| |
|

This overlay will guide you through the buttons:

अथ मुख्यादिसर्गकथनम् । श्रीकूर्म उवाच ।
एवं भूतानि सृष्टानि स्थावराणि चराणि च । यदा चास्य प्रजाः सृष्टा न व्यवर्द्धन्त धीमतः ॥ ८.१॥
एवम् भूतानि सृष्टानि स्थावराणि चराणि च । यदा च अस्य प्रजाः सृष्टाः न व्यवर्द्धन्त धीमतः ॥ ८।१॥
evam bhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca . yadā ca asya prajāḥ sṛṣṭāḥ na vyavarddhanta dhīmataḥ .. 8.1..
तमोमात्रावृतो ब्रह्मा तदाशोचत दुःखितः । ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ ८.२॥
तमः-मात्रा-वृतः ब्रह्मा तदा अशोचत दुःखितः । ततस् स विदधे बुद्धिम् अर्थ-निश्चय-गामिनीम् ॥ ८।२॥
tamaḥ-mātrā-vṛtaḥ brahmā tadā aśocata duḥkhitaḥ . tatas sa vidadhe buddhim artha-niścaya-gāminīm .. 8.2..
अथात्मनि समद्राक्षीत् तमोमात्रां नियामिकाम् । रजः सत्त्वं च संवृत्तं वर्तमानां स्वधर्मतः ॥ ८.३॥
अथ आत्मनि समद्राक्षीत् तमः-मात्राम् नियामिकाम् । रजः सत्त्वम् च संवृत्तम् वर्तमानाम् स्वधर्मतः ॥ ८।३॥
atha ātmani samadrākṣīt tamaḥ-mātrām niyāmikām . rajaḥ sattvam ca saṃvṛttam vartamānām svadharmataḥ .. 8.3..
तमस्तु व्यनुदत् पश्चात् रजः सत्त्वेन संयुतः । तत्तमः प्रतिनुन्नं वै मिथुनं समजायत ॥ ८.४॥
तमः तु व्यनुदत् पश्चात् रजः-सत्त्वेन संयुतः । तत् तमः प्रतिनुन्नम् वै मिथुनम् समजायत ॥ ८।४॥
tamaḥ tu vyanudat paścāt rajaḥ-sattvena saṃyutaḥ . tat tamaḥ pratinunnam vai mithunam samajāyata .. 8.4..
अधर्माचरणो विप्रा हिंसा चाशुभलक्षणा । स्वां तनुं स ततो ब्रह्मा तामपोहत भास्वराम् ॥ ८.५॥
अधर्म-आचरणः विप्राः हिंसा च अशुभ-लक्षणा । स्वाम् तनुम् स ततस् ब्रह्मा ताम् अपोहत भास्वराम् ॥ ८।५॥
adharma-ācaraṇaḥ viprāḥ hiṃsā ca aśubha-lakṣaṇā . svām tanum sa tatas brahmā tām apohata bhāsvarām .. 8.5..
द्विधाकरोत् पुनर्देहमर्द्धेन पुरुषोऽभवत् । अर्द्धेन नारी पुरुषो विराजमसृजत् प्रभुः ॥ ८.६॥
द्विधा अकरोत् पुनर् देहम् अर्द्धेन पुरुषः अभवत् । अर्द्धेन नारी पुरुषः विराजम् असृजत् प्रभुः ॥ ८।६॥
dvidhā akarot punar deham arddhena puruṣaḥ abhavat . arddhena nārī puruṣaḥ virājam asṛjat prabhuḥ .. 8.6..
नारीं च शतरूपाख्यां योगिनीं ससृजे शुभाम् । सा दिवं पृथिवीं चैव महिम्ना व्याप्य संस्थिता ॥ ८.७॥
नारीम् च शतरूपा-आख्याम् योगिनीम् ससृजे शुभाम् । सा दिवम् पृथिवीम् च एव महिम्ना व्याप्य संस्थिता ॥ ८।७॥
nārīm ca śatarūpā-ākhyām yoginīm sasṛje śubhām . sā divam pṛthivīm ca eva mahimnā vyāpya saṃsthitā .. 8.7..
