| |
|

This overlay will guide you through the buttons:

सुब्रह्मण्य उवाच ।।
द्वादशाहे समुत्थाय प्रातः स्नात्वा कृताह्निकः ॥ शिवभक्तान्यतीन्वापि ब्राह्मणान्वा शिवप्रियान् ॥ १ ॥
द्वादश-अहे समुत्थाय प्रातर् स्नात्वा कृत-आह्निकः ॥ शिव-भक्तान् यतीन् वा अपि ब्राह्मणान् वा शिव-प्रियान् ॥ १ ॥
dvādaśa-ahe samutthāya prātar snātvā kṛta-āhnikaḥ .. śiva-bhaktān yatīn vā api brāhmaṇān vā śiva-priyān .. 1 ..
विमन्त्र्य तान्समाहूय मध्याह्न चाप्लुताञ्छुचीन् ॥ विधिवद्भोजयेद्भक्त्या स्वाद्वन्नैर्विविधैश्शुभैः ॥ २॥
विमन्त्र्य तान् समाहूय मध्याह्न च आप्लुतान् शुचीन् ॥ विधिवत् भोजयेत् भक्त्या स्वादु-अन्नैः विविधैः शुभैः ॥ २॥
vimantrya tān samāhūya madhyāhna ca āplutān śucīn .. vidhivat bhojayet bhaktyā svādu-annaiḥ vividhaiḥ śubhaiḥ .. 2..
सन्निधौ परमेशस्य पंचावरणमार्गतः ॥ पूजयेत्तस्य संस्थाप्य प्राणानायम्य वाग्यतः ॥ ३॥
सन्निधौ परमेशस्य पंच-आवरण-मार्गतः ॥ पूजयेत् तस्य संस्थाप्य प्राणान् आयम्य वाग्यतः ॥ ३॥
sannidhau parameśasya paṃca-āvaraṇa-mārgataḥ .. pūjayet tasya saṃsthāpya prāṇān āyamya vāgyataḥ .. 3..
महासंकल्पमार्गेण संकल्प्यास्मद्गुरोरिह॥पूजां करिष्य इत्युक्त्वा ततो दर्भानुस्पपृशेत्॥४॥
महासंकल्प-मार्गेण संकल्प्य अस्मद्-गुरोः इह॥पूजाम् करिष्ये इति उक्त्वा ततस् दर्भान् उस्पपृशेत्॥४॥
mahāsaṃkalpa-mārgeṇa saṃkalpya asmad-guroḥ iha..pūjām kariṣye iti uktvā tatas darbhān uspapṛśet..4..
पादौ प्रक्षाल्य चाचम्य स्वयं कर्ता च वाग्यतः ॥ स्थापयेदासने तान्वै प्राङ्मुखान्भस्मभूषितान् ॥ ५॥
पादौ प्रक्षाल्य च आचम्य स्वयम् कर्ता च वाग्यतः ॥ स्थापयेत् आसने तान् वै प्राच्-मुखान् भस्म-भूषितान् ॥ ५॥
pādau prakṣālya ca ācamya svayam kartā ca vāgyataḥ .. sthāpayet āsane tān vai prāc-mukhān bhasma-bhūṣitān .. 5..
सदाशिवादिक्रमतो ध्यायेदष्टौ च तत्र तान् ॥ परया सम्भावनयेतरानपि मुने द्विजान् ॥ परमेष्ठिगुरुं ध्यायेत्सांबबुद्ध्या स्वनामतः ॥ गुरुश्च परमन्तस्मात्परापरगुरुं ततः ॥ ६॥
सदाशिव-आदि-क्रमतः ध्यायेत् अष्टौ च तत्र तान् ॥ परया सम्भावनया इतरान् अपि मुने द्विजान् ॥ परमेष्ठि-गुरुम् ध्यायेत् सांब-बुद्ध्या स्व-नामतः ॥ गुरुः च परमन्तस्मात् तस्मात् पर-अपर-गुरुम् ततस् ॥ ६॥
sadāśiva-ādi-kramataḥ dhyāyet aṣṭau ca tatra tān .. parayā sambhāvanayā itarān api mune dvijān .. parameṣṭhi-gurum dhyāyet sāṃba-buddhyā sva-nāmataḥ .. guruḥ ca paramantasmāt tasmāt para-apara-gurum tatas .. 6..
