| |
|

This overlay will guide you through the buttons:

श्रीकूर्म उवाच ।
अन्दके निगृहीते वै प्रह्लादस्य महात्मनः । विरोचनो नाम सुतो बभूव नृपतिः सुतः ॥ १७.१॥
अन्दके निगृहीते वै प्रह्लादस्य महात्मनः । विरोचनः नाम सुतः बभूव नृपतिः सुतः ॥ १७।१॥
andake nigṛhīte vai prahlādasya mahātmanaḥ . virocanaḥ nāma sutaḥ babhūva nṛpatiḥ sutaḥ .. 17.1..
देवाञ्जित्वा सदेवेन्द्रान बहून् वर्षान् महासुरः । पालयामास धर्मेण त्रैलोक्यं सचराचरम् ॥ १७.२॥
देवान् जित्वा बहून् वर्षान् महा-असुरः । पालयामास धर्मेण त्रैलोक्यम् सचराचरम् ॥ १७।२॥
devān jitvā bahūn varṣān mahā-asuraḥ . pālayāmāsa dharmeṇa trailokyam sacarācaram .. 17.2..
तस्यैवं वर्तमानस्य कदाचिद् विष्णुचोदितः । सनत्कुमारो भगवान् पुरं प्राप महामुनिः ॥ १७.३॥
तस्य एवम् वर्तमानस्य कदाचिद् विष्णु-चोदितः । सनत्कुमारः भगवान् पुरम् प्राप महा-मुनिः ॥ १७।३॥
tasya evam vartamānasya kadācid viṣṇu-coditaḥ . sanatkumāraḥ bhagavān puram prāpa mahā-muniḥ .. 17.3..
दृष्ट्वा सिहासनगतो ब्रह्मपुत्रं महासुरः । ननामोत्थाय शिरसा प्राञ्जलिर्वाक्यमब्रवीत् ॥ १७.४॥
दृष्ट्वा सिहासन-गतः ब्रह्म-पुत्रम् महा-असुरः । ननाम उत्थाय शिरसा प्राञ्जलिः वाक्यम् अब्रवीत् ॥ १७।४॥
dṛṣṭvā sihāsana-gataḥ brahma-putram mahā-asuraḥ . nanāma utthāya śirasā prāñjaliḥ vākyam abravīt .. 17.4..
धन्योऽस्म्यनुगृहीतोऽस्मि संप्राप्तो मे पुरातनः । योगीश्वरोऽद्य भगवान् यतोऽसौ ब्रह्मवित् स्वयम् ॥ १७.५॥
धन्यः अस्मि अनुगृहीतः अस्मि संप्राप्तः मे पुरातनः । योगि-ईश्वरः अद्य भगवान् यतस् असौ ब्रह्म-विद् स्वयम् ॥ १७।५॥
dhanyaḥ asmi anugṛhītaḥ asmi saṃprāptaḥ me purātanaḥ . yogi-īśvaraḥ adya bhagavān yatas asau brahma-vid svayam .. 17.5..
किमर्थमागतो ब्रह्मन् स्वयं देवः पितामहः । ब्रूहि मे ब्रह्मणः पुत्र किं कार्यं करवाण्यहम् ॥ १७.६॥
किमर्थम् आगतः ब्रह्मन् स्वयम् देवः पितामहः । ब्रूहि मे ब्रह्मणः पुत्र किम् कार्यम् करवाणि अहम् ॥ १७।६॥
kimartham āgataḥ brahman svayam devaḥ pitāmahaḥ . brūhi me brahmaṇaḥ putra kim kāryam karavāṇi aham .. 17.6..
सोऽब्रवीद् भगवान् देवो धर्मयुक्तं महासुरम् । द्रष्टुमभ्यागतोऽहं वै भवन्तं भाग्यवानसि ॥ १७.७॥
सः अब्रवीत् भगवान् देवः धर्म-युक्तम् महा-असुरम् । द्रष्टुम् अभ्यागतः अहम् वै भवन्तम् भाग्यवान् असि ॥ १७।७॥
saḥ abravīt bhagavān devaḥ dharma-yuktam mahā-asuram . draṣṭum abhyāgataḥ aham vai bhavantam bhāgyavān asi .. 17.7..
सुदुर्लभा नीतिरेषा दैत्यानां दैत्यसत्तम । त्रिलोके धार्मिको नूनं त्वादृशोऽन्यो न विद्यते ॥ १७.८॥
सु दुर्लभा नीतिः एषा दैत्यानाम् दैत्य-सत्तम । त्रिलोके धार्मिकः नूनम् त्वादृशः अन्यः न विद्यते ॥ १७।८॥
su durlabhā nītiḥ eṣā daityānām daitya-sattama . triloke dhārmikaḥ nūnam tvādṛśaḥ anyaḥ na vidyate .. 17.8..
इत्युक्तोऽसुरराजस्तु पुनः प्राह महामुनिम् । धर्माणां परमं धर्मं ब्रूहि मे ब्रह्मवित्तम ॥ १७.९॥
इति उक्तः असुर-राजः तु पुनर् प्राह महा-मुनिम् । धर्माणाम् परमम् धर्मम् ब्रूहि मे ब्रह्म-वित्तम ॥ १७।९॥
iti uktaḥ asura-rājaḥ tu punar prāha mahā-munim . dharmāṇām paramam dharmam brūhi me brahma-vittama .. 17.9..