योगैश्वर्यबलोपेता ज्ञानविज्ञानसंयुता । योऽभवत् पुरुषात् पुत्रो विराडव्यक्तजन्मनः ॥ ८.८॥
योग-ऐश्वर्य-बल-उपेता ज्ञान-विज्ञान-संयुता । यः अभवत् पुरुषात् पुत्रः विराज् अव्यक्त-जन्मनः ॥ ८।८॥
yoga-aiśvarya-bala-upetā jñāna-vijñāna-saṃyutā . yaḥ abhavat puruṣāt putraḥ virāj avyakta-janmanaḥ .. 8.8..
स्वायंभुवो मनुर्देवः सोऽभवत् पुरुषो मुनिः । सा देवी शतरूपाख्या तपः कृत्वा सुदुश्चरम् ॥ ८.९॥
स्वायंभुवः मनुः देवः सः अभवत् पुरुषः मुनिः । सा देवी शतरूपा-आख्या तपः कृत्वा सु दुश्चरम् ॥ ८।९॥
svāyaṃbhuvaḥ manuḥ devaḥ saḥ abhavat puruṣaḥ muniḥ . sā devī śatarūpā-ākhyā tapaḥ kṛtvā su duścaram .. 8.9..
भर्तारं ब्रह्मणः पुत्रं मनुमेवान्वपद्यत । तस्माच्च शतरूपा सा पुत्रद्वयमसूयत ॥ ८.१॥
भर्तारम् ब्रह्मणः पुत्रम् मनुम् एव अन्वपद्यत । तस्मात् च शतरूपा सा पुत्र-द्वयम् असूयत ॥ ८।१॥
bhartāram brahmaṇaḥ putram manum eva anvapadyata . tasmāt ca śatarūpā sā putra-dvayam asūyata .. 8.1..
प्रियव्रतोत्तानपादौ कन्याद्वयमनुत्तमम् । तयोः प्रसूतिं दक्षाय मनुः कन्यां ददौ पुनः ॥ ८.११॥
प्रियव्रत-उत्तानपादौ कन्या-द्वयम् अनुत्तमम् । तयोः प्रसूतिम् दक्षाय मनुः कन्याम् ददौ पुनर् ॥ ८।११॥
priyavrata-uttānapādau kanyā-dvayam anuttamam . tayoḥ prasūtim dakṣāya manuḥ kanyām dadau punar .. 8.11..
प्रजापतिरथाकूतिं मानसो जगृहे रुचिः । आकूत्या मिथुनं जज्ञे मानसस्य रुचेः शुभम् । यज्ञश्च दक्षिणां चैव याभ्यां संवर्धितं जगत् ॥ ८.१२॥
प्रजापतिः अथ आकूतिम् मानसः जगृहे रुचिः । आकूत्याः मिथुनम् जज्ञे मानसस्य रुचेः शुभम् । यज्ञः च दक्षिणाम् च एव याभ्याम् संवर्धितम् जगत् ॥ ८।१२॥
prajāpatiḥ atha ākūtim mānasaḥ jagṛhe ruciḥ . ākūtyāḥ mithunam jajñe mānasasya ruceḥ śubham . yajñaḥ ca dakṣiṇām ca eva yābhyām saṃvardhitam jagat .. 8.12..
यज्ञस्य दक्षिणायां च पुत्रा द्वादश जज्ञिरे । यामा इति समाक्याता देवाः स्वायंभुवेऽन्तरे ॥ ८.१३॥
यज्ञस्य दक्षिणायाम् च पुत्राः द्वादश जज्ञिरे । यामाः इति समाक्याताः देवाः स्वायंभुवे अन्तरे ॥ ८।१३॥
yajñasya dakṣiṇāyām ca putrāḥ dvādaśa jajñire . yāmāḥ iti samākyātāḥ devāḥ svāyaṃbhuve antare .. 8.13..
प्रसूत्यां च तथा दक्षश्चतस्त्रो विंशतिं तथा । ससर्ज कन्या नामानि तासां सम्यम् निबोधत ॥ ८.१४॥
प्रसूत्याम् च तथा दक्षः चतस्त्रः विंशतिम् तथा । ससर्ज कन्याः नामानि तासाम् सम्यम् निबोधत ॥ ८।१४॥
prasūtyām ca tathā dakṣaḥ catastraḥ viṃśatim tathā . sasarja kanyāḥ nāmāni tāsām samyam nibodhata .. 8.14..
