| |
|

This overlay will guide you through the buttons:

॥ श्री गणेशाय नमः ॥ ऽ नमो भगवते वासुदेवाय
॥ श्री-गणेशाय नमः ॥ नमः भगवते वासुदेवाय
.. śrī-gaṇeśāya namaḥ .. namaḥ bhagavate vāsudevāya
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ १॥
नारायणम् नमस्कृत्य नरम् च एव नरोत्तमम् । देवीम् सरस्वतीम् च एव ततस् जयम् उदीरयेत् ॥ १॥
nārāyaṇam namaskṛtya naram ca eva narottamam . devīm sarasvatīm ca eva tatas jayam udīrayet .. 1..
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः । यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति ॥ २॥
जयति पराशर-सूनुः सत्यवती-हृदय-नन्दनः व्यासः । यस्य आस्य-कमल-गलितम् वाच्-मयम् अमृतम् जगत् पिबति ॥ २॥
jayati parāśara-sūnuḥ satyavatī-hṛdaya-nandanaḥ vyāsaḥ . yasya āsya-kamala-galitam vāc-mayam amṛtam jagat pibati .. 2..
मूकङ्करोति वाचालं पङ्गु लङ्घयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ ३॥
मूकङ्करोति वाचालम् पङ्गु लङ्घयते गिरिम् । यद्-कृपा तम् अहम् वन्दे परम-आनन्द-माधवम् ॥ ३॥
mūkaṅkaroti vācālam paṅgu laṅghayate girim . yad-kṛpā tam aham vande parama-ānanda-mādhavam .. 3..
पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं,नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् । लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा,भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥ ४॥
पाराशर्य-वचः सरोजम् अमलम् गीत-अर्थ-गन्ध-उत्कटम्,नाना आख्यानक-केसरम् हरि-कथा-सम्बोधन-आबोधितम् । लोके सत्-जन-षट्पदैः अहरहर् पेपीयमानम् मुदा,भूयात् भारत-पङ्कजम् कलि-मल-प्रध्वंसि नः श्रेयसे ॥ ४॥
pārāśarya-vacaḥ sarojam amalam gīta-artha-gandha-utkaṭam,nānā ākhyānaka-kesaram hari-kathā-sambodhana-ābodhitam . loke sat-jana-ṣaṭpadaiḥ aharahar pepīyamānam mudā,bhūyāt bhārata-paṅkajam kali-mala-pradhvaṃsi naḥ śreyase .. 4..
यो गोशतं कनकशृङ्गमयं ददाति,विप्राय वेदविदुषे च बहुश्रुताय । पुण्यां भविष्यसुकथां शृणुयात्समग्रां,पुण्यं समं भवति तस्य च तस्य चैव ॥ ५॥
यः गो-शतम् कनक-शृङ्ग-मयम् ददाति,विप्राय वेद-विदुषे च बहु-श्रुताय । पुण्याम् भविष्य-सु कथाम् शृणुयात् समग्राम्,पुण्यम् समम् भवति तस्य च तस्य च एव ॥ ५॥
yaḥ go-śatam kanaka-śṛṅga-mayam dadāti,viprāya veda-viduṣe ca bahu-śrutāya . puṇyām bhaviṣya-su kathām śṛṇuyāt samagrām,puṇyam samam bhavati tasya ca tasya ca eva .. 5..
कृत्वा पुराणानि पराशरात्मजः सर्वाण्यनेकानि सुखावहानि । तत्रात्मसौख्याय भविष्यधर्मान् कलौ युगे भावि लिलेख सर्वम् ॥ ६॥
कृत्वा पुराणानि पराशर-आत्मजः सर्वाणि अनेकानि सुख-आवहानि । तत्र आत्म-सौख्याय भविष्य-धर्मान् कलौ युगे भावि लिलेख सर्वम् ॥ ६॥
kṛtvā purāṇāni parāśara-ātmajaḥ sarvāṇi anekāni sukha-āvahāni . tatra ātma-saukhyāya bhaviṣya-dharmān kalau yuge bhāvi lilekha sarvam .. 6..
तत्रापि सर्वर्षिवरप्रमुख्यैः पराशराद्यैर्मुनिभिः प्रणीतान् । स्मृत्युक्तधर्मागमसंहितार्थान् व्यासः समासादवदद्भविष्यम् ॥ ७॥
तत्र अपि सर्व-ऋषि-वर-प्रमुख्यैः पराशर-आद्यैः मुनिभिः प्रणीतान् । स्मृति-उक्त-धर्म-आगम-संहिता-अर्थान् व्यासः समासात् अवदत् भविष्यम् ॥ ७॥
tatra api sarva-ṛṣi-vara-pramukhyaiḥ parāśara-ādyaiḥ munibhiḥ praṇītān . smṛti-ukta-dharma-āgama-saṃhitā-arthān vyāsaḥ samāsāt avadat bhaviṣyam .. 7..
अल्पायुषो लोकजनान्समीक्ष्य विद्याविहीनान्पशुवत्सुचेष्टान् । तेषां सुखार्थं प्रतिबोधनाय व्यासः पुराणं प्रथितं चकार ॥ ८॥
अल्प-आयुषः लोक-जनान् समीक्ष्य विद्या-विहीनान् पशु-वत् सु चेष्टान् । तेषाम् सुख-अर्थम् प्रतिबोधनाय व्यासः पुराणम् प्रथितम् चकार ॥ ८॥
alpa-āyuṣaḥ loka-janān samīkṣya vidyā-vihīnān paśu-vat su ceṣṭān . teṣām sukha-artham pratibodhanāya vyāsaḥ purāṇam prathitam cakāra .. 8..
जयति भुवनदीपो भास्करो लोककर्त्ता,जयति च शितिदेहः शार्ङ्गःधन्वा मुरारिः ॥ ॥
जयति भुवन-दीपः भास्करः लोक-कर्त्ता,जयति च शितिदेहः शार्ङ्गःधन्वा मुरारिः ॥ ॥
jayati bhuvana-dīpaḥ bhāskaraḥ loka-karttā,jayati ca śitidehaḥ śārṅgaḥdhanvā murāriḥ .. ..
जयति च शशिमौली रुद्रनामाभिधेयो,जयति च स तु देवो भानुमांश्चित्रभानुः ॥ १॥
जयति च शशिमौलिः,जयति च स तु देवः भानुमान् चित्रभानुः ॥ १॥
jayati ca śaśimauliḥ,jayati ca sa tu devaḥ bhānumān citrabhānuḥ .. 1..
श्रियावृतं तु राजानं शतानीकं महाबलम् । अभिजग्मुर्महात्मानः सर्वे द्रष्टुं महर्षयः ॥ २॥
श्रियावृतम् तु राजानम् शतानीकम् महा-बलम् । अभिजग्मुः महात्मानः सर्वे द्रष्टुम् महा-ऋषयः ॥ २॥
śriyāvṛtam tu rājānam śatānīkam mahā-balam . abhijagmuḥ mahātmānaḥ sarve draṣṭum mahā-ṛṣayaḥ .. 2..
भृगुरत्रिर्वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः । पराशरस्तथा व्यासः सुमन्तुर्जैमिनिस्तथा ॥ ३॥
भृगुः अत्रिः वसिष्ठः च पुलस्त्यः पुलहः क्रतुः । पराशरः तथा व्यासः सुमन्तुः जैमिनिः तथा ॥ ३॥
bhṛguḥ atriḥ vasiṣṭhaḥ ca pulastyaḥ pulahaḥ kratuḥ . parāśaraḥ tathā vyāsaḥ sumantuḥ jaiminiḥ tathā .. 3..
मुनिः पैलो याज्ञवल्क्यो गौतमस्तु महातपाः । भारद्वाजो मुनिर्धीमांस्तथा नारदपर्वतौ ॥ ४॥
मुनिः पैलः याज्ञवल्क्यः गौतमः तु महा-तपाः । भारद्वाजः मुनिः धीमान् तथा नारद-पर्वतौ ॥ ४॥
muniḥ pailaḥ yājñavalkyaḥ gautamaḥ tu mahā-tapāḥ . bhāradvājaḥ muniḥ dhīmān tathā nārada-parvatau .. 4..