सोऽब्रवीद् भगवान् योगी दैत्येन्द्राय महात्मने । सर्वगुह्यतमं धर्ममात्मज्ञानमनुत्तमम् ॥ १७.१॥
सः अब्रवीत् भगवान् योगी दैत्य-इन्द्राय महात्मने । सर्व-गुह्यतमम् धर्मम् आत्म-ज्ञानम् अनुत्तमम् ॥ १७।१॥
saḥ abravīt bhagavān yogī daitya-indrāya mahātmane . sarva-guhyatamam dharmam ātma-jñānam anuttamam .. 17.1..
स लब्ध्वा परमं ज्ञानं दत्त्वा च गुरुदक्षिणाम् । निधाय पुत्रे तद्राज्यं योगाभ्यासरतोऽभवत् ॥ १७.११॥
स लब्ध्वा परमम् ज्ञानम् दत्त्वा च गुरु-दक्षिणाम् । निधाय पुत्रे तत् राज्यम् योग-अभ्यास-रतः अभवत् ॥ १७।११॥
sa labdhvā paramam jñānam dattvā ca guru-dakṣiṇām . nidhāya putre tat rājyam yoga-abhyāsa-rataḥ abhavat .. 17.11..
स तस्य पुत्रो मतिमान् बलिर्नाम महासुरः । ब्रह्मण्यो धार्मिकोऽत्यर्थं विजिग्येऽथ पुरंदरम् ॥ १७.१२॥
स तस्य पुत्रः मतिमान् बलिः नाम महा-असुरः । ब्रह्मण्यः धार्मिकः अत्यर्थम् विजिग्ये अथ पुरंदरम् ॥ १७।१२॥
sa tasya putraḥ matimān baliḥ nāma mahā-asuraḥ . brahmaṇyaḥ dhārmikaḥ atyartham vijigye atha puraṃdaram .. 17.12..
कृत्वा तेन महद् युद्धं शक्रः सर्वामरैर्वृतः । जगाम निर्जितो विष्णुं देवं शरणमच्युतम् ॥ १७.१३॥
कृत्वा तेन महत् युद्धम् शक्रः सर्व-अमरैः वृतः । जगाम निर्जितः विष्णुम् देवम् शरणम् अच्युतम् ॥ १७।१३॥
kṛtvā tena mahat yuddham śakraḥ sarva-amaraiḥ vṛtaḥ . jagāma nirjitaḥ viṣṇum devam śaraṇam acyutam .. 17.13..
तदन्तरेऽदितिर्देवी देवमाता सुदुः खिता । दैत्येन्द्राणां वधार्थाय पुत्रो मे स्यादिति स्वयम् ॥ १७.१४॥
तद्-अन्तरे अदितिः देवी देवमाता सु दुः खिता । दैत्य-इन्द्राणाम् वध-अर्थाय पुत्रः मे स्यात् इति स्वयम् ॥ १७।१४॥
tad-antare aditiḥ devī devamātā su duḥ khitā . daitya-indrāṇām vadha-arthāya putraḥ me syāt iti svayam .. 17.14..
तताप सुमहद् घोरं तपोराशिस्तपः परम् । प्रपन्ना विष्णुमव्यक्तं शरण्यं शरणं हरिम् ॥ १७.१५॥
तताप सु महत् घोरम् तपः-राशिः तपः परम् । प्रपन्ना विष्णुम् अव्यक्तम् शरण्यम् शरणम् हरिम् ॥ १७।१५॥
tatāpa su mahat ghoram tapaḥ-rāśiḥ tapaḥ param . prapannā viṣṇum avyaktam śaraṇyam śaraṇam harim .. 17.15..
कृत्वा हृत्पद्मकिञ्जल्के निष्कलं परमं पदम् । वासुदेवमनाद्यन्तमानन्दं व्योम केवलम् ॥ १७.१६॥
कृत्वा हृद्-पद्म-किञ्जल्के निष्कलम् परमम् पदम् । वासुदेवम् अनाद्यन्तम् आनन्दम् व्योम केवलम् ॥ १७।१६॥
kṛtvā hṛd-padma-kiñjalke niṣkalam paramam padam . vāsudevam anādyantam ānandam vyoma kevalam .. 17.16..
प्रसन्नो भगवान् विष्णुः शङ्खचक्रगदाधरः । आविर्बभूव योगात्मा देवमातुः पुरो हरिः ॥ १७.१७॥
प्रसन्नः भगवान् विष्णुः शङ्ख-चक्र-गदा-धरः । आविर्बभूव योग-आत्मा देवमातुः पुरस् हरिः ॥ १७।१७॥
prasannaḥ bhagavān viṣṇuḥ śaṅkha-cakra-gadā-dharaḥ . āvirbabhūva yoga-ātmā devamātuḥ puras hariḥ .. 17.17..
दृष्ट्वा समागतं विष्णुमदितिर्भक्तिसंयुता । मेने कृतार्थमात्मानं तोषयामास केशवम् ॥ १७.१८॥
दृष्ट्वा समागतम् विष्णुम् अदितिः भक्ति-संयुता । मेने कृतार्थम् आत्मानम् तोषयामास केशवम् ॥ १७।१८॥
dṛṣṭvā samāgatam viṣṇum aditiḥ bhakti-saṃyutā . mene kṛtārtham ātmānam toṣayāmāsa keśavam .. 17.18..