इदमासनमित्युक्त्वा चासनानि प्रकल्पयेत् ॥ प्रणवादिद्वितीयांते स्वस्य नाम समुच्चरन् ॥ ॥ ७ ॥
इदम् आसनम् इति उक्त्वा च आसनानि प्रकल्पयेत् ॥ प्रणव-आदि-द्वितीय-अंते स्वस्य नाम समुच्चरन् ॥ ॥ ७ ॥
idam āsanam iti uktvā ca āsanāni prakalpayet .. praṇava-ādi-dvitīya-aṃte svasya nāma samuccaran .. .. 7 ..
आवाहयामि नम इत्यावाह्यार्घोदकेन तु ॥ पाद्यमाचमनं चार्घ्यं वस्त्रगन्धाक्षतानपि ॥ ८ ॥
आवाहयामि नमः इति आवाह्य अर्घ-उदकेन तु ॥ पाद्यम् आचमनम् च अर्घ्यम् वस्त्र-गन्ध-अक्षतान् अपि ॥ ८ ॥
āvāhayāmi namaḥ iti āvāhya argha-udakena tu .. pādyam ācamanam ca arghyam vastra-gandha-akṣatān api .. 8 ..
दत्त्वा पुष्पैरलंकृत्य प्रणवाद्यष्टनामभिः ॥ सचतुर्थौंनमोऽन्तैश्च सुगन्धकुसुमैस्ततः ॥ ९ ।
दत्त्वा पुष्पैः अलंकृत्य प्रणव-आदि-अष्ट-नामभिः ॥ स चतुर्थ-ओम् नमः-अन्तैः च सु गन्ध-कुसुमैः ततस् ॥ ९ ।
dattvā puṣpaiḥ alaṃkṛtya praṇava-ādi-aṣṭa-nāmabhiḥ .. sa caturtha-om namaḥ-antaiḥ ca su gandha-kusumaiḥ tatas .. 9 .
धूपदीपौ हि दत्त्वा च सकलाराधनं कृतम् ॥ सम्पूर्णमस्त्विति प्रोच्य नमस्कुर्यात्समुत्थितः ॥ 6.23.१० ॥
धूप-दीपौ हि दत्त्वा च सकल-आराधनम् कृतम् ॥ सम्पूर्णम् अस्तु इति प्रोच्य नमस्कुर्यात् समुत्थितः ॥ ६।२३।१० ॥
dhūpa-dīpau hi dattvā ca sakala-ārādhanam kṛtam .. sampūrṇam astu iti procya namaskuryāt samutthitaḥ .. 6.23.10 ..
पात्राणि कदलीपत्राण्यास्तीर्याद्भिविशोध्य च ॥ शुद्धान्नपायसापूपसूपव्यञ्जनपूर्वकम् ॥ ११ ॥
पात्राणि कदली-पत्राणि आस्तीर्य अद्भिः विशोध्य च ॥ शुद्ध-अन्न-पायस-अपूप-सूप-व्यञ्जन-पूर्वकम् ॥ ११ ॥
pātrāṇi kadalī-patrāṇi āstīrya adbhiḥ viśodhya ca .. śuddha-anna-pāyasa-apūpa-sūpa-vyañjana-pūrvakam .. 11 ..
