| |
|

This overlay will guide you through the buttons:

वामदेव उवाच ।।
ये मुक्ता यतयस्तेषां दाहकर्म्म न विद्यते ॥ मृते शरीरे खननं तद्देहस्य श्रुतं मया॥१॥
ये मुक्ताः यतयः तेषाम् दाह-कर्म्म न विद्यते ॥ मृते शरीरे खननम् तद्-देहस्य श्रुतम् मया॥१॥
ye muktāḥ yatayaḥ teṣām dāha-karmma na vidyate .. mṛte śarīre khananam tad-dehasya śrutam mayā..1..
तत्कर्माचक्ष्व सुप्रीत्या कार्तिकेय गुरो मम॥त्वत्तोन्यो न हि संवक्ता त्रिषु लोकेषु विद्यते ॥ २॥
तत् कर्म आचक्ष्व सु प्रीत्या कार्तिकेय गुरो मम॥त्वत्तः अन्यः न हि संवक्ता त्रिषु लोकेषु विद्यते ॥ २॥
tat karma ācakṣva su prītyā kārtikeya guro mama..tvattaḥ anyaḥ na hi saṃvaktā triṣu lokeṣu vidyate .. 2..
पूर्णाहं भावमाश्रित्य ये मुक्ता देहपंजरात् ॥ ये तूपासनमार्गेण देहमुक्ताः परंगतः ॥ ३॥
पूर्णा अहम् भावम् आश्रित्य ये मुक्ताः देह-पंजरात् ॥ ये तु उपासन-मार्गेण देह-मुक्ताः परंगतः ॥ ३॥
pūrṇā aham bhāvam āśritya ye muktāḥ deha-paṃjarāt .. ye tu upāsana-mārgeṇa deha-muktāḥ paraṃgataḥ .. 3..
तेषां गतिविशेषञ्च भगवञ्छंकरात्मज ॥ वक्तुमर्हसि सुप्रीत्या मां विचार्य्य स्वशिष्यतः॥४॥
तेषाम् गति-विशेषः च भगवन् शंकर-आत्मज ॥ वक्तुम् अर्हसि सु प्रीत्या माम् विचार्य्य स्व-शिष्यतः॥४॥
teṣām gati-viśeṣaḥ ca bhagavan śaṃkara-ātmaja .. vaktum arhasi su prītyā mām vicāryya sva-śiṣyataḥ..4..
।।सूत उवाच ।।
मुनिविज्ञप्तिमाकर्ण्य शक्तिपुत्रस्सुरारिहा ॥ प्राहात्यन्तरहस्यं तद्भृगुणा श्रुतमीश्वरात् ॥ ५॥
मुनि-विज्ञप्तिम् आकर्ण्य शक्ति-पुत्रः सुरारि-हा ॥ प्राह अत्यन्त-रहस्यम् तत् भृगुणा श्रुतम् ईश्वरात् ॥ ५॥
muni-vijñaptim ākarṇya śakti-putraḥ surāri-hā .. prāha atyanta-rahasyam tat bhṛguṇā śrutam īśvarāt .. 5..
।। सुब्रह्मण्य उवाच ।।
इदमेव मुने गुह्यं भृगवे शिवयोगिने ॥ उक्तं भगवता साक्षात्सर्वज्ञेन पिनाकिना ॥ ६॥
इदम् एव मुने गुह्यम् भृगवे शिव-योगिने ॥ उक्तम् भगवता साक्षात् सर्वज्ञेन पिनाकिना ॥ ६॥
idam eva mune guhyam bhṛgave śiva-yogine .. uktam bhagavatā sākṣāt sarvajñena pinākinā .. 6..
वक्ष्ये तदद्य ते ब्रह्मन्न देयं यस्य कस्यचित् ॥ देयं शिष्याय शान्ताय शिवभक्तियुताय वै ॥ ७॥
वक्ष्ये तत् अद्य ते ब्रह्मन् न देयम् यस्य कस्यचिद् ॥ देयम् शिष्याय शान्ताय शिव-भक्ति-युताय वै ॥ ७॥
vakṣye tat adya te brahman na deyam yasya kasyacid .. deyam śiṣyāya śāntāya śiva-bhakti-yutāya vai .. 7..
समाधिस्थो यतिः कश्चिच्छिवभावेन देहभुक् ॥ अस्ति चेत्स महाधीरः परिपूर्णश्शिवो भवेत् ॥ ८ ॥
समाधि-स्थः यतिः कश्चिद् शिव-भावेन देहभुज् ॥ अस्ति चेद् स महा-धीरः परिपूर्णः शिवः भवेत् ॥ ८ ॥
samādhi-sthaḥ yatiḥ kaścid śiva-bhāvena dehabhuj .. asti ced sa mahā-dhīraḥ paripūrṇaḥ śivaḥ bhavet .. 8 ..