अदितिरुवाच ।
जयाशेषदुःखौघनाशैकहेतो जयानन्तमाहात्म्ययोगाभियुक्त । जयानादिमध्यान्तविज्ञानमूर्त्ते जयाशेषकल्पामलानन्दरूप ॥ १७.१९॥
जय अशेष-दुःख-ओघ-नाश-एक-हेतो जय अनन्त-माहात्म्य-योग-अभियुक्त । जय अनादि-मध्य-अन्त-विज्ञान-मूर्त्ते जय अशेष-कल्प-अमल-आनन्द-रूप ॥ १७।१९॥
jaya aśeṣa-duḥkha-ogha-nāśa-eka-heto jaya ananta-māhātmya-yoga-abhiyukta . jaya anādi-madhya-anta-vijñāna-mūrtte jaya aśeṣa-kalpa-amala-ānanda-rūpa .. 17.19..
नमो विष्णवे कालरूपाय तुभ्यं नमो नारसिंहाय शेषाय तुभ्यम् । नमः कालरुद्राय संहारकर्त्रे नमो वासुदेवाय तुभ्यं नमस्ते ॥ १७.२॥
नमः विष्णवे काल-रूपाय तुभ्यम् नमः नारसिंहाय शेषाय तुभ्यम् । नमः कालरुद्राय संहार-कर्त्रे नमः वासुदेवाय तुभ्यम् नमः ते ॥ १७।२॥
namaḥ viṣṇave kāla-rūpāya tubhyam namaḥ nārasiṃhāya śeṣāya tubhyam . namaḥ kālarudrāya saṃhāra-kartre namaḥ vāsudevāya tubhyam namaḥ te .. 17.2..
नमो विश्वमायाविधानाय तुभ्यं नमो योगगम्याय सत्याय तुभ्यम् । नमो धर्मविज्ञाननिष्ठाय तुभ्यं नमस्ते वराहाय भूयो नमस्ते ॥ १७.२१॥
नमः विश्व-माया-विधानाय तुभ्यम् नमः योग-गम्याय सत्याय तुभ्यम् । नमः धर्म-विज्ञान-निष्ठाय तुभ्यम् नमः ते वराहाय भूयस् नमः ते ॥ १७।२१॥
namaḥ viśva-māyā-vidhānāya tubhyam namaḥ yoga-gamyāya satyāya tubhyam . namaḥ dharma-vijñāna-niṣṭhāya tubhyam namaḥ te varāhāya bhūyas namaḥ te .. 17.21..
नमस्ते सहस्त्रार्कचन्द्राभमूर्त्ते नमो वेदविज्ञानधर्माभिगम्य । नमो देवदेवादिदेवाय तुभ्यं प्रभो विश्वयोनेऽथ भूयो नमस्ते ॥ १७.२२॥
नमः ते सहस्त्र-अर्क-चन्द्र-आभ-मूर्त्ते नमः वेद-विज्ञान-धर्म-अभिगम्य । नमः देवदेव-आदिदेवाय तुभ्यम् प्रभो विश्वयोने अथ भूयस् नमः ते ॥ १७।२२॥
namaḥ te sahastra-arka-candra-ābha-mūrtte namaḥ veda-vijñāna-dharma-abhigamya . namaḥ devadeva-ādidevāya tubhyam prabho viśvayone atha bhūyas namaḥ te .. 17.22..
नमः शंभवे सत्यनिष्ठाय तुभ्यं नमो हेतवे विश्वरूपाय तुभ्यम् । नमो योगपीठान्तरस्थाय तुभ्यं शिवायैकरूपाय भूयो नमस्ते ॥ १७.२३॥
नमः शंभवे सत्य-निष्ठाय तुभ्यम् नमः हेतवे विश्वरूपाय तुभ्यम् । नमः योगपीठ-अन्तर-स्थाय तुभ्यम् शिवाय एकरूपाय भूयस् नमः ते ॥ १७।२३॥
namaḥ śaṃbhave satya-niṣṭhāya tubhyam namaḥ hetave viśvarūpāya tubhyam . namaḥ yogapīṭha-antara-sthāya tubhyam śivāya ekarūpāya bhūyas namaḥ te .. 17.23..
एवं स भगवान् कृष्णो देवमात्रा जगन्मयः । तोषितश्छंदयामास वरेण प्रहसन्निव ॥ १७.२४॥
एवम् स भगवान् कृष्णः देवमात्रा जगत्-मयः । तोषितः छंदयामास वरेण प्रहसन् इव ॥ १७।२४॥
evam sa bhagavān kṛṣṇaḥ devamātrā jagat-mayaḥ . toṣitaḥ chaṃdayāmāsa vareṇa prahasan iva .. 17.24..
प्रणम्य शिरसा भूमौ सा वब्रे वरमुत्तमम् । त्वामेव पुत्रं देवानां हिताय वरये वरम् ॥ १७.२५॥
प्रणम्य शिरसा भूमौ सा वब्रे वरम् उत्तमम् । त्वाम् एव पुत्रम् देवानाम् हिताय वरये वरम् ॥ १७।२५॥
praṇamya śirasā bhūmau sā vabre varam uttamam . tvām eva putram devānām hitāya varaye varam .. 17.25..
तथास्त्वित्याह भगवान् प्रपन्नजनवत्सलः । दत्त्वा वरानप्रमेयस्तत्रैवान्तरधीयत ॥ १७.२६॥
तथा अस्तु इति आह भगवान् प्रपन्न-जन-वत्सलः । दत्त्वा वरान् अप्रमेयः तत्र एव अन्तरधीयत ॥ १७।२६॥
tathā astu iti āha bhagavān prapanna-jana-vatsalaḥ . dattvā varān aprameyaḥ tatra eva antaradhīyata .. 17.26..