वैशम्पायनो महात्मा शौनकश्च महातपाः । दक्षोऽङ्गिरास्तथा गर्गो गालवश्च महातपाः ॥ ५॥
वैशम्पायनः महात्मा शौनकः च महा-तपाः । दक्षः अङ्गिराः तथा गर्गः गालवः च महा-तपाः ॥ ५॥
vaiśampāyanaḥ mahātmā śaunakaḥ ca mahā-tapāḥ . dakṣaḥ aṅgirāḥ tathā gargaḥ gālavaḥ ca mahā-tapāḥ .. 5..
तानागतानृषीन्दृष्ट्वा शतानीको महीपतिः । विधिवत्पूजयामास अभिगम्य महामतिः ॥ ६॥
तान् आगतान् ऋषीन् दृष्ट्वा शतानीकः महीपतिः । विधिवत् पूजयामास अभिगम्य महामतिः ॥ ६॥
tān āgatān ṛṣīn dṛṣṭvā śatānīkaḥ mahīpatiḥ . vidhivat pūjayāmāsa abhigamya mahāmatiḥ .. 6..
पुरोहितं पुरस्कृत्य अर्ध्यं गां स्वागतेन च । पूजयित्वा ततः सर्वान्प्रणम्य शिरसा भृशम् ॥ ७॥
पुरोहितम् पुरस्कृत्य अर्ध्यम् गाम् स्वागतेन च । पूजयित्वा ततस् सर्वान् प्रणम्य शिरसा भृशम् ॥ ७॥
purohitam puraskṛtya ardhyam gām svāgatena ca . pūjayitvā tatas sarvān praṇamya śirasā bhṛśam .. 7..
सुखासीनांस्ततो राजा निरातङ्कान् गतक्लमान् । उवाच प्रणतो भूत्वा बाहुमुद्धृत्य दक्षिणम् ॥ ८॥
सुख-आसीनान् ततस् राजा निरातङ्कान् गत-क्लमान् । उवाच प्रणतः भूत्वा बाहुम् उद्धृत्य दक्षिणम् ॥ ८॥
sukha-āsīnān tatas rājā nirātaṅkān gata-klamān . uvāca praṇataḥ bhūtvā bāhum uddhṛtya dakṣiṇam .. 8..
इदानीं सफलं जन्म मन्येऽहं भुवि सत्तमाः । आत्मनो द्विजशार्दूला! तथा कीर्तिर्यशो बलम् ॥ ९॥
इदानीम् सफलम् जन्म मन्ये अहम् भुवि सत्तमाः । आत्मनः द्विज-शार्दूला! तथा कीर्तिः यशः बलम् ॥ ९॥
idānīm saphalam janma manye aham bhuvi sattamāḥ . ātmanaḥ dvija-śārdūlā! tathā kīrtiḥ yaśaḥ balam .. 9..
धन्योऽहं पुण्यकर्मा च यतो मां द्रष्टुमागताः । येषां स्मरणमात्रेण युष्माकं पूयते नरः ॥ 1.1.१०॥
धन्यः अहम् पुण्य-कर्मा च यतस् माम् द्रष्टुम् आगताः । येषाम् स्मरण-मात्रेण युष्माकम् पूयते नरः ॥ १।१।१०॥
dhanyaḥ aham puṇya-karmā ca yatas mām draṣṭum āgatāḥ . yeṣām smaraṇa-mātreṇa yuṣmākam pūyate naraḥ .. 1.1.10..
श्रोतुमिच्छाम्यहं किञ्चिद्धर्मशास्त्रमनुत्तमम् । आनृशंस्यं समाश्रित्य कथयध्वम् महाबलाः! ॥ ११॥
श्रोतुम् इच्छामि अहम् किञ्चिद् धर्म-शास्त्रम् अनुत्तमम् । आनृशंस्यम् समाश्रित्य कथयध्वम् महा-बलाः! ॥ ११॥
śrotum icchāmi aham kiñcid dharma-śāstram anuttamam . ānṛśaṃsyam samāśritya kathayadhvam mahā-balāḥ! .. 11..
येनाहं धर्मशास्त्रं तु श्रुत्वा गच्छे परां गतिम् । यथागतो मम पिता श्रुत्वा वै भारतं पुरा ॥ १२॥
येन अहम् धर्म-शास्त्रम् तु श्रुत्वा गच्छे पराम् गतिम् । यथागतः मम पिता श्रुत्वा वै भारतम् पुरा ॥ १२॥
yena aham dharma-śāstram tu śrutvā gacche parām gatim . yathāgataḥ mama pitā śrutvā vai bhāratam purā .. 12..
तथोक्तास्तेन राज्ञा वै ब्राह्मणास्ते समन्ततः । समागम्य मिथस्ते तु विमृश्य च १ भृशम् तदा ॥ १३॥
तथा उक्ताः तेन राज्ञा वै ब्राह्मणाः ते समन्ततः । समागम्य मिथस् ते तु विमृश्य च भृशम् तदा ॥ १३॥
tathā uktāḥ tena rājñā vai brāhmaṇāḥ te samantataḥ . samāgamya mithas te tu vimṛśya ca bhṛśam tadā .. 13..
पूजयित्वा ततो व्यासमिदं वचनमब्रुवन् । व्यासं प्रसादय विभो! एष ते कथयिष्यति ॥ १४॥
पूजयित्वा ततस् व्यासम् इदम् वचनम् अब्रुवन् । व्यासम् प्रसादय विभो! एष ते कथयिष्यति ॥ १४॥
pūjayitvā tatas vyāsam idam vacanam abruvan . vyāsam prasādaya vibho! eṣa te kathayiṣyati .. 14..
तिष्ठत्यस्मिन्महाबाहो! वयं वक्तुं न शक्नुमः । तिष्ठमाने गुरौ शिष्यः कथं वक्ति महामते! ॥ १५॥
तिष्ठति अस्मिन् महा-बाहो! वयम् वक्तुम् न शक्नुमः । तिष्ठमाने गुरौ शिष्यः कथम् वक्ति महामते! ॥ १५॥
tiṣṭhati asmin mahā-bāho! vayam vaktum na śaknumaḥ . tiṣṭhamāne gurau śiṣyaḥ katham vakti mahāmate! .. 15..
२अयं गुरुः सदास्माकं साक्षान्नारायणस्तथा । कृपालुश्च तथा चायं तथा दिव्यविधानवित् ॥ १६॥
अयम् गुरुः सदा अस्माकम् साक्षात् नारायणः तथा । कृपालुः च तथा च अयम् तथा दिव्य-विधान-विद् ॥ १६॥
ayam guruḥ sadā asmākam sākṣāt nārāyaṇaḥ tathā . kṛpāluḥ ca tathā ca ayam tathā divya-vidhāna-vid .. 16..
चतुर्णामपि वर्णानां पावनाय महात्मनाम् । धर्मशास्त्रमनेनोक्तं धर्माद्यैः सुसमन्वितम् ॥ १७॥
चतुर्णाम् अपि वर्णानाम् पावनाय महात्मनाम् । धर्म-शास्त्रम् अनेन उक्तम् धर्म-आद्यैः सु समन्वितम् ॥ १७॥
caturṇām api varṇānām pāvanāya mahātmanām . dharma-śāstram anena uktam dharma-ādyaiḥ su samanvitam .. 17..
बिभेति गहनाच्छास्त्राल्लोको व्याधिरिवौषधात् । भारतस्य च विस्तारो मुनिना व्याहृतः स्वयम् ॥ १८॥
बिभेति गहनात् शास्त्रात् लोकः व्याधिः इव औषधात् । भारतस्य च विस्तारः मुनिना व्याहृतः स्वयम् ॥ १८॥
bibheti gahanāt śāstrāt lokaḥ vyādhiḥ iva auṣadhāt . bhāratasya ca vistāraḥ muninā vyāhṛtaḥ svayam .. 18..
यथा स्वादु च पथ्यं च दद्यास्त्वं भिषगौषधम् । तथा रम्यं च शास्त्रं च भारतं कृतवान्मुनिः ॥ १९॥
यथा स्वादु च पथ्यम् च दद्याः त्वम् भिषज् औषधम् । तथा रम्यम् च शास्त्रम् च भारतम् कृतवान् मुनिः ॥ १९॥
yathā svādu ca pathyam ca dadyāḥ tvam bhiṣaj auṣadham . tathā ramyam ca śāstram ca bhāratam kṛtavān muniḥ .. 19..
