| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
श्रृणुध्वमृषयः सर्वे वक्ष्यमाणं सनातनम् ।कर्मयोगं ब्राह्मणानामात्यन्तिकफलप्रदम् ॥ १२.१
श्रृणुध्वम् ऋषयः सर्वे वक्ष्यमाणम् सनातनम् । ॥ १२।१
śrṛṇudhvam ṛṣayaḥ sarve vakṣyamāṇam sanātanam . .. 12.1
आम्नायसिद्धमखिलं बाह्मणानां प्रदर्शितम् ।ऋषीणां श्रृण्वतां पूर्वं मनुराह प्रजापतिः ॥ १२.२
आम्नाय-सिद्धम् अखिलम् बाह्मणानाम् प्रदर्शितम् ।ऋषीणाम् श्रृण्वताम् पूर्वम् मनुः आह प्रजापतिः ॥ १२।२
āmnāya-siddham akhilam bāhmaṇānām pradarśitam .ṛṣīṇām śrṛṇvatām pūrvam manuḥ āha prajāpatiḥ .. 12.2
सर्वपापहरं पुण्यमृषिसङ्घैर्निषेवितम् ।समाहितधियो यूयं श्रृणुध्वं गदतो मम ॥ १२.३
सर्व-पाप-हरम् पुण्यम् ऋषि-सङ्घैः निषेवितम् ।समाहित-धियः यूयम् श्रृणुध्वम् गदतः मम ॥ १२।३
sarva-pāpa-haram puṇyam ṛṣi-saṅghaiḥ niṣevitam .samāhita-dhiyaḥ yūyam śrṛṇudhvam gadataḥ mama .. 12.3
कृतोपनयनो वेदानधीयीत द्विजोत्तमाः ।गर्भाष्टमेऽष्टमे वाब्दे स्वसूत्रोक्तविधानतः ॥ १२.४
कृत-उपनयनः वेदान् अधीयीत द्विजोत्तमाः ।गर्भ-अष्टमे अष्टमे वा अब्दे स्व-सूत्र-उक्त-विधानतः ॥ १२।४
kṛta-upanayanaḥ vedān adhīyīta dvijottamāḥ .garbha-aṣṭame aṣṭame vā abde sva-sūtra-ukta-vidhānataḥ .. 12.4
दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः ।भिक्षाहारो गुरुहितो वीक्षमाणो गुरोर्मुखम् ॥ १२.५
दण्डी च मेखली सूत्री कृष्ण-अजिन-धरः मुनिः ।भिक्षा-आहारः गुरु-हितः वीक्षमाणः गुरोः मुखम् ॥ १२।५
daṇḍī ca mekhalī sūtrī kṛṣṇa-ajina-dharaḥ muniḥ .bhikṣā-āhāraḥ guru-hitaḥ vīkṣamāṇaḥ guroḥ mukham .. 12.5
कार्पासमुपवीतार्थं निर्मितं ब्रह्मणा पुरा ।ब्राह्मणानां त्रिवित् सूत्रं कौशं वा वस्त्रमेव वा ॥ १२.६
कार्पासम् उपवीत-अर्थम् निर्मितम् ब्रह्मणा पुरा ।ब्राह्मणानाम् त्रिविद् सूत्रम् कौशम् वा वस्त्रम् एव वा ॥ १२।६
kārpāsam upavīta-artham nirmitam brahmaṇā purā .brāhmaṇānām trivid sūtram kauśam vā vastram eva vā .. 12.6
सदोपवीती चैव स्यात् सदा बद्धशिखो द्विजः ।अन्यथा यत् कृतं कर्म तद् भवत्ययथाकृतम् ॥ १२.७
सदा उपवीती च एव स्यात् सदा बद्ध-शिखः द्विजः ।अन्यथा यत् कृतम् कर्म तत् भवति अयथाकृतम् ॥ १२।७
sadā upavītī ca eva syāt sadā baddha-śikhaḥ dvijaḥ .anyathā yat kṛtam karma tat bhavati ayathākṛtam .. 12.7
वसेदविकृतं वासः कार्पासं वा कषायकम् ।तदेव परिधानीयं शुक्लमच्छिद्रमुत्तमम् ॥ १२.८
वसेत् अविकृतम् वासः कार्पासम् वा कषायकम् ।तत् एव परिधानीयम् शुक्लम् अच्छिद्रम् उत्तमम् ॥ १२।८
vaset avikṛtam vāsaḥ kārpāsam vā kaṣāyakam .tat eva paridhānīyam śuklam acchidram uttamam .. 12.8
उत्तरं तु समाख्यातं वासः कृष्णाजिनं शुभम् ।अभावे दिव्यमजिनं रौरवं वा विधीयते ॥ १२.९
उत्तरम् तु समाख्यातम् वासः कृष्णाजिनम् शुभम् ।अभावे दिव्यम् अजिनम् रौरवम् वा विधीयते ॥ १२।९