ततो बहुतिथे काले भगवन्तं जनार्दनम् । दधार गर्भं देवानां माता नारायणं स्वयम् ॥ १७.२७॥
ततस् बहुतिथे काले भगवन्तम् जनार्दनम् । दधार गर्भम् देवानाम् माता नारायणम् स्वयम् ॥ १७।२७॥
tatas bahutithe kāle bhagavantam janārdanam . dadhāra garbham devānām mātā nārāyaṇam svayam .. 17.27..
समाविष्टे हृषीकेशे देवमातुरथोदरम् । उत्पाता जज्ञिरे घोरा बलेर्वैरोचनेः पुरे ॥ १७.२८॥
समाविष्टे हृषीकेशे देवमातुः अथ उदरम् । उत्पाताः जज्ञिरे घोराः बलेः वैरोचनेः पुरे ॥ १७।२८॥
samāviṣṭe hṛṣīkeśe devamātuḥ atha udaram . utpātāḥ jajñire ghorāḥ baleḥ vairocaneḥ pure .. 17.28..
निरीक्ष्य सर्वानुत्पातान् दैत्येन्द्रो भयविह्वलः । प्रह्लादमसुरं वृद्धं प्रणम्याह पितामहम् ॥ १७.२९॥
निरीक्ष्य सर्वान् उत्पातान् दैत्य-इन्द्रः भय-विह्वलः । प्रह्लादम् असुरम् वृद्धम् प्रणम्य आह पितामहम् ॥ १७।२९॥
nirīkṣya sarvān utpātān daitya-indraḥ bhaya-vihvalaḥ . prahlādam asuram vṛddham praṇamya āha pitāmaham .. 17.29..
बलिरुवाच ।
पितामह महाप्राज्ञ जायन्तेऽस्मत्पुरेऽधुना । किमुत्पातो भवेत् कार्यमस्माकं किंनिमित्तकाः ॥ १७.३॥
पितामह महा-प्राज्ञ जायन्ते अस्मद्-पुरे अधुना । किम् उत्पातः भवेत् कार्यम् अस्माकम् किंनिमित्तकाः ॥ १७।३॥
pitāmaha mahā-prājña jāyante asmad-pure adhunā . kim utpātaḥ bhavet kāryam asmākam kiṃnimittakāḥ .. 17.3..
निशम्य तस्य वचनं चिरं ध्यात्वा महासुरः । नमस्कृत्य हृषीकेशमिदं वचनमब्रवीत् ॥ १७.३१॥
निशम्य तस्य वचनम् चिरम् ध्यात्वा महा-असुरः । नमस्कृत्य हृषीकेशम् इदम् वचनम् अब्रवीत् ॥ १७।३१॥
niśamya tasya vacanam ciram dhyātvā mahā-asuraḥ . namaskṛtya hṛṣīkeśam idam vacanam abravīt .. 17.31..
प्रह्लाद उवाच ।
यो यज्ञैरिज्यते विष्णुर्यस्य सर्वमिदं जगत् । दधारासुरनाशार्थं माता तं त्रिदिवौकसाम् ॥ १७.३२॥
यः यज्ञैः इज्यते विष्णुः यस्य सर्वम् इदम् जगत् । दधार असुर-नाश-अर्थम् माता तम् त्रिदिवौकसाम् ॥ १७।३२॥
yaḥ yajñaiḥ ijyate viṣṇuḥ yasya sarvam idam jagat . dadhāra asura-nāśa-artham mātā tam tridivaukasām .. 17.32..
यस्मादभिन्नं सकलं भिद्यते योऽखिलादपि । स वासुदेवो देवानां मातुर्देहं समाविशत् ॥ १७.३३॥
यस्मात् अभिन्नम् सकलम् भिद्यते यः अखिलात् अपि । स वासुदेवः देवानाम् मातुः देहम् समाविशत् ॥ १७।३३॥
yasmāt abhinnam sakalam bhidyate yaḥ akhilāt api . sa vāsudevaḥ devānām mātuḥ deham samāviśat .. 17.33..
न यस्य देवा जानन्ति स्वरूपं परमार्थतः । स विष्णुरदितेर्देहं स्वेच्छयाऽद्य समाविशत् ॥ १७.३४॥
न यस्य देवाः जानन्ति स्व-रूपम् परमार्थतः । स विष्णुः अदितेः देहम् स्व-इच्छया अद्य समाविशत् ॥ १७।३४॥
na yasya devāḥ jānanti sva-rūpam paramārthataḥ . sa viṣṇuḥ aditeḥ deham sva-icchayā adya samāviśat .. 17.34..
यस्माद् भवन्ति भूतानि यत्र संयान्ति संक्षयम् । सोऽवतीर्णो महायोगी पुराणपुरुषो हरिः ॥ १७.३५॥
यस्मात् भवन्ति भूतानि यत्र संयान्ति संक्षयम् । सः अवतीर्णः महा-योगी पुराणपुरुषः हरिः ॥ १७।३५॥
yasmāt bhavanti bhūtāni yatra saṃyānti saṃkṣayam . saḥ avatīrṇaḥ mahā-yogī purāṇapuruṣaḥ hariḥ .. 17.35..
