां नभआदीनां यद् यद् यद् भव्यावरावरम् । तेषां परानुसंसर्गाद् यथा सङ्ख्यं गुणान् विदुः ॥ ३६ ॥
भूतानाम् नभः-आदीनाम् यत् यत् यत् भव्य-अवरावरम् । तेषाम् पर-अनुसंसर्गात् यथा सङ्ख्यम् गुणान् विदुः ॥ ३६ ॥
bhūtānām nabhaḥ-ādīnām yat yat yat bhavya-avarāvaram . teṣām para-anusaṃsargāt yathā saṅkhyam guṇān viduḥ .. 36 ..
एते देवाः कला विष्णोः कालमायांशलिङ्गिनः । नानात्वात् स्वक्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् ॥ ३७ ॥
एते देवाः कलाः विष्णोः काल-माया-अंश-लिङ्गिनः । नानात्वात् स्व-क्रिया-अनीशाः प्रोचुः प्राञ्जलयः विभुम् ॥ ३७ ॥
ete devāḥ kalāḥ viṣṇoḥ kāla-māyā-aṃśa-liṅginaḥ . nānātvāt sva-kriyā-anīśāḥ procuḥ prāñjalayaḥ vibhum .. 37 ..
देवा ऊचुः -
नमाम ते देव पदारविन्दं प्रपन्नतापोपशमातपत्रम् । यन्मूलकेता यतयोऽञ्जसोरु संसारदुःखं बहिरुत्क्षिपन्ति ॥ ३८ ॥
नमाम ते देव पद-अरविन्दम् प्रपन्न-ताप-उपशम-आतपत्रम् । यत् मूलकेताः यतयः अञ्जसा उरु संसार-दुःखम् बहिस् उत्क्षिपन्ति ॥ ३८ ॥
namāma te deva pada-aravindam prapanna-tāpa-upaśama-ātapatram . yat mūlaketāḥ yatayaḥ añjasā uru saṃsāra-duḥkham bahis utkṣipanti .. 38 ..
धातर्यदस्मिन् भव ईश जीवाः तापत्रयेणाभिहता न शर्म । आत्मन्लभन्ते भगवंस्तवाङ्घ्रि च्छायां सविद्यामत आश्रयेम ॥ ३९ ॥
धातर् यत् अस्मिन् भवे ईश जीवाः ताप-त्रयेण अभिहताः न शर्म । आत्मन् लभन्ते भगवन् तव अङ्घ्रि छायाम् सविद्याम् अतस् आश्रयेम ॥ ३९ ॥
dhātar yat asmin bhave īśa jīvāḥ tāpa-trayeṇa abhihatāḥ na śarma . ātman labhante bhagavan tava aṅghri chāyām savidyām atas āśrayema .. 39 ..
मार्गन्ति यत्ते मुखपद्मनीडै- श्छन्दःसुपर्णैः ऋषयो विविक्ते । यस्याघमर्षोदसरिद्वरायाः पदं पदं तीर्थपदः प्रपन्नाः ॥ ४० ॥
मार्गन्ति यत् ते मुख-पद्म-नीडैः छन्दः-सुपर्णैः ऋषयः विविक्ते । यस्य अघ-मर्ष-उद-सरिद्वरायाः पदम् पदम् तीर्थ-पदः प्रपन्नाः ॥ ४० ॥
mārganti yat te mukha-padma-nīḍaiḥ chandaḥ-suparṇaiḥ ṛṣayaḥ vivikte . yasya agha-marṣa-uda-saridvarāyāḥ padam padam tīrtha-padaḥ prapannāḥ .. 40 ..
यत् श्रद्धया श्रुतवत्या च भक्त्या सम्मृज्यमाने हृदयेऽवधाय । ज्ञानेन वैराग्यबलेन धीरा व्रजेम तत्तेऽङ्घ्रिसरोजपीठम् ॥ ४१ ॥
यत् श्रद्धया श्रुतवत्या च भक्त्या सम्मृज्यमाने हृदये अवधाय । ज्ञानेन वैराग्य-बलेन धीराः व्रजेम तत् ते अङ्घ्रि-सरोज-पीठम् ॥ ४१ ॥
yat śraddhayā śrutavatyā ca bhaktyā sammṛjyamāne hṛdaye avadhāya . jñānena vairāgya-balena dhīrāḥ vrajema tat te aṅghri-saroja-pīṭham .. 41 ..
विश्वस्य जन्मस्थितिसंयमार्थे कृतावतारस्य पदाम्बुजं ते । व्रजेम सर्वे शरणं यदीश स्मृतं प्रयच्छत्यभयं स्वपुंसाम् ॥ ४२ ॥
विश्वस्य जन्म-स्थिति-संयम-अर्थे कृत-अवतारस्य पद-अम्बुजम् ते । व्रजेम सर्वे शरणम् यदीश स्मृतम् प्रयच्छति अभयम् स्व-पुंसाम् ॥ ४२ ॥
viśvasya janma-sthiti-saṃyama-arthe kṛta-avatārasya pada-ambujam te . vrajema sarve śaraṇam yadīśa smṛtam prayacchati abhayam sva-puṃsām .. 42 ..
यत्सानुबन्धेऽसति देहगेहे ममाहं इति ऊढ दुराग्रहाणाम् । पुंसां सुदूरं वसतोऽपि पुर्यां भजेम तत्ते भगवन् पदाब्जम् ॥ ४३ ॥
यत् सानुबन्धे असति देह-गेहे मम अहम् इति ऊढ-दुराग्रहाणाम् । पुंसाम् सुदूरम् वसतः अपि पुर्याम् भजेम तत् ते भगवन् पद-अब्जम् ॥ ४३ ॥
yat sānubandhe asati deha-gehe mama aham iti ūḍha-durāgrahāṇām . puṃsām sudūram vasataḥ api puryām bhajema tat te bhagavan pada-abjam .. 43 ..