अधैर्य्यचित्तो यः कश्चित्समाधिं न च विंदति ॥ तदुपायम्प्रवक्ष्यामि सावधानतया शृणु ॥ ९ ॥
अ धैर्य-चित्तः यः कश्चिद् समाधिम् न च विंदति ॥ तद्-उपायम् प्रवक्ष्यामि सावधान-तया शृणु ॥ ९ ॥
a dhairya-cittaḥ yaḥ kaścid samādhim na ca viṃdati .. tad-upāyam pravakṣyāmi sāvadhāna-tayā śṛṇu .. 9 ..
त्रिपदार्थपरिज्ञानं वेदान्तागमवाक्यजम् ॥ श्रुत्वा गुरोर्मुखाद्योगमभ्यसेत्स यमादिकम् ॥ 6.21.१०॥
॥ श्रुत्वा गुरोः मुखात् योगम् अभ्यसेत् स यम-आदिकम् ॥ ६।२१।१०॥
.. śrutvā guroḥ mukhāt yogam abhyaset sa yama-ādikam .. 6.21.10..
तत्कुर्वन्स यतिस्सम्यक्छिवध्यानपरो भवेत् ॥ नियमेन मुने नित्यं प्रणवासक्तमानसः ॥ ११॥
तत् कुर्वन् स यतिः सम्यक् शिव-ध्यान-परः भवेत् ॥ नियमेन मुने नित्यम् प्रणव-आसक्त-मानसः ॥ ११॥
tat kurvan sa yatiḥ samyak śiva-dhyāna-paraḥ bhavet .. niyamena mune nityam praṇava-āsakta-mānasaḥ .. 11..
देहदौर्बल्यवशतो यद्यधैर्य्यधरो यतिः ॥ अकामश्च शिवं स्मृत्वा स जीर्णां स्वां तनुं त्यजेत् ॥ १२॥
देह-दौर्बल्य-वशतः यदि अ धैर्य्य-धरः यतिः ॥ अकामः च शिवम् स्मृत्वा स जीर्णाम् स्वाम् तनुम् त्यजेत् ॥ १२॥
deha-daurbalya-vaśataḥ yadi a dhairyya-dharaḥ yatiḥ .. akāmaḥ ca śivam smṛtvā sa jīrṇām svām tanum tyajet .. 12..
सदाशिवानुग्रहतो नंदिना प्रेरिता मुने॥आतिवाहिकरूपिण्यो(?) देवताः पञ्च विश्रुताः॥१३॥
सदाशिव-अनुग्रहतः नंदिना प्रेरिताः मुने॥आतिवाहिक-रूपिण्यः(?) देवताः पञ्च विश्रुताः॥१३॥
sadāśiva-anugrahataḥ naṃdinā preritāḥ mune..ātivāhika-rūpiṇyaḥ(?) devatāḥ pañca viśrutāḥ..13..
आत्महन्ताकृतिः काचिज्ज्योत्तिःपुंजवपुष्मती ॥ अह्नोऽभिमानिनी काचिच्छुक्लपक्षाभिमानिनी ॥ १४ ॥
आत्महन्त्-आकृतिः काचिद् ज्योत्तिः पुंज-वपुष्मती ॥ अह्नः अभिमानिनी काचिद् शुक्लपक्ष-अभिमानिनी ॥ १४ ॥
ātmahant-ākṛtiḥ kācid jyottiḥ puṃja-vapuṣmatī .. ahnaḥ abhimāninī kācid śuklapakṣa-abhimāninī .. 14 ..
उत्तरायणरूपा च पंचानुग्रहतत्परा ॥ धूम्रा तमस्विनी रात्रिः कृष्णपक्षाभिमानिनी ॥ १५ ॥
उत्तरायण-रूपा च पंच-अनुग्रह-तत्परा ॥ धूम्रा तमस्विनी रात्रिः कृष्णपक्ष-अभिमानिनी ॥ १५ ॥
uttarāyaṇa-rūpā ca paṃca-anugraha-tatparā .. dhūmrā tamasvinī rātriḥ kṛṣṇapakṣa-abhimāninī .. 15 ..
दक्षिणायनरूपेति विश्रुताः पञ्च देवताः ॥ तासां वृत्तिं शृणुष्वाद्य वामदेव महामुने ॥ १६ ॥
दक्षिणायन-रूपा इति विश्रुताः पञ्च देवताः ॥ तासाम् वृत्तिम् शृणुष्व अद्य वामदेव महा-मुने ॥ १६ ॥
dakṣiṇāyana-rūpā iti viśrutāḥ pañca devatāḥ .. tāsām vṛttim śṛṇuṣva adya vāmadeva mahā-mune .. 16 ..
ताः पंचदेवता जीवान्कर्मानुष्ठान तत्परान् ॥ गृहीत्वा त्रिदिवं यांति तत्पुण्यवशतो मुने ॥ १७ ॥
ताः पंच-देवताः जीवान् कर्म-अनुष्ठान-तत्परान् ॥ गृहीत्वा त्रिदिवम् यान्ति तद्-पुण्य-वशतः मुने ॥ १७ ॥
tāḥ paṃca-devatāḥ jīvān karma-anuṣṭhāna-tatparān .. gṛhītvā tridivam yānti tad-puṇya-vaśataḥ mune .. 17 ..