आस्तिक्यारोहसोपानमेतद्भारतमुच्यते । तच्छ्रुत्वा स्वर्गनरकौ लोकः साक्षादवेक्षते ॥ 1.1.२०॥
आस्तिक्य-आरोह-सोपानम् एतत् भारतम् उच्यते । तत् श्रुत्वा स्वर्ग-नरकौ लोकः साक्षात् अवेक्षते ॥ १।१।२०॥
āstikya-āroha-sopānam etat bhāratam ucyate . tat śrutvā svarga-narakau lokaḥ sākṣāt avekṣate .. 1.1.20..
देवतातीर्थतपसां भारतादेव निश्चयः । न जन्यते नास्तिकता तस्य मीमांसकैरपि ॥ २१॥
देवता-तीर्थ-तपसाम् भारतात् एव निश्चयः । न जन्यते नास्तिक-ता तस्य मीमांसकैः अपि ॥ २१॥
devatā-tīrtha-tapasām bhāratāt eva niścayaḥ . na janyate nāstika-tā tasya mīmāṃsakaiḥ api .. 21..
विष्णौ १ देवेषु वेदेषु गुरुषु ब्राह्मणेषु च । भक्तिर्भवति कल्याणी भारतादेव धीमताम् ॥ २२॥
विष्णौ देवेषु वेदेषु गुरुषु ब्राह्मणेषु च । भक्तिः भवति कल्याणी भारतात् एव धीमताम् ॥ २२॥
viṣṇau deveṣu vedeṣu guruṣu brāhmaṇeṣu ca . bhaktiḥ bhavati kalyāṇī bhāratāt eva dhīmatām .. 22..
धर्मार्थकाममोक्षाणां भरतात्सिद्धिरेव हि । अजिह्मो भारतः पन्था निर्वाणपदगामिनाम् ॥ २३॥
धर्म-अर्थ-काम-मोक्षाणाम् भरतात् सिद्धिः एव हि । अ जिह्मः भारतः पन्थाः निर्वाण-पद-गामिनाम् ॥ २३॥
dharma-artha-kāma-mokṣāṇām bharatāt siddhiḥ eva hi . a jihmaḥ bhārataḥ panthāḥ nirvāṇa-pada-gāminām .. 23..
मोक्षधर्मार्थकामानां प्रपञ्चो भारते कृतः । अनित्यतापसन्तप्ता भवन्ति तस्य मुक्तये ॥ २४॥
मोक्ष-धर्म-अर्थ-कामानाम् प्रपञ्चः भारते कृतः । अनित्य-ताप-सन्तप्ताः भवन्ति तस्य मुक्तये ॥ २४॥
mokṣa-dharma-artha-kāmānām prapañcaḥ bhārate kṛtaḥ . anitya-tāpa-santaptāḥ bhavanti tasya muktaye .. 24..
विपत्तिं भारताच्छ्रुत्वा वृष्णिपाण्डवसम्पदाम् । दुःखावसानाद्राजेन्द्र! पुण्यं च संश्रयेद्बुधः ॥ २५॥
विपत्तिम् भारतात् श्रुत्वा वृष्णि-पाण्डव-सम्पदाम् । दुःख-अवसानात् राज-इन्द्र! पुण्यम् च संश्रयेत् बुधः ॥ २५॥
vipattim bhāratāt śrutvā vṛṣṇi-pāṇḍava-sampadām . duḥkha-avasānāt rāja-indra! puṇyam ca saṃśrayet budhaḥ .. 25..
एवंविधं भारतं वै प्रोक्तं येन महात्मना । सोऽयं नारायणः साक्षात् व्यासरूपी महामुनिः ॥ २६॥
एवंविधम् भारतम् वै प्रोक्तम् येन महात्मना । सः अयम् नारायणः साक्षात् व्यास-रूपी महा-मुनिः ॥ २६॥
evaṃvidham bhāratam vai proktam yena mahātmanā . saḥ ayam nārāyaṇaḥ sākṣāt vyāsa-rūpī mahā-muniḥ .. 26..
स तेषां वचनं श्रुत्वा प्रतापी यो महीपतिः । प्रसादयामास मुनिं व्यासं शास्त्रविशारदम् ॥ २७॥
स तेषाम् वचनम् श्रुत्वा प्रतापी यः महीपतिः । प्रसादयामास मुनिम् व्यासम् शास्त्र-विशारदम् ॥ २७॥
sa teṣām vacanam śrutvā pratāpī yaḥ mahīpatiḥ . prasādayāmāsa munim vyāsam śāstra-viśāradam .. 27..
शतानीक उवाच
अञ्जलिः शिरसा ब्रह्मन्! कृतोऽयं पादयोस्तव । ब्रूहि मे धर्मशास्त्रं ५ तु येना पूततां व्रजे ॥ २८॥
अञ्जलिः शिरसा ब्रह्मन्! कृतः अयम् पादयोः तव । ब्रूहि मे धर्म-शास्त्रम् तु येन पूत-ताम् व्रजे ॥ २८॥
añjaliḥ śirasā brahman! kṛtaḥ ayam pādayoḥ tava . brūhi me dharma-śāstram tu yena pūta-tām vraje .. 28..
समुद्धर भवादस्मात्कीर्तयित्वा कथां शुभाम् । यथा मम पिता पूर्वं कीर्तयित्वा तु भारतम् ॥ २९॥
समुद्धर भवात् अस्मात् कीर्तयित्वा कथाम् शुभाम् । यथा मम पिता पूर्वम् कीर्तयित्वा तु भारतम् ॥ २९॥
samuddhara bhavāt asmāt kīrtayitvā kathām śubhām . yathā mama pitā pūrvam kīrtayitvā tu bhāratam .. 29..
व्यास उवाच
तस्यैतद्वचनं श्रुत्वा व्यासो वचनमब्रवीत् । एष शिष्यः सुमन्तुर्मे कथयिष्यति ते प्रभो! ॥ 1.1.३०॥
तस्य एतत् वचनम् श्रुत्वा व्यासः वचनम् अब्रवीत् । एष शिष्यः सुमन्तुः मे कथयिष्यति ते प्रभो! ॥ १।१।३०॥
tasya etat vacanam śrutvā vyāsaḥ vacanam abravīt . eṣa śiṣyaḥ sumantuḥ me kathayiṣyati te prabho! .. 1.1.30..
यदिच्छसि महाबाहो! प्रीतिदं चाद्भुतं शुभम् । श्रव्यं भरतशार्दूल! सर्वपापभयापहम् ॥ ३१॥
यत् इच्छसि महा-बाहो! प्रीति-दम् च अद्भुतम् शुभम् । श्रव्यम् भरत-शार्दूल! सर्व-पाप-भय-अपहम् ॥ ३१॥
yat icchasi mahā-bāho! prīti-dam ca adbhutam śubham . śravyam bharata-śārdūla! sarva-pāpa-bhaya-apaham .. 31..
यथा वैशम्पायनेन पुरा प्रोक्तं पितुस्तव । महाभारतव्याख्यानं ब्रह्महत्याव्यपोहनम् ॥ ३२॥
यथा वैशम्पायनेन पुरा प्रोक्तम् पितुः तव । महाभारत-व्याख्यानम् ब्रह्महत्या-व्यपोहनम् ॥ ३२॥
yathā vaiśampāyanena purā proktam pituḥ tava . mahābhārata-vyākhyānam brahmahatyā-vyapohanam .. 32..
अथ तमृषयः सर्वे राजानमिदमब्रुवन् । साधु प्रोक्तं महाबाहो! व्यासेनामितबुद्धिना ॥ ३३॥
अथ तम् ऋषयः सर्वे राजानम् इदम् अब्रुवन् । साधु प्रोक्तम् महा-बाहो! व्यासेन अमित-बुद्धिना ॥ ३३॥
atha tam ṛṣayaḥ sarve rājānam idam abruvan . sādhu proktam mahā-bāho! vyāsena amita-buddhinā .. 33..
सुमन्तुं पृच्छ राजर्षे! सर्वशास्त्रविशारदम् । अस्माकमपि राजेन्द्र! श्रवणे जायते मतिः । अथ व्यासो महातेजाः सुमन्तुमृषिमब्रवीत् ॥ ३४॥
सुमन्तुम् पृच्छ राजर्षे! सर्व-शास्त्र-विशारदम् । अस्माकम् अपि राज-इन्द्र! श्रवणे जायते मतिः । अथ व्यासः महा-तेजाः सुमन्तुम् ऋषिम् अब्रवीत् ॥ ३४॥
sumantum pṛccha rājarṣe! sarva-śāstra-viśāradam . asmākam api rāja-indra! śravaṇe jāyate matiḥ . atha vyāsaḥ mahā-tejāḥ sumantum ṛṣim abravīt .. 34..