uttaram tu samākhyātam vāsaḥ kṛṣṇājinam śubham .abhāve divyam ajinam rauravam vā vidhīyate .. 12.9
उद्धृत्य दक्षिणं बाहुं सव्ये बाहौ समर्पितम् ।उपवीतं भवेन्नित्यं निवीतं कण्ठसज्जने ॥ १२.१०
उद्धृत्य दक्षिणम् बाहुम् सव्ये बाहौ समर्पितम् ।उपवीतम् भवेत् नित्यम् निवीतम् कण्ठ-सज्जने ॥ १२।१०
uddhṛtya dakṣiṇam bāhum savye bāhau samarpitam .upavītam bhavet nityam nivītam kaṇṭha-sajjane .. 12.10
सव्यं बाहुं समुद्धृत्य दक्षिणे तु धृतं द्विजाः ।प्राचीनावीतमित्युक्तं पैत्रे कर्मणि योजयेत् ॥ १२.११
सव्यम् बाहुम् समुद्धृत्य दक्षिणे तु धृतम् द्विजाः ।प्राचीनावीतम् इति उक्तम् पैत्रे कर्मणि योजयेत् ॥ १२।११
savyam bāhum samuddhṛtya dakṣiṇe tu dhṛtam dvijāḥ .prācīnāvītam iti uktam paitre karmaṇi yojayet .. 12.11
अग्न्यगारे गवां गोष्ठे होमे जप्ये तथैव च ।स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ ॥ १२.१२
अग्न्यगारे गवाम् गोष्ठे होमे जप्ये तथा एव च ।स्वाध्याये भोजने नित्यम् ब्राह्मणानाम् च सन्निधौ ॥ १२।१२
agnyagāre gavām goṣṭhe home japye tathā eva ca .svādhyāye bhojane nityam brāhmaṇānām ca sannidhau .. 12.12
उपासने गुरूणां च संध्ययोः साधुसंगमे ।उपवीती भवेन्नित्यं विधिरेष सनातनः ॥ १२.१३
उपासने गुरूणाम् च संध्ययोः साधु-संगमे ।उपवीती भवेत् नित्यम् विधिः एष सनातनः ॥ १२।१३
upāsane gurūṇām ca saṃdhyayoḥ sādhu-saṃgame .upavītī bhavet nityam vidhiḥ eṣa sanātanaḥ .. 12.13
मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।मुञ्जाभावे कुशेनाहुर्ग्रन्थिनैकेन वा त्रिभिः ॥ १२.१४
मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।मुञ्ज-अभावे कुशेन आहुः ग्रन्थिना एकेन वा त्रिभिः ॥ १२।१४
mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā .muñja-abhāve kuśena āhuḥ granthinā ekena vā tribhiḥ .. 12.14
धारयेद् बैल्वपालाशौ दण्डौ केशान्तकौ द्विजः ।यज्ञार्हवृक्षजं वाऽथ सौम्यमव्रणमेव च ॥ १२.१५
धारयेत् बैल्व-पालाशौ दण्डौ केश-अन्तकौ द्विजः ।यज्ञ-अर्ह-वृक्ष-जम् वा अथ सौम्यम् अव्रणम् एव च ॥ १२।१५
dhārayet bailva-pālāśau daṇḍau keśa-antakau dvijaḥ .yajña-arha-vṛkṣa-jam vā atha saumyam avraṇam eva ca .. 12.15
सायं प्रातर्द्विजः संध्यामुपासीत समाहितः ।कामाल्लोभाद् भयान्मोहात् त्यक्तेन पतितो भवेत् ॥ १२.१६
सायम् प्रातर् द्विजः संध्याम् उपासीत समाहितः ।कामात् लोभात् भयात् मोहात् त्यक्तेन पतितः भवेत् ॥ १२।१६
sāyam prātar dvijaḥ saṃdhyām upāsīta samāhitaḥ .kāmāt lobhāt bhayāt mohāt tyaktena patitaḥ bhavet .. 12.16
अग्निकार्यं ततः कुर्यात् सायं प्रातः प्रसन्नधीः ।स्नात्वा संतर्पयेद् देवानृषीन् पितृगणांस्तथा ॥ १२.१७
अग्नि-कार्यम् ततस् कुर्यात् सायम् प्रातर् प्रसन्न-धीः ।स्नात्वा संतर्पयेत् देवान् ऋषीन् पितृ-गणान् तथा ॥ १२।१७
agni-kāryam tatas kuryāt sāyam prātar prasanna-dhīḥ .snātvā saṃtarpayet devān ṛṣīn pitṛ-gaṇān tathā .. 12.17