भुक्त्वा भोगान्यथोक्तांश्च ते तत्पुण्यक्षये पुनः ॥ मानुषं लोकमासाद्य भजते जन्मपूर्ववत् ॥ १८ ॥
भुक्त्वा भोगान् यथा उक्तान् च ते तद्-पुण्य-क्षये पुनर् ॥ मानुषम् लोकम् आसाद्य भजते जन्म-पूर्व-वत् ॥ १८ ॥
bhuktvā bhogān yathā uktān ca te tad-puṇya-kṣaye punar .. mānuṣam lokam āsādya bhajate janma-pūrva-vat .. 18 ..
ताः पुनः पंचधा मार्गं विभज्यारभ्य भूतलम् ॥ अग्न्यादिक्रमतां गृह्यं सदाशिवपदं यतिः ॥ १९ ॥
ताः पुनर् पंचधा मार्गम् विभज्य आरभ्य भू-तलम् ॥ अग्नि-आदि-क्रमताम् गृह्यम् सदाशिव-पदम् यतिः ॥ १९ ॥
tāḥ punar paṃcadhā mārgam vibhajya ārabhya bhū-talam .. agni-ādi-kramatām gṛhyam sadāśiva-padam yatiḥ .. 19 ..
निनीय वन्द्यचरणौ देवदेवस्य पृष्ठतः ॥ तिष्ठंत्यनुग्रहाकाराः कर्म्मण्येव प्रयोजिताः ॥ 6.21.२० ॥
निनीय वन्द्य-चरणौ देवदेवस्य पृष्ठतस् ॥ तिष्ठन्ति अनुग्रह-आकाराः कर्म्मणि एव प्रयोजिताः ॥ ६।२१।२० ॥
ninīya vandya-caraṇau devadevasya pṛṣṭhatas .. tiṣṭhanti anugraha-ākārāḥ karmmaṇi eva prayojitāḥ .. 6.21.20 ..
समागतमभिप्रेक्ष्य देवदेवस्सदा शिवः ॥ विरक्तश्चेन्महामंत्रतात्पर्यमुपदिश्य च ॥ २१॥
समागतम् अभिप्रेक्ष्य देवदेवः सदा शिवः ॥ विरक्तः चेद् महामंत्र-तात्पर्यम् उपदिश्य च ॥ २१॥
samāgatam abhiprekṣya devadevaḥ sadā śivaḥ .. viraktaḥ ced mahāmaṃtra-tātparyam upadiśya ca .. 21..
स्वसाम्यं च वपुर्दत्ते गाणपत्येभिषिच्य च ॥ अनुगृह्णाति सर्वेशश्शंकरः सर्वनायकः ॥ २२ ॥
स्व-साम्यम् च वपुः दत्ते च ॥ अनुगृह्णाति सर्व-ईशः शंकरः सर्व-नायकः ॥ २२ ॥
sva-sāmyam ca vapuḥ datte ca .. anugṛhṇāti sarva-īśaḥ śaṃkaraḥ sarva-nāyakaḥ .. 22 ..
मृगटंकत्रिशूलाग्र्यवरदानविभूषितम् ॥ त्रिनेत्रं चन्द्रशकलं गंगोल्लासिजटाधरम् ॥ २३ ॥
मृग-टंक-त्रिशूल-अग्र्य-वर-दान-विभूषितम् ॥ त्रिनेत्रम् चन्द्र-शकलम् गंगा-उल्लासि-जटा-धरम् ॥ २३ ॥
mṛga-ṭaṃka-triśūla-agrya-vara-dāna-vibhūṣitam .. trinetram candra-śakalam gaṃgā-ullāsi-jaṭā-dharam .. 23 ..
अधिष्ठितविमानाग्र्यं सर्वदं सर्वकामदम् ॥ इति शाखाविरक्तश्चेद्रुद्रकन्यासमावृतम् ॥ २४ ॥
अधिष्ठित-विमान-अग्र्यम् सर्व-दम् सर्व-काम-दम् ॥ इति शाखा-विरक्तः चेद् रुद्र-कन्या-समावृतम् ॥ २४ ॥
adhiṣṭhita-vimāna-agryam sarva-dam sarva-kāma-dam .. iti śākhā-viraktaḥ ced rudra-kanyā-samāvṛtam .. 24 ..
नृत्यगीतमृदंगादिवाद्यघोषमनोहरम् ॥ दिव्याम्बरस्रगालेप भूषणैरपि भूषितम् ॥ २५ ॥
नृत्य-गीत-मृदंग-आदि-वाद्य-घोष-मनोहरम् ॥ दिव्य-अम्बर-स्रज्-आलेप भूषणैः अपि भूषितम् ॥ २५ ॥
nṛtya-gīta-mṛdaṃga-ādi-vādya-ghoṣa-manoharam .. divya-ambara-sraj-ālepa bhūṣaṇaiḥ api bhūṣitam .. 25 ..