कथयास्मै कथास्तात! याः श्रुत्वा मोदते नृपः । भारतादिकथानां तु यत्रास्य रमते मनः ॥ ३५॥
कथय अस्मै कथाः तात! याः श्रुत्वा मोदते नृपः । भारत-आदि-कथानाम् तु यत्र अस्य रमते मनः ॥ ३५॥
kathaya asmai kathāḥ tāta! yāḥ śrutvā modate nṛpaḥ . bhārata-ādi-kathānām tu yatra asya ramate manaḥ .. 35..
असावपि महातेजाः श्रुत्वा भावं महामतेः । व्यासस्य द्विजशार्दूल! ऋषीणां चापि सर्वशः ॥ ३६॥
असौ अपि महा-तेजाः श्रुत्वा भावम् महामतेः । व्यासस्य द्विजशार्दूल! ऋषीणाम् च अपि सर्वशस् ॥ ३६॥
asau api mahā-tejāḥ śrutvā bhāvam mahāmateḥ . vyāsasya dvijaśārdūla! ṛṣīṇām ca api sarvaśas .. 36..
चकार वक्तुं स मनस्तस्मै राज्ञे महामतिः । व्यासस्य शासनाद्विप्र! ऋषीणां चैव सर्वशः ॥ ३७॥
चकार वक्तुम् स मनः तस्मै राज्ञे महामतिः । व्यासस्य शासनात् विप्र! ऋषीणाम् च एव सर्वशस् ॥ ३७॥
cakāra vaktum sa manaḥ tasmai rājñe mahāmatiḥ . vyāsasya śāsanāt vipra! ṛṣīṇām ca eva sarvaśas .. 37..
अथ राजा महातेजा आजमीढो द्विजोत्तमम् । प्रणम्य शिरसात्यर्थं प्रवक्तुमुपचक्रमे ॥ ३८॥
अथ राजा महा-तेजाः आजमीढः द्विजोत्तमम् । प्रणम्य शिरसा अत्यर्थम् प्रवक्तुम् उपचक्रमे ॥ ३८॥
atha rājā mahā-tejāḥ ājamīḍhaḥ dvijottamam . praṇamya śirasā atyartham pravaktum upacakrame .. 38..
शतानीक उवाच
पुण्याख्यानं मम ब्रह्मन्! पावनाय प्रकीर्तय । श्रुत्वा यद्ब्राह्मणश्रेष्ठ! मुच्येऽहं सर्वपातकात् ॥ ३९॥
पुण्य-आख्यानम् मम ब्रह्मन्! पावनाय प्रकीर्तय । श्रुत्वा यत् ब्राह्मण-श्रेष्ठ! मुच्ये अहम् सर्व-पातकात् ॥ ३९॥
puṇya-ākhyānam mama brahman! pāvanāya prakīrtaya . śrutvā yat brāhmaṇa-śreṣṭha! mucye aham sarva-pātakāt .. 39..
सुमन्तुरुवाच
नानाविधानि शास्त्राणि सन्ति पुष्पानि भारत । यानि श्रुत्वा नरो राजन्! मुच्यते सर्वकिल्बिषैः ॥ 1.1.४०॥
नानाविधानि शास्त्राणि सन्ति पुष्पानि भारत । यानि श्रुत्वा नरः राजन्! मुच्यते सर्व-किल्बिषैः ॥ १।१।४०॥
nānāvidhāni śāstrāṇi santi puṣpāni bhārata . yāni śrutvā naraḥ rājan! mucyate sarva-kilbiṣaiḥ .. 1.1.40..
किमिच्छसि महाबाहो! श्रोतुं यत्त्वां ब्रवीमि वै । भारतादिकथानां तु यासु धर्मादयः स्थिताः ॥ ४१॥
किम् इच्छसि महा-बाहो! श्रोतुम् यत् त्वाम् ब्रवीमि वै । भारत-आदि-कथानाम् तु यासु धर्म-आदयः स्थिताः ॥ ४१॥
kim icchasi mahā-bāho! śrotum yat tvām bravīmi vai . bhārata-ādi-kathānām tu yāsu dharma-ādayaḥ sthitāḥ .. 41..
शतानीक उवाच
मतानि कानि विप्रेन्द्र १! धर्मशास्त्राणि सुव्रत! । यानि श्रुत्वा नरो विप्र! मुच्यते सर्वकिल्बिषैः ॥ ४२॥
मतानि कानि विप्र-इन्द्र! धर्म-शास्त्राणि सुव्रत! । यानि श्रुत्वा नरः विप्र! मुच्यते सर्व-किल्बिषैः ॥ ४२॥
matāni kāni vipra-indra! dharma-śāstrāṇi suvrata! . yāni śrutvā naraḥ vipra! mucyate sarva-kilbiṣaiḥ .. 42..
सुमन्तुरुवाच
श्रूयन्तां धर्मशास्त्राणि मनुर्विष्णुर्यमोऽङ्गिराः । वसिष्ठदक्षसंवर्तशातातपपराशराः ॥ ४३॥
श्रूयन्ताम् धर्म-शास्त्राणि मनुः विष्णुः यमः अङ्गिराः । वसिष्ठ-दक्ष-संवर्त-शातातप-पराशराः ॥ ४३॥
śrūyantām dharma-śāstrāṇi manuḥ viṣṇuḥ yamaḥ aṅgirāḥ . vasiṣṭha-dakṣa-saṃvarta-śātātapa-parāśarāḥ .. 43..
आपस्तम्बोऽथ उशना कात्यायनबृहस्पती । गौतमःशङ्खलिखितौ हारीतोऽत्रिरथापि वा ॥ ४४॥
आपस्तम्बः अथ उशना कात्यायन-बृहस्पती । गौतमः शङ्ख-लिखितौ हारीतः अत्रिः अथ अपि वा ॥ ४४॥
āpastambaḥ atha uśanā kātyāyana-bṛhaspatī . gautamaḥ śaṅkha-likhitau hārītaḥ atriḥ atha api vā .. 44..
एतानि धर्मशास्त्राणि श्रुत्वा ज्ञात्वा च भारत! । वृन्दारकपुरं गत्वा मोदते नात्र संशयः ॥ ४५॥
एतानि धर्म-शास्त्राणि श्रुत्वा ज्ञात्वा च भारत! । वृन्दारक-पुरम् गत्वा मोदते न अत्र संशयः ॥ ४५॥
etāni dharma-śāstrāṇi śrutvā jñātvā ca bhārata! . vṛndāraka-puram gatvā modate na atra saṃśayaḥ .. 45..
शतानीक उवाच
यान्येतानि त्वयोक्तानि धर्मशास्त्राणि सुव्रत! । नेच्छामि श्रोतुं विप्रेन्द्र! ३ श्रुतान्येतानि हि द्विज! ॥ ४६॥
यानि एतानि त्वया उक्तानि धर्म-शास्त्राणि सुव्रत! । न इच्छामि श्रोतुम् विप्र-इन्द्र! ३ श्रुतानि एतानि हि द्विज! ॥ ४६॥
yāni etāni tvayā uktāni dharma-śāstrāṇi suvrata! . na icchāmi śrotum vipra-indra! 3 śrutāni etāni hi dvija! .. 46..
त्रयाणामपि वर्णानां प्रोक्तानामपि पण्डितैः । श्रेयसे न तु शूद्राणां तत्र मे वचनं शृणु ॥ ४७॥
त्रयाणाम् अपि वर्णानाम् प्रोक्तानाम् अपि पण्डितैः । श्रेयसे न तु शूद्राणाम् तत्र मे वचनम् शृणु ॥ ४७॥
trayāṇām api varṇānām proktānām api paṇḍitaiḥ . śreyase na tu śūdrāṇām tatra me vacanam śṛṇu .. 47..
चतुर्णामिह वर्णानां श्रेयसे यानि सुव्रत! । भवन्ति द्विजशार्दूल! श्रुतानि भुवनत्रये ॥ ४८॥
चतुर्णाम् इह वर्णानाम् श्रेयसे यानि सुव्रत! । भवन्ति द्विजशार्दूल! श्रुतानि भुवनत्रये ॥ ४८॥
caturṇām iha varṇānām śreyase yāni suvrata! . bhavanti dvijaśārdūla! śrutāni bhuvanatraye .. 48..
