| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
साधु पृष्टमिदं विप्रा भवद्भिर्भाग्यवत्तमैः ॥ दुर्लभं हि शिवज्ञानं प्रणवार्थप्रकाशकम् ॥ १ ॥
साधु पृष्टम् इदम् विप्राः भवद्भिः भाग्यवत्तमैः ॥ दुर्लभम् हि शिव-ज्ञानम् प्रणव-अर्थ-प्रकाशकम् ॥ १ ॥
sādhu pṛṣṭam idam viprāḥ bhavadbhiḥ bhāgyavattamaiḥ .. durlabham hi śiva-jñānam praṇava-artha-prakāśakam .. 1 ..
येषां प्रसन्नो भगवान्साक्षाच्छूलवरायुधः ॥ तेषामेव शिवज्ञानं प्रणवार्थप्रकाशकम ॥ २ ॥
येषाम् प्रसन्नः भगवान् साक्षात् शूल-वर-आयुधः ॥ तेषाम् एव शिव-ज्ञानम् प्रणव-अर्थ-प्रकाशकम् ॥ २ ॥
yeṣām prasannaḥ bhagavān sākṣāt śūla-vara-āyudhaḥ .. teṣām eva śiva-jñānam praṇava-artha-prakāśakam .. 2 ..
जायते न हि सन्देहो नेतरेषामिति श्रुतिः ॥ ।शिवभक्तिविहीनानामिति तत्त्वार्थनिश्चयः ॥ ३ ॥
जायते न हि सन्देहः न इतरेषाम् इति श्रुतिः ॥ ।शिव-भक्ति-विहीनानाम् इति तत्त्व-अर्थ-निश्चयः ॥ ३ ॥
jāyate na hi sandehaḥ na itareṣām iti śrutiḥ .. .śiva-bhakti-vihīnānām iti tattva-artha-niścayaḥ .. 3 ..
दीर्घसत्रेण युष्माभिर्भगवानम्बिकापतिः ॥ उपासित इतीदं मे दृष्टमद्य विनिश्चितम् ॥ ४॥
दीर्घ-सत्रेण युष्माभिः भगवान् अम्बिकापतिः ॥ उपासितः इति इदम् मे दृष्टम् अद्य विनिश्चितम् ॥ ४॥
dīrgha-satreṇa yuṣmābhiḥ bhagavān ambikāpatiḥ .. upāsitaḥ iti idam me dṛṣṭam adya viniścitam .. 4..
तस्माद्वक्ष्यामि युष्माकमितिहासम्पुरातनम् ॥ उमामहेशसम्वादरूपमद्भुतमास्तिकाः ॥ ५॥
तस्मात् वक्ष्यामि युष्माकम् इतिहासम् पुरातनम् ॥ उमा-महेश-सम्वाद-रूपम् अद्भुतम् आस्तिकाः ॥ ५॥
tasmāt vakṣyāmi yuṣmākam itihāsam purātanam .. umā-maheśa-samvāda-rūpam adbhutam āstikāḥ .. 5..
पुराखिलजगन्माता सती दाक्षायणी तनुम् ॥ शिवनिन्दाप्रसङ्गेन त्यक्त्वा च जनकाध्वरे ॥ ६॥
पुरा अखिल-जगत्-माता सती दाक्षायणी तनुम् ॥ शिव-निन्दा-प्रसङ्गेन त्यक्त्वा च जनक-अध्वरे ॥ ६॥
purā akhila-jagat-mātā satī dākṣāyaṇī tanum .. śiva-nindā-prasaṅgena tyaktvā ca janaka-adhvare .. 6..
ततः प्रभावात्सा देवी सुताऽभूद्धिमवद्गिरेः ॥ शिवार्थमतपत्सा वै नारदस्योपदेशतः ॥ ७॥
ततस् प्रभावात् सा देवी सुता अभूत् हिमवत्-गिरेः ॥ शिव-अर्थम् अतपत् सा वै नारदस्य उपदेशतः ॥ ७॥
tatas prabhāvāt sā devī sutā abhūt himavat-gireḥ .. śiva-artham atapat sā vai nāradasya upadeśataḥ .. 7..
तस्मिन्भूधरवर्य्ये तु स्वयंवरविधानतः॥देवेशे च कृतोद्वाहे पार्वती सुखमाप सा ॥ ८॥
तस्मिन् भूधर-वर्य्ये तु स्वयंवर-विधानतः॥देवेशे च कृत-उद्वाहे पार्वती सुखम् आप सा ॥ ८॥
tasmin bhūdhara-varyye tu svayaṃvara-vidhānataḥ..deveśe ca kṛta-udvāhe pārvatī sukham āpa sā .. 8..
