| |
|

This overlay will guide you through the buttons:

विवाहधर्मेषु स्त्रीविषये नरवृत्तवर्णनम्ब्रह्मोवाच
अथ अष्टमोध्यायः ॥
atha aṣṭamodhyāyaḥ ..
कर्तव्यं यद्गृहस्थेन तदिदानीं निबोधत । गदतो द्विजशार्दूल विस्तराच्छास्त्रतस्तथा ॥ १॥
kartavyaṃ yadgṛhasthena tadidānīṃ nibodhata . gadato dvijaśārdūla vistarācchāstratastathā .. 1..
वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि । शुभदेशाश्रयश्चैव पत्नी वैवाहिकी गृहे ॥ २॥
vaivāhike'gnau kurvīta gṛhyaṃ karma yathāvidhi . śubhadeśāśrayaścaiva patnī vaivāhikī gṛhe .. 2..
स्वाश्रयेण विना शक्यं न यस्माद्रक्षणादिकम् । वित्तानामिव दाराणामतस्तद्विधिरुच्यते ॥ ३॥
svāśrayeṇa vinā śakyaṃ na yasmādrakṣaṇādikam . vittānāmiva dārāṇāmatastadvidhirucyate .. 3..
हेतवो हि त्रिवर्गस्य विपरीतास्तु१ मानद । अरक्षणाद्भवन्त्यस्मादमीषां रक्षणं मतम् ॥ ४॥
hetavo hi trivargasya viparītāstu1 mānada . arakṣaṇādbhavantyasmādamīṣāṃ rakṣaṇaṃ matam .. 4..
निसर्गात्पुंस्यसन्तोषाद्गुणदोषविमर्षतः । दुष्टानां चापि संसर्गाद्रक्ष्या एव च योषितः ॥ ५॥
nisargātpuṃsyasantoṣādguṇadoṣavimarṣataḥ . duṣṭānāṃ cāpi saṃsargādrakṣyā eva ca yoṣitaḥ .. 5..
पुरुषस्थानवेश्मानि त्रिविधं प्राहुराश्रयम् । वित्तानां रक्षणाद्यर्थमपूर्वाधिगमाय च ॥ ६॥
puruṣasthānaveśmāni trividhaṃ prāhurāśrayam . vittānāṃ rakṣaṇādyarthamapūrvādhigamāya ca .. 6..
कुलीनो नीतिमान्प्राज्ञः सत्यसन्धो दृढव्रतः । विनीतो धार्मिकस्त्यागी२ विज्ञेयः पुरुषाश्रयः ॥ ७॥
kulīno nītimānprājñaḥ satyasandho dṛḍhavrataḥ . vinīto dhārmikastyāgī2 vijñeyaḥ puruṣāśrayaḥ .. 7..
नगरे खर्वटे खेटे ग्रामे चापि क्रमागते । यात्रावशाद्वा निवसेद्धार्मिकाद्यजनान्विते ॥ ८॥
nagare kharvaṭe kheṭe grāme cāpi kramāgate . yātrāvaśādvā nivaseddhārmikādyajanānvite .. 8..
गुरुणानुमतस्तत्र ग्रामण्यादिजनेन वा । प्रतिवेश्माद्यबाधेन शुद्धं कुर्यान्निवेशनम् ॥ ९॥
guruṇānumatastatra grāmaṇyādijanena vā . prativeśmādyabādhena śuddhaṃ kuryānniveśanam .. 9..
द्वारचत्वरशालानां १ सर्वकारुकवेश्मनाम् । द्यूतसूनासुरावेशनटराजानुजीविनाम् ॥ १०॥
dvāracatvaraśālānāṃ 1 sarvakārukaveśmanām . dyūtasūnāsurāveśanaṭarājānujīvinām .. 10..
पाखण्डदेववीथीनां राजमार्गकुलस्य च । दूरात्सुगुप्तं कर्तव्या जीविका विभवोचिता ॥ ११॥
pākhaṇḍadevavīthīnāṃ rājamārgakulasya ca . dūrātsuguptaṃ kartavyā jīvikā vibhavocitā .. 11..