विशेषतश्चतुर्थस्य वर्णस्य द्विजसत्तम! ॥ ४९॥
विशेषतः चतुर्थस्य वर्णस्य द्विजसत्तम! ॥ ४९॥
viśeṣataḥ caturthasya varṇasya dvijasattama! .. 49..
ब्राह्मणादिषु वर्णेषु त्रिषु वेदाः प्रकल्पिताः । मन्वादीनि च शास्त्राणि तथाङ्गानि समन्ततः ॥ 1.1.५०॥
ब्राह्मण-आदिषु वर्णेषु त्रिषु वेदाः प्रकल्पिताः । मनु-आदीनि च शास्त्राणि तथा अङ्गानि समन्ततः ॥ १।१।५०॥
brāhmaṇa-ādiṣu varṇeṣu triṣu vedāḥ prakalpitāḥ . manu-ādīni ca śāstrāṇi tathā aṅgāni samantataḥ .. 1.1.50..
शूद्राश्चैव भृशं दीनाः प्रतिभान्ति द्विजप्रभो । धर्मार्थकाममोक्षस्य शस्ताः स्युरवने कथम् ॥ ५१॥
शूद्राः च एव भृशम् दीनाः प्रतिभान्ति द्विजप्रभो । धर्म-अर्थ-काम-मोक्षस्य शस्ताः स्युः अवने कथम् ॥ ५१॥
śūdrāḥ ca eva bhṛśam dīnāḥ pratibhānti dvijaprabho . dharma-artha-kāma-mokṣasya śastāḥ syuḥ avane katham .. 51..
आगमेन विहीना हि अहो कष्टं मतं मम् । कश्चैषामागमः प्रोक्तः पुरा द्विजमनीषिभिः ॥ त्रिवर्गप्राप्तये ब्रह्मञ्छ्रेयसे च तथोभयोः ॥ ५२॥
आगमेन विहीनाः हि अहो कष्टम् मतम् मम् । कः च एषाम् आगमः प्रोक्तः पुरा द्विज-मनीषिभिः ॥ त्रिवर्ग-प्राप्तये ब्रह्मन् श्रेयसे च तथा उभयोः ॥ ५२॥
āgamena vihīnāḥ hi aho kaṣṭam matam mam . kaḥ ca eṣām āgamaḥ proktaḥ purā dvija-manīṣibhiḥ .. trivarga-prāptaye brahman śreyase ca tathā ubhayoḥ .. 52..
सुमन्तुरुवाच
साधु साधु महाबाहो! शृणु मे परमं वचः । चतुर्णामपि वर्णानां यानि प्रोक्तानि श्रेयसे ॥ ५३॥
साधु साधु महा-बाहो! शृणु मे परमम् वचः । चतुर्णाम् अपि वर्णानाम् यानि प्रोक्तानि श्रेयसे ॥ ५३॥
sādhu sādhu mahā-bāho! śṛṇu me paramam vacaḥ . caturṇām api varṇānām yāni proktāni śreyase .. 53..
धर्मशास्त्राणि १ राजेन्द्र! शृणु तानि नृपोत्तम । विशेषतश्च शूद्राणां पावनानि मनीषिभिः ॥ ५४॥
धर्मशास्त्राणि राज-इन्द्र! शृणु तानि नृप-उत्तम । विशेषतः च शूद्राणाम् पावनानि मनीषिभिः ॥ ५४॥
dharmaśāstrāṇi rāja-indra! śṛṇu tāni nṛpa-uttama . viśeṣataḥ ca śūdrāṇām pāvanāni manīṣibhiḥ .. 54..
अष्टादशपुराणानि चरितं राघवस्य च । रामस्य कुरुशार्दूल! धर्मकामार्थसिद्धये ॥ ५५॥
अष्टादश-पुराणानि चरितम् राघवस्य च । रामस्य कुरु-शार्दूल! धर्म-काम-अर्थ-सिद्धये ॥ ५५॥
aṣṭādaśa-purāṇāni caritam rāghavasya ca . rāmasya kuru-śārdūla! dharma-kāma-artha-siddhaye .. 55..
तथोक्तं भारतं वीर! पाराशर्येण धीमता । वेदार्थसकलं योज्य३ धर्मशास्त्राणि च प्रभो! ॥ ५६॥
तथा उक्तम् भारतम् वीर! पाराशर्येण धीमता । वेद-अर्थ-सकलम् धर्म-शास्त्राणि च प्रभो! ॥ ५६॥
tathā uktam bhāratam vīra! pārāśaryeṇa dhīmatā . veda-artha-sakalam dharma-śāstrāṇi ca prabho! .. 56..
कृपालुना कृतं शास्त्रं चतुर्णामिह श्रेयसे । वर्णानां भवमग्नानां कृतं पोतो ह्यनुत्तमम् ॥ ५७॥
कृपालुना कृतम् शास्त्रम् चतुर्णाम् इह श्रेयसे । वर्णानाम् भव-मग्नानाम् कृतम् पोतो हि अनुत्तमम् ॥ ५७॥
kṛpālunā kṛtam śāstram caturṇām iha śreyase . varṇānām bhava-magnānām kṛtam poto hi anuttamam .. 57..
अष्टादशपुराणानि अष्टौ व्याकरणानि च । ज्ञात्वा सत्यवतीसूनुश्चक्रे भारतसंहिताम् ॥ ५८॥
अष्टादश-पुराणानि अष्टौ व्याकरणानि च । ज्ञात्वा सत्यवती-सूनुः चक्रे भारत-संहिताम् ॥ ५८॥
aṣṭādaśa-purāṇāni aṣṭau vyākaraṇāni ca . jñātvā satyavatī-sūnuḥ cakre bhārata-saṃhitām .. 58..
यां श्रुत्वा पुरुषो राजन्! मुच्यते ब्रह्महत्यया । प्रथमं प्रोच्यते ब्राह्मं द्वितीयं चैन्द्रमुच्यते ॥ ५९॥
याम् श्रुत्वा पुरुषः राजन्! मुच्यते ब्रह्महत्यया । प्रथमम् प्रोच्यते ब्राह्मम् द्वितीयम् च ऐन्द्रम् उच्यते ॥ ५९॥
yām śrutvā puruṣaḥ rājan! mucyate brahmahatyayā . prathamam procyate brāhmam dvitīyam ca aindram ucyate .. 59..
याम्यं प्रोक्तं ततो रौद्रं वायव्यं वारुणं तथा । सावित्रं च तथा प्रोक्तमष्टमं वैष्णवं तथा ॥ ६०॥
याम्यम् प्रोक्तम् ततस् रौद्रम् वायव्यम् वारुणम् तथा । सावित्रम् च तथा प्रोक्तम् अष्टमम् वैष्णवम् तथा ॥ ६०॥
yāmyam proktam tatas raudram vāyavyam vāruṇam tathā . sāvitram ca tathā proktam aṣṭamam vaiṣṇavam tathā .. 60..
एतानि व्याकरणानि पुराणानि निबोध मे । ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ ६१॥
एतानि व्याकरणानि पुराणानि निबोध मे । ब्राह्मम् पाद्मम् वैष्णवम् च शैवम् भागवतम् तथा ॥ ६१॥
etāni vyākaraṇāni purāṇāni nibodha me . brāhmam pādmam vaiṣṇavam ca śaivam bhāgavatam tathā .. 61..
तथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम् । आग्नेयमष्टमं वीर भविष्यं नवमं स्मृतम् ॥ ६२॥
तथा अन्यत् नारदीयम् च मार्कण्डेयम् च सप्तमम् । आग्नेयम् अष्टमम् वीर भविष्यम् नवमम् स्मृतम् ॥ ६२॥
tathā anyat nāradīyam ca mārkaṇḍeyam ca saptamam . āgneyam aṣṭamam vīra bhaviṣyam navamam smṛtam .. 62..
दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं स्मृतम् । वाराहं द्वादशं प्रोक्तं स्कान्दं चैव त्रयोदशम् ॥ ६३॥
दशमम् ब्रह्मवैवर्त्तम् लैङ्गम् एकादशम् स्मृतम् । वाराहम् द्वादशम् प्रोक्तम् स्कान्दम् च एव त्रयोदशम् ॥ ६३॥
daśamam brahmavaivarttam laiṅgam ekādaśam smṛtam . vārāham dvādaśam proktam skāndam ca eva trayodaśam .. 63..