दत्त्वा पदार्थान्कदलीनालिकेरगुडान्वितान् ॥ पात्रासनानि च पृथग्दद्यात्सम्प्रोच्य च क्रमात् ॥ १२ ॥
दत्त्वा पदार्थान् कदली-नालिकेर-गुड-अन्वितान् ॥ पात्र-आसनानि च पृथक् दद्यात् सम्प्रोच्य च क्रमात् ॥ १२ ॥
dattvā padārthān kadalī-nālikera-guḍa-anvitān .. pātra-āsanāni ca pṛthak dadyāt samprocya ca kramāt .. 12 ..
परिषिच्य च सम्प्रोक्ष्य विष्णोर्हव्यमिति ब्रुवन् ॥ रक्षस्वेति करस्पर्शं कारयित्वा समुत्थितः ॥ १३ ॥
परिषिच्य च सम्प्रोक्ष्य विष्णोः हव्यम् इति ब्रुवन् ॥ रक्षस्व इति कर-स्पर्शम् कारयित्वा समुत्थितः ॥ १३ ॥
pariṣicya ca samprokṣya viṣṇoḥ havyam iti bruvan .. rakṣasva iti kara-sparśam kārayitvā samutthitaḥ .. 13 ..
आपोशनं समर्प्याथ प्रार्थयेत्तानिदम्प्रति ॥ सदाशिवादयः प्रीता वरदाश्च भवन्तु मे ॥ १४ ॥
समर्प्य अथ प्रार्थयेत् तान् इदम् प्रति ॥ सदाशिव-आदयः प्रीताः वर-दाः च भवन्तु मे ॥ १४ ॥
samarpya atha prārthayet tān idam prati .. sadāśiva-ādayaḥ prītāḥ vara-dāḥ ca bhavantu me .. 14 ..
ये देवा इति च ततो जप्त्वेदं साक्षतं त्यजेत् ॥ नमस्कृत्य समुत्थाय सर्वत्रामृतमस्त्विति॥१५॥
ये देवाः इति च ततस् जप्त्वा इदम् स अक्षतम् त्यजेत् ॥ नमस्कृत्य समुत्थाय सर्वत्र अमृतम् अस्तु इति॥१५॥
ye devāḥ iti ca tatas japtvā idam sa akṣatam tyajet .. namaskṛtya samutthāya sarvatra amṛtam astu iti..15..
उक्त्वा प्रसाद्य च जपन्गणानांत्वेत्युप क्रमात् ॥ वेदादीन् रुद्रचमकौ रुद्रसूक्तं च पंच च ॥ १६ ॥
उक्त्वा प्रसाद्य च जपन् गणानाम् त्वा इति उप क्रमात् ॥ वेद-आदीन् रुद्र-चमकौ रुद्रसूक्तम् च पंच च ॥ १६ ॥
uktvā prasādya ca japan gaṇānām tvā iti upa kramāt .. veda-ādīn rudra-camakau rudrasūktam ca paṃca ca .. 16 ..
ब्रह्माणि भोजनान्ते तु यावन्मन्त्रांश्च साक्षतान् ॥ दत्त्वोत्तरापोशनं च हस्तांघ्रिमुखशोधनम् ॥ १७ ॥
ब्रह्माणि भोजन-अन्ते तु यावत् मन्त्रान् च स अक्षतान् ॥ च हस्त-अंघ्रि-मुख-शोधनम् ॥ १७ ॥
brahmāṇi bhojana-ante tu yāvat mantrān ca sa akṣatān .. ca hasta-aṃghri-mukha-śodhanam .. 17 ..
कृत्वा चान्तान्स्वासनेषु स्थापयित्वा यथासुखम्॥शुद्धोदकम्प्रदायाथ कर्प्पूरादि यथोदितम्॥१८॥
कृत्वा च अन्तान् स्व-आसनेषु स्थापयित्वा यथासुखम्॥शुद्ध-उदकम् प्रदाय अथ कर्प्पूर-आदि यथा उदितम्॥१८॥
kṛtvā ca antān sva-āsaneṣu sthāpayitvā yathāsukham..śuddha-udakam pradāya atha karppūra-ādi yathā uditam..18..