सापिधानैकनिष्काशं शुद्धपृष्टं समन्ततः । सद्वृत्ताप्तजनाकीर्णमदुष्टप्रातिवेशिकम् ॥ १२॥
sāpidhānaikaniṣkāśaṃ śuddhapṛṣṭaṃ samantataḥ . sadvṛttāptajanākīrṇamaduṣṭaprātiveśikam .. 12..
प्रागुदक्प्रवणे देशे वास्तुविद्याविधानतः । प्रविभक्तक्रियाकाञ्क्षं सर्वर्तुकमनोहरम् ॥ १३॥
prāgudakpravaṇe deśe vāstuvidyāvidhānataḥ . pravibhaktakriyākāñkṣaṃ sarvartukamanoharam .. 13..
अर्चास्नानोदकागारगोष्ठागारमहानसैः । युक्तं गोवाजिशालाभिः सदासीभृत्यकाश्रयैः ॥ १४॥
arcāsnānodakāgāragoṣṭhāgāramahānasaiḥ . yuktaṃ govājiśālābhiḥ sadāsībhṛtyakāśrayaiḥ .. 14..
बहिरन्तः पुरस्त्रीकं सर्वोपकरणैर्युतम् । विभक्तशयनोद्देशमाप्तवृद्धैरधिष्ठितम् ॥ १५॥
bahirantaḥ purastrīkaṃ sarvopakaraṇairyutam . vibhaktaśayanoddeśamāptavṛddhairadhiṣṭhitam .. 15..
अरक्षणाद्धि दाराणां वर्णसङ्करजादयः । दृष्टा हि बहवो दोषास्तस्माद्रक्ष्याः सदा स्त्रियः ॥ १६॥
arakṣaṇāddhi dārāṇāṃ varṇasaṅkarajādayaḥ . dṛṣṭā hi bahavo doṣāstasmādrakṣyāḥ sadā striyaḥ .. 16..
न ह्यासां प्रमदं दद्यान्न स्वातन्त्र्यं न विश्वसेत् । विश्वस्तवच्च चेष्टेत न्याय्यं भर्त्सनमाचरेत् ॥ १७॥
na hyāsāṃ pramadaṃ dadyānna svātantryaṃ na viśvaset . viśvastavacca ceṣṭeta nyāyyaṃ bhartsanamācaret .. 17..
नाधिकारं क्वचिद्दद्यादृते पाकादिकर्मणः । स्त्रीणां ग्रामीणवत्ता हि भोगायालं सुशासिता ॥ १८॥
nādhikāraṃ kvaciddadyādṛte pākādikarmaṇaḥ . strīṇāṃ grāmīṇavattā hi bhogāyālaṃ suśāsitā .. 18..
नित्यं तत्कर्मयोगेन ताः कर्तव्या निरन्तराः । इत्येवं सर्वदा व्याप्तेः स्यादविद्यनिराश्रया ॥ १९॥
nityaṃ tatkarmayogena tāḥ kartavyā nirantarāḥ . ityevaṃ sarvadā vyāpteḥ syādavidyanirāśrayā .. 19..
दौर्गत्यमतिरूपं१ चाप्यसत्सङ्गः स्वतन्त्रता । पानाशनकथागोष्ठीप्रियत्वाकर्मशीलता२ ॥ २०॥
daurgatyamatirūpaṃ1 cāpyasatsaṅgaḥ svatantratā . pānāśanakathāgoṣṭhīpriyatvākarmaśīlatā2 .. 20..
कुहकेक्षणिकामुण्डाभिक्षुकीसूतिकादिभिः । गोप्रसङ्गैस्तथा३ सद्भिर्लिङ्गियाचकशिल्पिभिः ॥ २१॥
kuhakekṣaṇikāmuṇḍābhikṣukīsūtikādibhiḥ . goprasaṅgaistathā3 sadbhirliṅgiyācakaśilpibhiḥ .. 21..