चतुर्दशं वामनं च कौर्मं पञ्चदशं स्मृतम् । मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् ॥ ६४॥
चतुर्दशम् वामनम् च कौर्मम् पञ्चदशम् स्मृतम् । मात्स्यम् च गारुडम् च एव ब्रह्माण्डम् च ततस् परम् ॥ ६४॥
caturdaśam vāmanam ca kaurmam pañcadaśam smṛtam . mātsyam ca gāruḍam ca eva brahmāṇḍam ca tatas param .. 64..
एतानि कुरुशार्दूल धर्मशास्त्राणि पण्डितैः । साधारणानि प्रोक्तानि वर्णानां श्रेयसे सदा ॥ ६५॥
एतानि कुरु-शार्दूल धर्म-शास्त्राणि पण्डितैः । साधारणानि प्रोक्तानि वर्णानाम् श्रेयसे सदा ॥ ६५॥
etāni kuru-śārdūla dharma-śāstrāṇi paṇḍitaiḥ . sādhāraṇāni proktāni varṇānām śreyase sadā .. 65..
चतुर्णामिह राजेन्द्र श्रोतुमर्हाणि सुव्रत । किमिच्छसि महाबाहो श्रोतुमेषां नृपोत्तम ॥ ६६॥
चतुर्णाम् इह राज-इन्द्र श्रोतुम् अर्हाणि सुव्रत । किम् इच्छसि महा-बाहो श्रोतुम् एषाम् नृप-उत्तम ॥ ६६॥
caturṇām iha rāja-indra śrotum arhāṇi suvrata . kim icchasi mahā-bāho śrotum eṣām nṛpa-uttama .. 66..
शतानीक उवाच
भारतं तु श्रुतं विप्र तातस्याङ्कगतेन तु । रामस्य चरितं चापि श्रुतं ब्रह्मन्समन्ततः ॥ ६७॥
भारतम् तु श्रुतम् विप्र तातस्य अङ्क-गतेन तु । रामस्य चरितम् च अपि श्रुतम् ब्रह्मन् समन्ततः ॥ ६७॥
bhāratam tu śrutam vipra tātasya aṅka-gatena tu . rāmasya caritam ca api śrutam brahman samantataḥ .. 67..
पुराणानि च विप्रेन्द्र भविष्यं न तु सुव्रत । पुराणं वद विप्रेन्द्र! भविष्यं कौतुकं हि मे ॥ ६८॥
पुराणानि च विप्र-इन्द्र भविष्यम् न तु सुव्रत । पुराणम् वद विप्र-इन्द्र! भविष्यम् कौतुकम् हि मे ॥ ६८॥
purāṇāni ca vipra-indra bhaviṣyam na tu suvrata . purāṇam vada vipra-indra! bhaviṣyam kautukam hi me .. 68..
सुमन्तुरुवाच
साधु साधु महाबाहो साधु पृष्टोऽस्मि ४ मानद । शृणु मे वदतो राजन् पुराणं नवमं महत् ॥ ६९॥
साधु साधु महा-बाहो साधु पृष्टः अस्मि मानद । शृणु मे वदतः राजन् पुराणम् नवमम् महत् ॥ ६९॥
sādhu sādhu mahā-bāho sādhu pṛṣṭaḥ asmi mānada . śṛṇu me vadataḥ rājan purāṇam navamam mahat .. 69..
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो नृप । अश्वमेधफलं प्राप्य गच्छेद् भानौ न संशयः ॥ 1.1.७०॥
यत् श्रुत्वा सर्व-पापेभ्यः मुच्यते मानवः नृप । अश्वमेध-फलम् प्राप्य गच्छेत् भानौ न संशयः ॥ १।१।७०॥
yat śrutvā sarva-pāpebhyaḥ mucyate mānavaḥ nṛpa . aśvamedha-phalam prāpya gacchet bhānau na saṃśayaḥ .. 1.1.70..
इदं तु ब्रह्मणा प्रोक्तं धर्मशास्त्रमनुत्तमम् । विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः ५ ॥ ७१॥
इदम् तु ब्रह्मणा प्रोक्तम् धर्म-शास्त्रम् अनुत्तमम् । विदुषा ब्राह्मणेन इदम् अध्येतव्यम् प्रयत्नतः ॥ ७१॥
idam tu brahmaṇā proktam dharma-śāstram anuttamam . viduṣā brāhmaṇena idam adhyetavyam prayatnataḥ .. 71..
शिष्येभ्यश्चैव वक्तव्यं चातुर्वर्ण्येभ्य एव हि । अध्येतव्यं न चान्येन ब्राह्मणं क्षत्रियं विना ॥ श्रोतव्यमेव शूद्रेण नाध्येतव्यं कदाचन ६ ॥ ७२॥
शिष्येभ्यः च एव वक्तव्यम् चातुर्वर्ण्येभ्यः एव हि । अध्येतव्यम् न च अन्येन ब्राह्मणम् क्षत्रियम् विना ॥ श्रोतव्यम् एव शूद्रेण न अध्येतव्यम् कदाचन ॥ ७२॥
śiṣyebhyaḥ ca eva vaktavyam cāturvarṇyebhyaḥ eva hi . adhyetavyam na ca anyena brāhmaṇam kṣatriyam vinā .. śrotavyam eva śūdreṇa na adhyetavyam kadācana .. 72..
देवार्चां पुरतः १ कृत्वा ब्राह्मणैश्च नृपोत्तम । श्रोतव्यमेव शूद्रैश्च तथान्यैश्च द्विजातिभिः ॥ ७३॥
देव-अर्चाम् पुरतस् कृत्वा ब्राह्मणैः च नृप-उत्तम । श्रोतव्यम् एव शूद्रैः च तथा अन्यैः च द्विजातिभिः ॥ ७३॥
deva-arcām puratas kṛtvā brāhmaṇaiḥ ca nṛpa-uttama . śrotavyam eva śūdraiḥ ca tathā anyaiḥ ca dvijātibhiḥ .. 73..
श्रौतं स्मार्तं हि वै धर्मं प्रोक्तमस्मिन्नृपोत्तम । तस्माच्छूद्रैर्विना विप्रान्न श्रोतव्यं कथञ्चन । ७४॥
श्रौतम् स्मार्तम् हि वै धर्मम् प्रोक्तम् अस्मिन् नृप-उत्तम । तस्मात् शूद्रैः विना विप्रात् न श्रोतव्यम् कथञ्चन । ७४॥
śrautam smārtam hi vai dharmam proktam asmin nṛpa-uttama . tasmāt śūdraiḥ vinā viprāt na śrotavyam kathañcana . 74..
इदं शास्त्रमधीयानो ब्राह्मणः संशितव्रतः । मनोवाग्देहजैर्नित्यं कर्मदोषैर्न लिम्पते ॥ ७५॥
इदम् शास्त्रम् अधीयानः ब्राह्मणः संशित-व्रतः । मनः-वाच्-देह-जैः नित्यम् कर्म-दोषैः न लिम्पते ॥ ७५॥
idam śāstram adhīyānaḥ brāhmaṇaḥ saṃśita-vrataḥ . manaḥ-vāc-deha-jaiḥ nityam karma-doṣaiḥ na limpate .. 75..
शृण्वन्ति चापि ये राजन् भक्त्या वै ब्राह्मणादयः । मुच्यन्ते पातकैः सर्वैर्गच्छन्ति च दिवं प्रभो ॥ ७६॥
शृण्वन्ति च अपि ये राजन् भक्त्या वै ब्राह्मण-आदयः । मुच्यन्ते पातकैः सर्वैः गच्छन्ति च दिवम् प्रभो ॥ ७६॥
śṛṇvanti ca api ye rājan bhaktyā vai brāhmaṇa-ādayaḥ . mucyante pātakaiḥ sarvaiḥ gacchanti ca divam prabho .. 76..
श्रावयेच्चापि यो विप्रः सर्वान्वर्णान्नृपोत्तम । स गुरुः प्रोच्यते तात वर्णानामिह सर्वशः ॥ ७७॥
श्रावयेत् च अपि यः विप्रः सर्वान् वर्णान् नृप-उत्तम । स गुरुः प्रोच्यते तात वर्णानाम् इह सर्वशस् ॥ ७७॥
śrāvayet ca api yaḥ vipraḥ sarvān varṇān nṛpa-uttama . sa guruḥ procyate tāta varṇānām iha sarvaśas .. 77..