दिव्यामृतघटैः पूर्णं दिव्यांभःपरिपूरितम् ॥ सूर्यकोटिप्रतीकाशं चंद्रकोटिसुशीतलम् ॥ २६ ॥
दिव्य-अमृत-घटैः पूर्णम् दिव्य-अंभः-परिपूरितम् ॥ सूर्य-कोटि-प्रतीकाशम् चंद्र-कोटि-सु शीतलम् ॥ २६ ॥
divya-amṛta-ghaṭaiḥ pūrṇam divya-aṃbhaḥ-paripūritam .. sūrya-koṭi-pratīkāśam caṃdra-koṭi-su śītalam .. 26 ..
मनोवेगं सर्वगं च विमानमनुगृह्य च ॥ भुक्तभोगस्य तस्यापि भोगकौतूहलक्षये ॥ २७ ॥
मनः-वेगम् सर्वगम् च विमानम् अनुगृह्य च ॥ भुक्त-भोगस्य तस्य अपि भोग-कौतूहल-क्षये ॥ २७ ॥
manaḥ-vegam sarvagam ca vimānam anugṛhya ca .. bhukta-bhogasya tasya api bhoga-kautūhala-kṣaye .. 27 ..
निपात्य शक्तिं तीव्रतरां प्रकृत्या ह्यति दुर्गमाम् ॥ कान्तारं दग्धुकामान्तान्मलयानलसुप्रभाम् ॥ २८॥
निपात्य शक्तिम् तीव्रतराम् प्रकृत्याः हि अति दुर्गमाम् ॥ कान्तारम् दग्धु-काम-अन्तात् मलय-अनल-सु प्रभाम् ॥ २८॥
nipātya śaktim tīvratarām prakṛtyāḥ hi ati durgamām .. kāntāram dagdhu-kāma-antāt malaya-anala-su prabhām .. 28..
अनुगृह्य महामंत्रतात्पर्यम्परमेश्वरः ॥ पूर्णोहं भावनारूपः शंभुर स्मीति निश्चलम् ॥ २९॥
अनुगृह्य महा-मंत्र-तात्पर्यम् परमेश्वरः ॥ पूर्णः अहम् भावना-रूपः शंभुः अ स्मि इति निश्चलम् ॥ २९॥
anugṛhya mahā-maṃtra-tātparyam parameśvaraḥ .. pūrṇaḥ aham bhāvanā-rūpaḥ śaṃbhuḥ a smi iti niścalam .. 29..
अनुगृह्य समाधिश्च स्वदास्यस्पन्दरूपिणीः ॥ रव्यादिकर्म्मसामर्थ्यरूपाः सिद्धीरनर्गलाः ॥ 6.21.३०॥
अनुगृह्य समाधिः च स्व-दास्य-स्पन्द-रूपिणीः ॥ रवि-आदि-कर्म्म-सामर्थ्य-रूपाः सिद्धीः अनर्गलाः ॥ ६।२१।३०॥
anugṛhya samādhiḥ ca sva-dāsya-spanda-rūpiṇīḥ .. ravi-ādi-karmma-sāmarthya-rūpāḥ siddhīḥ anargalāḥ .. 6.21.30..
आयुः क्षये पद्मयोनेः पुनरावृत्तिवर्जिताम् ॥ मुक्तिं च परमां तस्मै प्रयच्छति जगद्गुरुः ॥ ३१॥
आयुः क्षये पद्मयोनेः पुनरावृत्ति-वर्जिताम् ॥ मुक्तिम् च परमाम् तस्मै प्रयच्छति जगद्गुरुः ॥ ३१॥
āyuḥ kṣaye padmayoneḥ punarāvṛtti-varjitām .. muktim ca paramām tasmai prayacchati jagadguruḥ .. 31..
एतदेव पदं तस्मात्सर्वैश्वर्य्यं समष्टिमत्॥मुक्तिघंटापथं चेति वेदांतानां विनिश्चयः ॥ ३२ ॥
एतत् एव पदम् तस्मात् सर्व-ऐश्वर्यम् समष्टिमत्॥मुक्ति-घंटापथम् च इति वेदांतानाम् विनिश्चयः ॥ ३२ ॥
etat eva padam tasmāt sarva-aiśvaryam samaṣṭimat..mukti-ghaṃṭāpatham ca iti vedāṃtānām viniścayaḥ .. 32 ..
मुमूर्षोस्तस्य मन्दस्य यतेस्सत्सम्प्रदायिनः ॥ यतयः सानुकूलत्वात्तिष्ठेयुः परित स्तदा ॥ ३३ ॥
मुमूर्षोः तस्य मन्दस्य यतेः सत्-सम्प्रदायिनः ॥ यतयः स अनुकूल-त्वात् तिष्ठेयुः परितस् तदा ॥ ३३ ॥
mumūrṣoḥ tasya mandasya yateḥ sat-sampradāyinaḥ .. yatayaḥ sa anukūla-tvāt tiṣṭheyuḥ paritas tadā .. 33 ..
ततस्सर्वे च ते तत्र प्रणवादीन्यनुक्रमात् ॥ उपदिश्य च वाक्यानि तात्पर्यं च समाहिताः ॥ ३४ ॥
ततस् सर्वे च ते तत्र प्रणव-आदीनि अनुक्रमात् ॥ उपदिश्य च वाक्यानि तात्पर्यम् च समाहिताः ॥ ३४ ॥
tatas sarve ca te tatra praṇava-ādīni anukramāt .. upadiśya ca vākyāni tātparyam ca samāhitāḥ .. 34 ..