मुखवासं दक्षिणां च पादुकासनपत्रकम् ॥ व्यजनं फलकान्दण्डं वैणवं च प्रदाय तान् ॥ १९ ॥
मुख-वासम् दक्षिणाम् च पादुका-आसन-पत्रकम् ॥ व्यजनम् फलकान् दण्डम् वैणवम् च प्रदाय तान् ॥ १९ ॥
mukha-vāsam dakṣiṇām ca pādukā-āsana-patrakam .. vyajanam phalakān daṇḍam vaiṇavam ca pradāya tān .. 19 ..
प्रदक्षिणनमस्कारैस्संतोष्याशिषमा वहेत ॥ पुनः प्रणम्य सम्प्रार्थ्य गुरुभक्तिमचंचलाम् ॥ 6.23.२० ॥
प्रदक्षिण-नमस्कारैः संतोष्य आशिषम् आ वहेत ॥ पुनर् प्रणम्य सम्प्रार्थ्य गुरु-भक्तिम् अचंचलाम् ॥ ६।२३।२० ॥
pradakṣiṇa-namaskāraiḥ saṃtoṣya āśiṣam ā vaheta .. punar praṇamya samprārthya guru-bhaktim acaṃcalām .. 6.23.20 ..
सदाशिवादयः प्रीता गच्छन्तु च यथासुखम् ॥ इत्युद्वास्य द्वारदेशावधि सम्यगनुव्रजन्॥२१॥
सदाशिव-आदयः प्रीताः गच्छन्तु च यथासुखम् ॥ इति उद्वास्य द्वार-देश-अवधि सम्यक् अनुव्रजन्॥२१॥
sadāśiva-ādayaḥ prītāḥ gacchantu ca yathāsukham .. iti udvāsya dvāra-deśa-avadhi samyak anuvrajan..21..
निरुद्धस्तः परावृत्य द्वास्थैर्विप्रैश्च बन्धुभिः ॥ दीनानाथैश्च सहितो भुक्त्वा तिष्ठेद्यथासुखम् ॥ २२॥
निरुद्धः तस्मात् परावृत्य द्वास्थैः विप्रैः च बन्धुभिः ॥ दीन-अनाथैः च सहितः भुक्त्वा तिष्ठेत् यथासुखम् ॥ २२॥
niruddhaḥ tasmāt parāvṛtya dvāsthaiḥ vipraiḥ ca bandhubhiḥ .. dīna-anāthaiḥ ca sahitaḥ bhuktvā tiṣṭhet yathāsukham .. 22..
विकृतं न भवेत्क्वापि सत्यं सत्यं पुनः पुनः ॥ प्रत्यब्दमेव कुर्वाणो गुर्वाराधनमुत्तमम् ॥ इह भुक्त्वा महाभोगाञ्छिवलोकमवाप्नुयात्॥२३॥
विकृतम् न भवेत् क्वापि सत्यम् सत्यम् पुनर् पुनर् ॥ प्रत्यब्दम् एव कुर्वाणः गुरु-आराधनम् उत्तमम् ॥ इह भुक्त्वा महा-भोगान् शिव-लोकम् अवाप्नुयात्॥२३॥
vikṛtam na bhavet kvāpi satyam satyam punar punar .. pratyabdam eva kurvāṇaḥ guru-ārādhanam uttamam .. iha bhuktvā mahā-bhogān śiva-lokam avāpnuyāt..23..
।। सूत उवाच ।।।।
एवं कृतानुग्रहमात्मशिष्यं श्रीवामदेवं मुनिवर्य्यमुक्त्वा ॥ प्रसन्नधीर्ज्ञानिवरो महात्मा कृत्वा परानुग्रहमाशु देवः ॥ २४ ॥
एवम् कृत-अनुग्रहम् आत्म-शिष्यम् श्री-वामदेवम् मुनि-वर्य्यम् उक्त्वा ॥ प्रसन्न-धीः ज्ञानि-वरः महात्मा कृत्वा पर-अनुग्रहम् आशु देवः ॥ २४ ॥
evam kṛta-anugraham ātma-śiṣyam śrī-vāmadevam muni-varyyam uktvā .. prasanna-dhīḥ jñāni-varaḥ mahātmā kṛtvā para-anugraham āśu devaḥ .. 24 ..