संवाहोद्यानयात्रासूद्यानेष्वामन्त्रणादिषु । प्रसङ्गस्तीर्थयात्रार्थं धर्मेषु प्रकटेषु च ॥ २२॥
saṃvāhodyānayātrāsūdyāneṣvāmantraṇādiṣu . prasaṅgastīrthayātrārthaṃ dharmeṣu prakaṭeṣu ca .. 22..
विप्रयोगः सदा भर्त्रा तज्ज्ञातिकुलनिःस्वता । अमाधुर्यकदर्यत्वे भृशं पुंसां च वाच्यता ॥ २३॥
viprayogaḥ sadā bhartrā tajjñātikulaniḥsvatā . amādhuryakadaryatve bhṛśaṃ puṃsāṃ ca vācyatā .. 23..
अतिक्रौर्यमतिक्षान्तिरत्यन्ताभीतिपातनम् । स्त्रीभिर्जितत्वमत्यर्थं सत्यं तास्ताः सदोषताः ॥ २४॥
atikrauryamatikṣāntiratyantābhītipātanam . strībhirjitatvamatyarthaṃ satyaṃ tāstāḥ sadoṣatāḥ .. 24..
स्त्रीणां४ पत्युरधीनत्वात्पुमानेव हि निन्द्यते । भर्तुरेव हि तज्जाड्यं यद्भृत्यानामयोग्यता ॥ २५॥
strīṇāṃ4 patyuradhīnatvātpumāneva hi nindyate . bhartureva hi tajjāḍyaṃ yadbhṛtyānāmayogyatā .. 25..
तस्माद्यथोदितास्वेता रक्ष्याः शासनताडनैः । ताडनैश्च यथाकालं यथावत्समुपाचरेत् ॥ २६॥
tasmādyathoditāsvetā rakṣyāḥ śāsanatāḍanaiḥ . tāḍanaiśca yathākālaṃ yathāvatsamupācaret .. 26..
परिगृह्य बहून्दारानुपचारैः समो भवेत् । यथाक्रमोचितैः कर्म दानसत्कारवासनैः ॥ २७॥
parigṛhya bahūndārānupacāraiḥ samo bhavet . yathākramocitaiḥ karma dānasatkāravāsanaiḥ .. 27..
प्रथमोऽभिजनो धर्मो योग्यत्वं च सुपुत्रता । पक्षे वित्तं विशेत्स्त्रीणां मानस्तत्कारणं तथा ॥ २८॥
prathamo'bhijano dharmo yogyatvaṃ ca suputratā . pakṣe vittaṃ viśetstrīṇāṃ mānastatkāraṇaṃ tathā .. 28..
तस्मान्मानो न कर्तव्यो हेयश्चापि न तत्कृतः । गुरुत्वे लाघवे वापि सतां कार्यं निबन्धनम् ॥ २९॥
tasmānmāno na kartavyo heyaścāpi na tatkṛtaḥ . gurutve lāghave vāpi satāṃ kāryaṃ nibandhanam .. 29..
आकस्मिके प्रयुञ्जानः प्रेक्षावान्मानलाघवे । स यत्किञ्चनकारित्वाच्चायमेवैति लाघवम् ॥ ३०॥
ākasmike prayuñjānaḥ prekṣāvānmānalāghave . sa yatkiñcanakāritvāccāyamevaiti lāghavam .. 30..
यथा मानापमानौ हि प्रयुज्येतानिमित्ततः । तन्निमित्ता जनत्यागे प्रयतन्ते तदाश्रिताः ॥ ३१॥
yathā mānāpamānau hi prayujyetānimittataḥ . tannimittā janatyāge prayatante tadāśritāḥ .. 31..