देवताभ्यर्चनं कुर्यात् पुष्पैः पत्रेण चाम्बुना ।अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः ॥ १२.१८
देवता-अभ्यर्चनम् कुर्यात् पुष्पैः पत्रेण च अम्बुना ।अभिवादन-शीलः स्यात् नित्यम् वृद्धेषु धर्मतः ॥ १२।१८
devatā-abhyarcanam kuryāt puṣpaiḥ patreṇa ca ambunā .abhivādana-śīlaḥ syāt nityam vṛddheṣu dharmataḥ .. 12.18
असावहं भो नामेति सम्यक् प्रणतिपूर्वकम् ।आयुरारोग्यसिद्ध्यर्थं द्रव्यादिपरिवर्जितम् ॥ १२.१९
असौ अहम् भो नाम इति सम्यक् प्रणति-पूर्वकम् ।आयुः-आरोग्य-सिद्धि-अर्थम् द्रव्य-आदि-परिवर्जितम् ॥ १२।१९
asau aham bho nāma iti samyak praṇati-pūrvakam .āyuḥ-ārogya-siddhi-artham dravya-ādi-parivarjitam .. 12.19
आयुष्णान् भव सौम्येति वाच्यो विप्रोऽभिवादने ।अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ १२.२०
आयुष्णान् भव सौम्य इति वाच्यः विप्रः अभिवादने ।अकारः च अस्य नाम्नः अन्ते वाच्यः पूर्व-अक्षरः प्लुतः ॥ १२।२०
āyuṣṇān bhava saumya iti vācyaḥ vipraḥ abhivādane .akāraḥ ca asya nāmnaḥ ante vācyaḥ pūrva-akṣaraḥ plutaḥ .. 12.20
न कुर्याद् योऽभिवादस्य द्विजः प्रत्यभिवादनम् ।नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ १२.२१
न कुर्यात् यः अभिवादस्य द्विजः प्रत्यभिवादनम् ।न अभिवाद्यः स विदुषा यथा शूद्रः तथा एव सः ॥ १२।२१
na kuryāt yaḥ abhivādasya dvijaḥ pratyabhivādanam .na abhivādyaḥ sa viduṣā yathā śūdraḥ tathā eva saḥ .. 12.21
सव्य्स्तपाणिना कार्यमुपसंग्रहणं गुरोः ।सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ १२.२२
स व्यूह-पाणिना कार्यम् उपसंग्रहणम् गुरोः ।सव्येन सव्यः स्प्रष्टव्यः दक्षिणेन तु दक्षिणः ॥ १२।२२
sa vyūha-pāṇinā kāryam upasaṃgrahaṇam guroḥ .savyena savyaḥ spraṣṭavyaḥ dakṣiṇena tu dakṣiṇaḥ .. 12.22
लौकिकं वैदिकं चापि तथाध्यात्मिकमेव वा ।आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ १२.२३
लौकिकम् वैदिकम् च अपि तथा आध्यात्मिकम् एव वा ।आददीत यतस् ज्ञानम् तम् पूर्वम् अभिवादयेत् ॥ १२।२३
laukikam vaidikam ca api tathā ādhyātmikam eva vā .ādadīta yatas jñānam tam pūrvam abhivādayet .. 12.23
नोदकं धारयेद् भैक्षं पुष्पाणि समिधस्तथा ।एवंविधानि चान्यानि न दैवाद्येषु कर्मसु ॥ १२.२४
न उदकम् धारयेत् भैक्षम् पुष्पाणि समिधः तथा ।एवंविधानि च अन्यानि न दैव-आद्येषु कर्मसु ॥ १२।२४
na udakam dhārayet bhaikṣam puṣpāṇi samidhaḥ tathā .evaṃvidhāni ca anyāni na daiva-ādyeṣu karmasu .. 12.24
ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् ।वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ॥ १२.२५
ब्राह्मणम् कुशलम् पृच्छेत् क्षत्रबन्धुम् अनामयम् ।वैश्यम् क्षेमम् समागम्य शूद्रम् आरोग्यम् एव तु ॥ १२।२५
brāhmaṇam kuśalam pṛcchet kṣatrabandhum anāmayam .vaiśyam kṣemam samāgamya śūdram ārogyam eva tu .. 12.25
उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।मातुलः श्वशुरस्त्राता मातामहपितामहौ ।१२.२६
उपाध्यायः पिता ज्येष्ठः भ्राता च एव महीपतिः ।मातुलः श्वशुरः त्राता मातामह-पितामहौ ।१२।२६
upādhyāyaḥ pitā jyeṣṭhaḥ bhrātā ca eva mahīpatiḥ .mātulaḥ śvaśuraḥ trātā mātāmaha-pitāmahau .12.26
वर्णज्येष्ठः पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः ।माता मातामही गुर्वी पितुर्मातुश्च सोदराः ।१२.२७
वर्ण-ज्येष्ठः पितृव्यः च पुंसः अत्र गुरवः स्मृताः ।माता मातामही गुर्वी पितुः मातुः च सोदराः ।१२।२७
varṇa-jyeṣṭhaḥ pitṛvyaḥ ca puṃsaḥ atra guravaḥ smṛtāḥ .mātā mātāmahī gurvī pituḥ mātuḥ ca sodarāḥ .12.27
श्वश्रूः पितामहीज्येष्ठा धात्री च गुरवः स्त्रियः ।इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विजाः ।१२.२८
श्वश्रूः पितामही-ज्येष्ठा धात्री च गुरवः स्त्रियः ।इति उक्तः गुरु-वर्गः अयम् मातृतः पितृतः द्विजाः ।१२।२८
śvaśrūḥ pitāmahī-jyeṣṭhā dhātrī ca guravaḥ striyaḥ .iti uktaḥ guru-vargaḥ ayam mātṛtaḥ pitṛtaḥ dvijāḥ .12.28
अनुवर्त्तनमेतेषां मनोवाक्कायकर्मभिः ।गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः ।१२.२९
अनुवर्त्तनम् एतेषाम् मनः-वाच्-काय-कर्मभिः ।गुरुम् दृष्ट्वा समुत्तिष्ठेत् अभिवाद्य कृताञ्जलिः ।१२।२९
anuvarttanam eteṣām manaḥ-vāc-kāya-karmabhiḥ .gurum dṛṣṭvā samuttiṣṭhet abhivādya kṛtāñjaliḥ .12.29
नैतैरुपविशेत् सार्द्धं विवदेन्नात्मकारणात् ।जीवितार्थमपि द्वेषाद् गुरुभिर्नैव भाषणम् ।१२.३०
न एतैः उपविशेत् सार्द्धम् विवदेत् न आत्म-कारणात् ।जीवित-अर्थम् अपि द्वेषात् गुरुभिः ना एव भाषणम् ।१२।३०
na etaiḥ upaviśet sārddham vivadet na ātma-kāraṇāt .jīvita-artham api dveṣāt gurubhiḥ nā eva bhāṣaṇam .12.30
उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ।गुरूणामपि सर्वेषां पूज्याः पञ्च विशेषतः ।१२.३१
उदितः अपि गुणैः अन्यैः गुरु-द्वेषी पतति अधस् ।गुरूणाम् अपि सर्वेषाम् पूज्याः पञ्च विशेषतः ।१२।३१
uditaḥ api guṇaiḥ anyaiḥ guru-dveṣī patati adhas .gurūṇām api sarveṣām pūjyāḥ pañca viśeṣataḥ .12.31
तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ।यो भावयति या सूते येन विद्योपदिश्यते ।१२.३२
तेषाम् आद्याः त्रयः श्रेष्ठाः तेषाम् माता सु पूजिता ।यः भावयति या सूते येन विद्या उपदिश्यते ।१२।३२
teṣām ādyāḥ trayaḥ śreṣṭhāḥ teṣām mātā su pūjitā .yaḥ bhāvayati yā sūte yena vidyā upadiśyate .12.32
ज्येष्ठो भ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः ।आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः ।१२.३३
ज्येष्ठः भ्राता च भर्त्ता च पञ्च एते गुरवः स्मृताः ।आत्मनः सर्व-यत्नेन प्राणत्यागेन वा पुनर् ।१२।३३
jyeṣṭhaḥ bhrātā ca bharttā ca pañca ete guravaḥ smṛtāḥ .ātmanaḥ sarva-yatnena prāṇatyāgena vā punar .12.33