तथैकस्मिन्महादेवी समये पतिना सह ॥ सूपविष्टा महाशैले गौरी देवमभाषत॥९॥
तथा एकस्मिन् महादेवी समये पतिना सह ॥ सु उपविष्टा महा-शैले गौरी देवम् अभाषत॥९॥
tathā ekasmin mahādevī samaye patinā saha .. su upaviṣṭā mahā-śaile gaurī devam abhāṣata..9..
महादेव्युवाच ।।
भगवन्परमेशान पञ्चकृत्यविधायक ॥ सर्वज्ञ भक्तिसुलभ परमामृतविग्रह ॥ 6.2.१० ॥
भगवन् परमेशान पञ्चकृत्य-विधायक ॥ परम ॥ ६।२।१० ॥
bhagavan parameśāna pañcakṛtya-vidhāyaka .. parama .. 6.2.10 ..
दाक्षायणीन्तनुं त्यक्त्वा तव निन्दाप्रसंगतः ॥ आसमद्य महेशान पुत्री हिमवतो गिरेः॥।
दाक्षायणीन् तनुम् त्यक्त्वा तव निन्दा-प्रसंगतः ॥ आसम् अद्य महा-ईशान पुत्री हिमवतः गिरेः॥।
dākṣāyaṇīn tanum tyaktvā tava nindā-prasaṃgataḥ .. āsam adya mahā-īśāna putrī himavataḥ gireḥ...
कृपया परमेशान मंत्रदीक्षाविधानतः ॥ मां विशुद्धात्मतत्त्वस्थां कुरु नित्यं महेश्वर ॥ १२॥
कृपया परमेशान मंत्र-दीक्षा-विधानतः ॥ माम् विशुद्ध-आत्म-तत्त्व-स्थाम् कुरु नित्यम् महेश्वर ॥ १२॥
kṛpayā parameśāna maṃtra-dīkṣā-vidhānataḥ .. mām viśuddha-ātma-tattva-sthām kuru nityam maheśvara .. 12..
इति सम्प्रार्थितो देव्या देवः शीतांशु भूषणः ॥ प्रत्युवाच ततो देवीं प्रहृष्टेनान्तरात्मना ॥ १३॥
इति सम्प्रार्थितः देव्या देवः शीतांशु भूषणः ॥ प्रत्युवाच ततस् देवीम् प्रहृष्टेन अन्तरात्मना ॥ १३॥
iti samprārthitaḥ devyā devaḥ śītāṃśu bhūṣaṇaḥ .. pratyuvāca tatas devīm prahṛṣṭena antarātmanā .. 13..
महादेव उवाच ।।
धन्या त्वं देवदेवशि यदि जातेदृशी मतिः ॥ कैलास शिखरं गत्वा करिष्ये त्वां च तादृशीम् ॥ १४ ॥
धन्या त्वम् देवदेवशि यदि जाता ईदृशी मतिः ॥ कैलास शिखरम् गत्वा करिष्ये त्वाम् च तादृशीम् ॥ १४ ॥
dhanyā tvam devadevaśi yadi jātā īdṛśī matiḥ .. kailāsa śikharam gatvā kariṣye tvām ca tādṛśīm .. 14 ..
ततो हिमवतो गत्वा कैलासम्भूधरेश्वरम्॥जगौ दीक्षाविधानेन प्रणवादीन्मनून् क्रमात् ॥ १५ ॥
ततस् हिमवतः गत्वा कैलासम् भूधर-ईश्वरम्॥जगौ दीक्षा-विधानेन प्रणव-आदीन् मनून् क्रमात् ॥ १५ ॥
tatas himavataḥ gatvā kailāsam bhūdhara-īśvaram..jagau dīkṣā-vidhānena praṇava-ādīn manūn kramāt .. 15 ..
उक्त्वा मंत्रांश्च तान्देवीं कृत्वा शुद्धात्मनि स्थिताम् ॥ सार्द्धं देव्या महादेवो देवोद्यानं गतोऽभवत् ॥ १६ ॥
उक्त्वा मंत्रान् च तान् देवीम् कृत्वा शुद्ध-आत्मनि स्थिताम् ॥ सार्द्धम् देव्या महादेवः देव-उद्यानम् गतः अभवत् ॥ १६ ॥
uktvā maṃtrān ca tān devīm kṛtvā śuddha-ātmani sthitām .. sārddham devyā mahādevaḥ deva-udyānam gataḥ abhavat .. 16 ..