न यत्र विद्यते नामजात्यादिपरिकल्पना । सत्तामात्रात्मरूपोऽसौ विष्णुरंशेन जायते ॥ १७.३६॥
न यत्र विद्यते नाम-जाति-आदि-परिकल्पना । सत्ता-मात्र-आत्म-रूपः असौ विष्णुः अंशेन जायते ॥ १७।३६॥
na yatra vidyate nāma-jāti-ādi-parikalpanā . sattā-mātra-ātma-rūpaḥ asau viṣṇuḥ aṃśena jāyate .. 17.36..
यस्य सा जगतां माता शक्तिस्तद्धर्मधारिणी । माया भगवती लक्ष्मीः सोऽवतीर्णो जनार्दनः ॥ १७.३७॥
यस्य सा जगताम् माता शक्तिः तद्-धर्म-धारिणी । माया भगवती लक्ष्मीः सः अवतीर्णः जनार्दनः ॥ १७।३७॥
yasya sā jagatām mātā śaktiḥ tad-dharma-dhāriṇī . māyā bhagavatī lakṣmīḥ saḥ avatīrṇaḥ janārdanaḥ .. 17.37..
यस्य सा तामसी मूर्त्तिः शंकरो राजसी तनुः । ब्रह्मा संजायते विष्णुरंशेनैकेन सत्त्वभृत् ॥ १७.३८॥
यस्य सा तामसी मूर्त्तिः शंकरः राजसी तनुः । ब्रह्मा संजायते विष्णुः अंशेन एकेन सत्त्व-भृत् ॥ १७।३८॥
yasya sā tāmasī mūrttiḥ śaṃkaraḥ rājasī tanuḥ . brahmā saṃjāyate viṣṇuḥ aṃśena ekena sattva-bhṛt .. 17.38..
इत्थं विचिन्त्य गोविन्दं भक्तिनम्रेण चेतसा । तमेव गच्छ शरणं ततो यास्यसि निर्वृतिम् ॥ १७.३९॥
इत्थम् विचिन्त्य गोविन्दम् भक्ति-नम्रेण चेतसा । तम् एव गच्छ शरणम् ततस् यास्यसि निर्वृतिम् ॥ १७।३९॥
ittham vicintya govindam bhakti-namreṇa cetasā . tam eva gaccha śaraṇam tatas yāsyasi nirvṛtim .. 17.39..
ततः प्रह्लादवचनाद् बलिर्वैरोचनिर्हरिम् । जगाम शरणं विश्वं पालयामास धर्मतः ॥ १७.४॥
ततस् प्रह्लाद-वचनात् बलिः वैरोचनिः हरिम् । जगाम शरणम् विश्वम् पालयामास धर्मतः ॥ १७।४॥
tatas prahlāda-vacanāt baliḥ vairocaniḥ harim . jagāma śaraṇam viśvam pālayāmāsa dharmataḥ .. 17.4..
काले प्राप्ते महाविष्णुं देवानां हर्षवर्द्धनम् । असूत कश्यपाच्चैनं देवमाताऽदितिः स्वयम् ॥ १७.४१॥
काले प्राप्ते महा-विष्णुम् देवानाम् हर्ष-वर्द्धनम् । असूत कश्यपात् च एनम् देव-माता अदितिः स्वयम् ॥ १७।४१॥
kāle prāpte mahā-viṣṇum devānām harṣa-varddhanam . asūta kaśyapāt ca enam deva-mātā aditiḥ svayam .. 17.41..
चतुर्भुजं विशालाक्षं श्रीवत्साङ्कितवक्षसम् । नीलमेघप्रतीकाशं भ्राजमानं श्रियावृतम् ॥ १७.४२॥
चतुर्-भुजम् विशाल-अक्षम् श्रीवत्स-अङ्कित-वक्षसम् । नील-मेघ-प्रतीकाशम् भ्राजमानम् श्रिया आवृतम् ॥ १७।४२॥
catur-bhujam viśāla-akṣam śrīvatsa-aṅkita-vakṣasam . nīla-megha-pratīkāśam bhrājamānam śriyā āvṛtam .. 17.42..
उपतस्थुः सुराः सर्वे सिद्धाः साध्याश्च चारणाः । उपेन्द्र इन्द्रप्रमुखा ब्रह्मा चर्षिगणैर्वृतः ॥ १७.४३॥
उपतस्थुः सुराः सर्वे सिद्धाः साध्याः च चारणाः । उपेन्द्रः इन्द्र-प्रमुखाः ब्रह्मा च ऋषि-गणैः वृतः ॥ १७।४३॥
upatasthuḥ surāḥ sarve siddhāḥ sādhyāḥ ca cāraṇāḥ . upendraḥ indra-pramukhāḥ brahmā ca ṛṣi-gaṇaiḥ vṛtaḥ .. 17.43..
कृतोपनयनो वेदानध्यैष्ट भगवान् हरिः । समाचारं भरद्वाजात् त्रिलोकाय प्रदर्शयन् ॥ १७.४४॥
कृत-उपनयनः वेदान् अध्यैष्ट भगवान् हरिः । समाचारम् भरद्वाजात् त्रिलोकाय प्रदर्शयन् ॥ १७।४४॥
kṛta-upanayanaḥ vedān adhyaiṣṭa bhagavān hariḥ . samācāram bharadvājāt trilokāya pradarśayan .. 17.44..
एवं हि लौकिकं मार्गं प्रदर्शयति स प्रभुः । स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ १७.४५॥
एवम् हि लौकिकम् मार्गम् प्रदर्शयति स प्रभुः । स यत् प्रमाणम् कुरुते लोकः तत् अनुवर्तते ॥ १७।४५॥
evam hi laukikam mārgam pradarśayati sa prabhuḥ . sa yat pramāṇam kurute lokaḥ tat anuvartate .. 17.45..