स पूज्यः सर्वकालेषु सर्वैर्वर्णैर्नराधिप । पृथिवीं च तथैवेमां कृत्स्नामेकोऽपि सोऽर्हति ॥ ७८॥
स पूज्यः सर्व-कालेषु सर्वैः वर्णैः नराधिप । पृथिवीम् च तथा एवा इमाम् कृत्स्नाम् एकः अपि सः अर्हति ॥ ७८॥
sa pūjyaḥ sarva-kāleṣu sarvaiḥ varṇaiḥ narādhipa . pṛthivīm ca tathā evā imām kṛtsnām ekaḥ api saḥ arhati .. 78..
इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् । इदं यशस्यं सततमिदं निःश्रेयसं परम् ॥ ७९॥
इदम् स्वस्त्ययनम् श्रेष्ठम् इदम् बुद्धि-विवर्धनम् । इदम् यशस्यम् सततम् इदम् निःश्रेयसम् परम् ॥ ७९॥
idam svastyayanam śreṣṭham idam buddhi-vivardhanam . idam yaśasyam satatam idam niḥśreyasam param .. 79..
अस्मिन्धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम् । चतुर्णामपि वर्णानामाचारश्चापि शाश्वतः ॥ 1.1.८०॥
अस्मिन् धर्मः अखिलेन उक्तः गुण-दोषौ च कर्मणाम् । चतुर्णाम् अपि वर्णानाम् आचारः च अपि शाश्वतः ॥ १।१।८०॥
asmin dharmaḥ akhilena uktaḥ guṇa-doṣau ca karmaṇām . caturṇām api varṇānām ācāraḥ ca api śāśvataḥ .. 1.1.80..
आचारः प्रथमो धर्मः श्रुत्युक्तश्च नरोत्तम । तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मवान्द्विजः ॥ ८१॥
आचारः प्रथमः धर्मः श्रुति-उक्तः च नरोत्तम । तस्मात् अस्मिन् समायुक्तः नित्यम् स्यात् आत्मवान् द्विजः ॥ ८१॥
ācāraḥ prathamaḥ dharmaḥ śruti-uktaḥ ca narottama . tasmāt asmin samāyuktaḥ nityam syāt ātmavān dvijaḥ .. 81..
आचाराद्विच्युतो विप्रो न वेदफलमश्नुते । आचारेण च संयुक्तः सम्पूर्णफलभाक्स्मृतः ॥ ८२॥
आचारात् विच्युतः विप्रः न वेद-फलम् अश्नुते । आचारेण च संयुक्तः सम्पूर्ण-फल-भाज् स्मृतः ॥ ८२॥
ācārāt vicyutaḥ vipraḥ na veda-phalam aśnute . ācāreṇa ca saṃyuktaḥ sampūrṇa-phala-bhāj smṛtaḥ .. 82..
एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् । सर्वस्य तपसो मूलमाचारं जगृहुः परम् ॥ ८३॥
एवम् आचारतः दृष्ट्वा धर्मस्य मुनयः गतिम् । सर्वस्य तपसः मूलम् आचारम् जगृहुः परम् ॥ ८३॥
evam ācārataḥ dṛṣṭvā dharmasya munayaḥ gatim . sarvasya tapasaḥ mūlam ācāram jagṛhuḥ param .. 83..
अन्ये च मानवा राजन्नाचारं संश्रिता सदा । एवमस्मिन्पुराणे तु आचारस्य तु कीर्तनम् ॥ ८४॥
अन्ये च मानवाः राजन् आचारम् संश्रिता सदा । एवम् अस्मिन् पुराणे तु आचारस्य तु कीर्तनम् ॥ ८४॥
anye ca mānavāḥ rājan ācāram saṃśritā sadā . evam asmin purāṇe tu ācārasya tu kīrtanam .. 84..
वृत्तान्तानि च राजेन्द्र तथा चोक्तानि पण्डितैः । त्रिलोक्यास्तु समुत्पत्तिः संस्कारविधिरुत्तमः ॥ श्रवणं चेतिहासस्य विधानं कथ्यते नृप ॥ ८५॥
वृत्तान्तानि च राज-इन्द्र तथा च उक्तानि पण्डितैः । त्रिलोक्याः तु समुत्पत्तिः संस्कार-विधिः उत्तमः ॥ श्रवणम् च इतिहासस्य विधानम् कथ्यते नृप ॥ ८५॥
vṛttāntāni ca rāja-indra tathā ca uktāni paṇḍitaiḥ . trilokyāḥ tu samutpattiḥ saṃskāra-vidhiḥ uttamaḥ .. śravaṇam ca itihāsasya vidhānam kathyate nṛpa .. 85..
तथास्मिन्कथ्यते राजन्माहात्म्यं वाचकस्य तु । व्रतचर्याश्रमाचाराः स्नातकस्य परो विधिः ॥ ८६॥
तथा अस्मिन् कथ्यते राजन् माहात्म्यम् वाचकस्य तु । व्रत-चर्या-आश्रम-आचाराः स्नातकस्य परः विधिः ॥ ८६॥
tathā asmin kathyate rājan māhātmyam vācakasya tu . vrata-caryā-āśrama-ācārāḥ snātakasya paraḥ vidhiḥ .. 86..
दारादिगमनं चैव विवाहानां च लक्षणम् । पुंसां च लक्षणं राजन्योषितां चात्र कथ्यते ॥ ८७॥
दार-आदि-गमनम् च एव विवाहानाम् च लक्षणम् । पुंसाम् च लक्षणम् राजन् योषिताम् च अत्र कथ्यते ॥ ८७॥
dāra-ādi-gamanam ca eva vivāhānām ca lakṣaṇam . puṃsām ca lakṣaṇam rājan yoṣitām ca atra kathyate .. 87..
महायज्ञविधानं च शास्त्रकल्पं च शाश्वतम् । पृथिव्या लक्षणं तात देवार्चायाः सुलक्षणम् ॥ ८८॥
महायज्ञ-विधानम् च शास्त्र-कल्पम् च शाश्वतम् । पृथिव्याः लक्षणम् तात देव-अर्चायाः सु लक्षणम् ॥ ८८॥
mahāyajña-vidhānam ca śāstra-kalpam ca śāśvatam . pṛthivyāḥ lakṣaṇam tāta deva-arcāyāḥ su lakṣaṇam .. 88..
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च । भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिरेव च ॥ ८९॥
वृत्तीनाम् लक्षणम् च एव स्नातकस्य व्रतानि च । भक्ष्य-अभक्ष्यम् च शौचम् च द्रव्याणाम् शुद्धिः एव च ॥ ८९॥
vṛttīnām lakṣaṇam ca eva snātakasya vratāni ca . bhakṣya-abhakṣyam ca śaucam ca dravyāṇām śuddhiḥ eva ca .. 89..
स्त्रीधर्मयोगस्तापस्यं मोक्षः संन्यास एव च । राज्ञश्च धर्मो ह्यखिलः कार्याणां च विनिर्णयः ॥ 1.1.९०॥
स्त्री-धर्म-योगः तापस्यम् मोक्षः संन्यासः एव च । राज्ञः च धर्मः हि अखिलः कार्याणाम् च विनिर्णयः ॥ १।१।९०॥
strī-dharma-yogaḥ tāpasyam mokṣaḥ saṃnyāsaḥ eva ca . rājñaḥ ca dharmaḥ hi akhilaḥ kāryāṇām ca vinirṇayaḥ .. 1.1.90..
माहात्म्यं सवितुश्चात्र तीर्थानां च विशाम्पते । नारायणस्य माहात्म्यं तथा रुद्रस्य कथ्यते ॥ ९१॥
माहात्म्यम् सवितुः च अत्र तीर्थानाम् च विशाम् पते । नारायणस्य माहात्म्यम् तथा रुद्रस्य कथ्यते ॥ ९१॥
māhātmyam savituḥ ca atra tīrthānām ca viśām pate . nārāyaṇasya māhātmyam tathā rudrasya kathyate .. 91..
महाभाग्यं च विप्राणां माहात्म्यं पुस्तकस्य च । दुर्गादेव्यास्तथा चोक्तं सत्यस्य च महामते ॥ ९२॥
महाभाग्यम् च विप्राणाम् माहात्म्यम् पुस्तकस्य च । दुर्गा-देव्याः तथा च उक्तम् सत्यस्य च महामते ॥ ९२॥
mahābhāgyam ca viprāṇām māhātmyam pustakasya ca . durgā-devyāḥ tathā ca uktam satyasya ca mahāmate .. 92..