एतदेव ह्यपत्यानां१ ज्ञेयं माननकारणम् । यत्स्वापत्यनिमित्तेषु२ प्रधाने कुलयोग्यते ॥ ३२॥
etadeva hyapatyānāṃ1 jñeyaṃ mānanakāraṇam . yatsvāpatyanimitteṣu2 pradhāne kulayogyate .. 32..
तत्संयोगात्सुखं पुंसां महद्दुःखं वियोगतः । तत्प्राप्तिः प्रति हातव्या स्वार्थायैव प्रियाण्यपि ॥ ३३॥
tatsaṃyogātsukhaṃ puṃsāṃ mahadduḥkhaṃ viyogataḥ . tatprāptiḥ prati hātavyā svārthāyaiva priyāṇyapi .. 33..
अतः स्वार्थैकनिष्ठोऽयं लोकः सर्वोऽवसीयते । तत्प्रसिद्धिर्भवेदस्तमानाद् भ्रान्तिविधायकः ॥ ३४॥
ataḥ svārthaikaniṣṭho'yaṃ lokaḥ sarvo'vasīyate . tatprasiddhirbhavedastamānād bhrāntividhāyakaḥ .. 34..
ततो दारादिका भृत्या नियन्तव्यास्तथा द्विजाः । यथेहामुत्र वा श्रेयः प्राप्नुयादुत्तरोत्तरम् ॥ ३५॥
tato dārādikā bhṛtyā niyantavyāstathā dvijāḥ . yathehāmutra vā śreyaḥ prāpnuyāduttarottaram .. 35..
स्त्रीणां धर्मार्थकामेषु नातिसन्धानमाचरेत् । तासां तेष्वभिसन्धानाद्भवेदात्माभिसंहितः ॥ ३६॥
strīṇāṃ dharmārthakāmeṣu nātisandhānamācaret . tāsāṃ teṣvabhisandhānādbhavedātmābhisaṃhitaḥ .. 36..
जाया त्वर्धं शरीरस्य नृणां धर्मादिसाधने । नातस्तासु व्यथां काञ्चित्प्रतिकूलं समाचरेत् ॥ ३७॥
jāyā tvardhaṃ śarīrasya nṛṇāṃ dharmādisādhane . nātastāsu vyathāṃ kāñcitpratikūlaṃ samācaret .. 37..
यज्ञोत्सवादौ नाकस्मात्काञ्चिदासां विशेषयेत् । वस्त्रताम्बूलदानादौ प्रतिपत्तौ समो भवेत् ॥ ३८॥
yajñotsavādau nākasmātkāñcidāsāṃ viśeṣayet . vastratāmbūladānādau pratipattau samo bhavet .. 38..
प्रियाप्रियत्वं भेदो हि कामतस्तु रहोगतः । उपचारैः पुनर्वाक्यैस्तुल्यवृत्तिः प्रशस्यते ॥ ३९॥
priyāpriyatvaṃ bhedo hi kāmatastu rahogataḥ . upacāraiḥ punarvākyaistulyavṛttiḥ praśasyate .. 39..
आर्तवे तु पुनः सर्वा उपगम्याः प्रिया इव । पूर्वाभिजातधर्मार्था पुत्रिणी चोत्तरोत्तरम् ॥ ४०॥
ārtave tu punaḥ sarvā upagamyāḥ priyā iva . pūrvābhijātadharmārthā putriṇī cottarottaram .. 40..
उदग्गच्छेदनेनैव विधिना नित्यमार्तवे । तुल्यवृत्तिर्यथाकालं स्वं स्वं वासमखण्डयन् ॥ ४१॥
udaggacchedanenaiva vidhinā nityamārtave . tulyavṛttiryathākālaṃ svaṃ svaṃ vāsamakhaṇḍayan .. 41..
नित्यपर्यायवासानामपादानमसून्विदुः । ऋतुदुःखं प्रमोदश्च तथा पूर्वं समागतः ॥ ४२॥
nityaparyāyavāsānāmapādānamasūnviduḥ . ṛtuduḥkhaṃ pramodaśca tathā pūrvaṃ samāgataḥ .. 42..