ततः सुमालिनीमुख्यैर्दैव्याः प्रियसखीजनैः॥समाहृतैः प्रफुल्लैस्तैः पुष्पैः कल्पतरूद्भवैः॥१७॥
ततस् सुमालिनी-मुख्यैः दैव्याः प्रिय-सखी-जनैः॥समाहृतैः प्रफुल्लैः तैः पुष्पैः कल्पतरु-उद्भवैः॥१७॥
tatas sumālinī-mukhyaiḥ daivyāḥ priya-sakhī-janaiḥ..samāhṛtaiḥ praphullaiḥ taiḥ puṣpaiḥ kalpataru-udbhavaiḥ..17..
अलंकृत्य महादेवीं स्वांकमारोप्य शंकरः॥प्रहृष्टवदनस्तस्थौ विलोक्य च तदाननम् ॥ १८ ॥
अलंकृत्य महादेवीम् स्व-अंकम् आरोप्य शंकरः॥प्रहृष्ट-वदनः तस्थौ विलोक्य च तद्-आननम् ॥ १८ ॥
alaṃkṛtya mahādevīm sva-aṃkam āropya śaṃkaraḥ..prahṛṣṭa-vadanaḥ tasthau vilokya ca tad-ānanam .. 18 ..
ततः प्रियकथा जाताः पार्वतीपरमेशयोः ॥ हिताय सर्वलोकानां साक्षाच्छ्रुत्यर्थं सम्मिता ॥ १९॥
ततस् प्रिय-कथाः जाताः पार्वती-परमेशयोः ॥ हिताय सर्व-लोकानाम् साक्षात् श्रुति-अर्थम् सम्मिता ॥ १९॥
tatas priya-kathāḥ jātāḥ pārvatī-parameśayoḥ .. hitāya sarva-lokānām sākṣāt śruti-artham sammitā .. 19..
तदा सर्वजगन्माता भर्तुरंकं समाश्रिता ॥ विलोक्य वदनं भर्तुरिदमाहः तपोधनाः ॥ 6.2.२० ॥
तदा सर्व-जगत्-माता भर्तुः अंकम् समाश्रिता ॥ विलोक्य वदनम् भर्तुः इदम् आहः तपोधनाः ॥ ६।२।२० ॥
tadā sarva-jagat-mātā bhartuḥ aṃkam samāśritā .. vilokya vadanam bhartuḥ idam āhaḥ tapodhanāḥ .. 6.2.20 ..
।। श्रीदेव्युवाच ।।
उपदिष्टास्त्वया देव मंत्रास्सप्रणवा मताः ॥ तत्रादौ श्रोतुमिच्छामि प्रणवार्थं विनिश्चितम् ॥ २३॥
उपदिष्टाः त्वया देव मंत्राः स प्रणवाः मताः ॥ तत्र आदौ श्रोतुम् इच्छामि प्रणव-अर्थम् विनिश्चितम् ॥ २३॥
upadiṣṭāḥ tvayā deva maṃtrāḥ sa praṇavāḥ matāḥ .. tatra ādau śrotum icchāmi praṇava-artham viniścitam .. 23..
कथम्प्रणव उत्पन्नः कथं प्रणव उच्यते ॥ मात्राः कति समाख्याताः कथं वेदादिरुच्यते ॥ २२॥
कथम् प्रणवः उत्पन्नः कथम् प्रणवः उच्यते ॥ मात्राः कति समाख्याताः कथम् वेद-आदिः उच्यते ॥ २२॥
katham praṇavaḥ utpannaḥ katham praṇavaḥ ucyate .. mātrāḥ kati samākhyātāḥ katham veda-ādiḥ ucyate .. 22..
देवताः कति च प्रोक्ताः कथं वेदादिभावना॥क्रियाः कतिविधाः प्रोक्ता व्याप्यव्यापकता कथम्॥२३॥
देवताः कति च प्रोक्ताः कथम् वेद-आदि-भावना॥क्रियाः कतिविधाः प्रोक्ताः व्याप्य-व्यापक-ता कथम्॥२३॥
devatāḥ kati ca proktāḥ katham veda-ādi-bhāvanā..kriyāḥ katividhāḥ proktāḥ vyāpya-vyāpaka-tā katham..23..