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । बुद्धिर्ल्लज्जावपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ ८.१५॥
श्रद्धा लक्ष्मीः धृतिः तुष्टिः पुष्टिः मेधा क्रिया तथा । बुद्धिः ल्लज्जा-वपुः शान्तिः सिद्धिः कीर्तिः त्रयोदशी ॥ ८।१५॥
śraddhā lakṣmīḥ dhṛtiḥ tuṣṭiḥ puṣṭiḥ medhā kriyā tathā . buddhiḥ llajjā-vapuḥ śāntiḥ siddhiḥ kīrtiḥ trayodaśī .. 8.15..
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः शुभाः । ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ ८.१६॥
पत्नी-अर्थम् प्रतिजग्राह धर्मः दाक्षायणीः शुभाः । ताभ्यः शिष्टाः यवीयस्यः एकादश सु लोचनाः ॥ ८।१६॥
patnī-artham pratijagrāha dharmaḥ dākṣāyaṇīḥ śubhāḥ . tābhyaḥ śiṣṭāḥ yavīyasyaḥ ekādaśa su locanāḥ .. 8.16..
ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा । संततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ ८.१७॥
ख्यातिः सती अथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा । संततिः च अनसूया च ऊर्जा स्वाहा स्वधा तथा ॥ ८।१७॥
khyātiḥ satī atha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā . saṃtatiḥ ca anasūyā ca ūrjā svāhā svadhā tathā .. 8.17..
भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः । पुलस्त्यः पुलहश्चैव क्रतुः परमधर्मवित् ॥ ८.१८॥
भृगुः भवः मरीचिः च तथा च एव अङ्गिराः मुनिः । पुलस्त्यः पुलहः च एव क्रतुः परम-धर्म-विद् ॥ ८।१८॥
bhṛguḥ bhavaḥ marīciḥ ca tathā ca eva aṅgirāḥ muniḥ . pulastyaḥ pulahaḥ ca eva kratuḥ parama-dharma-vid .. 8.18..
अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् । ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ॥ ८.१९॥
अत्रिः वसिष्ठः वह्निः च पितरः च यथाक्रमम् । ख्याति-आद्याः जगृहुः कन्याः मुनयः मुनि-सत्तमाः ॥ ८।१९॥
atriḥ vasiṣṭhaḥ vahniḥ ca pitaraḥ ca yathākramam . khyāti-ādyāḥ jagṛhuḥ kanyāḥ munayaḥ muni-sattamāḥ .. 8.19..
श्रद्धाया आत्मजः कामो दर्पो लक्ष्मीसुतः स्मृतः । धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोष उच्यते ॥ ८.२॥
श्रद्धायाः आत्मजः कामः दर्पः लक्ष्मी-सुतः स्मृतः । धृत्याः तु नियमः पुत्रः तुष्ट्याः संतोषः उच्यते ॥ ८।२॥
śraddhāyāḥ ātmajaḥ kāmaḥ darpaḥ lakṣmī-sutaḥ smṛtaḥ . dhṛtyāḥ tu niyamaḥ putraḥ tuṣṭyāḥ saṃtoṣaḥ ucyate .. 8.2..
पुष्ट्या लाभः सुतश्चापि मेधापुत्रः शमस्तथा । क्रियायाश्चाभवत् पुत्रो दण्डः समय उच्यते ॥ ८.२१॥
पुष्ट्याः लाभः सुतः च अपि मेधा-पुत्रः शमः तथा । क्रियायाः च अभवत् पुत्रः दण्डः समयः उच्यते ॥ ८।२१॥
puṣṭyāḥ lābhaḥ sutaḥ ca api medhā-putraḥ śamaḥ tathā . kriyāyāḥ ca abhavat putraḥ daṇḍaḥ samayaḥ ucyate .. 8.21..
बुद्ध्या बोधः सुतस्तद्वदप्रमादो व्यजायत । लज्जाया विनयः पुत्रो वपुषो व्यवसायकः ॥ ८.२२॥
बुद्ध्याः बोधः सुतः तद्वत् अप्रमादः व्यजायत । लज्जायाः विनयः पुत्रः वपुषः व्यवसायकः ॥ ८।२२॥
buddhyāḥ bodhaḥ sutaḥ tadvat apramādaḥ vyajāyata . lajjāyāḥ vinayaḥ putraḥ vapuṣaḥ vyavasāyakaḥ .. 8.22..