अन्यया सह यद्दुःखं सदसद्वा रहोगतम् । उत्कण्ठितं वा यत्किञ्चित्सपत्नीषु न तद्वसेत् ॥ ४३॥
anyayā saha yadduḥkhaṃ sadasadvā rahogatam . utkaṇṭhitaṃ vā yatkiñcitsapatnīṣu na tadvaset .. 43..
यत्किञ्चिदन्यसम्बद्धमन्यथा कथितं मिथः । तस्य कुर्यादनिर्वेदमात्मनैव विचिन्तयेत् ॥ ४४॥
yatkiñcidanyasambaddhamanyathā kathitaṃ mithaḥ . tasya kuryādanirvedamātmanaiva vicintayet .. 44..
अन्योऽन्यमत्सराख्यानैर्न ता वाचापि भर्त्सयेत् । गुणदोषौ च विज्ञाय स्वयं कुर्यान्न निष्कलौ ॥ ४५॥
anyo'nyamatsarākhyānairna tā vācāpi bhartsayet . guṇadoṣau ca vijñāya svayaṃ kuryānna niṣkalau .. 45..
वस्त्रालङ्कारभोज्यादौ तदपत्येष्वनुक्रमात् । मातृदोषाननादृत्य तुल्यदृष्टिः पिता भवेत् ॥ ४६॥
vastrālaṅkārabhojyādau tadapatyeṣvanukramāt . mātṛdoṣānanādṛtya tulyadṛṣṭiḥ pitā bhavet .. 46..
अन्यस्यान्यगतैर्दोषैर्दूषणं न हि नीतिमत् । यत्तु तेषामपत्यं तु तत्तुल्यमुभयोरपि ॥ ४७॥
anyasyānyagatairdoṣairdūṣaṇaṃ na hi nītimat . yattu teṣāmapatyaṃ tu tattulyamubhayorapi .. 47..
प्रीतिं द्वेषमभिप्रायं शौचाशौचगतागमान् । बहिरन्तश्च जानीयाद्दास गूढचरैः सदा ॥ ४८॥
prītiṃ dveṣamabhiprāyaṃ śaucāśaucagatāgamān . bahirantaśca jānīyāddāsa gūḍhacaraiḥ sadā .. 48..
आत्मानमपि विज्ञाय चित्तवृत्तेरनीश्वरम् । विश्वसेत कथं स्त्रीषु सर्वाविनयधामसु ॥ ४९॥
ātmānamapi vijñāya cittavṛtteranīśvaram . viśvaseta kathaṃ strīṣu sarvāvinayadhāmasu .. 49..
वृद्धदास्यः क्रमायाता धात्र्यश्च परिचारिकाः । तन्मातृपितृकाद्याश्च षण्डवृद्धाश्चरा मताः ॥ ५०॥
vṛddhadāsyaḥ kramāyātā dhātryaśca paricārikāḥ . tanmātṛpitṛkādyāśca ṣaṇḍavṛddhāścarā matāḥ .. 50..
विविधैस्तत्कथाख्यानैस्तुल्यशीलदयान्वितैः । प्रविश्यान्तरभिप्रायं विद्यात्काले प्रयोजितैः ॥ ५१॥
vividhaistatkathākhyānaistulyaśīladayānvitaiḥ . praviśyāntarabhiprāyaṃ vidyātkāle prayojitaiḥ .. 51..
तेषु तेषु कथार्थेषु कथ्यमानेषु लक्षयेत् । मुखाकारादिभिर्लिङ्गैरभिप्रायं मनोगतम् ॥ ५२॥
teṣu teṣu kathārtheṣu kathyamāneṣu lakṣayet . mukhākārādibhirliṅgairabhiprāyaṃ manogatam .. 52..
सीतारुन्धतिसम्बन्धैस्तथा शाकुन्तलादिभिः । सदसच्चरिताख्यानैर्भावं विद्यात्प्रवृत्तितः ॥ ५३॥
sītārundhatisambandhaistathā śākuntalādibhiḥ . sadasaccaritākhyānairbhāvaṃ vidyātpravṛttitaḥ .. 53..