वर्णयेयुः स्फुटं प्रीत्या शिवं संस्मारयन्सदा ॥ निर्गुणं परमज्योतिः प्रणम्य विलयावधि ॥ ३५ ॥
वर्णयेयुः स्फुटम् प्रीत्या शिवम् संस्मारयन् सदा ॥ निर्गुणम् परम-ज्योतिः प्रणम्य विलय-अवधि ॥ ३५ ॥
varṇayeyuḥ sphuṭam prītyā śivam saṃsmārayan sadā .. nirguṇam parama-jyotiḥ praṇamya vilaya-avadhi .. 35 ..
एतेषां सममेवात्र संस्कारक्रम उच्यते ॥ असंस्कृतशरीराणां दौर्गत्यं नैव जायते ॥ ३६ ॥
एतेषाम् समम् एव अत्र संस्कार-क्रमः उच्यते ॥ असंस्कृत-शरीराणाम् दौर्गत्यम् न एव जायते ॥ ३६ ॥
eteṣām samam eva atra saṃskāra-kramaḥ ucyate .. asaṃskṛta-śarīrāṇām daurgatyam na eva jāyate .. 36 ..
संन्यस्य सर्वकर्म्माणि शिवाश्रयपरा यतः ॥ देहं दूषयतस्तेषां राज्ञो राष्ट्रं च नश्यति ॥ ३७ ॥
संन्यस्य सर्व-कर्म्माणि शिव-आश्रय-पराः यतस् ॥ देहम् दूषयतः तेषाम् राज्ञः राष्ट्रम् च नश्यति ॥ ३७ ॥
saṃnyasya sarva-karmmāṇi śiva-āśraya-parāḥ yatas .. deham dūṣayataḥ teṣām rājñaḥ rāṣṭram ca naśyati .. 37 ..
तद्ग्रामवासिनस्तेऽपि भवेयुर्भृशदुःखिनः ॥ तद्दोषपरिहाराय विधानं चैवमुच्यते ॥ ३८ ॥
तद्-ग्राम-वासिनः ते अपि भवेयुः भृश-दुःखिनः ॥ तद्-दोष-परिहाराय विधानम् च एवम् उच्यते ॥ ३८ ॥
tad-grāma-vāsinaḥ te api bhaveyuḥ bhṛśa-duḥkhinaḥ .. tad-doṣa-parihārāya vidhānam ca evam ucyate .. 38 ..
स तु नम हरिण्याय चेत्यारभ्य विनम्रधीः ॥ नम आमीवत्केभ्यान्तं तत्काले प्रजपेन्मनुम् ॥ ३९ ॥
स तु हरिण्याय च इति आरभ्य विनम्र-धीः ॥ नमः आमीवत्केभ्यः अन्तम् तद्-काले प्रजपेत् मनुम् ॥ ३९ ॥
sa tu hariṇyāya ca iti ārabhya vinamra-dhīḥ .. namaḥ āmīvatkebhyaḥ antam tad-kāle prajapet manum .. 39 ..
ॐमित्यन्ते जपन्देवयजनम्पूरयेत्ततः ॥ ततश्शान्तिर्भवेत्तस्य दोषस्य हि मुनीश्वर ॥ 6.21.४० ॥
ॐmityante japandevayajanampūrayettataḥ || tataśśāntirbhavettasya doṣasya hi munīśvara || 6.21.40 ||
oṃmityante japandevayajanampūrayettataḥ || tataśśāntirbhavettasya doṣasya hi munīśvara || 6.21.40 ||
पुत्रादयो यथा न्यायं कुर्य्युस्संस्कारमुत्तमम् ॥ वच्मि तत्कृपया विप्र सावधानतया शृणु ॥ ४१॥
पुत्र-आदयः यथा न्यायम् कुर्य्युः संस्कारम् उत्तमम् ॥ वच्मि तत् कृपया विप्र सावधान-तया शृणु ॥ ४१॥
putra-ādayaḥ yathā nyāyam kuryyuḥ saṃskāram uttamam .. vacmi tat kṛpayā vipra sāvadhāna-tayā śṛṇu .. 41..
अभ्यर्च्य स्नाप्य शुद्धोदैरभ्यर्च्य कुसुमादिभिः ॥ श्रीरुद्रचमकाभ्यां च रुद्रसूक्तेन च क्रमात् ॥ ४२॥
अभ्यर्च्य स्नाप्य शुद्ध-उदैः अभ्यर्च्य कुसुम-आदिभिः ॥ श्री-रुद्र-चमकाभ्याम् च रुद्रसूक्तेन च क्रमात् ॥ ४२॥
abhyarcya snāpya śuddha-udaiḥ abhyarcya kusuma-ādibhiḥ .. śrī-rudra-camakābhyām ca rudrasūktena ca kramāt .. 42..