क्षेमः शान्तिसुतश्चापि सुखं सिद्धिरजायत । यशः कीर्तिसुतस्तद्वदित्येते धर्मसूनवः ॥ ८.२३॥
क्षेमः शान्ति-सुतः च अपि सुखम् सिद्धिः अजायत । यशः कीर्ति-सुतः तद्वत् इति एते धर्म-सूनवः ॥ ८।२३॥
kṣemaḥ śānti-sutaḥ ca api sukham siddhiḥ ajāyata . yaśaḥ kīrti-sutaḥ tadvat iti ete dharma-sūnavaḥ .. 8.23..
कामस्य हर्षः पुत्रोऽभूद् देवानन्दो व्यजायत । इत्येष वै सुखोदर्कः सर्गो धर्मस्य कीर्तितः ॥ ८.२४॥
कामस्य हर्षः पुत्रः अभूत् देवानन्दः व्यजायत । इति एष वै सुख-उदर्कः सर्गः धर्मस्य कीर्तितः ॥ ८।२४॥
kāmasya harṣaḥ putraḥ abhūt devānandaḥ vyajāyata . iti eṣa vai sukha-udarkaḥ sargaḥ dharmasya kīrtitaḥ .. 8.24..
जज्ञे हिंसा त्वधर्माद् वै निकृतिं चानृतं सुतम् । निकृत्यनृतयोर्जज्ञे भयं नरकमेव च ॥ ८.२५॥
जज्ञे हिंसा तु अधर्मात् वै निकृतिम् च अनृतम् सुतम् । निकृति-अनृतयोः जज्ञे भयम् नरकम् एव च ॥ ८।२५॥
jajñe hiṃsā tu adharmāt vai nikṛtim ca anṛtam sutam . nikṛti-anṛtayoḥ jajñe bhayam narakam eva ca .. 8.25..
माया च वेदना चैव मिथुनं त्विदमेतयोः । भयाज्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ॥ ८.२६॥
माया च वेदना च एव मिथुनम् तु इदम् एतयोः । भयात् जज्ञे अथ वै माया मृत्युम् भूत-अपहारिणम् ॥ ८।२६॥
māyā ca vedanā ca eva mithunam tu idam etayoḥ . bhayāt jajñe atha vai māyā mṛtyum bhūta-apahāriṇam .. 8.26..
वेदना च सुतं चापि दुःखं जज्ञेऽथ रौरवात् । मृत्योर्व्याधिजराशोकौतृष्णाक्रोधाश्च जज्ञिरे ॥ ८.२७॥
वेदना च सुतम् च अपि दुःखम् जज्ञे अथ रौरवात् । मृत्योः व्याधि-जरा-शोक-औतृष्णा-क्रोधाः च जज्ञिरे ॥ ८।२७॥
vedanā ca sutam ca api duḥkham jajñe atha rauravāt . mṛtyoḥ vyādhi-jarā-śoka-autṛṣṇā-krodhāḥ ca jajñire .. 8.27..
दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः । नैषां भार्याऽस्ति पुत्रो वा सर्वे ते ह्यूर्ध्वरेतसः ॥ ८.२८॥
दुःख-उत्तराः स्मृताः हि एते सर्वे च अधर्म-लक्षणाः । न एषाम् भार्या अस्ति पुत्रः वा सर्वे ते हि ऊर्ध्वरेतसः ॥ ८।२८॥
duḥkha-uttarāḥ smṛtāḥ hi ete sarve ca adharma-lakṣaṇāḥ . na eṣām bhāryā asti putraḥ vā sarve te hi ūrdhvaretasaḥ .. 8.28..
इत्येष तामसः सर्गो जज्ञे धर्मनियामकः । संक्षेपेण मया प्रोक्ता विसृष्टिर्मुनिपुंगवा ॥ ८.२९॥
इति एष तामसः सर्गः जज्ञे धर्म-नियामकः । संक्षेपेण मया प्रोक्ता विसृष्टिः मुनि-पुंगवा ॥ ८।२९॥
iti eṣa tāmasaḥ sargaḥ jajñe dharma-niyāmakaḥ . saṃkṣepeṇa mayā proktā visṛṣṭiḥ muni-puṃgavā .. 8.29..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागेऽष्टमोऽध्यायः ॥ ८॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे अष्टमः अध्यायः ॥ ८॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge aṣṭamaḥ adhyāyaḥ .. 8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In