ततः कालेन मतिमान् बलिर्वैरोचनिः स्वयम् । यज्ञैर्यज्ञेश्वरं विष्णुमर्चयामास सर्वगम् ॥ १७.४६॥
ततस् कालेन मतिमान् बलिः वैरोचनिः स्वयम् । यज्ञैः यज्ञेश्वरम् विष्णुम् अर्चयामास सर्वगम् ॥ १७।४६॥
tatas kālena matimān baliḥ vairocaniḥ svayam . yajñaiḥ yajñeśvaram viṣṇum arcayāmāsa sarvagam .. 17.46..
ब्राह्मणान् पूजयामास दत्त्वा बहुतरं धनम् । ब्रह्मर्षयः समाजग्मुर्यज्ञवाटं महात्मनः ॥ १७.४७॥
ब्राह्मणान् पूजयामास दत्त्वा बहुतरम् धनम् । ब्रह्मर्षयः समाजग्मुः यज्ञ-वाटम् महात्मनः ॥ १७।४७॥
brāhmaṇān pūjayāmāsa dattvā bahutaram dhanam . brahmarṣayaḥ samājagmuḥ yajña-vāṭam mahātmanaḥ .. 17.47..
विज्ञाय विष्णुर्भगवान् भरद्वाजप्रचोदितः । आस्थाय वामनं रूपं यज्ञदेशमथागमत् ॥ १७.४८॥
विज्ञाय विष्णुः भगवान् भरद्वाज-प्रचोदितः । आस्थाय वामनम् रूपम् यज्ञ-देशम् अथ अगमत् ॥ १७।४८॥
vijñāya viṣṇuḥ bhagavān bharadvāja-pracoditaḥ . āsthāya vāmanam rūpam yajña-deśam atha agamat .. 17.48..
कृष्णाजिनोपवीताङ्ग आषाढेन विराजितः । ब्राह्मणो जटिलो वेदानुद्गिरन् भस्ममण्डितः ॥ १७.४९॥
कृष्णाजिन-उपवीत-अङ्गः आषाढेन विराजितः । ब्राह्मणः जटिलः वेदान् उद्गिरन् भस्म-मण्डितः ॥ १७।४९॥
kṛṣṇājina-upavīta-aṅgaḥ āṣāḍhena virājitaḥ . brāhmaṇaḥ jaṭilaḥ vedān udgiran bhasma-maṇḍitaḥ .. 17.49..
संप्राप्यासुरराजस्य समीपं भिक्षुको हरिः । स्वपद्भ्यां क्रमितं देशमयाचत बलिं त्रिभिः ॥ १७.५॥
संप्राप्य असुर-राजस्य समीपम् भिक्षुकः हरिः । स्व-पद्भ्याम् क्रमितम् देशम् अयाचत बलिम् त्रिभिः ॥ १७।५॥
saṃprāpya asura-rājasya samīpam bhikṣukaḥ hariḥ . sva-padbhyām kramitam deśam ayācata balim tribhiḥ .. 17.5..
प्रक्षाल्य चरणौ विष्णोर्बलिर्भावसमन्वितः । आचामयित्वा भृङ्गारमादाय स्वर्णनिर्मितम् ॥ १७.५१॥
प्रक्षाल्य चरणौ विष्णोः बलिः भाव-समन्वितः । आचामयित्वा भृङ्गारम् आदाय स्वर्ण-निर्मितम् ॥ १७।५१॥
prakṣālya caraṇau viṣṇoḥ baliḥ bhāva-samanvitaḥ . ācāmayitvā bhṛṅgāram ādāya svarṇa-nirmitam .. 17.51..
दास्ये तवेदं भवते पदत्रयं प्रीणातु देवो हरिरव्ययाकृतिः । विचिन्त्य देवस्य कराग्रपल्लवे निपातयामास जलं सुशीतलम् ॥ १७.५२॥
दास्ये तव इदम् भवते पद-त्रयम् प्रीणातु देवः हरिः अव्यय-आकृतिः । विचिन्त्य देवस्य कर-अग्र-पल्लवे निपातयामास जलम् सु शीतलम् ॥ १७।५२॥
dāsye tava idam bhavate pada-trayam prīṇātu devaḥ hariḥ avyaya-ākṛtiḥ . vicintya devasya kara-agra-pallave nipātayāmāsa jalam su śītalam .. 17.52..
विचक्रमे पृथिवीमेष चैता- मथान्तरिक्षं दिवमादिदेवः । व्यपेतरागं दितिजेश्वरं तं प्रकर्तुकामः शरणं प्रपन्नम् ॥ १७.५३॥
विचक्रमे पृथिवीम् एष च एताम् अथ अन्तरिक्षम् दिवम् आदिदेवः । व्यपेत-रागम् दितिज-ईश्वरम् तम् प्रकर्तु-कामः शरणम् प्रपन्नम् ॥ १७।५३॥
vicakrame pṛthivīm eṣa ca etām atha antarikṣam divam ādidevaḥ . vyapeta-rāgam ditija-īśvaram tam prakartu-kāmaḥ śaraṇam prapannam .. 17.53..