पूजनीया विशेषेण पञ्चैते भूतिमिच्छता ।यावत् पिता च माता च द्वावेतौ निर्विकारिणौ ।१२.३४
पूजनीयाः विशेषेण पञ्च एते भूतिम् इच्छता ।यावत् पिता च माता च द्वौ एतौ निर्विकारिणौ ।१२।३४
pūjanīyāḥ viśeṣeṇa pañca ete bhūtim icchatā .yāvat pitā ca mātā ca dvau etau nirvikāriṇau .12.34
तावत् सर्वं परित्यज्य पुत्रः स्यात् तत्परायणः ।पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि ।१२.३५
तावत् सर्वम् परित्यज्य पुत्रः स्यात् तद्-परायणः ।पिता माता च सु प्रीतौ स्याताम् पुत्र-गुणैः यदि ।१२।३५
tāvat sarvam parityajya putraḥ syāt tad-parāyaṇaḥ .pitā mātā ca su prītau syātām putra-guṇaiḥ yadi .12.35
स पुत्रः सकलं धर्ममाप्नुयात् तेन कर्मणा ।नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः ।१२.३६
स पुत्रः सकलम् धर्मम् आप्नुयात् तेन कर्मणा ।न अस्ति मातृ-समम् दैवम् न अस्ति पितृ-समः गुरुः ।१२।३६
sa putraḥ sakalam dharmam āpnuyāt tena karmaṇā .na asti mātṛ-samam daivam na asti pitṛ-samaḥ guruḥ .12.36
तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते ।तयोर्नित्यं प्रियं कुर्यात् कर्मणा मनसा गिरा ।१२.३७
तयोः प्रत्युपकारः अपि न कथञ्चन विद्यते ।तयोः नित्यम् प्रियम् कुर्यात् कर्मणा मनसा गिरा ।१२।३७
tayoḥ pratyupakāraḥ api na kathañcana vidyate .tayoḥ nityam priyam kuryāt karmaṇā manasā girā .12.37
न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत् ।वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा ।१२.३८
न ताभ्याम् अननुज्ञातः धर्मम् अन्यम् समाचरेत् ।वर्जयित्वा मुक्ति-फलम् नित्यम् नैमित्तिकम् तथा ।१२।३८
na tābhyām ananujñātaḥ dharmam anyam samācaret .varjayitvā mukti-phalam nityam naimittikam tathā .12.38
धर्मसारः समुद्दिष्टः प्रेत्यानन्तफलप्रदः ।सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया ।१२.३९
प्रेत्य ।सम्यक् आराध्य वक्तारम् विसृष्टः तद्-अनुज्ञया ।१२।३९
pretya .samyak ārādhya vaktāram visṛṣṭaḥ tad-anujñayā .12.39
शिष्यो विद्याफलं भुङ्क्ते प्रेत्य वा पूज्यते दिवि ।यो भ्रातरं पितृसमं ज्येष्ठं मूर्खोऽवमन्यते ।१२.४०
शिष्यः विद्या-फलम् भुङ्क्ते प्रेत्य वा पूज्यते दिवि ।यः भ्रातरम् पितृ-समम् ज्येष्ठम् मूर्खः अवमन्यते ।१२।४०
śiṣyaḥ vidyā-phalam bhuṅkte pretya vā pūjyate divi .yaḥ bhrātaram pitṛ-samam jyeṣṭham mūrkhaḥ avamanyate .12.40
तेन दोषेण स प्रेत्य निरयं घोरमृच्छति ।पुंसा वर्त्मनितिष्टेत पूज्यो भर्त्ता तु सर्वदा ।१२.४१
तेन दोषेण स प्रेत्य निरयम् घोरम् ऋच्छति ।पुंसा वर्त्मनि तिष्टेत पूज्यः भर्त्ता तु सर्वदा ।१२।४१
tena doṣeṇa sa pretya nirayam ghoram ṛcchati .puṃsā vartmani tiṣṭeta pūjyaḥ bharttā tu sarvadā .12.41
अपि मातरि लोकेऽस्मिन् उपकाराद्धि गौरवम् ।येनरा भर्त्तृपिण्डार्थं स्वान् प्राणान् संत्यजन्ति हि ।१२.४२