शंखं च पुरतः स्थाप्य तज्जलेनाभिषिच्य च ॥ पुष्पं निधाय शिरसि प्रणवेन प्रमार्जयेत् ॥ ४३॥
शंखम् च पुरतस् स्थाप्य तद्-जलेन अभिषिच्य च ॥ पुष्पम् निधाय शिरसि प्रणवेन प्रमार्जयेत् ॥ ४३॥
śaṃkham ca puratas sthāpya tad-jalena abhiṣicya ca .. puṣpam nidhāya śirasi praṇavena pramārjayet .. 43..
कौपीनादीनि संत्यज्य पुनरन्यानि धारयेत् ॥ भस्मनोद्धूलयेत्तस्य सर्वांगं विधिना ततः ॥ ४४ ॥
कौपीन-आदीनि संत्यज्य पुनर् अन्यानि धारयेत् ॥ भस्मना उद्धूलयेत् तस्य सर्व-अंगम् विधिना ततस् ॥ ४४ ॥
kaupīna-ādīni saṃtyajya punar anyāni dhārayet .. bhasmanā uddhūlayet tasya sarva-aṃgam vidhinā tatas .. 44 ..
त्रिपुण्ड्रं च विधानेन तिलकं चन्दनेन च ॥ विरच्य पुष्पैर्मालाभिरलंकुर्य्यात्कलेवरम् ॥ ४५ ॥
त्रिपुण्ड्रम् च विधानेन तिलकम् चन्दनेन च ॥ विरच्य पुष्पैः मालाभिः अलंकुर्यात् कलेवरम् ॥ ४५ ॥
tripuṇḍram ca vidhānena tilakam candanena ca .. viracya puṣpaiḥ mālābhiḥ alaṃkuryāt kalevaram .. 45 ..
उरः कण्डशिरोबाहुप्रकोष्ठश्रुतिषु क्रमात् ॥ रुद्राक्षमालाभरणैरलंकुर्य्याच्च मंत्रतः ॥ ४६ ॥
उरः कण्ड-शिरः-बाहु-प्रकोष्ठ-श्रुतिषु क्रमात् ॥ रुद्र-अक्ष-माला-आभरणैः अलंकुर्यात् च मंत्रतः ॥ ४६ ॥
uraḥ kaṇḍa-śiraḥ-bāhu-prakoṣṭha-śrutiṣu kramāt .. rudra-akṣa-mālā-ābharaṇaiḥ alaṃkuryāt ca maṃtrataḥ .. 46 ..
सुधूपितं समुत्थाप्य शिक्योपरि निधाय च ॥ पंचब्रह्ममये रम्ये रथे संस्थापयेत्तनुम् ॥ ४७॥
सु धूपितम् समुत्थाप्य शिक्य-उपरि निधाय च ॥ पंच-ब्रह्म-मये रम्ये रथे संस्थापयेत् तनुम् ॥ ४७॥
su dhūpitam samutthāpya śikya-upari nidhāya ca .. paṃca-brahma-maye ramye rathe saṃsthāpayet tanum .. 47..
ॐमाद्यैः पंचभिर्ब्रह्ममंत्रैस्सद्यादिभिः क्र्मात् ॥ सुगंधकुसुमैर्माल्यैरलंकुर्य्याद्रथं च तम् ॥ ४८ ॥
ओम् मा-आद्यैः पंचभिः ब्रह्म-मंत्रैः सद्य-आदिभिः ॥ सु गंध-कुसुमैः माल्यैः अलंकुर्यात् रथम् च तम् ॥ ४८ ॥
om mā-ādyaiḥ paṃcabhiḥ brahma-maṃtraiḥ sadya-ādibhiḥ .. su gaṃdha-kusumaiḥ mālyaiḥ alaṃkuryāt ratham ca tam .. 48 ..
नृत्यवाद्यैर्ब्राह्मणानां वेदघोषैश्च सर्वतः ॥ ग्रामम्प्रदक्षिणीकृत्य गच्छे त्प्रेतं तमुद्वहन् ॥ ४९ ॥
नृत्य-वाद्यैः ब्राह्मणानाम् वेद-घोषैः च सर्वतस् ॥ ग्रामम् प्रदक्षिणीकृत्य गच्छेत् प्रेतम् तम् उद्वहन् ॥ ४९ ॥
nṛtya-vādyaiḥ brāhmaṇānām veda-ghoṣaiḥ ca sarvatas .. grāmam pradakṣiṇīkṛtya gacchet pretam tam udvahan .. 49 ..
ततस्ते यतिनः सर्वे तथा प्राच्यामथापि वा ॥ उदीच्यम्पुण्यदेशे तु पुण्यवृक्षसमीपतः ॥ 6.21.५०॥
ततस् ते यतिनः सर्वे तथा प्राच्याम् अथ अपि वा ॥ उदीच्यम्पुण्य-देशे तु पुण्य-वृक्ष-समीपतः ॥ ६।२१।५०॥
tatas te yatinaḥ sarve tathā prācyām atha api vā .. udīcyampuṇya-deśe tu puṇya-vṛkṣa-samīpataḥ .. 6.21.50..