तान् वै ह्यसद्वृत्तिभिरक्षिभिर्ये पराहृतान्तर्मनसः परेश । अथो न पश्यन्ति उरुगाय नूनं ये ते पदन्यासविलासलक्ष्याः ॥ ४४ ॥
तान् वै हि असत्-वृत्तिभिः अक्षिभिः ये पराहृत-अन्तर्मनसः परेश । अथो न पश्यन्ति उरुगाय नूनम् ये ते पदन्यास-विलास-लक्ष्याः ॥ ४४ ॥
tān vai hi asat-vṛttibhiḥ akṣibhiḥ ye parāhṛta-antarmanasaḥ pareśa . atho na paśyanti urugāya nūnam ye te padanyāsa-vilāsa-lakṣyāḥ .. 44 ..
पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये । वैराग्यसारं प्रतिलभ्य बोधं यथाञ्जसान् वीयुरकुण्ठधिष्ण्यम् ॥ ४५ ॥
पानेन ते देव कथा-सुधायाः प्रवृद्ध-भक्त्या विशद-आशयाः ये । वैराग्य-सारम् प्रतिलभ्य बोधम् यथा अञ्जसान् वीयुः अकुण्ठ-धिष्ण्यम् ॥ ४५ ॥
pānena te deva kathā-sudhāyāḥ pravṛddha-bhaktyā viśada-āśayāḥ ye . vairāgya-sāram pratilabhya bodham yathā añjasān vīyuḥ akuṇṭha-dhiṣṇyam .. 45 ..
तथापरे चात्मसमाधियोग बलेन जित्वा प्रकृतिं बलिष्ठाम् । त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते ॥ ४६ ॥
तथा अपरे च आत्म-समाधि-योग बलेन जित्वा प्रकृतिम् बलिष्ठाम् । त्वाम् एव धीराः पुरुषम् विशन्ति तेषाम् श्रमः स्यात् न तु सेवया ते ॥ ४६ ॥
tathā apare ca ātma-samādhi-yoga balena jitvā prakṛtim baliṣṭhām . tvām eva dhīrāḥ puruṣam viśanti teṣām śramaḥ syāt na tu sevayā te .. 46 ..
तत्ते वयं लोकसिसृक्षयाद्य त्वयानुसृष्टास्त्रिभिरात्मभिः स्म । सर्वे वियुक्ताः स्वविहारतन्त्रं न शक्नुमस्तत् प्रतिहर्तवे ते ॥ ४७ ॥
तत् ते वयम् लोक-सिसृक्षया आद्य त्वया अनुसृष्टाः त्रिभिः आत्मभिः स्म । सर्वे वियुक्ताः स्व-विहार-तन्त्रम् न शक्नुमः तत् प्रतिहर्तवे ते ॥ ४७ ॥
tat te vayam loka-sisṛkṣayā ādya tvayā anusṛṣṭāḥ tribhiḥ ātmabhiḥ sma . sarve viyuktāḥ sva-vihāra-tantram na śaknumaḥ tat pratihartave te .. 47 ..
यावद्बलिं तेऽज हराम काले यथा वयं चान्नमदाम यत्र । यथोभयेषां त इमे हि लोका बलिं हरन्तोऽन्नमदन्त्यनूहाः ॥ ४८ ॥
यावत् बलिम् ते अज हराम काले यथा वयम् च अन्नम् अदाम यत्र । यथा उभयेषाम् ते इमे हि लोकाः बलिम् हरन्तः अन्नम् अदन्ति अनूहाः ॥ ४८ ॥
yāvat balim te aja harāma kāle yathā vayam ca annam adāma yatra . yathā ubhayeṣām te ime hi lokāḥ balim harantaḥ annam adanti anūhāḥ .. 48 ..
त्वं नः सुराणामसि सान्वयानां कूटस्थ आद्यः पुरुषः पुराणः । त्वं देव शक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविमादधेऽजः ॥ ४९ ॥
त्वम् नः सुराणाम् असि स अन्वयानाम् कूटस्थः आद्यः पुरुषः पुराणः । त्वम् देव शक्त्याम् गुण-कर्म-योनौ रेतः तु अजायाम् कविम् आदधे अजः ॥ ४९ ॥
tvam naḥ surāṇām asi sa anvayānām kūṭasthaḥ ādyaḥ puruṣaḥ purāṇaḥ . tvam deva śaktyām guṇa-karma-yonau retaḥ tu ajāyām kavim ādadhe ajaḥ .. 49 ..
ततो वयं मत्प्रमुखा यदर्थे बभूविमात्मन् करवाम किं ते । त्वं नः स्वचक्षुः परिदेहि शक्त्या देव क्रियार्थे यद् अनुग्रहाणाम् ॥ ५० ॥
ततस् वयम् मद्-प्रमुखाः यद्-अर्थे बभूविम आत्मन् करवाम किम् ते । त्वम् नः स्व-चक्षुः परिदेहि शक्त्या देव क्रिया-अर्थे यत् अनुग्रहाणाम् ॥ ५० ॥
tatas vayam mad-pramukhāḥ yad-arthe babhūvima ātman karavāma kim te . tvam naḥ sva-cakṣuḥ paridehi śaktyā deva kriyā-arthe yat anugrahāṇām .. 50 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे पञ्चमोऽध्यायः ॥ ५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे विदुर-उद्धव-संवादे पञ्चमः अध्यायः ॥ ५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe vidura-uddhava-saṃvāde pañcamaḥ adhyāyaḥ .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In