अपि मातरि लोके अस्मिन् उपकारात् हि गौरवम् ।भर्त्तृ-पिण्ड-अर्थम् स्वान् प्राणान् संत्यजन्ति हि ।१२।४२
api mātari loke asmin upakārāt hi gauravam .bharttṛ-piṇḍa-artham svān prāṇān saṃtyajanti hi .12.42
तेषामथाक्षयाँल्लोकान् प्रोवाच भगवान् मनुः ।मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ।१२.४३
तेषाम् अथ अक्षयान् लोकान् प्रोवाच भगवान् मनुः ।मातुलान् च पितृव्यान् च श्वशुरान् ऋत्विजः गुरून् ।१२।४३
teṣām atha akṣayān lokān provāca bhagavān manuḥ .mātulān ca pitṛvyān ca śvaśurān ṛtvijaḥ gurūn .12.43
असावहमिति ब्रूयुः प्रत्युत्थाय यवीयसः ।अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।१२.४४
असौ अहम् इति ब्रूयुः प्रत्युत्थाय यवीयसः ।अ वाच्यः दीक्षितः नाम्ना यवीयान् अपि यः भवेत् ।१२।४४
asau aham iti brūyuḥ pratyutthāya yavīyasaḥ .a vācyaḥ dīkṣitaḥ nāmnā yavīyān api yaḥ bhavet .12.44
भोभवत्पूर्वकत्वेनमभिभाषेत धर्मवित् ।अभिवाद्यश्च पूज्यश्च शिरसा वन्द्य एव च ।१२.४५
भो भवत्-पूर्वक-त्वा एनम् अभिभाषेत धर्म-विद् ।अभिवाद्यः च पूज्यः च शिरसा वन्द्यः एव च ।१२।४५
bho bhavat-pūrvaka-tvā enam abhibhāṣeta dharma-vid .abhivādyaḥ ca pūjyaḥ ca śirasā vandyaḥ eva ca .12.45
ब्राह्मणः क्षत्रियाद्यैश्च श्रीकामैः सादरं सदा ।नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याः कथञ्चन ।१२.४६
ब्राह्मणः क्षत्रिय-आद्यैः च श्री-कामैः स आदरम् सदा ।न अभिवाद्याः तु विप्रेण क्षत्रिय-आद्याः कथञ्चन ।१२।४६
brāhmaṇaḥ kṣatriya-ādyaiḥ ca śrī-kāmaiḥ sa ādaram sadā .na abhivādyāḥ tu vipreṇa kṣatriya-ādyāḥ kathañcana .12.46
ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः ।ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्यादिति श्रुतिः ।१२.४७
ज्ञान-कर्म-गुण-उपेताः यदि अपि एते बहु-श्रुताः ।ब्राह्मणः सर्व-वर्णानाम् स्वस्ति कुर्यात् इति श्रुतिः ।१२।४७
jñāna-karma-guṇa-upetāḥ yadi api ete bahu-śrutāḥ .brāhmaṇaḥ sarva-varṇānām svasti kuryāt iti śrutiḥ .12.47
सवर्णेषु सवर्णानां काम्यमेवाभिवादनम् ।गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।१२.४८
सवर्णेषु सवर्णानाम् काम्यम् एव अभिवादनम् ।गुरुः अग्निः द्विजातीनाम् वर्णानाम् ब्राह्मणः गुरुः ।१२।४८
savarṇeṣu savarṇānām kāmyam eva abhivādanam .guruḥ agniḥ dvijātīnām varṇānām brāhmaṇaḥ guruḥ .12.48
पतिरेव गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ।विद्या कर्म वयो बन्धुर्वित्तं भवति पञ्चमम् ।१२.४९
पतिः एव गुरुः स्त्रीणाम् सर्वत्र अभ्यागतः गुरुः ।विद्या कर्म वयः बन्धुः वित्तम् भवति पञ्चमम् ।१२।४९
patiḥ eva guruḥ strīṇām sarvatra abhyāgataḥ guruḥ .vidyā karma vayaḥ bandhuḥ vittam bhavati pañcamam .12.49
मान्यस्थानानि पञ्चाहुः पूर्वं पूर्वं गुरूत्तरात् ।पञ्चानां त्रिषु वर्णेषु भूयांसि बलवन्ति च ।१२.५०