खनित्वा देवयजनं दण्डमात्रप्रमाणतः ॥ प्रणवव्याहृतिभ्यां च प्रोक्ष्य चास्तीर्य्य च क्रमात् ॥ ५१ ॥
खनित्वा देवयजनम् दण्ड-मात्र-प्रमाणतः ॥ प्रणव-व्याहृतिभ्याम् च प्रोक्ष्य च आस्तीर्य्य च क्रमात् ॥ ५१ ॥
khanitvā devayajanam daṇḍa-mātra-pramāṇataḥ .. praṇava-vyāhṛtibhyām ca prokṣya ca āstīryya ca kramāt .. 51 ..
शमीपत्रश्च कुसुमैरुत्तराग्रं तदूर्ध्वतः॥आस्तीर्य दर्भांस्तत्पीठं चैलाजिनकुशोत्तरम् ॥ ५२ ॥
शमी-पत्रः च कुसुमैः उत्तर-अग्रम् तद्-ऊर्ध्वतस्॥आस्तीर्य दर्भान् तत् पीठम् चैल-अजिन-कुश-उत्तरम् ॥ ५२ ॥
śamī-patraḥ ca kusumaiḥ uttara-agram tad-ūrdhvatas..āstīrya darbhān tat pīṭham caila-ajina-kuśa-uttaram .. 52 ..
प्रणवेन ब्रह्मभिश्च पञ्चगव्येन तां तनुम् ॥ प्रोक्ष्याभिषिच्य रौद्रेण सूक्तेन प्रणवेन च ॥ ५३ ॥
प्रणवेन ब्रह्मभिः च पञ्चगव्येन ताम् तनुम् ॥ प्रोक्ष्य अभिषिच्य रौद्रेण सूक्तेन प्रणवेन च ॥ ५३ ॥
praṇavena brahmabhiḥ ca pañcagavyena tām tanum .. prokṣya abhiṣicya raudreṇa sūktena praṇavena ca .. 53 ..
शंखतोयेनाभिषिच्य मूर्ध्नि पुष्पं विनिःक्षिपेत् ॥ तद्गतस्यानुकूलोऽसौ शिवस्मरणतत्परः ॥ ५४॥
शंख-तोयेन अभिषिच्य मूर्ध्नि पुष्पम् विनिःक्षिपेत् ॥ तद्-गतस्य अनुकूलः असौ शिव-स्मरण-तत्परः ॥ ५४॥
śaṃkha-toyena abhiṣicya mūrdhni puṣpam viniḥkṣipet .. tad-gatasya anukūlaḥ asau śiva-smaraṇa-tatparaḥ .. 54..
ॐमित्यथ समुद्धृत्य स्वस्तिवाचनपूर्वकम् ॥ गर्ते योगासने स्थाप्य प्राङ्मुखं स्याद्यथा तथा ॥ ५५ ॥
ओंम् इति अथ समुद्धृत्य स्वस्तिवाचन-पूर्वकम् ॥ गर्ते योग-आसने स्थाप्य प्राच्-मुखम् स्यात् यथा तथा ॥ ५५ ॥
oṃm iti atha samuddhṛtya svastivācana-pūrvakam .. garte yoga-āsane sthāpya prāc-mukham syāt yathā tathā .. 55 ..
गंधपुष्पैरलंकृत्वा धूपगुग्गुलुना ततः॥विष्णो हव्यमिति प्रोच्य रक्षस्वेति वदन्ददेत् ॥ ५६॥
गंध-पुष्पैः अलंकृत्वा धूप-गुग्गुलुना ततस्॥विष्णो हव्यम् इति प्रोच्य रक्षस्व इति वदन् ददेत् ॥ ५६॥
gaṃdha-puṣpaiḥ alaṃkṛtvā dhūpa-guggulunā tatas..viṣṇo havyam iti procya rakṣasva iti vadan dadet .. 56..
दण्डं दक्षिणहस्ते तु वामे दद्यात्कमण्डलुम् ॥ प्रजापते न त्वदेतान्यन्यो मंत्रेण सोदकम् ॥ ५७ ॥
दण्डम् दक्षिण-हस्ते तु वामे दद्यात् कमण्डलुम् ॥ प्रजापते न त्वत् एतानि अन्यः मंत्रेण स उदकम् ॥ ५७ ॥
daṇḍam dakṣiṇa-haste tu vāme dadyāt kamaṇḍalum .. prajāpate na tvat etāni anyaḥ maṃtreṇa sa udakam .. 57 ..
ब्रह्मजज्ञानम्प्रथममितिमंत्रेण मस्तके ॥ स्पृशञ्जप्त्वा रुद्रसूक्तं भुवोर्मध्ये स्पृशञ्जपेत् ॥ ५८ ॥
ब्रह्म-ज-ज्ञानम् प्रथमम् इति मंत्रेण मस्तके ॥ स्पृशन् जप्त्वा रुद्रसूक्तम् भुवोः मध्ये स्पृशन् जपेत् ॥ ५८ ॥
brahma-ja-jñānam prathamam iti maṃtreṇa mastake .. spṛśan japtvā rudrasūktam bhuvoḥ madhye spṛśan japet .. 58 ..