तद्दुष्टानामदुष्टेषु साधूनामितरेषु च । प्रीतिः कथाप्रबन्धेषु स्यात्सख्यं पुरुषेष्वितः ॥ ५४॥
tadduṣṭānāmaduṣṭeṣu sādhūnāmitareṣu ca . prītiḥ kathāprabandheṣu syātsakhyaṃ puruṣeṣvitaḥ .. 54..
एवमागमदुष्टाभ्यामनुमित्या च तत्त्वतः । स्त्रीणां विदित्वाभिप्रायं वर्तेताशु यथोचितम् ॥ ५५॥
evamāgamaduṣṭābhyāmanumityā ca tattvataḥ . strīṇāṃ viditvābhiprāyaṃ vartetāśu yathocitam .. 55..
स्त्रीभ्यो विप्रतिपन्नाभ्यः प्राणैरपि वियोजनम् । दृष्टं हि च यथा १ राज्ञामतो रक्षेत्प्रयत्नतः ॥ ५६॥
strībhyo vipratipannābhyaḥ prāṇairapi viyojanam . dṛṣṭaṃ hi ca yathā 1 rājñāmato rakṣetprayatnataḥ .. 56..
वेण्या गूढेन शस्त्रेण हतो राजा शुभध्वजः । मेखलामणिना देव्या सौवीरश्च नराधिपः ॥ ५७॥
veṇyā gūḍhena śastreṇa hato rājā śubhadhvajaḥ . mekhalāmaṇinā devyā sauvīraśca narādhipaḥ .. 57..
भ्रात्रा देवीप्रयुक्तेन भद्रसेनो निपातितः । तथा पुत्रेण कारूषो घातितो दर्पणासिना ॥ ५८॥
bhrātrā devīprayuktena bhadraseno nipātitaḥ . tathā putreṇa kārūṣo ghātito darpaṇāsinā .. 58..
द्वौ काशिराजौ वै वन्द्यौ चानन्दापुरयोषिता । विषं प्रयुज्य पञ्चत्वमानीतौ पूजितात्मकौ ॥ ५९॥
dvau kāśirājau vai vandyau cānandāpurayoṣitā . viṣaṃ prayujya pañcatvamānītau pūjitātmakau .. 59..
एवमादि महाभागा राजानो ब्राह्मणाश्च ह । स्त्रीभिर्यत्र निपात्यन्ते तत्रान्येष्विह का कथा ॥ 1.8.६०॥
evamādi mahābhāgā rājāno brāhmaṇāśca ha . strībhiryatra nipātyante tatrānyeṣviha kā kathā .. 1.8.60..
तस्मान्नित्याप्रमत्तेन जाया रक्ष्याश्च नित्यशः । यथावदुपचर्याश्च गुणदोषानुरूपतः ॥ ६१॥
tasmānnityāpramattena jāyā rakṣyāśca nityaśaḥ . yathāvadupacaryāśca guṇadoṣānurūpataḥ .. 61..
वैषम्यादुपचाराणां विकारैश्चानिमित्तजैः । विशेषेण सपत्नीकैरकस्माच्चापि वेदनैः ॥ ६२॥
vaiṣamyādupacārāṇāṃ vikāraiścānimittajaiḥ . viśeṣeṇa sapatnīkairakasmāccāpi vedanaiḥ .. 62..
असम्भागे च वाग्दण्डपारुष्यादप्रसङ्गतः । प्रद्वेषो भर्तरि स्त्रीणां प्रकोपश्चापि जायते ॥ ६३॥
asambhāge ca vāgdaṇḍapāruṣyādaprasaṅgataḥ . pradveṣo bhartari strīṇāṃ prakopaścāpi jāyate .. 63..