मान्यस्थानानि पञ्च आहुः पूर्वम् पूर्वम् गुरु उत्तरात् ।पञ्चानाम् त्रिषु वर्णेषु भूयांसि बलवन्ति च ।१२।५०
mānyasthānāni pañca āhuḥ pūrvam pūrvam guru uttarāt .pañcānām triṣu varṇeṣu bhūyāṃsi balavanti ca .12.50
यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ।पन्था देयो ब्राह्मणाय स्त्रियै राज्ञे ह्यचक्षुषे ।१२.५१
यत्र स्युः सः अत्र मान-अर्हः शूद्रः अपि दशमीम् गतः ।पन्थाः देयः ब्राह्मणाय स्त्रियै राज्ञे हि अ चक्षुषे ।१२।५१
yatra syuḥ saḥ atra māna-arhaḥ śūdraḥ api daśamīm gataḥ .panthāḥ deyaḥ brāhmaṇāya striyai rājñe hi a cakṣuṣe .12.51
वृद्धाय भारमग्नाय रोगिणे दुर्बलाय च ।भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम् ।१२.५२
वृद्धाय भार-मग्नाय रोगिणे दुर्बलाय च ।भिक्षाम् आहृत्य शिष्टानाम् गृहेभ्यः प्रयतः अन्वहम् ।१२।५२
vṛddhāya bhāra-magnāya rogiṇe durbalāya ca .bhikṣām āhṛtya śiṣṭānām gṛhebhyaḥ prayataḥ anvaham .12.52
निवेद्य गुरवेऽश्नीयाद् वाग्यतस्तदनुज्ञया ।भवत्पूर्वं चरेद् भैक्ष्यमुपनीतो द्विजोत्तमः ।१२.५३
निवेद्य गुरवे अश्नीयात् वाग्यतः तद्-अनुज्ञया ।भवत्-पूर्वम् चरेत् भैक्ष्यम् उपनीतः द्विजोत्तमः ।१२।५३
nivedya gurave aśnīyāt vāgyataḥ tad-anujñayā .bhavat-pūrvam caret bhaikṣyam upanītaḥ dvijottamaḥ .12.53
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ।मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।१२.५४
भवत्-मध्यम् तु राजन्यः वैश्यः तु भवत्-उत्तरम् ।मातरम् वा स्वसारम् वा मातुः वा भगिनीम् निजाम् ।१२।५४
bhavat-madhyam tu rājanyaḥ vaiśyaḥ tu bhavat-uttaram .mātaram vā svasāram vā mātuḥ vā bhaginīm nijām .12.54
भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत् ।सजातीयगृहेष्वेव सार्ववर्णिकमेव वा ।१२.५५
भिक्षेत भिक्षाम् प्रथमम् या च एनम् न विमानयेत् ।सजातीय-गृहेषु एव सार्ववर्णिकम् एव वा ।१२।५५
bhikṣeta bhikṣām prathamam yā ca enam na vimānayet .sajātīya-gṛheṣu eva sārvavarṇikam eva vā .12.55
भैक्ष्यस्य चरणं प्रोक्तं पतितादिषु वर्जितम् ।वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।१२.५६
भैक्ष्यस्य चरणम् प्रोक्तम् पतित-आदिषु वर्जितम् ।वेद-यज्ञैः अहीनानाम् प्रशस्तानाम् स्व-कर्मसु ।१२।५६
bhaikṣyasya caraṇam proktam patita-ādiṣu varjitam .veda-yajñaiḥ ahīnānām praśastānām sva-karmasu .12.56
ब्रह्मचारी हरेद् भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ।गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।१२.५७
ब्रह्मचारी हरेत् भैक्षम् गृहेभ्यः प्रयतः अन्वहम् ।गुरोः कुले न भिक्षेत न ज्ञाति-कुल-बन्धुषु ।१२।५७
brahmacārī haret bhaikṣam gṛhebhyaḥ prayataḥ anvaham .guroḥ kule na bhikṣeta na jñāti-kula-bandhuṣu .12.57
अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥सर्वं वा विचरेद् ग्रामं पूर्वोक्तानामसंभवे ।१२.५८