यन्नैमिषारण्यमुनीश्वराणां प्रोक्तं पुरा व्यासमुनीश्वरेण ॥ तस्मादसावादिगुरुर्भवांस्तु द्वितीय आर्य्यो भुवने प्रसिद्धः ॥ २५ ॥
यत् नैमिष-अरण्य-मुनि-ईश्वराणाम् प्रोक्तम् पुरा व्यास-मुनि-ईश्वरेण ॥ तस्मात् असौ आदि-गुरुः भवान् तु द्वितीयः आर्य्यः भुवने प्रसिद्धः ॥ २५ ॥
yat naimiṣa-araṇya-muni-īśvarāṇām proktam purā vyāsa-muni-īśvareṇa .. tasmāt asau ādi-guruḥ bhavān tu dvitīyaḥ āryyaḥ bhuvane prasiddhaḥ .. 25 ..
श्रुत्वा मुनीन्द्रो भवतो मुखाज्जात्सनत्कुमारः शिवभक्तिपूर्णः ॥ व्यासाय वक्ता स च शैववर्य्यश्शुकाय वक्ता भविता च पूर्णः ॥ २६ ॥
श्रुत्वा मुनि-इन्द्रः भवतः मुखात् जात् सनत्कुमारः शिव-भक्ति-पूर्णः ॥ व्यासाय वक्ता स च शैव-वर्य्यः शुकाय वक्ता भविता च पूर्णः ॥ २६ ॥
śrutvā muni-indraḥ bhavataḥ mukhāt jāt sanatkumāraḥ śiva-bhakti-pūrṇaḥ .. vyāsāya vaktā sa ca śaiva-varyyaḥ śukāya vaktā bhavitā ca pūrṇaḥ .. 26 ..
प्रत्येकं मुनिशार्दूलं शिष्यवर्गचतुष्टयम् ॥ वेदाध्ययनसंवृत्तं धर्मस्थापनपूर्वकम् ॥ २७ ॥
प्रत्येकम् मुनि-शार्दूलम् शिष्य-वर्ग-चतुष्टयम् ॥ वेद-अध्ययन-संवृत्तम् धर्म-स्थापन-पूर्वकम् ॥ २७ ॥
pratyekam muni-śārdūlam śiṣya-varga-catuṣṭayam .. veda-adhyayana-saṃvṛttam dharma-sthāpana-pūrvakam .. 27 ..
वैशम्पायन एव स्यात्पैलो जैमिनिरेव च ॥ सुमन्तुश्चेति चत्वारो व्यासशिष्या महौजसः ॥ २८ ॥
वैशम्पायनः एव स्यात् पैलः जैमिनिः एव च ॥ सुमन्तुः च इति चत्वारः व्यास-शिष्याः महा-ओजसः ॥ २८ ॥
vaiśampāyanaḥ eva syāt pailaḥ jaiminiḥ eva ca .. sumantuḥ ca iti catvāraḥ vyāsa-śiṣyāḥ mahā-ojasaḥ .. 28 ..
अगस्त्यश्च पुलस्त्यश्च पुलहः क्रतुरेव च ॥ तव शिष्या महात्मानो वामदेव महामुने ॥ २९ ॥
अगस्त्यः च पुलस्त्यः च पुलहः क्रतुः एव च ॥ तव शिष्याः महात्मानः वामदेव महा-मुने ॥ २९ ॥
agastyaḥ ca pulastyaḥ ca pulahaḥ kratuḥ eva ca .. tava śiṣyāḥ mahātmānaḥ vāmadeva mahā-mune .. 29 ..