आक्रम्य लोकत्रयमीशपादः प्राजापत्याद् ब्रह्मलोकं जगाम । प्रणेमुरादित्यसहस्त्रकल्पं ये तत्र लोके निवसन्ति सिद्धाः ॥ १७.५४॥
आक्रम्य लोकत्रयम् ईश-पादः प्राजापत्यात् ब्रह्म-लोकम् जगाम । प्रणेमुः आदित्य-सहस्त्र-कल्पम् ये तत्र लोके निवसन्ति सिद्धाः ॥ १७।५४॥
ākramya lokatrayam īśa-pādaḥ prājāpatyāt brahma-lokam jagāma . praṇemuḥ āditya-sahastra-kalpam ye tatra loke nivasanti siddhāḥ .. 17.54..
अथोपतस्थे भगवाननादिः पितामहास्तोषयामास विष्णुम् । भित्त्वा तदण्डस्य कपालमूर्ध्वं जगाम दिव्याभरणानि भूयः ॥ १७.५५॥
अथा उपतस्थे भगवान् अनादिः पितामहाः तोषयामास विष्णुम् । भित्त्वा तद्-अण्डस्य कपालम् ऊर्ध्वम् जगाम दिव्य-आभरणानि भूयस् ॥ १७।५५॥
athā upatasthe bhagavān anādiḥ pitāmahāḥ toṣayāmāsa viṣṇum . bhittvā tad-aṇḍasya kapālam ūrdhvam jagāma divya-ābharaṇāni bhūyas .. 17.55..
अथाण्डभेदान्निपपात शीतलं महाजलं तत् पुण्यकृद्भिश्चजुष्टम् । प्रवर्तते चापि सरिद्वरा तदा गङ्गेत्युक्त्वा ब्रह्मणा व्योमसंस्था ॥ १७.५६॥
अथ अण्ड-भेदात् निपपात शीतलम् महा-जलम् तत् पुण्य-कृद्भिः च जुष्टम् । प्रवर्तते च अपि सरिद्वरा तदा गङ्गा इति उक्त्वा ब्रह्मणा व्योम-संस्था ॥ १७।५६॥
atha aṇḍa-bhedāt nipapāta śītalam mahā-jalam tat puṇya-kṛdbhiḥ ca juṣṭam . pravartate ca api saridvarā tadā gaṅgā iti uktvā brahmaṇā vyoma-saṃsthā .. 17.56..
गत्वा महान्तं प्रकृतिं प्रधानं ब्रह्माणमेकं पुरुषं स्वबीजम् । अतिष्ठदीशस्य पदं तदव्ययं दृष्ट्वा देवास्तत्र तत्र स्तुवन्ति ॥ १७.५७॥
गत्वा महान्तम् प्रकृतिम् प्रधानम् ब्रह्माणम् एकम् पुरुषम् स्व-बीजम् । अतिष्ठत् ईशस्य पदम् तत् अव्ययम् दृष्ट्वा देवाः तत्र तत्र स्तुवन्ति ॥ १७।५७॥
gatvā mahāntam prakṛtim pradhānam brahmāṇam ekam puruṣam sva-bījam . atiṣṭhat īśasya padam tat avyayam dṛṣṭvā devāḥ tatra tatra stuvanti .. 17.57..
आलोक्य तं पुरुषं विश्वकायं महान् बलिर्भक्तियोगेन विष्णुम् । ननाम नारायणमेकमव्ययं स्वचेतसा यं प्रणमन्ति वेदाः ॥ १७.५८॥
आलोक्य तम् पुरुषम् विश्व-कायम् महान् बलिः भक्ति-योगेन विष्णुम् । ननाम नारायणम् एकम् अव्ययम् स्व-चेतसा यम् प्रणमन्ति वेदाः ॥ १७।५८॥
ālokya tam puruṣam viśva-kāyam mahān baliḥ bhakti-yogena viṣṇum . nanāma nārāyaṇam ekam avyayam sva-cetasā yam praṇamanti vedāḥ .. 17.58..
तमब्रवीद् भगवानादिकर्त्ता भूत्वा पुनर्वामनो वासुदेवः । ममैव दैत्याधिपतेऽधुनेदं लोकत्रयं भवता भावदत्तम् ॥ १७.५९॥
तम् अब्रवीत् भगवान् आदिकर्त्ता भूत्वा पुनर् वामनः वासुदेवः । मम एव दैत्य-अधिपते अधुना इदम् लोकत्रयम् भवता भाव-दत्तम् ॥ १७।५९॥
tam abravīt bhagavān ādikarttā bhūtvā punar vāmanaḥ vāsudevaḥ . mama eva daitya-adhipate adhunā idam lokatrayam bhavatā bhāva-dattam .. 17.59..
प्रणम्य मूर्ध्ना पुनरेव दैत्यो निपातयामास जलं कराग्रे । दास्ये तवात्मानमनन्तधाम्ने त्रिविक्रमायामितविक्रमाय ॥ १७.६॥
प्रणम्य मूर्ध्ना पुनर् एव दैत्यः निपातयामास जलम् कर-अग्रे । दास्ये तव आत्मानम् अनन्त-धाम्ने त्रिविक्रमाय अमितविक्रमाय ॥ १७।६॥
praṇamya mūrdhnā punar eva daityaḥ nipātayāmāsa jalam kara-agre . dāsye tava ātmānam ananta-dhāmne trivikramāya amitavikramāya .. 17.6..
प्रगृह्य सूनोरपि संप्रदत्तं प्रह्लादसूनोरथ शङ्खपाणिः । जगाद दैत्यं जगदन्तरात्मा पातालमूलं प्रविशेति भूयः ॥ १७.६१॥
प्रगृह्य सूनोः अपि संप्रदत्तम् प्रह्लाद-सूनोः अथ शङ्खपाणिः । जगाद दैत्यम् जगदन्तरात्मा पाताल-मूलम् प्रविश इति भूयस् ॥ १७।६१॥
pragṛhya sūnoḥ api saṃpradattam prahlāda-sūnoḥ atha śaṅkhapāṇiḥ . jagāda daityam jagadantarātmā pātāla-mūlam praviśa iti bhūyas .. 17.61..