अलाभे तु अन्य-गेहानाम् पूर्वम् पूर्वम् विवर्जयेत् ॥सर्वम् वा विचरेत् ग्रामम् पूर्व-उक्तानाम् असंभवे ।१२।५८
alābhe tu anya-gehānām pūrvam pūrvam vivarjayet ..sarvam vā vicaret grāmam pūrva-uktānām asaṃbhave .12.58
नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन् ।समाहृत्य तु तद् भैक्षं यावदर्थममायया ।१२.५९
नियम्य प्रयतः वाचम् दिशः तु अनवलोकयन् ।समाहृत्य तु तत् भैक्षम् यावदर्थम् अमायया ।१२।५९
niyamya prayataḥ vācam diśaḥ tu anavalokayan .samāhṛtya tu tat bhaikṣam yāvadartham amāyayā .12.59
भुञ्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ।भैक्ष्येण वर्त्तयेन्नित्यं नैकान्नादी भवेद् व्रती ।१२.६०
भुञ्जीत प्रयतः नित्यम् वाग्यतः अनन्य-मानसः ।भैक्ष्येण वर्त्तयेत् नित्यम् न एक-अन्न-आदी भवेत् व्रती ।१२।६०
bhuñjīta prayataḥ nityam vāgyataḥ ananya-mānasaḥ .bhaikṣyeṇa varttayet nityam na eka-anna-ādī bhavet vratī .12.60
भैक्ष्येण व्रतिनो वृत्तिरुपवाससमा स्मृता ।पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् ।१२.६१
भैक्ष्येण व्रतिनः वृत्तिः उपवास-समा स्मृता ।पूजयेत् अशनम् नित्यम् अद्यात् च एतत् अकुत्सयन् ।१२।६१
bhaikṣyeṇa vratinaḥ vṛttiḥ upavāsa-samā smṛtā .pūjayet aśanam nityam adyāt ca etat akutsayan .12.61
दृष्ट्वा हृष्येत् प्रसीदेच्च ततो भुञ्जीत वाग्यतः १२.६२अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
दृष्ट्वा हृष्येत् प्रसीदेत् च ततस् भुञ्जीत वाग्यतः।६२अनारोग्यम् अनायुष्यम् अस्वर्ग्यम् च अति भोजनम् ।
dṛṣṭvā hṛṣyet prasīdet ca tatas bhuñjīta vāgyataḥ.62anārogyam anāyuṣyam asvargyam ca ati bhojanam .
अपुण्यं लोकविद्विष्टं तस्मात् तत्परिवर्जयेत् ॥ १२.६३प्राङ्मुखोऽन्नानि भुञ्जीत सूर्याभिमुख एव वा ।
अपुण्यम् लोक-विद्विष्टम् तस्मात् तत् परिवर्जयेत् ॥ १२।६३प्राच्-मुखः अन्नानि भुञ्जीत सूर्य-अभिमुखः एव वा ।
apuṇyam loka-vidviṣṭam tasmāt tat parivarjayet .. 12.63prāc-mukhaḥ annāni bhuñjīta sūrya-abhimukhaḥ eva vā .
नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः ॥ १२.६४प्रक्षाल्य पाणिपादौ च भुञ्जानो द्विरुपस्पृशेत् ।
न अद्यात् उदक्-मुखः नित्यम् विधिः एष सनातनः ॥ १२।६४प्रक्षाल्य पाणि-पादौ च भुञ्जानः द्विस् उपस्पृशेत् ।
na adyāt udak-mukhaḥ nityam vidhiḥ eṣa sanātanaḥ .. 12.64prakṣālya pāṇi-pādau ca bhuñjānaḥ dvis upaspṛśet .
शुचौ देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् ॥ १२.६५
शुचौ देशे समासीनः भुक्त्वा च द्विस् उपस्पृशेत् ॥ १२।६५
śucau deśe samāsīnaḥ bhuktvā ca dvis upaspṛśet .. 12.65
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे द्वादशोऽध्यायः ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे द्वादशः अध्यायः ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge dvādaśaḥ adhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In