सनकश्च सनन्दश्च सनातनमुनिस्ततः ॥ सनत्सुजात इत्येते योगिवर्याः शिवप्रियाः ॥ 6.23.३० ॥
सनकः च सनन्दः च सनातन-मुनिः ततस् ॥ सनत्सुजातः इति एते योगि-वर्याः शिव-प्रियाः ॥ ६।२३।३० ॥
sanakaḥ ca sanandaḥ ca sanātana-muniḥ tatas .. sanatsujātaḥ iti ete yogi-varyāḥ śiva-priyāḥ .. 6.23.30 ..
सनत्कुमारशिष्यास्ते सर्ववेदार्थवित्तमाः ॥ गुरुश्च परमश्चैव परात्परगुरुस्ततः ॥ परमेष्ठिगुरुश्चैते पूज्यास्स्युश्शुकयोगिनः ॥ ३१ ॥
सनत्कुमार-शिष्याः ते सर्व-वेद-अर्थ-वित्तमाः ॥ गुरुः च परमः च एव परात्पर-गुरुः ततस् ॥ परमेष्ठि-गुरुः च एते पूज्याः स्युः शुक-योगिनः ॥ ३१ ॥
sanatkumāra-śiṣyāḥ te sarva-veda-artha-vittamāḥ .. guruḥ ca paramaḥ ca eva parātpara-guruḥ tatas .. parameṣṭhi-guruḥ ca ete pūjyāḥ syuḥ śuka-yoginaḥ .. 31 ..
इदं प्रणवविज्ञानं स्थितं वर्गचतुष्टये ॥ सर्वोत्कृष्टनिदानं च काश्यां सन्मुक्तिकारणम् ॥ ३२ ॥
इदम् प्रणव-विज्ञानम् स्थितम् वर्ग-चतुष्टये ॥ सर्व-उत्कृष्ट-निदानम् च काश्याम् सत्-मुक्ति-कारणम् ॥ ३२ ॥
idam praṇava-vijñānam sthitam varga-catuṣṭaye .. sarva-utkṛṣṭa-nidānam ca kāśyām sat-mukti-kāraṇam .. 32 ..
एतन्मण्डलमद्भुतं परशिवाधिष्ठान रूपं सदावेदान्तार्थविचारपूर्णमतिभिः पूज्यं यतीन्द्रैः परम् ॥ वेदादिप्रविभागकल्पितमहाकाशादिनाप्यावृतन्त्वत्संतोषकरं तथास्तु जगतां श्रेयस्करं श्रीप्रदम् ॥ ३३ ॥
एतत् मण्डलम् अद्भुतम् पर-शिव-अधिष्ठान-रूपम् सदा वेदान्त-अर्थ-विचार-पूर्ण-मतिभिः पूज्यम् यति-इन्द्रैः परम् ॥ वेद-आदि-प्रविभाग-कल्पित-महाकाश-आदिना अपि आवृतन् त्वद्-संतोष-करम् तथा अस्तु जगताम् श्रेयस्करम् श्री-प्रदम् ॥ ३३ ॥
etat maṇḍalam adbhutam para-śiva-adhiṣṭhāna-rūpam sadā vedānta-artha-vicāra-pūrṇa-matibhiḥ pūjyam yati-indraiḥ param .. veda-ādi-pravibhāga-kalpita-mahākāśa-ādinā api āvṛtan tvad-saṃtoṣa-karam tathā astu jagatām śreyaskaram śrī-pradam .. 33 ..
इदं रहस्यम्परमं शिवोदितं वेदान्तसिद्धातविनिश्चितम्परम्॥मत्तश्श्रुतं यद्भवता ततो मुने भवन्मतम्प्राज्ञतमा वदंति ॥ ३४ ॥
इदम् रहस्यम् परमम् शिव-उदितम् वेदान्त-सिद्धात-विनिश्चितम् परम्॥मत्तः श्रुतम् यत् भवता ततस् मुने भवत्-मतम् प्राज्ञतमाः वदंति ॥ ३४ ॥
idam rahasyam paramam śiva-uditam vedānta-siddhāta-viniścitam param..mattaḥ śrutam yat bhavatā tatas mune bhavat-matam prājñatamāḥ vadaṃti .. 34 ..