मानो महान्तमित्यादिचतुर्भिर्मस्तकन्ततः ॥ नालिकेरेण निर्भिद्यादवटं पूरयेत्ततः ॥ ५९ ॥
मानः महान्तम् इत्यादि-चतुर्भिः मस्तकन्ततः ॥ नालिकेरेण निर्भिद्यात् अवटम् पूरयेत् ततस् ॥ ५९ ॥
mānaḥ mahāntam ityādi-caturbhiḥ mastakantataḥ .. nālikereṇa nirbhidyāt avaṭam pūrayet tatas .. 59 ..
पंचभिर्ब्रह्मभिस्स्पृष्ट्वा जपेत्स्थलमनन्यधीः ॥ यो देवानामुपक्रम्य यः परः स महेश्वरः ॥ 6.21.६० ॥
पंचभिः ब्रह्मभिः स्पृष्ट्वा जपेत् स्थलम् अन् अन्य-धीः ॥ यः देवानाम् उपक्रम्य यः परः स महेश्वरः ॥ ६।२१।६० ॥
paṃcabhiḥ brahmabhiḥ spṛṣṭvā japet sthalam an anya-dhīḥ .. yaḥ devānām upakramya yaḥ paraḥ sa maheśvaraḥ .. 6.21.60 ..
इति जप्त्वा महादेवं सांबं संसारभेषजम् ॥ सर्वज्ञमपराधीनं सर्वानुग्रहकारकम् ॥ ६१ ॥
इति जप्त्वा महादेवम् स अंबम् संसारभेषजम् ॥ सर्वज्ञम् अपर-अधीनम् सर्व-अनुग्रह-कारकम् ॥ ६१ ॥
iti japtvā mahādevam sa aṃbam saṃsārabheṣajam .. sarvajñam apara-adhīnam sarva-anugraha-kārakam .. 61 ..
एकारत्निसमुत्सेधमरत्निद्वयविस्तृतम् ॥ मृदा पीठं प्रकल्प्याथ गोपये नोपलेपयेत् ॥ ६२ ॥
एक-अरत्नि-समुत्सेधम् अरत्नि-द्वय-विस्तृतम् ॥ मृदा पीठम् प्रकल्प्य अथ न उपलेपयेत् ॥ ६२ ॥
eka-aratni-samutsedham aratni-dvaya-vistṛtam .. mṛdā pīṭham prakalpya atha na upalepayet .. 62 ..
चतुरस्रं च तन्मध्ये गंधाक्षतसमन्वितेः ॥ सुगंधकुसुमैर्बिल्वैस्तुलस्या च समर्चयेत् ॥ ६३ ॥
चतुर्-अस्रम् च तद्-मध्ये गंध-अक्षत-समन्वितेः ॥ सु गंध-कुसुमैः बिल्वैः तुलस्या च समर्चयेत् ॥ ६३ ॥
catur-asram ca tad-madhye gaṃdha-akṣata-samanviteḥ .. su gaṃdha-kusumaiḥ bilvaiḥ tulasyā ca samarcayet .. 63 ..
प्रणवेन ततो दयाद्धूपदीपौ पयोहविः ॥ दत्त्वा प्रदक्षिणीकृत्य नमस्कुर्य्याच्च पंचधा ॥ ६४ ॥
प्रणवेन ततस् दयात् धूप-दीपौ पयः-हविः ॥ दत्त्वा प्रदक्षिणीकृत्य नमस्कुर्य्यात् च पंचधा ॥ ६४ ॥
praṇavena tatas dayāt dhūpa-dīpau payaḥ-haviḥ .. dattvā pradakṣiṇīkṛtya namaskuryyāt ca paṃcadhā .. 64 ..
प्रणवं द्वादशावृत्त्वा संजप्य प्रणमेत्ततः ॥ दिग्विदिक्क्रमतो दद्याद्ब्रह्माद्यम्प्रणवेन च ॥ ६५ ॥
प्रणवम् द्वादश आवृत्त्वा संजप्य प्रणमेत् ततस् ॥ दिश्-विदिश्-क्रमतस् दद्यात् ब्रह्म-आद्यम् प्रणवेन च ॥ ६५ ॥
praṇavam dvādaśa āvṛttvā saṃjapya praṇamet tatas .. diś-vidiś-kramatas dadyāt brahma-ādyam praṇavena ca .. 65 ..
एवं दशाहपर्य्यंतं विधिस्ते समुदाहृतः ॥ यतीनां मुनिवर्य्याथैकादशाहविधिं शृणु ॥ ६६ ॥
एवम् दश-अह-पर्य्यंतम् विधिः ते समुदाहृतः ॥ यतीनाम् मुनि-वर्य्य अथ एकादश-अह-विधिम् शृणु ॥ ६६ ॥
evam daśa-aha-paryyaṃtam vidhiḥ te samudāhṛtaḥ .. yatīnām muni-varyya atha ekādaśa-aha-vidhim śṛṇu .. 66 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां यतीनान्मरणानन्तरदशाहपर्य्यंतकृत्यवर्णनन्नामैकविंशोऽध्यायः॥२१॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् एकविंशः अध्यायः॥२१॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām ekaviṃśaḥ adhyāyaḥ..21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In