संक्षिप्तं १ संविधानं च धर्मं स्त्रीपुंसयोरपि । विभागं धर्मद्यूतं च कथकानां च शोधनम् ॥ ९३॥
संक्षिप्तम् संविधानम् च धर्मम् स्त्रीपुंसयोः अपि । विभागम् धर्म-द्यूतम् च कथकानाम् च शोधनम् ॥ ९३॥
saṃkṣiptam saṃvidhānam ca dharmam strīpuṃsayoḥ api . vibhāgam dharma-dyūtam ca kathakānām ca śodhanam .. 93..
वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् । आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा ॥ ९४॥
वैश्य-शूद्र-उपचारम् च संकीर्णानाम् च संभवम् । आपद्-धर्मम् च वर्णानाम् प्रायश्चित्त-विधिम् तथा ॥ ९४॥
vaiśya-śūdra-upacāram ca saṃkīrṇānām ca saṃbhavam . āpad-dharmam ca varṇānām prāyaścitta-vidhim tathā .. 94..
संध्याविधिं प्रेतशुद्धिं स्नानतर्पणयोर्विधिम् । वैश्वदेवविधिं चापि तथा भोज्यविधिं नृप ॥ ९५॥
संध्या-विधिम् प्रेत-शुद्धिम् स्नान-तर्पणयोः विधिम् । वैश्वदेव-विधिम् च अपि तथा भोज्य-विधिम् नृप ॥ ९५॥
saṃdhyā-vidhim preta-śuddhim snāna-tarpaṇayoḥ vidhim . vaiśvadeva-vidhim ca api tathā bhojya-vidhim nṛpa .. 95..
लक्षणं दन्तकाष्ठस्य चरणव्यूहमुत्तमम् । संसारगमनं चैव त्रिविधं कर्मसम्भवम् ॥ ९६॥
लक्षणम् दन्तकाष्ठस्य चरण-व्यूहम् उत्तमम् । संसार-गमनम् च एव त्रिविधम् कर्म-सम्भवम् ॥ ९६॥
lakṣaṇam dantakāṣṭhasya caraṇa-vyūham uttamam . saṃsāra-gamanam ca eva trividham karma-sambhavam .. 96..
नैःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् । दाराणां लक्षणं प्रोक्तं तथा पात्रपरीक्षणम् ॥ ९७॥
नैःश्रेयसम् कर्मणाम् च गुण-दोष-परीक्षणम् । दाराणाम् लक्षणम् प्रोक्तम् तथा पात्र-परीक्षणम् ॥ ९७॥
naiḥśreyasam karmaṇām ca guṇa-doṣa-parīkṣaṇam . dārāṇām lakṣaṇam proktam tathā pātra-parīkṣaṇam .. 97..
प्रसूतिं चापि गर्भस्य तथा कर्मफलं नृप । जातिधर्मान्कुलधर्मान्वेदधर्मांश्च १ पार्थिव ॥ ९८॥
प्रसूतिम् च अपि गर्भस्य तथा कर्म-फलम् नृप । जाति-धर्मान् कुल-धर्मान् वेद-धर्मान् च पार्थिव ॥ ९८॥
prasūtim ca api garbhasya tathā karma-phalam nṛpa . jāti-dharmān kula-dharmān veda-dharmān ca pārthiva .. 98..
वैतानव्रतिकानां च तथासौ प्रोक्तवान्विभुः । ब्रह्मा कुरुकुलश्रेष्ठ शंकराय महात्मने ॥ ९९॥
वैतानव्रतिकानाम् च तथा असौ प्रोक्तवान् विभुः । ब्रह्मा कुरु-कुल-श्रेष्ठ शंकराय महात्मने ॥ ९९॥
vaitānavratikānām ca tathā asau proktavān vibhuḥ . brahmā kuru-kula-śreṣṭha śaṃkarāya mahātmane .. 99..
शंकरेण तथा विष्णोः कथितं कुरुनन्दन । विष्णुनापि पुनः प्रोक्तं नारदाय महीपते ॥ 1.1.१००॥
शंकरेण तथा विष्णोः कथितम् कुरु-नन्दन । विष्णुना अपि पुनर् प्रोक्तम् नारदाय महीपते ॥ १।१।१००॥
śaṃkareṇa tathā viṣṇoḥ kathitam kuru-nandana . viṣṇunā api punar proktam nāradāya mahīpate .. 1.1.100..
नारदात्प्राप्तवाञ्छक्रः शक्रादपि पराशरः । पराशरात्ततो व्यासो व्यासादपि मया विभो ॥ १०१॥
नारदात् प्राप्तवान् शक्रः शक्रात् अपि पराशरः । पराशरात् ततस् व्यासः व्यासात् अपि मया विभो ॥ १०१॥
nāradāt prāptavān śakraḥ śakrāt api parāśaraḥ . parāśarāt tatas vyāsaḥ vyāsāt api mayā vibho .. 101..
एवं परम्पराप्राप्तं पुराणमिदमुत्तमम् । शृणु त्वमपि राजेन्द्र मत्सकाशात्परं हितम् ॥ १०२॥
एवम् परम्परा-प्राप्तम् पुराणम् इदम् उत्तमम् । शृणु त्वम् अपि राज-इन्द्र मद्-सकाशात् परम् हितम् ॥ १०२॥
evam paramparā-prāptam purāṇam idam uttamam . śṛṇu tvam api rāja-indra mad-sakāśāt param hitam .. 102..
सर्वाण्येव पुराणानि संज्ञेयानि नरर्षभ । द्वादशैव सहस्राणि प्रोक्तानीह मनीषिभिः ॥ १०३॥
सर्वाणि एव पुराणानि संज्ञेयानि नर-ऋषभ । द्वादश एव सहस्राणि प्रोक्तानि इह मनीषिभिः ॥ १०३॥
sarvāṇi eva purāṇāni saṃjñeyāni nara-ṛṣabha . dvādaśa eva sahasrāṇi proktāni iha manīṣibhiḥ .. 103..
पुनर्वृद्धिं गतानीह आख्यानैर्विविधैर्वृष । यथा स्कान्दं तथा चेदं भविष्यं कुरुनन्दन ॥ १०४॥
पुनर् वृद्धिम् गतानि इह आख्यानैः विविधैः वृष । यथा स्कान्दम् तथा च इदम् भविष्यम् कुरु-नन्दन ॥ १०४॥
punar vṛddhim gatāni iha ākhyānaiḥ vividhaiḥ vṛṣa . yathā skāndam tathā ca idam bhaviṣyam kuru-nandana .. 104..
स्कान्दं शतसहस्रं तु लोकानां ज्ञातमेव हि । भविष्यमेतदृषिणा लक्षार्द्धं संख्यया कृतम् २ ॥ १०५॥
स्कान्दम् शत-सहस्रम् तु लोकानाम् ज्ञातम् एव हि । भविष्यम् एतत् ऋषिणा लक्ष-अर्द्धम् संख्यया कृतम् ॥ १०५॥
skāndam śata-sahasram tu lokānām jñātam eva hi . bhaviṣyam etat ṛṣiṇā lakṣa-arddham saṃkhyayā kṛtam .. 105..
तच्छ्रुत्वा पुरुषो भक्त्या इदं फलमवाप्नुयात् । ऋद्धिर्वृद्धिस्तथा श्रीश्च भवन्ति तस्य निश्चितम् ॥ १०६॥
तत् श्रुत्वा पुरुषः भक्त्या इदम् फलम् अवाप्नुयात् । ऋद्धिः वृद्धिः तथा श्रीः च भवन्ति तस्य निश्चितम् ॥ १०६॥
tat śrutvā puruṣaḥ bhaktyā idam phalam avāpnuyāt . ṛddhiḥ vṛddhiḥ tathā śrīḥ ca bhavanti tasya niścitam .. 106..
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राहमे पर्वणि कथाप्रस्तावने प्रथमोऽध्यायः । १ । ॥
इति श्री-भविष्ये महापुराणे शत-अर्द्ध-साहस्र्याम् संहितायाम् ब्राहमे पर्वणि कथा-प्रस्तावने प्रथमः अध्यायः । १ । ॥
iti śrī-bhaviṣye mahāpurāṇe śata-arddha-sāhasryām saṃhitāyām brāhame parvaṇi kathā-prastāvane prathamaḥ adhyāyaḥ . 1 . ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In