तस्मादनेनैव पथा गतश्शिवं शिवोहमस्मीति शिवो भवेद्यतिः ॥ पितामहादिप्रविभागमुक्तये नद्यो यथासिन्धुमिमाः प्रयान्ति ॥ ३५ ॥
तस्मात् अनेन एव पथा गतः शिवम् शिवः हम् अस्मि इति शिवः भवेत् यतिः ॥ पितामह-आदि-प्रविभाग-मुक्तये नद्यः यथा सिन्धुम् इमाः प्रयान्ति ॥ ३५ ॥
tasmāt anena eva pathā gataḥ śivam śivaḥ ham asmi iti śivaḥ bhavet yatiḥ .. pitāmaha-ādi-pravibhāga-muktaye nadyaḥ yathā sindhum imāḥ prayānti .. 35 ..
श्रीसूत उवाच ।।
एवम्मुनीश्वरायैतदुपदिश्य सुरेश्वरः ॥ संस्मृत्य चरणाम्भोजे पित्रो स्सर्व्वसुरार्चिते ॥ ३६ ॥
एवम् मुनि-ईश्वराय एतत् उपदिश्य सुरेश्वरः ॥ संस्मृत्य चरण-अम्भोजे पित्रोः सर्व्व-सुर-अर्चिते ॥ ३६ ॥
evam muni-īśvarāya etat upadiśya sureśvaraḥ .. saṃsmṛtya caraṇa-ambhoje pitroḥ sarvva-sura-arcite .. 36 ..
कैलासशिखरम्प्राप कुमारश्शिखरावृतम् ॥ राजितम्परमाश्चर्य्यदिव्यज्ञानप्रदो गुरुः ॥ ३७॥
कैलास-शिखरम् प्राप कुमारः शिखर-आवृतम् ॥ ॥ ३७॥
kailāsa-śikharam prāpa kumāraḥ śikhara-āvṛtam .. .. 37..
वामदेवोऽपि सच्छिष्यैस्संवृतश्शिखिवाहनम् ॥ सम्प्रणम्य जगामाशु कैलासम्परमाद्भुतम् ॥ ३८ ॥
वामदेवः अपि सत्-शिष्यैः संवृतः शिखिवाहनम् ॥ सम्प्रणम्य जगाम आशु कैलासम् परम-अद्भुतम् ॥ ३८ ॥
vāmadevaḥ api sat-śiṣyaiḥ saṃvṛtaḥ śikhivāhanam .. sampraṇamya jagāma āśu kailāsam parama-adbhutam .. 38 ..
गत्वा कैलासशिखरम्प्राप्येशनिकटम्मुनिः॥ददर्श मोक्षदम्मायानाशञ्चरणमीशयोः॥३९॥
गत्वा कैलास-शिखरम् प्राप्य ईश-निकटम् मुनिः॥ददर्श मोक्ष-दम्-माया-नाशन् चरणम् ईशयोः॥३९॥
gatvā kailāsa-śikharam prāpya īśa-nikaṭam muniḥ..dadarśa mokṣa-dam-māyā-nāśan caraṇam īśayoḥ..39..
भक्त्या चार्पितसर्वांगो विस्मृत्य स्वकलेवरम् ॥ पपात सन्निधौ भूयो भूयो नत्वा समु त्थितः ॥ 6.23.४०॥
भक्त्या च अर्पित-सर्व-अंगः विस्मृत्य स्व-कलेवरम् ॥ पपात सन्निधौ भूयस् भूयस् नत्वा समु त्थितः ॥ ६।२३।४०॥
bhaktyā ca arpita-sarva-aṃgaḥ vismṛtya sva-kalevaram .. papāta sannidhau bhūyas bhūyas natvā samu tthitaḥ .. 6.23.40..