समास्यतां भवता तत्र नित्यं भुक्त्वा भोगान् देवतानामलभ्यान् । ध्यायस्व मां सततं भक्तियोगात् प्रवेक्ष्यसे कल्पदाहे पुनर्माम् ॥ १७.६२॥
समास्यताम् भवता तत्र नित्यम् भुक्त्वा भोगान् देवतानाम् अलभ्यान् । ध्यायस्व माम् सततम् भक्ति-योगात् प्रवेक्ष्यसे कल्प-दाहे पुनर् माम् ॥ १७।६२॥
samāsyatām bhavatā tatra nityam bhuktvā bhogān devatānām alabhyān . dhyāyasva mām satatam bhakti-yogāt pravekṣyase kalpa-dāhe punar mām .. 17.62..
उक्त्वैवं दैत्यसिंहं तं विष्णुः सत्यपराक्रमः । पुरंदराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ॥ १७.६३॥
उक्त्वा एवम् दैत्य-सिंहम् तम् विष्णुः सत्य-पराक्रमः । पुरंदराय त्रैलोक्यम् ददौ विष्णुः उरुक्रमः ॥ १७।६३॥
uktvā evam daitya-siṃham tam viṣṇuḥ satya-parākramaḥ . puraṃdarāya trailokyam dadau viṣṇuḥ urukramaḥ .. 17.63..
संस्तुवन्ति महायोगं सिद्धा देवर्षिकिन्नराः । ब्रह्मा शक्रोऽथ भगवान् रुद्रादित्यमरुद्गणाः ॥ १७.६४॥
संस्तुवन्ति महा-योगम् सिद्धाः देवर्षि-किन्नराः । ब्रह्मा शक्रः अथ भगवान् रुद्र-आदित्य-मरुत्-गणाः ॥ १७।६४॥
saṃstuvanti mahā-yogam siddhāḥ devarṣi-kinnarāḥ . brahmā śakraḥ atha bhagavān rudra-āditya-marut-gaṇāḥ .. 17.64..
कृत्वैतदद्भुतं कर्म विष्णुर्वामनरूपधृक् । पश्यतामेव सर्वेषां तत्रैवान्तरधीयत ॥ १७.६५॥
कृत्वा एतत् अद्भुतम् कर्म विष्णुः वामन-रूपधृक् । पश्यताम् एव सर्वेषाम् तत्र एव अन्तरधीयत ॥ १७।६५॥
kṛtvā etat adbhutam karma viṣṇuḥ vāmana-rūpadhṛk . paśyatām eva sarveṣām tatra eva antaradhīyata .. 17.65..
सोऽपि दैत्यवरः श्रीमान् पातालं प्राप चोदितः । प्रह्लादेनासुरवरैर्विष्णु भक्तस्तुतत्परः ॥ १७.६६॥
सः अपि दैत्य-वरः श्रीमान् पातालम् प्राप चोदितः । प्रह्लादेन असुर-वरैः विष्णु भक्तः तु तत्परः ॥ १७।६६॥
saḥ api daitya-varaḥ śrīmān pātālam prāpa coditaḥ . prahlādena asura-varaiḥ viṣṇu bhaktaḥ tu tatparaḥ .. 17.66..
अपृच्छद् विष्णुमाहात्मयं भक्तियोगमनुत्तमम् । पूजाविधानं प्रह्लादं तदाहासौ चकार सः ॥ १७.६७॥
अपृच्छत् भक्ति-योगम् अनुत्तमम् । पूजा-विधानम् प्रह्लादम् तत् आह असौ चकार सः ॥ १७।६७॥
apṛcchat bhakti-yogam anuttamam . pūjā-vidhānam prahlādam tat āha asau cakāra saḥ .. 17.67..
अथ रथचरणंसशङ्खपाणिं सरसिजोलचनमीशमप्रमेयम् । शरणमुपपयौ स भावयोगात् प्रणयगतिं प्रणिधाय कर्मयोगम् ॥ १७.६८॥
अथ रथ-चरण-अंस-शङ्ख-पाणिम् सरसिजः लचनम् ईशम् अप्रमेयम् । शरणम् उपपयौ स भाव-योगात् प्रणय-गतिम् प्रणिधाय कर्म-योगम् ॥ १७।६८॥
atha ratha-caraṇa-aṃsa-śaṅkha-pāṇim sarasijaḥ lacanam īśam aprameyam . śaraṇam upapayau sa bhāva-yogāt praṇaya-gatim praṇidhāya karma-yogam .. 17.68..
एष वः कथितो विप्रा वामनस्य पराक्रमः । स देवकार्याणि सदा करोति पुरुषोत्तमः ॥ १७.६९॥
एष वः कथितः विप्राः वामनस्य पराक्रमः । स देव-कार्याणि सदा करोति पुरुषोत्तमः ॥ १७।६९॥
eṣa vaḥ kathitaḥ viprāḥ vāmanasya parākramaḥ . sa deva-kāryāṇi sadā karoti puruṣottamaḥ .. 17.69..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तदशोऽध्याय॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे सप्तदशः अध्याय॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge saptadaśaḥ adhyāya.. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In