ब्रह्माणि पंच मंत्रेऽस्मिन्कथं तिष्ठंत्यनुक्रमात्॥कलाः कति समाख्याताः प्रपंचात्मकता कथम् ॥ ।२४॥
ब्रह्माणि पंच मंत्रे अस्मिन् कथम् तिष्ठन्ति अनुक्रमात्॥कलाः कति समाख्याताः प्रपंच-आत्मक-ता कथम् ॥ ।२४॥
brahmāṇi paṃca maṃtre asmin katham tiṣṭhanti anukramāt..kalāḥ kati samākhyātāḥ prapaṃca-ātmaka-tā katham .. .24..
वाच्यवाचकसम्बन्धस्थानानि च कथं शिव ॥ कोऽत्राधिकारी विज्ञेयो विषयः क उदाहृतः ॥ २५॥
वाच्य-वाचक-सम्बन्ध-स्थानानि च कथम् शिव ॥ कः अत्र अधिकारी विज्ञेयः विषयः कः उदाहृतः ॥ २५॥
vācya-vācaka-sambandha-sthānāni ca katham śiva .. kaḥ atra adhikārī vijñeyaḥ viṣayaḥ kaḥ udāhṛtaḥ .. 25..
सम्बन्धः कोत्र विज्ञेयः किंप्रयोजनमुच्यते ॥ उपासकस्तु किंरूपः किं वा स्थानमुपासनम् ॥ २६॥
सम्बन्धः कः उत्र विज्ञेयः किंप्रयोजनम् उच्यते ॥ उपासकः तु किंरूपः किम् वा स्थानम् उपासनम् ॥ २६॥
sambandhaḥ kaḥ utra vijñeyaḥ kiṃprayojanam ucyate .. upāsakaḥ tu kiṃrūpaḥ kim vā sthānam upāsanam .. 26..
उपास्यं वस्तु किंरूपं किं वा फलमुपासितुः ॥ अनुष्ठान विधिः कोवा पूजास्थानं च किं प्रभो ॥ २७ ॥
उपास्यम् वस्तु किंरूपम् किम् वा फलम् उपासितुः ॥ अनुष्ठान-विधिः का उवा पूजा-स्थानम् च किम् प्रभो ॥ २७ ॥
upāsyam vastu kiṃrūpam kim vā phalam upāsituḥ .. anuṣṭhāna-vidhiḥ kā uvā pūjā-sthānam ca kim prabho .. 27 ..
पूजायां मण्डलं किं वा किं वा ऋष्यादिकं हर ॥ न्यासजातविधिः को वा को वा पूजाविधिक्रमः ॥ २८ ॥
पूजायाम् मण्डलम् किम् वा किम् वा ऋषि-आदिकम् हर ॥ न्यास-जात-विधिः कः वा कः वा पूजा-विधि-क्रमः ॥ २८ ॥
pūjāyām maṇḍalam kim vā kim vā ṛṣi-ādikam hara .. nyāsa-jāta-vidhiḥ kaḥ vā kaḥ vā pūjā-vidhi-kramaḥ .. 28 ..
एतत्सर्वं महेशान समाचक्ष्व विशेषतः ॥ श्रोतुमिच्छामि तत्त्वेन यद्यस्ति मयि ते कृपा ॥ २९ ॥
एतत् सर्वम् महेशान समाचक्ष्व विशेषतः ॥ श्रोतुम् इच्छामि तत्त्वेन यदि अस्ति मयि ते कृपा ॥ २९ ॥
etat sarvam maheśāna samācakṣva viśeṣataḥ .. śrotum icchāmi tattvena yadi asti mayi te kṛpā .. 29 ..
इति देव्या समापृष्टो भगवानिन्दुभूषणः ॥ सम्प्रशस्य महेशानीं वक्तुं समुपचक्रमे ॥ 6.2.३० ॥
इति देव्या समापृष्टः भगवान् इन्दु-भूषणः ॥ सम्प्रशस्य महेशानीम् वक्तुम् समुपचक्रमे ॥ ६।२।३० ॥
iti devyā samāpṛṣṭaḥ bhagavān indu-bhūṣaṇaḥ .. sampraśasya maheśānīm vaktum samupacakrame .. 6.2.30 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलास संहितायां देवीदेवसंवादे देवीकृतप्रश्नवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलास-संहितायाम् देवी-देव-संवादे देवीकृतप्रश्नवर्णनम् नाम द्वितीयः अध्यायः ॥ २ ॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsa-saṃhitāyām devī-deva-saṃvāde devīkṛtapraśnavarṇanam nāma dvitīyaḥ adhyāyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In