ततो बहुविधैः स्तोत्रैर्वेदागमरसोत्कटैः ॥ तुष्टाव परमेशानं सांबिकं ससुतं मुनिः ॥ ४१॥
ततस् बहुविधैः स्तोत्रैः वेद-आगम-रस-उत्कटैः ॥ तुष्टाव परमेशानम् स अंबिकम् स सुतम् मुनिः ॥ ४१॥
tatas bahuvidhaiḥ stotraiḥ veda-āgama-rasa-utkaṭaiḥ .. tuṣṭāva parameśānam sa aṃbikam sa sutam muniḥ .. 41..
निधाय चरणत्म्भोजन्देव देव्योस्स्वमूर्द्धनि ॥ पूर्णानुग्रहमासाद्य तत्रैव न्यवसत्सुखम्॥४२॥।
निधाय देव देव्योः स्व-मूर्द्धनि ॥ पूर्ण-अनुग्रहम् आसाद्य तत्र एव न्यवसत् सुखम्॥४२॥।
nidhāya deva devyoḥ sva-mūrddhani .. pūrṇa-anugraham āsādya tatra eva nyavasat sukham..42...
भवन्तोऽपि विदित्वैवम्प्रणवार्थम्महेश्वरम्॥वेदगुह्यं च सर्वस्वन्तार कम्ब्रह्म मुक्तिदम् ॥ ४३॥
भवन्तः अपि विदित्वा एवम् प्रणव-अर्थम् महेश्वरम्॥वेद-गुह्यम् च सर्वस्वन्तार कम्ब्रह्म मुक्ति-दम् ॥ ४३॥
bhavantaḥ api viditvā evam praṇava-artham maheśvaram..veda-guhyam ca sarvasvantāra kambrahma mukti-dam .. 43..
अत्रैव सुखमासीनाः श्रीविश्वेश्वरपादयोः ॥ सायुज्यरूपामतुलाम्भजध्वम्मुक्तिमुत्तमाम्॥४४॥
अत्रा एव सुखम् आसीनाः श्री-विश्वेश्वर-पादयोः ॥ सायुज्य-रूपाम् अतुलाम् भजध्वम् मुक्तिम् उत्तमाम्॥४४॥
atrā eva sukham āsīnāḥ śrī-viśveśvara-pādayoḥ .. sāyujya-rūpām atulām bhajadhvam muktim uttamām..44..
अहं गुरुपदाम्भोजसेवायै बादराश्रमम् ॥ गमिष्ये भवताम्भूयस्सत्सम्भाषणमस्तु मे ॥ ४५ ॥
अहम् गुरु-पद-अम्भोज-सेवायै बादराश्रमम् ॥ गमिष्ये भवताम् भूयस् सत्-सम्भाषणम् अस्तु मे ॥ ४५ ॥
aham guru-pada-ambhoja-sevāyai bādarāśramam .. gamiṣye bhavatām bhūyas sat-sambhāṣaṇam astu me .. 45 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां द्वादशाहकृत्यवर्णनपूर्व्वकव्यासादिशिष्यवर्गकथनन्नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
इति श्री-शिव-महापुराणे षष्ठ्याम् कैलाससंहितायाम् द्वादशाहकृत्यवर्णन-पूर्व्वकव्यासादिशिष्यवर्गकथन नाम त्रयोविंशः अध्यायः ॥ २३ ॥
iti śrī-śiva-mahāpurāṇe ṣaṣṭhyām kailāsasaṃhitāyām dvādaśāhakṛtyavarṇana-pūrvvakavyāsādiśiṣyavargakathana nāma trayoviṃśaḥ adhyāyaḥ .. 23 ..
इति कैलाससंहिता षष्ठी समाप्तिमगमत् ॥
इति कैलाससंहिता षष्ठी समाप्तिम् अगमत् ॥
iti kailāsasaṃhitā ṣaṣṭhī samāptim agamat ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In