ततश्चायाति वार्धक्यमुद्वोढुश्चापि शत्रुताम् । तस्मान्न तान्प्रयुञ्जीत दोषान्दारविनाशकान् ॥ ६४॥
tataścāyāti vārdhakyamudvoḍhuścāpi śatrutām . tasmānna tānprayuñjīta doṣāndāravināśakān .. 64..
न चैताः स्वकुलाचारमधर्मं वापि चाञ्जसा । न गुणांश्चाप्युपेक्षन्ते प्रकृत्या किमु पीडिताः ॥ ६५॥
na caitāḥ svakulācāramadharmaṃ vāpi cāñjasā . na guṇāṃścāpyupekṣante prakṛtyā kimu pīḍitāḥ .. 65..
सतीत्वे प्रायशः स्त्रीणां प्रदृष्टं कारणत्रयम् । परपुंसामसम्प्रीतिः प्रिये प्रीतिः स्वरक्षणे ॥ ६६॥
satītve prāyaśaḥ strīṇāṃ pradṛṣṭaṃ kāraṇatrayam . parapuṃsāmasamprītiḥ priye prītiḥ svarakṣaṇe .. 66..
तस्मात्सुरक्षिता नित्यमुपचारैर्यथोचितैः । सुभृता१ नित्यकर्माणः कर्तव्या योषितः सदा ॥ ६७॥
tasmātsurakṣitā nityamupacārairyathocitaiḥ . subhṛtā1 nityakarmāṇaḥ kartavyā yoṣitaḥ sadā .. 67..
उत्तमां सामदानाभ्यां मध्यमाभ्यां तु मध्यमाम् । पश्चिमाभ्यामुभाम्यां च अधमां सम्प्रसाधयेत् ॥ ६८॥
uttamāṃ sāmadānābhyāṃ madhyamābhyāṃ tu madhyamām . paścimābhyāmubhāmyāṃ ca adhamāṃ samprasādhayet .. 68..
भेददण्डौ प्रयुज्यापि प्रागपत्याद्यपेक्षया । तच्छिष्टानां तदा पश्चात्सामदानप्रसाधने ॥ ६९॥
bhedadaṇḍau prayujyāpi prāgapatyādyapekṣayā . tacchiṣṭānāṃ tadā paścātsāmadānaprasādhane .. 69..
यास्तु विध्वस्तचारित्रा भर्तुश्चाहितकारिकाः । त्याज्या एवं स्त्रियः सद्भिः२ कालकूटविषोपमाः ॥ ७०॥
yāstu vidhvastacāritrā bhartuścāhitakārikāḥ . tyājyā evaṃ striyaḥ sadbhiḥ2 kālakūṭaviṣopamāḥ .. 70..
इष्टाः ३ कुलोद्गताः साध्व्यो विनीता भर्तृवत्सलाः । सर्वदा साधनीयास्ताः सम्प्रदायोत्तरोत्तरैः ॥ ७१॥
iṣṭāḥ 3 kulodgatāḥ sādhvyo vinītā bhartṛvatsalāḥ . sarvadā sādhanīyāstāḥ sampradāyottarottaraiḥ .. 71..
एवमेव यथोद्दिष्टं स्त्रीवृत्तं योऽनुतिष्ठति । प्राप्नोत्येव स सम्पूर्णं त्रिवर्गं ५ लोकसम्भवम् ॥ ७२॥
evameva yathoddiṣṭaṃ strīvṛttaṃ yo'nutiṣṭhati . prāpnotyeva sa sampūrṇaṃ trivargaṃ 5 lokasambhavam .. 72..
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि विवाहधर्मेषु स्त्रीविषये नरवृत्तवर्णनं नामाष्टमोऽध्यायः । ८ । ॥
iti śrībhaviṣye mahāpurāṇe śatārddhasāhasryāṃ saṃhitāyāṃ brāhme parvaṇi vivāhadharmeṣu strīviṣaye naravṛttavarṇanaṃ nāmāṣṭamo'dhyāyaḥ . 8 . ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In